________________
षष्ठः सर्गः।
३६३ वादितातोद्यनिस्वानस्वानोकर्णपुरन्दरम् । दराऽपेतभटाकीर्ण कीर्णमुण्डकलेवरम् ॥ ११४८ ॥ वरार्थदेवीसङ्घातं घाताऽलक्ष्यनिजाऽपरम् । परस्परोद्गीर्णगोत्रं गोत्राकारपतद्गजम् ।। ११४९ ॥
(त्रिभिर्विशेषकम् ) बलद्वयेऽपि भग्नेऽथ द्वयोरेव परस्परम् । अङ्गाङ्गि समभूद् युद्धं कुमारा-ऽशनिवेगयोः ॥ ११५० ॥ महोरेगास्त्रं मुमुचेऽशनिवेगेन भीषणम् । कुमारो गरुडास्त्रेण सत्वरं तन् न्यपातयत् ॥ ११५१ ।।
आग्नेयं वारुणास्त्रेण वायव्यं शैलनामना । चिक्षेप रिपुमुक्तास्त्रं प्रत्यस्त्रेण कुमारराट् ॥ ११५२ ।। ततो गाण्डीवमादाय नाराचाऽप्सारमुल्बणम् । विमुञ्चन्नुत्थितो रोषारुणोऽशनिरिवाऽशनिः ११५३ ।। सगुणोऽपि सुवंशोऽपि हिंसकोऽयमितीव सः । चक्रे तमपि निर्जीवमर्धचन्द्रपाङ्गजः ॥ ११५४ ॥ शतखण्डीकरोम्येनमधुनेति रुषा रिपुः । कोशतः खड्गमाकृष्य दन्तपेषं प्रधावितः ॥ ११५५ ॥ कोशे सत्यप्यसौ बादं गाढमुष्टिर्मलीमसः । इतीवासिः कुमारेण तस्य छिन्नभुजः कृतः ।। ११५६ ॥ ततश्च बाहुयुद्धेन प्रवृत्ते खेचराधिपे । कुमारस्य स्फुरद्रश्मिचक्रं चक्रं करेऽचटत् ॥ ११५७ ।। गुणैरेकोऽप्यसौ तेन द्रुतं दशगुणोऽभवत् । करस्थेन पुरस्थेन बिन्दुनाऽङ्को यथैककः ॥ ११५८ ॥ चक्रे चक्रेण तेनारिं कुमारश्छिन्नमस्तकम् । श्रीरप्यशिरसं दृष्ट्वा मुमोच सहसैव तम् ॥ ११५९ ॥ सर्वाऽप्यशनिवेगस्य राज्यश्रीः सह खचरैः । १ भयरहितः । २ गोत्रो गिरिः। ३ बाणविशेषैः।