________________
३१८
श्रीपार्श्वनाथचरिते
छिन्नसूत्रस्य हारस्य मुक्ता इव दिशोदिशम् । ययुः सर्वेऽपि ते लोकाः केऽपि तत्रैव संस्थिताः ॥५६५।। चन्द्रस्तु फलकाधारादासाद्य जलधेस्तटम् । चिन्तयामास हा ! कष्टे क्षिप्तः सर्वो जनो मया ॥५६६।। पितृस्वजनलोकनां तदा वारयतां हठात् । यदिदं कार्यमारेभे दृष्टं सपदि तत्फलम् ।। ५६७ ॥ स्फुरत्संतापपापेनाऽधुना मे जीवितेन किम् ? । ध्यात्वेति वस्त्रपाशेन बद्धात्मा लम्बितस्तरौ ॥ ५६८ ।। अथ कोऽपि द्विजः पाशं छित्वा क्षुरिकयाऽब्रवीत् । आत्मघातस्त्वयाऽऽरेभे किमहो ! शास्त्रदृषितः १ ।। ५६९ ।। मर्तव्यमेव किंवा चेत् तदासनगिराविह। कामुकं विद्यते तीर्थ तत्र गत्वोज्झ जीवितम् ॥ ५७० ॥ तच्च कृत्वा ततश्चन्द्रो यावदुल्लम्बते गिरौ । मा साहसमिति प्रोचे तावत् कोऽपि स्फुटाक्षरम् ५७१ ।। ततश्चन्द्रो दिशालोकं कृत्वाऽपश्यन्न किश्चन । पुनरुल्लम्बितुं लग्नः पुरस्तदशृणोद् वचः ॥ ५७२ ॥ एवं तृतीयवेलायां निषिद्धेन प्रयत्नतः । दृष्टो निरीक्षमाणेन पादपान्तरितो मुनिः ।। ५७३ ॥ नत्वा पृष्टश्च किं नाथ ! मन्दभाग्यस्य मेऽधुना। नैव संपद्यते मृत्युरपि साधुरथाऽब्रवीत् ॥ ५७४ ॥ अनीतिमृत्युना तेन स्त्रीजनस्योचितेन किम् ? । जीवन्नेवेक्षते भद्रं दृष्टान्तोत्राहमेव भोः ! ॥ ५७५ ।। तथाहिश्रीमङ्गलपुरे राज्ञश्चन्द्रसेनस्य नीतिचित् । भानुनामाऽभवद् मन्त्री तद्भार्या च सरस्वती ॥५७६।। रथाङ्गयोरिव तयोस्तथा प्रीतिर्मियोऽभवत् । १ त्यज।
-