________________
श्रीपार्श्वनाथचरिते
अनपेक्षतया न्यस्य निराबाधतयाऽऽत्मनः । मोक्षैकतानमनसा कर्तव्यं सात्त्विकं तपः ।। १००५ ॥
३५२
ग्रन्थान्तरेऽप्युक्तम्
तपश्च त्रिविधं ज्ञेयमफलाकाङ्क्षिभिर्नरैः ।
श्रद्धया परया तप्तं सात्विकं तप उच्यते । १००६ ॥ सत्कार - मान-पूजार्थं तपो दम्भेन चैव यत् ।
क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ।। १००७ ॥ मूढग्रहेणात्मनो यत् पीडया क्रियते तपः । परस्योच्छेदनार्थं च तत् तामसमुदाहृतम् ।। १००८ ॥ मन्दा भवन्ति विच्छाया तपसस्तेजसा जिताः । सात्त्विकास्तूज्ज्वला बाढमग्निशौचमिवाऽनलात् ।। १००९ ॥ प्राज्यं राज्यं परित्यज्य कुर्वतः सात्त्विकं तपः ।
जाताः सनत्कुमारस्य लब्धयः पश्य कीदृशः ।। १०१० ।। तथाहि
अस्त्यत्र भरतक्षेत्रे विषये कुरुजाङ्गले ।
महर्द्धिभर संपूर्ण हस्तिनागपुरं पुरम् ।। १०११ ॥ कुरुवंशाब्धिपूर्णेन्दुरश्वसेनो नराधिपः ।
तत्राऽऽसीद् विक्रमाक्रान्ताशेषविक्रान्तभूपतिः ।। १०१२ ॥ सहदेवी प्रिया तस्य कामिनी यामिनीषु या । पूर्णशीलेन्दुना रेजे पूर्णिमेव सदोज्ज्वला ॥। १०१३ ॥ चतुर्दशमहास्वमसूचितोऽभूत् तयोः सुतः ।
श्रीमान् सनत्कुमाराख्यः सर्वलक्षणसंयुतः || १०१४ ॥ सूरराजसुतस्तस्य कालिन्दीकुक्षिसम्भवः । अभूद् महेन्द्रसिंहाख्यः स पांशुक्रीडितः सखा ॥ १०१५॥ समं तेनाऽर्पितो राज्ञा कलाचार्यस्य नन्दनः । तेनाऽप्येष दिनैः स्तोकैग्रहितः सकलाः कलाः ।। १०१६।। कुमारः सहितस्तेन सख्या शिष्टजनोचितान् ।