SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः। १२९ तत्र वप्रवाहिभागे श्रीसागरश्रेष्ठिवाटके । श्रेष्ठिना कृपया दत्ते स्थितिमात्रेसद् नृपः ॥ ७५१ ॥ अनभिज्ञः खयं कर्मकरणे लघुको सुतौ । राज्ञी तु स्त्रीस्वभावेन कुशला गृहकर्मणि ।। ७५२ ॥ पातिवश्मिकगेहेषु गोमयोत्सारणादिकम् । कर्म निर्माय सर्वेषां निर्वाहयति भोजनम् ।। ७५३ ।। साधुत्वेन सुशीलेन तयोः सुवचनेन च । खल्पेऽपि विहिते कार्ये जनाः सुबहु कुर्वते ॥ ७५४ ।। स्थानभ्रंशाद् नीचसङ्गात् खण्डनाद् घर्षणादपि । अपरित्यक्तसौरभ्यं वन्द्यते चन्दनं जनैः ॥ ७५५।। चीवरं जीर्णमुत्तीर्ण भोजनं रुक्षशीतलम् । गौरवेण जनादाप्तं बभूव प्रीतये तयोः ॥ ७५६ ॥ यतः-- किं कृतं विधिना यावत् सतां शीलमखण्डितम् । गतं तत्तु यदा कालं संपद्यपि विपत्तयः ? ॥ ७५७ ॥ दूरदेशान्तरायातस्तत्स्थानाद् नातिदूरतः। वाणिज्यकरिणां सार्थो महानावासितोऽन्यदा ॥७५८॥ तस्मिन् घृत-कणिकादि सुलभं, दुर्लभाः पुनः। कर्मकाराः, ततः स्वीयपुत्रपुष्टिविधित्सया ।। ७५९ ॥ राज्ञी कर्मकरीभावं करोति विनयान्विता। प्राज्यभोज्यादिना चिन्तां तेऽपि तुष्टाः प्रकुर्वते ॥७६०॥ अन्येयुः सोमदेवाख्यसार्थेशस्य शोः पथि । पतिताऽन्तर्विकाराय निर्विकाराऽप्यजायत ।। ७६१ ॥ रूपे ग्रस्तेऽपि दौःस्थ्येन तस्या लावण्यमुज्ज्वलम् । स्पष्टं बकुलमालायाः शुष्काया अपि सौरभम् ॥ ७६२ ॥ ततः सा तेन शैथिल्यं गाढं च निजमानसैः । खगृहस्वामिनीभावे भणिता कुपिता भृशम् ॥ ७६३ ।।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy