________________
२३०
श्रीपार्श्वनाथचरितेवेत्ति कृत्यमकृत्यं वा नैव दैवहतो हहा ! ॥ ९७५ ॥ यदादिशति मे स्वामी तत् कर्तव्यं मया खलु । विचारो युज्यते नैव स्वाम्यादिष्टेऽनुजीविनाम् ॥ ९७६ ॥ स गच्छन्निति शुश्राव स्त्रीविलापं तमुच्चकैः । हा ! हा ! पुत्र ! त्वमेको मे तन्मे मृत्युस्त्वया सह ।।९७७॥ त्वं ममैवासि कुपितो रे ! दैव ! यत् पतिर्मम । बभूव कर्मकृन्नीचगेहेऽहमपि तादृशी ।। ९७८ ।। परमस्य स्वपुत्रस्य भरतान्वयशालिनः।। आलम्बने न जीवन्त्या भविता काऽद्य मे गतिः ? ॥९७९॥ हरिश्चन्द्रोऽपि विज्ञाय सुतारां त्वरितो वजन् । मुश्चन्नपूण्यथोऽवादीद् निन्दन्नात्मानमात्मना ।। ९८० ॥ निर्भाग्यशेखरे ! देवि ! वज्रघातः क एष नौ ? । वनिता वीक्ष्य भर्तारं तारं तारं रुरोद सा ।।९८१ ।। हरिश्चन्द्रोऽप्यरोदीच्च धैर्य कस्य सुतव्यये ? । रोहिताश्वं हरिर्मोहादाश्लिष्यत् किल पूर्ववत् ॥ ९८२ ॥ सुतारां प्राह देवि ! त्वं कि रोदिषि तथा कथम् ? । वत्सो मां भाषते नैव भवत्या रोषितः किमु ? ॥ ९८३ ॥ किं त्वया मोदको नास्मै दत्तः, किं परिधापितः । नाऽद्य रत्नाङ्कितं हारं किं हस्ती नाऽर्पितो मया ? ॥९८४॥ क्षमस्व वत्सलो हि त्वं स्वेच्छया यत् तु रोचते। इति स्वं सान्त्वयन् पुत्रं देव्याऽसौ परिदेवितः ॥९८५।। किं न पश्यसि मूढ ! त्वं गतासुं तनयं निजम् । गतासुश्च कथं पश्येदाश्लिष्येन्निगदेदथ ? ॥ ९८६ ॥ किमारब्धं त्वया सार्धं नार्या किं नैषि सत्वरम् ? । इत्युक्तः श्वपचेनाऽसौ भयाच्चैतन्यमासदत् ।। ९८७ ॥
अज्ञासीच्च मृतं पुत्र चेष्टयाऽथाश्रुलोचनः । १ आवयोः ।