________________
३८१
सप्तमः सर्गः। युवां पुष्पाणि गृह्णीतं पूजनाय जिनेशितुः ॥ १६ ॥ ऊचतुस्तौ च पुष्पाणि यस्य तस्य फलं भवेत् । अस्माकं चेष्टिरेवाऽत्र गृह्णीवस्तदिमानि न ॥ १७ ॥ अमन्यमानौ सुतरां श्रेष्ठिना बोधितावपि । नीतौ गुर्वन्तिके भावं ज्ञात्वा च गुरुणोदितौ ॥ १८ ॥ भद्रौ ! भावेन देवार्चा पुष्पेणाऽपि महाफला । तदहो ! युवयोः स्वल्पमपि किं नास्ति वेतनम् ? ॥ १९ ॥ तयोर्जगाद गोपालो विंशतिर्म कपर्दकाः । सन्ति पश्च च किन्त्वेतदस्ति स्तोकं मुनीश्वर ! ॥२०॥ अनिगृहन्नात्मशक्तिं तपो-दानादि तन्वपि । कुर्वाणः शुद्धभावेन लभते विपुलं फलम् ॥ २१ ॥ मुनिनेत्युदितो हृष्टः क्रीत्वा पुष्पाण्यपूजयत् । जिनं श्रेष्ठियुतो यावद् द्वितीयस्तावदुन्मनाः ॥ २२ ॥ एतावन्मात्रमप्यासीदस्य किञ्चित् पुनर्न मे ।। चिन्तयनिदमद्राक्षीत् प्रत्याख्यानकरं नरम् ॥ २३ ॥ पप्रच्छ च गुरोः पार्थे किमेतेन कृतं विभो ! । गुरुरप्याह भो भद्र ! कृतमद्याऽमुना तपः ॥ २४ ॥ अयं च तस्याऽङ्गीकारे विधिः, पुण्यं च पुष्कलम् । स्यादित्याकर्ण्य भव्यत्वादुपवासं चकार सः ॥ २५ ॥ ततो भोजनवेलायां सहार्येण गतो गृहम् । परिवेषय्य भक्तं च निदध्यौ द्वारि संस्थितः ॥ २६ ॥ यदि कोऽप्येति मत्पुण्यैर्मुनीन्द्रस्तद् ददाम्यदः । भक्तं श्रेष्ठिगृहे येन कर्म कृत्वा मयाऽर्जितम् ॥ २७ ॥ अथ ग्लानादिकार्येण येनाऽभक्तं कृतं नहि । स मुनिदैवयोगेन तत्र भिक्षार्थमाययौ ॥ २८ ॥ तं दृष्ट्वा कर्मकृद् दध्यौ कुतोऽहं रङ्कमात्रकः । ईदृशा मुनयः कुत्र केदं द्रव्यं मयार्जितम् ? ॥ २९ ॥