________________
चतुर्थः सर्गः ।
आत्मानमात्मना ख्यातुमक्षमः क्ष्मापतिर्जगौ । अहमस्मि महीभर्तुः स्वर्णवाहोः परिग्रहे ।। ५० । तदादेशादिहागच्छमाश्रमे विघ्नकारिणाम् । निवारणकृते येन राजरक्षं तपोवनम् ।। ५१ । अयं स एव राजेति ध्यायन्तीं तां सखीं नृपः । उवाच किमियं बाला क्लिश्यते कर्मणाऽधुना १ ॥ ५२ ॥ अथ निःश्वस्य सावोचत् इयं रत्नपुरेशितुः । खेचरेन्द्रस्य पद्माssख्या कन्या रत्नावलीसुता ॥ ५३ ॥ पिताऽस्यां जातमात्रायां विपेदे तत्पदार्थिनः । सुता युयुधिरेऽन्योऽन्यं तत्राऽभृद् राजविरः || ५४ ॥ रत्नावली गृहीत्वेमां बालां स्वभ्रातुराश्रमे । गालवस्य कुलपतेर्निकेतनमुपागमत् ।। ५५ ।। अन्यदा साधुरेकोsa दिव्यज्ञानी समागतः । पद्मायाः कः पतिर्भावत्यिपृच्छद् गालवश्च तम् ? ॥५६॥ मुनिरप्याख्यदश्वापहृतोऽत्रागतवानिमाम् । चक्रवर्ती स्वर्णबाहुबलिकां परिणेष्यति ।। ५७ ।। दध्यौ राजाऽप्यकस्मान्मेऽश्वापहारो बभूव यत् । तदेतया संघटनोपायं खलु विधिर्व्यधात् ।। ५८ ।। पप्रच्छ चाऽधुना कुत्र भद्रे ! कुलपतिर्वद । तदर्शनेन कुर्वेऽद्य चित्तमानन्दमेदुरम् ॥५९॥ साऽप्याचख्यौ विहर्तुं तमन्यतः प्रस्थितं मुनिम् । अनुगन्तुं गतोऽस्त्यद्य तं नमस्कृत्य वैष्यति ॥ ६० ॥ पद्मामानय हे ! नन्दे ! कुलपत्यागमक्षणः । वर्ततेऽसाविति तदा काप्याख्यद् वृद्धतापसी ॥ ६१ ॥ राजाऽप्यश्वखुररवज्ञातसैन्यागमोऽवदत् ।
यातं युवामहं सैन्यमाश्रमादन्यतो नये ।। ६२ ।
१ राज्यक्लेशः ।
२४५