SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ ३७६ श्रीपार्श्वनाथचरितेअमात्या भो नरेन्द्राश्च पूर्वमेव निषिध्यतः। ममाऽयं जगृहे दीक्षां राज्यं गृह्णातु सम्प्रति ॥१३१७॥ ब्रुवाणस्यैवमादाय राजचिह्नानि भूपतेः । निजानि साधुलिङ्गानि कण्डरीकः समर्पयत् ॥१३१८॥ अमृतेन विषं ह्येको जगृहेऽन्यः सुधां विषात् । व्रतराज्यविपर्यासाच्चित्रं चित्रा मनोगतिः ॥१३१९॥ कण्डरीकोऽथ कृष्णास्यैः पौरामात्यादिभिः सह । पुरीं प्रविश्य सौधान्तर्गत्वा स तमुपाविशत् ॥१३२०॥ धिक् सिंह इव निष्क्रम्य जातोऽसौ जम्बुकोऽधुना । इति सामन्तमुख्यास्ते नाद्रियन्ते हसन्ति च ॥१३२१॥ इन्द्रकेतुमिव ध्वस्तं विध्यातमिव पावकम् । धर्मभ्रष्टं श्रियाऽपेतं को न हीलयते नरम् ? ॥१३२२॥ ततः कोपान् नृपो दध्यौ तावत् कुर्वेऽत्र भोजनम् । पश्चादेषां करिष्यामि दुष्टानां सुष्ठु निग्रहम् ॥१३२३॥ क्षुधातः स चिरात् पाकं सर्वाऽनानामकारयत् । प्रेक्षणीयस्य दृष्टान्तं चिन्तयामास चेत्यसौ ॥१३२४॥ रङ्गे स्यादुपविष्टेषु ग्राम्येषु महतां स्थितिः । तथा कदने भुक्ते प्रागुत्तमानं हि रोचते ॥१३२५।। क्रमेणाऽनेन सर्वान्नैर्भोजनं स तथाऽकरोत् । कथश्चिद् भुजयोधृत्वा शय्यानीतो यथेतरैः ॥१३२६॥ जज्ञे विसूचिका शूलं प्रवृत्तं प्रस्ताऽरतिः । बभूवाऽऽपूर्णमुदरं रुद्धः पवननिर्गमः ॥१३२७॥ तीव्रवेदनया सोऽथ प्रलापं कर्तुमुद्यतः । भ्रष्ट इत्यस्य नो चक्रे राजवग्यः प्रतिक्रिया ॥१३२८॥ यदि रात्रिर्विभात्येषा कथञ्चन ततो ध्रुवम् । मदुपेक्षाकरान् मन्त्रिवैद्यादीन् संहराम्यहम् ॥१३२९॥ इति स्फूर्जन्महारौद्रध्यानतन्मयमानसः।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy