________________
१४४
श्रीपार्श्वनाथचरितेइतरस्त्वददानोऽपि मुच्यते सुतरां तया ॥ ९३५ ॥ अत उक्तम्दीयमानं हि नापति भूय एवाऽभिवर्धते ।। कूपा-ऽऽराम-गवादीनां ददतामेव संपदः ॥ ९३६ ॥ सुस्थानन्यासहष्टेव दातारं श्रीः पुनः श्रयेत् । निर्गता गुप्तिमीतेव कुपणं नैति सा पुनः ॥ ९३७ ॥ मत्सरेणाऽथ सोऽलीकपैशून्यं नृपतेः पुरः । प्रकाश्य ग्राहयामास सर्वस्खं ज्यष्ठवान्धवात् ॥ ९३८ ॥ क्षुद्रस्याहो ! गतिः कष्टा मरुकूपादपि ध्रुवम् । अददानः खयं यत् स्वमितरानपि रक्षति ॥ ९३९ ।। स वैराग्येण तेनाऽथ सुसाधुचरणान्तिके । परिव्रज्यां गृहीत्वाऽभूत् सौधर्मे प्रवरः सुरः ॥ ९४० ॥ लघुभ्रातापि लोकेन निन्द्यमानो निरन्तरम् । कृत्वा बालतपो मृत्वा चासुरेषूदपद्यत ॥ ९४१ ॥ उद्वाऽसुरयोनिभ्यः स जातस्त्वमिहाऽधुना । च्युत्वा सौधर्मतो ज्येष्ठस्तामलिप्त्यामजायत ।। ९४२ ।। महेभ्यस्य सुतः काले प्रतिपन्न जिनव्रतः। .. उत्पन्नकेवलज्ञानो विहरत्यहमेव सः॥ ९४३॥ दानप्रद्वेषतस्तस्मादन्तरायं यदर्जितम् । । कर्मणोऽस्य विपाकेन.कृपणत्वं तवाऽभवत् ॥ ९४४ ॥ ऋद्धिः पैशून्यतो यत्तु ज्येष्ठस्य ग्राहिता त्वया। . . तद्विपाकादिदानी ते नष्टमेकपदे धनम् ॥ ९४५ ॥ गर्हित्वा दुष्कृतं भद्र ! तदद्यापि यथार्जितम् । धनं पात्रेऽभियोक्तव्यं मूर्छामत्र विमुच्य भोः ॥ ९४६ ॥ मलपूर्णे यथा देहे मृतिः स्पष्टा न जायते । तथा द्रव्यमलस्याऽप्यावन्धतो न गतिर्भवेत् ॥ ९४७॥