________________
४२०
श्रीपार्श्वनाथचरितेविधाय करुणां दैवः कथं दास्यति किञ्चन ? ॥ ५२२ ॥ तस्माद् बाल्येऽपि दुःखेऽपि निर्धनत्वेऽपि सद्धिया । देवदर्शनमात्रोऽपि धर्मः कार्यो निरन्तरम् ॥ ५२३ ॥ इति श्रुत्वा लसद्धर्षप्रकर्षेण सगद्गदम् । योजयित्वा करी सास्रमुवाच कुलपुत्रकः ।। ५२४ ॥ अनाथो बन्धुरहितस्तथा शरणवर्जितः। एतावन्ति दिनान्येष भ्रान्तोऽहं नाथ ! भूतले ॥ ५२५ ॥ नाथो बन्धुः शरण्यं च सर्वमेकपदेऽधुना। मुनीश्वर ! मयाऽवापि त्वयि दृष्टे कृपानिधौ ॥ ५२६ ।। अद्य यावन्न केनाऽपि सुधामधुरया गिरा । त्वयेवाऽऽलापितः स्वामिन्नहमाक्रोशदुःखितः॥ ५२७ ॥ मया दुःखार्णवास्यान्तरितश्चेतश्च गाहनात् । निराधारेण लब्धोऽद्य यानपात्रसमो भवान् ।। ५२८ ।। तद् विधाय प्रसादं मे को देवः किमु वा मुने!। दर्शने तस्य भण्येत कथ्यतां प्रमिताक्षरैः ? ॥ ५२९ ॥ इत्थमुद्घाटयामास दुःखमेष मुनेः पुरः । दुःखदग्धो यथा दग्धोपलस्तापं जलाग्रतः॥ ५३०॥ मुनिरप्याह भो भद्र ! स्त्री-शस्त्रोपाधिवर्जितः । देवः पद्मासनाऽऽसीनः शान्तमूर्तिर्जिनेश्वरः ॥ ५३१॥ गत्वाऽस्य भवने कृत्वा भूतलन्यस्तमस्तकम् । प्रणामाञ्जलिं बद्ध्वा च पुरः स्थित्वेदमुच्यते ।। ५३२ ।। जितसंमोह ! सर्वज्ञ ! यथाऽवस्थितदेशक !। त्रैलोक्यमहित ! स्वामिन् ! वीतराग! नमोऽस्तु ते ॥५३३॥ तथेति प्रतिपद्याऽसौ गत्वा तत्रैव संस्थिते । अर्हच्चैत्ये जिनं दृष्ट्वा नमस्कारं पठत्यमुम् ॥ ५३४ ॥ तत्राऽन्यत्रापि सर्वज्ञभवने तस्य नैत्यकम् । कुर्वाणस्येति तद्ध्यानचित्तस्यार्तिः क्षयं गता ।। ५३५ ।।