________________
षष्ठः सर्गः .
३१७
तद् धनोपार्जनोपायः कार्य एवाधुना यतः । आयाऽभावे व्ययं कुर्वन् मेरुरप्यपीयते ॥ ५५२ ।। उक्तं चअनायः व्ययकर्ता च अनाथः कलहप्रियः । आतुरः सर्वभक्षी च नरः शीघ्रं विनश्यति ॥ ५५३ ॥ इत्यादि चिन्तयित्वाऽसौ संकल्पं सुहृदां निजम् ।। आचख्यौ तच्च सर्वेषामभवत् सम्मतं वचः ।। ५५४ ॥ निर्णीतं च यथाऽम्भोधिसुता श्रीस्तेन वारिधेः । विना सेवामियं न स्यादतः सेव्यः स एव हि ॥५५५।। इति तैः स्वस्वपितृणां कथितं पितृभिश्च ते । प्रतिषिद्धा यथा वत्साः ! न माति विभवो गृहे ॥५५६॥ यूयं मुग्धा जनो धृतः संदिग्धः कुशलागमः । विषमाः परदेशाश्वाब्धिवाणिज्यं विशेषतः ॥ ५५७ ॥ इत्यादियुक्तिभिर्वाहं वारिता अपि ते सुताः । सर्वे संवोढुमारब्धाः समुद्रगमनोत्सुकाः ॥ ५५८ ॥ भृतं प्रवहणं भाण्डैः प्रयाणदिनमागतम् । अथाऽपशकुनश्रेणी प्रावर्तिष्ट समन्ततः ॥ ५५९ ।। अदृष्टव्यानि पश्यन्ति शृण्वन्त्यपरवान् बहून् । उद्दण्डो मरुदुतश्छादितं रजसा नभः ॥ ५६० ॥ ततः समुदितीभूय स्वजनैर्वारितोऽखिलैः। चन्द्रस्तानाह किं यूयं कुरुतेत्थमधीरताम् ? ॥ ५६१ ॥ सकाशाद् यस्य यद् येन प्राप्तव्यं जायते यदा। प्राप्यते खलु तत् तेन शकुनाऽशकुनः किमु ? ॥ ५६२ ॥ इत्येकाग्रमनाश्चन्द्रः समित्रः प्रस्थितोऽम्बुधौ । मार्गेऽस्य गच्छतोऽन्येशुरुत्पाताः सहसाऽभवन् ॥ ५६३ ॥ छादितं गगनं मेधैर्गद्भिः सह वार्धिना। मिथश्वास्फाल्य दुर्वाताश्चक्रुर्यानानि खण्डशः॥ ५६४ ॥