SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ पञ्चमः सर्गः। २५७ महायो रत्नपुञ्जेन दीप्तो निधूमवह्निना। . इमः स्वर्जिनः पुत्रो भावी ते स्वामिनीदृशः ॥ ३७॥ तथैव कथिते प्रातः पत्या तज्ज्ञैश्च साऽधिकम् । हृष्टा गर्भ दधौ कल्पद्रुमं नन्दनभूरिव ।। ३८ ।। प्रवर्धमानगर्भाऽनुभावाद् दाक्ष्यादयो गुणाः। देव्या ववृधिरे छनो घनान्तरपि किं रविः ? ॥ ३९ ॥ क्षेमयोगवती जज्ञे राज्ञः श्रीर्व्ययतोऽपि यत् । न क्षीणा धनदादिष्टसुरैश्च परिवर्धिता ॥ ४० ॥ आशया भाविभद्राणां किंकर्य इव देवताः । पूरयन्ति स्म सर्व श्रीवामादेव्याः समीहितम् ॥ ४१ ॥ इत्थं गर्भसुखेनैव देवी स्थितवती क्रमात् । पौषकृष्णदशम्यां सा विशाखायां शुभे क्षणे ।। ४२ ॥ विश्वत्रयोद्योतकरं निशार्धे सर्पलाञ्छनम् । नीलाभं सुषुवे पुत्रं रत्नं वैडूर्यभूरिव ॥ ४३ ॥ (युग्मम् ) दुन्दुभिर्दिवि दध्वान प्रसन्नास्या दिशोऽभवन् । तदा सुखासिका जज्ञे नारकाणामपि क्षणम् ॥ ४४ ॥ सोच्छ्वासा भूः पयः स्वच्छं दक्षिणार्चिरभूच्छिखी । वाति स्म त्रिगुणो वातः पुष्पाढ्यास्तरवोऽभवन् ॥४५॥ तदेवं मुदिताः सर्वे माद्या एकेन्द्रिया अपि । जिनपूजोपयोगित्वाद् भाविभद्राशया किल ।। ४६ ॥ प्रभोहि चरणस्पर्शेः स्नात्रा-रात्रिक-चामरैः । पुष्पौधैश्च प्रयुक्तैस्ते भविष्यन्त्युपयोगिनः ॥ ४७ ॥ अपि त्रिभुवनं जज्ञे प्रशान्तडमरं तदा । स्वामी शिवनिधिदर्शयतीव शिववर्णिकाम् ॥ ४८ ॥ सहसा दिक्कुमारीणां चलितान्यासनान्यथ । ता जैनजनाकत्यायोत्थापयन्तीव सत्वरम् ॥ ४९ ॥
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy