________________
द्वितीयः सर्गः।
९७
सिंहोऽप्याख्यदिदं सत्यं किन्तु प्राच्यभवे मम ।। तथाऽनेन कृतं दुःखं यथा वक्तुं न पार्यते ॥ ३१९ ॥ अतो भवशतेऽप्येनं नतः कोपो न याति मे । कृताश्च विविधाः पीडा मारयिष्यामि संप्रति ॥ ३३० ।। कुमारः प्राह चेत् कोपोऽपकारिणि तदा कथम् । कोपे एव न ते कोपः सुखसर्वस्वहारिणि ? ॥ ३३१ अतो दीनमिमं मुश्च कुरु धर्म दयामयम् । येन पापं विनिर्धय मोक्षमन्यभवे बजेः॥ ३३२ ।। इत्यादियुक्तिभिर्वादं बोधितोऽपि यदा हरिः । न मुश्चति नरं तावञ्चिन्तयामास राजमूः ॥ ३३३ ।। कोपाविष्टस्य दुष्टस्य कोऽपि वान्त्वेन नो गुणः । ज्वरितस्य जलेनेव केवलं ताडनोचिता ॥ ३३४॥ " ततः प्रेर्य बलात् सिंहं नरमादाय स स्वके । पृष्ठे चिक्षेप सिंहोऽपि मुखं व्यादाय धावितः ॥ ३३५ ॥ भीमेन स खुरे धृत्वोपरि भ्रमयितुं यदा। वस्यारेभे तदा सूक्ष्मीभूयाऽपेयाय तत्करात् ।। ३३६ ॥ अदृश्योऽसौ स्थितस्तत्र कुमारगुणरञ्जितः। करे नरस्य भीमोऽपि लग्नो राजकुलेऽविशत् ॥ ३३७ ॥ मन्दुरा-हस्तिशाला-न्तःपुराणि करणानि च । शून्यानि परितः पश्यन् विस्मयस्फारितेक्षणः ।। ३३८ ।। विचित्ररूपकोल्लोचे चित्रभित्तिविराजिते । आरुरोह शनैमिस्तले सोधस्य सप्तमे ॥ ३३९ ॥
(युग्मम् ) भीमस्य स्वागतं तत्र स्तम्भस्थाः शालभञ्जिकाः। योजयित्वा करावुच्चारयामासुम॒दुखरम् ॥ ३४० ॥ अवतीर्योर्ध्वतश्चैताः सुवर्णमयमासनम् । 1 अपेत्तः । २ स्थानानि । ३ मुले, इत्यपि ।