________________
षष्ठः सर्गः।
२९३
हस्त्यश्वरथसंवाहं कारयित्वाऽथ भूपतिः ।। देव्यादिसहितः पार्थ महा वन्दितुं ययौ ॥ २४५ ॥ ज्ञानकजलधौ नद्य इवाऽमरनरश्रियः । श्रीपार्श्वनाथे का नैयुः स्पर्धयेव मिथोऽभितः ? ॥ २४६ ॥ नृपः प्रविश्य समवसरणं त्रिप्रदक्षिणम् । कृत्वा नत्वा च विधिना प्रभुं भक्त्यैवमस्तवीत् ॥ २४७ ॥ एकः पुरुषसिंहस्त्वं मोहमत्तेभनिग्रहात् । इतीव विदधे नाथ ! सिंहासनमिदं सुरैः॥ २४८ ॥ राग-द्वेषमहाशत्रुजयोत्थयशसी इव । चकास्तश्चामरे शुभ्रे पक्षयोरुभयोस्तव ।। २४९ ॥ ज्ञान-दर्शन चारित्रराज्यं त्वय्येकतां गतम् । अतस्तेषामिवैषा ते मूर्ध्नि च्छत्रत्रयी स्थिता ॥ २५० ।। चतुर्धा दिशतो धर्म चतुर्मुख ! तब ध्वनिः । दिव्यश्चतुर्दिशं याति कषायानिव धर्षितुम् ।। २५१ ।। मन्दरादीनि पुष्पाणि पञ्चधा देशनाभुवि । किरन्ति तव पञ्चाक्षजयतोषादिवामराः ॥ २५२ ॥ शाखाशिखरमूलैः षड्दिग्गतैः शंसतीव ते । षण्णां जीवनिकायानां रक्षां किकिल्लिरुल्लसन् ॥ २५३ ॥ दग्धसप्तभयधस्त्वात् सप्ताचिःसममप्यदः । धत्ते भामण्डलं नाथ ! त्वत्सङ्गादिव शैत्यताम् ॥ २५४ ॥ भूत्वा दुन्दुभिरप्युच्चै नन्नष्टासु दिवसौ । अष्टकमरिपुवातविजयं शंसतीव ते ॥ २५५ ।। प्रातिहार्यश्रियं मूर्तामन्तरङ्गां गुणश्रियम् । इत्थं दृष्टा मनो नाथ! कस्य न स्यात् त्वयि स्थिरम् ? ॥२५६॥ इति स्तुत्वा जगन्नाथं पार्श्वनाथमुदारधीः । अश्वसेनो यथास्थानं निविष्टः सपरिच्छदः ॥ २५७ ॥ १ एधस्त्वात् काष्ठत्वात् ।