________________
तृतीयः सर्गः।
१८९
घत्स ! यद्यपि ते नास्था मम वाक्ये तथाप्यमुम् । गृहाण श्लोकमेकं त्वं समाधिमृतये मम ॥ ४४१ ॥ कृतज्ञस्वामिसंसर्गमुत्तमस्त्रीपरिग्रहम् । कुर्वन् मित्रमलोभं च नरो नैवावसीदति ॥ ४४२ ॥
ओमित्युक्त्वा गतो यावद् द्यूतस्थानं प्रभाकरः। मित्रेण तावदागत्य पितृमृत्युर्निवेदितः॥ ४४३ ॥ विपनो मे पिता तत्र क्षोभोऽत्र तु समागतः । किं कर्तव्यं मया सोऽपि ध्यात्वैवं मित्रमूचिवान् ॥४४४॥ सखे ! विधाय यत्कृत्यं त्वमेव पितरं मम । आनयाऽनेन मार्गेण यथा पश्यामि तं दृशा ॥ ४४५ ॥ सख्या तथाकृते पश्चात् पितृकृत्ये निवर्तिते । पित्रादिष्टं हृदि स्मृत्वा शिक्षाश्लोकं व्यभावयत् ॥४४६ ॥ पित्रा यदिदमादिष्टं कुर्वतो मे तदन्यथा । किमु स्यादिति निर्णेतुं परदेशं प्रतस्थिवान् ॥ ४४७॥ श्रुत्वा मार्गे व्रजन सिंहाभिधानं ग्रामठक्कुरम् । कृतघ्नं तुच्छप्रकृतिं स्तब्धं तुष्टस्तमाश्रयत् ॥ ४४८ ॥ तस्यैका दासिका तेन विहिता गृहिणी गृहे । अज्ञानभावतो रूक्षात्मिका सर्वाधमा च या ॥ ४४९ ॥ तथा तत्रैव वास्तव्यो निर्दाक्षिण्यशिरोमणिः । अर्थैकलुब्धो मित्रत्वे लोभनन्दिर्वणिक् कृतः ॥ ४५० ॥ आकारितोऽन्यदा राज्ञा सिंहस्तेन समं ययौ । प्रभाकरो नृपं विद्वत्प्रियं ज्ञात्वेदमूचिवान् ॥ ४५१ ॥ मूर्खा मूखैः समं सङ्गं गावो गोभिदंगा मृगैः । . सुधीभिः सुधियो यान्ति समशीले हि मित्रता ॥ ४५२ ॥ दत्तं तुष्टेन राज्ञाऽस्य बहुग्रामयुतं पुरम् । सोऽपि दापितवान् सिंहस्वामिने जीवनं नृपात् ॥ ४५३ ॥ ग्रामेशोऽपि कृतस्तेन सिंहो. देशाधिपो द्रुतम् ।