________________
११४
श्रीपार्श्वनाथचरिते
रहो व्यज्ञपयद्राज्ञे गत्वा तां मृगयुः शिलाम् । हृो राजाऽपि जग्राह ददौ चास्मै महद्धनम् ।। ५५४ ॥ स तथा घटयामास च्छन्नं स्वासनवेदिकाम् । तच्छिसिनोऽघातयच्च नात्मीयाः कस्यचिद् नृपाः ॥५५५॥ तस्यां सिंहासनं वेदौ नरेन्द्रस्य निवेशितम् । सत्यप्रभावादाकाशस्थितमित्यबुधज्जनः ।। ५५६ ॥ सत्याद्धि तुष्टाः सान्निध्यमस्य कुर्वन्ति देवताः । एवमूर्जस्विनी तस्य प्रसिद्धिर्व्यानशे दिश: ।। ५५७ ॥ तया प्रसिद्ध्या राजानो भीतास्तस्य वशं ययुः । सत्या वा यदि वा मिथ्या प्रसिद्धिर्जयिनी नृणाम् ||५५८ ।। आगाच्च नारदोऽन्येद्युस्ततश्चक्षिष्ट पर्वतम् । व्याख्यानयन्तमृग्वेदं शिष्याणां शेमुषीजुषाम् ॥ ५५९ ॥ अजैर्यष्टव्यमित्यस्मिन् मेषैरित्युपदेशकम् ।
भाषे नारदो भ्रातर्भ्रान्त्या किमिदमुच्यते ? ।। ५६० ।। त्रिवार्षिकाणि धान्यानि न हि जायन्त इत्यजाः । व्याख्याता गुरुणाऽस्माकं व्यस्मार्षीः केन हेतुना । ॥५६१ ॥ ततः पर्वतकोsवादीदिदं तातेन नोदितम् । उदिताः किन्त्वा मेषास्तथैवोक्ता निघण्टुषु ॥ ५६२ ॥ जगाद नारदोऽप्येवं शब्दानामर्थ कल्पना । मुख्या गौणी च तत्रेह गौणीं गुरुरचीकथत् ।। ५६३ ॥ गुरुर्धर्मोपदेष्ठैव श्रुतिर्धर्मात्मकैव च । द्वयमप्यन्यथा कुर्वन् मित्र ! मा पापमर्जय ।। ५६४ ॥ साक्षेपं पर्वतोऽजल्पदजान् मेषान् गुरुर्जगौ । गुरूपदिष्टशब्दार्थोल्लङ्घनाद् धर्ममर्जसि ? ।। ५५६ ॥ मिथ्याभिमानवाचो हि न स्युर्दण्डभया नृणाम् । स्वपक्षस्थापने तेन जिह्वाच्छेदः पणोऽस्तु नः ।। ६६६ ॥ १ व्याख्यानं कुर्वन्तम् ।