________________
द्वितीयः सर्गः। आगता तव पुत्राा येनाहं कुलदेवता ॥ ३०३ ॥ नीतः पाखण्डिना खस्योत्तरसाधककैतवात् । शिरो ग्रहीतुं पुत्रस्ते यक्षिणी तं ततोऽनयत् ॥ ३०४ ॥ इत्यादि कथयित्वान्ते सुतः कतिपयैदिनैः । तवैष्यति महयेति नृपस्याऽऽख्याय सा गता ॥ ३०५॥ इदं च वचनं तस्याः संवादयितुमुत्सुकः । अन्वेष्टुं शकुनान प्रातः पुराद् बहिरहं गतः ॥ ३०६ ॥ तित्तिरीतोरणे तावत् सहसा चक्रतुः स्वरम् । वामे गत्वा शुनः शीर्षमस्पाक्षीद् दक्षिणाहिणा ॥३०७॥ दक्षिणाद् वाममायातो वायसो मधुरं रसन् । चाषेण दर्शनं दत्तं मयूरेणाऽप्यनृत्यत ॥ ३०८ ॥ दुर्गाऽपि पार्थिवं कृत्वा वामे चिलिचिलिस्वरम् । ताराभक्ष्यमुखी भेजे क्षीरदृशं प्रियान्विता ॥ ३०९ ॥ इत्यादिशकुनान् भावस्थानचेष्टागतिस्वरैः । प्रशान्तान् वीक्ष्य संतुष्टो यावञ्चलितुमुद्यतः ॥३१०॥ तावदेत्याऽम्बरादेष उत्क्षिप्य मामिहाऽऽनयत् । दृष्टश्च पुण्ययोगेन मया त्वमधुना विभो ! ॥ ३११ ।। तत्त्वादित्यपकार्येष तत्संप्रत्यनुगृह्यताम् । धर्मोपदेशदानेन ततः कापालिकोऽब्रवीत ॥ ३१२ ॥ कालिकां प्रत्यहो! मन्त्रिन् ! स्वधर्म दिशताऽमुना । ममोपदिष्ट एवाऽयं शरणं तत् स मेऽधुना ॥ ३१३ ॥ किश्च, . . . मित्र ! त्वचरितं वन्देऽपकारेऽप्युपकारिणः। गुणमाणिक्यरत्नाद्रेः कुमारस्य तु किं स्तुवे ? ॥ ३१४ ॥ यावदेवं प्रजल्पन्ति ते तावदुदिते रवौ। . . महानेकः करी तत्राऽऽगात् सप्ताङ्गप्रतिष्ठितः ॥ ३१५ ॥ कुमारं स करे कृत्वा निजपृष्टे समन्त्रिणम् ।