SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः । १८७ सुवंशोऽपि धनुर्दण्डो निर्गुणः किं करिष्यति १ ||४१६॥ किञ्च, रूप- लक्ष्मीवतां शीलमेनुत्सेकः कलावताम् । प्रभविष्णोः सहिष्णुत्वमुष्णकाले हिमागतिः ।। ४१७ ।। इत्यादि स्वस्य वृत्तान्तं श्लाघ्यं च नृपतेर्मुखात् । स श्रुत्वाऽधोमुखस्तस्थौ लज्जया भारितो भृशम् ।।४१८ ।। इत्येवं सद्विवेकेन ध्वस्तदोषः सतां मतः । क्रमात् सद्धर्ममासाद्य सुमतिः सुगतिं ययौ । ४१९ ॥ सुसंसर्गस्य माहात्म्यमद्वैतं कथ्यतेऽधुना । प्रायो जगति येन स्यादपि दैवकमन्यथा ॥ ४२० ॥ आस्तामौपाधिको दोषः सहजोऽपि सुसङ्गतः । अपयाति यथा कर्म जीवस्य ज्ञानसङ्गमात् ।। ४२१ ।। पश्य सत्सङ्गमाहात्म्यं स्पर्शपाषाणयोगतः । लोहं स्वर्णभवेत् स्वर्णयोगात् काचो मणीयते ॥ ४२२ || विकाराय भवत्येव कुलजोऽपि कुसङ्गतः । जलजातोsपि दाहाय शङ्खो वह्निनिषेवणात् ||४२३ || आस्तां सचेतसां सङ्गात् सदसत् स्यात् तरोरपि । अशोकः शोकनाशाय कलये तु कलिद्रुमः ॥ ४२४ ॥ निःस्खोऽपि सङ्गतः साधुर्वरमृद्धोऽपि नाधमः । अश्वः कृशोऽपि शोभायै पुष्टोऽपि न पुनः खरः ।। ४२५ ।। एकमातृ-पितृत्वेऽपि श्रूयते शुकयोर्द्वयोः । भिल्लानां च मुनीनां च सङ्गाद् दोष-गुणोदयः ॥४२६ ॥ सुसङ्गस्योपदेशोऽपि लभ्यते न यथा तथा । इत्यर्थे लोकविख्याता प्रभाकरकथोच्यते ॥ ४२७ ॥ अस्त्यत्र भरते वीरपुरे षट्कर्मकर्मठः । विप्रो दिवाकरो नाम तस्य पुत्रः प्रभाकरः ॥ ४२८ ॥ १ गर्वराहित्यम् । २ बिवेकी न, एवमपि ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy