________________
३६४
श्रीपार्श्वनाथचरितेसंचक्राम कुमारेन्द्रे स्थिरीचक्रे च सोऽपि ताम् ॥११६०॥ एष सनत्कुमाराख्यो जीयाद् भरतभूतले । चतुर्थश्चक्रवर्तीति चक्रे देवैर्जयध्वनिः ॥ ११६१ ॥ ततो लब्धजयाः सर्वे गता वैतान्यपर्वतम् । मङ्गलातोद्यवाद्येन स्वस्वधामानि चाविशन् ॥ ११६२ ॥ तत्र सनत्कुमारस्य संभूयाऽखिलखेचरैः। विद्याधरमहाराज्येऽभिषेको विदधे मुदा ॥ ११६३ ॥ एवं महासुखं तिष्ठन् चक्री विज्ञपितोऽन्यदा । चन्द्रवेगेन यद्यवं पुरा मे मुनिराख्यत ।। ११६४ ॥ तव पुत्रीशतं भानुवेगस्याऽष्टौ च कन्यकाः। चक्री सनत्कुमाराख्यः परिणेष्यत्यहो ! इति ।। ११६५ ॥ तदेतासां विवाहेन प्रसादः क्रियतां विभो !। इत्यभ्यर्थनया ता अप्यार्यपुत्रो व्यवाहयत् ॥ ११६६ ॥ वैताढ्यं साधयामास कारयामास चाहताम् । चैत्येष्वष्टाहिकापूजां सङ्गीतोत्सवपूर्वकम् ॥ ११६७ ॥ अथो विविधलीलाभिः खेचरीभिः सहाऽनिशम् । क्रीडन्नत्राऽऽययौ भर्ता तावत् त्वं मीलितोऽधुना ।।११६८॥ यावद् बकुलमत्येवं महेन्द्रस्य न्यवेदयत् । तावच्चक्री समुत्तस्थौ निद्रान्ते वासमन्दिरात् ।। ११६९ ।। परिस्पन्देन महता वैताढ्यं च गतस्ततः । विज्ञप्तोऽवसरं प्राप्य महेन्द्रसुहृदा नृपः ॥ ११७० ।। पितरौ तव दुःखेन कालं गमयतः प्रभो !। अतस्तदर्शनात् कार्यः प्रसादोऽस्मादृशामपि ॥११७१॥ श्रुत्वा सनत्कुमारस्तदतीवाऽभवदुत्सुकः । यन्नामाऽपि सुधातुल्यं गुरूंस्तान् स्पृहयेन कः?।।११७२॥ अथ व्योमगताऽश्वेभविमानारूढखेचरैः। दिव्यवेषधरैश्चक्री हस्तिनागपुरं ययौ ।।. ११७३ ॥ .