SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ पष्ठः सर्गः। ३६९ ततोऽसौ श्लेष्मणा लिप्त्वा स्वर्णवर्णा निजाऽङ्गुलिम् । । विधाय दर्शयामास तयोरिति बभाण च ।। १२२६ ॥ अहो ! यदि युवां वैद्यौ सत्यौ तदिह सत्वरम् । संसारनामकं भावव्याधि स्फेटयतं मम ॥ १२२७ ॥ ऊचतुस्तौ पुनः स्वामिन् ! संसारव्याधिरुल्वणः । नावाभ्यां स्फेट्यते, शक्तो गुरुवैद्यस्त्वमेव हि ॥१२२८॥ इति प्रशंसापरमौ खं स्वरूपं प्रकाश्य तौ।। क्षमयित्वा मुनि भूयो जग्मतुः स्वास्पदं सुरौ ॥ १२२९ ॥ श्रीमान् सनत्कुमारोऽपि परिपूर्यायुरुत्तमम् । कल्पं सनत्कुमाराख्यं सौख्यधाम जगाम सः ॥ १२३० ।। ज्ञात्वेति गुरुमाहात्म्यं सेवितं च महात्मभिः । तपः कार्य यथाशक्ति कर्मनिर्मूलनोद्यतैः ॥ १२३१ ॥ उक्तान्यङ्गानि दानादीन्येवं धर्मनरेशितुः । तस्य तेष्वधुना जीवो भावनामा प्रतन्यते ॥ १२३२ ।। भावो धर्मस्य हन्मित्रं भावः कर्मेन्धनाऽनलः । सत्कृत्याऽने घृतं भावो भावो वेत्री शिवश्रियः ॥१२३३॥ घर्षे सुकाव्यनाट्यादावपि भावः प्रशस्यते । नाङ्गस्य तं विना भुक्तं घृतानमपि पुष्टये ।। १२३४ ॥ मावस्यैकाङ्गवीरस्य सांनिध्याद् बहवः शिवम् । ययुकोऽपि दानाद्यैर्भावहीनैर्घनैरपि ॥ १२३५ ।। चिरादेकेन दानादिक्लेशैः पुण्यं यदर्जितम् । तस्याऽनुमोदनाभावात् क्षणादन्यस्तदर्जयेत् ॥ १२३६ ॥ भावात् सुकृतलेशोऽपि नृणां सर्वार्थसिद्धिदः । भ्रष्टानां तु ततो नूनं सर्वतो भ्रष्टता भवेत् ॥ १२३७ ॥ तथाहि जम्बूद्वीपेऽत्र क्षेत्रे विदेहनामनि । विजये पुष्कलावत्यां पुरी श्रीपुण्डरीकिणी ॥ १२३८ ।। महापद्माभिधो राजा तत्र पात्रं नयश्रियः ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy