________________
१८८ श्रीपार्श्वनाथचरिते
स धातुं धमति, छूते रमते, कुरुते कलिम् । स्वैरं भ्रमति सर्वत्र निरङ्कुश इव द्विपः ॥ ४२९ ॥ पिता शिक्षयते वत्स ! किमात्मा व्यसनेऽस्यते । आत्माऽपि यदि नात्मीयस्ततः कोऽन्यो भविष्यति॥४३०॥ अवगाहस्व शास्त्राणि, पिब काव्यरसामृतम् । शिक्षयस्व कलाः, धर्म कुरूद्धर निज कुलम् ॥ ४३१ ॥ यतः-- वस्तूयोतयते दीपः प्रत्यक्षं निजतेजसा । निष्कलङ्कः पुनः पुत्रः परोक्षानपि पूर्वजान् ।। ४३२ ॥
किञ्च,
धनाशा धातुवादेन जीविताशा रसायनैः । गृहाशा पण्यनारीभिर्मतिभ्रंशत्रयं नृणाम् ॥ ४३३ ॥ इत्यादिशिक्षया स्पृष्टो मालिन्यादिव मानसे । हसित्वाऽऽह सुतस्तात ! कः पठित्वा दिवं गतः ? ॥४३४॥ न शास्त्रेण क्षुधा याति न च काव्यरसेन तृट् । एकमेवार्जनीयं तु द्रविणं, निष्फलाः कलाः ॥ ४३५ ।। एवमुल्लण्ठनैस्तस्य विलक्षोऽसौ व्यचिन्तयत् । पुत्ररूपेण मे जज्ञे किमिदं कुलवैशसम् ।। ४३६ ॥ अकिञ्चनकरोऽपि स्याद् नाऽकुलीनः कुलोद्भवः । भस्माऽपि पावकोद्भूतं पावित्र्यं कुरुते जने ।। ४३७ ॥ अयं च मत्सुतो भूत्वा बभूव यदि निर्गुणः ।। ततः कथं कुशीलोऽभूत् कर्मणः कोऽथवा बली ? ॥४३८॥ परदोषच्छिदोऽप्येके स्वाङ्गजं दोषमक्षमाः । हर्तुमित्यत्र सूर्ये-न्दु-मेघा एव निदर्शनम् ॥ ४३९ ॥ इत्युदासीनवृत्त्यैव जन्म निर्वाह्य स द्विजः । पर्यन्ते वत्सलत्वेनाऽऽकार्य पुत्रमभाषत ।। ४४० ॥ १ क्षिप्यते । २ तृषा। ३ विघ्नरूपम् ।४ मत्पुत्रः, इत्यपि । . ..