________________
२२९
तृतीयः सर्गः। नाऽपूर्ण मे भवत् किञ्चित् सर्वस्वं ददतो मुनेः । विद्याधर्या न यत् सिद्धिः संजाता तद् दुनोति माम् ।।९६२॥ अरे ! क त्वं गतोऽसीति प्राऽऽहूतः श्वपचेन सः ? । उपमृत्याह कर्तव्यं मम स्वामिन् ! समादिश ॥ ९६३ ॥ स पाहैष मृतः कोऽपि समायाति, ततो भवान् । वस्त्रं गृह्णातु गत्वेति प्रेरितोऽगाद् नृपस्ततः ॥ ९६४ ॥ अशृणोच्छब्दमेकस्याः करुणात सुतव्ययात् । हा! पुत्र ! क गतोऽसोति मूर्च्छन्त्याश्चमुहुः स्त्रियाः॥९६५॥ अहो ! दैवेन निर्मुक्तकरुणेन किलाऽङ्गलम् । व्यापादयता निर्भाग्याऽभीष्टाऽपत्या त्वसौ हता ॥९६६॥ अहो ! असारः संसारो मर्त्यवाचामगोचरः । यदिष्टं देहिनां तत् तु ग्राहयत्येव यो यमात् ॥९६७।। कथं चाऽहं ग्रहीष्यामि बालस्योर्ध्वात् किलाम्बरम् ?। इति मन्दपदः प्रोक्तः श्वपचेनाशु गच्छ रे ! ॥ ९६८ ॥ सभयं परिचक्राम हरिश्चन्द्रः सुतं स्मरन् । न शुध्येद् यदि देवी मे तदा वत्सो म्रियेत सः।।९६९ ॥ ततः शुश्राव करुणं रुदती वनितामिति । निर्भाग्यशेखराया मे मृतो वत्सो हतास्मि हा ! ॥९७०॥ वत्सो मृत इमां वाचं प्रतिघ्नन् मङ्गलोक्तिभिः ।। वामाक्षिस्पन्दनेनाऽथ बभूवाऽऽशङ्किमानसः ॥९७१॥ सर्वस्वं मुनये दत्तं विक्रीतौ दयिता-सुतौ । चण्डालकर्मकर्ताऽहं किं मे वा भाव्यतः परम् ? ॥९७२॥ इति चिन्तातुरो यावद् मार्गे याति नृपस्ततः । चाण्डालपतिना प्रोक्तो व्याघुट्येति व्यजिज्ञपत् ।।९७३॥ आगतोऽस्ति मृतो बाल इति वस्त्राऽऽहृतौ त्रपा। स प्राह का पाऽस्माकमाचारोऽयं गृहाण तत् ॥९७४॥ निवृत्याऽथ हरिर्दध्यौ धिग लोभं यदशाज्जनः ।