SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १४२ श्रीपार्श्वनाथचरितेतावत्तस्याम्बुनौयानभङ्गादि कथितं नरैः। गले शोकाम्बुमनस्य शिलाबन्ध इवाऽभवत् ॥ ९१० ॥ यत:अधः खं सारमाधाय तुच्छा इव बहिःस्थिताः। समूलमेवोन्मूल्यन्ते ते बाला बालका इव ॥ ९११ ॥ जलस्थलगतं नष्टं वणिपुत्रैश्च भक्षितम् । धनं श्रुत्वा मुहुः स्मृत्वा सर्वशून्यो भ्रमत्यसौ ॥ ९१२ ॥ अन्यदाचिन्तयद्यावदद्याप्युत्पाणिको जने । न भवामि गृहेऽद्यापि भाण्डमूल्यमवाप्यते ॥९१३ ॥ तावजलधिमार्गेण वणिज्यायै बजाम्यतः । लाभश्चेत्सुन्दरं भावि देशान्तरगमोऽन्यथा ॥ ९१४ ।। महाकृपण इत्याख्या पुराऽप्यासादिता मया। अधुना निर्धनस्त्वत्र भृशं यास्यामि हास्यताम् ॥९१५॥ ततोऽमेयपरिच्छेद्य-गण्य-धार्यक्रयाणकम् । संगृह्य दशलक्षाणां पोतमारुह्य सत्वरम् ।। ९१६ ॥ भृत्वा कण-कणिका-ऽऽज्य-भोज्य-नीरेन्धनैः क्षमः । समं सांयात्रिकर्लोकः प्रतस्थे मध्यमम्बुधेः ॥ ९१७ ॥ (युग्मम् ) कियद् दरं गतेऽकस्माद् घनेन रुरुधे नमः । यमास्येनेव भीमेन कटाक्षसमविद्युता ॥ ९१८॥ तत्र क्षेप्तुमिवोद्दण्डवातोद्धृतोर्मिबाहुभिः । ग्रासपिण्डमिवोऽम्भोधिस्तं पोतमुदलालयत् ।। ९१९ ।। स्पर्धयेव मिथोऽत्युग्रौ गर्जतः स्म घनाम्बुधी । दोलते स्म प्रवहणं तत्स्थलोकहृदा समम् ॥ ९२० ॥ ततो निर्यामके मुक्तधैर्ये भूरिभयाकुलः । शरण्यरहितो लोकः कथं कोऽपि तदाऽभवत् १ ॥९२१॥
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy