________________
९८
श्रीपार्श्वनाथचरितेददुः सगौरवं भीमो निविष्टस्तत्र विस्मितः॥ ३४१ ॥ क्षणेन स्नानसामग्यमामतायां नभस्तलात् । अभाणि दारुपुत्रीभिमज्जनं क्रियतां विभो ! ॥ ३४२ ॥ भीमः प्राह वयस्योऽस्ति बहिर्मे मतिसागरः। आकारयत तं, ताभिः सोऽप्यानीतः क्षणादपि ॥ ३४३॥ समित्रः कारितो भीमः स्नानं दिव्यं च भोजनम् । खापितो वरपल्यङ्के यावदस्ति स विस्मितः ॥ ३४४ ॥ तावदेव कुतोऽप्येत्य स्फुरत्कान्तिः सुरः पुरः । प्रोचे भीम ! वरं ब्रूहि तुष्टोऽस्मि तव साहसात् ॥३३५ ॥ भीमः प्रोवाच तुष्टश्चेत् ततः कथय को भवान् । किमिदं पत्तनं किंच शून्यं देवस्ततोऽब्रवीत् १ ॥३४६ ॥ इदं हेमपुरं नाम पुरं हेमरथो नृपः। पुरोधास्तस्य चण्डाख्यो द्विष्टः सर्वजने पुनः ॥ ३४७ ॥ एषोऽपि नृपतिः क्रूरः प्रकृत्या कर्णदुर्बलः। शङ्कयाऽप्यपराधस्य कुरुते दण्डमुल्बणम् ॥ ३४८॥ अथ केनापि चण्डस्य द्वेष्यत्वादसहिष्णुना। अलिकं कथितं राज्ञो यन्मातङ्ग्यैष विप्लुतः ॥ ३४९ ॥ याचन्नपि महादिव्यमविचार्यैव भूभुजा । वेष्टयित्वा सणैश्चण्डो ज्वालितस्तैलसेकिमैः ॥ ३५० ॥ सोऽकामनिर्जराभावाद् मृत्वा सर्वगिलाभिधः । राक्षसोऽभूत , स चाहं तु स्मृत्वा वैरमिहागतः ॥३५१॥ तिरोहितः समग्रोऽपि पुरलोको मया तथा । सिंहरूपं विकुव्र्यैष स गृहीतो नरेश्वरः ॥ ३५२ ॥ करुणा-पौरुष-प्रज्ञाप्रकर्षोदधिना त्वया । इमं मोचयता चक्रे चमत्कारो महान् मम ॥ ३५३ ॥ अदृश्येन ततः सर्वोऽप्युपचारः कृतो मया । , अग्निपातादिना शुद्धिप्रदर्शनं दिव्यम् । २ महात्मना एवमपि ।