SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ ४१८ श्रीपार्श्वनाथचरितेदेवत्वमपि राज्यं च तत् सर्वं मुनिराख्यत ॥ ४९५ ॥ यच्चक्रे जिनबिम्बस्याक्षतपुञ्जत्रयं पुरः। तत् तृतीयभवे राजन्नक्षयं स्थानमेष्यति ॥ ४९६ ॥ अथाऽसौ रतिपुत्रस्य राज्यं दत्वाऽग्रहीद् व्रतम् । सहितो जयसुन्दर्या कुमारेण च भूपतिः ॥ ४९७ ॥ पालयित्वा परिव्रज्यामन्तं कृत्वा च सोऽभवत् । समं पुत्र-कलत्राभ्यां शुक्रकल्पे सुराधिपः ॥४९८॥ ततश्च्युत्वा मनुष्यत्वं प्राप्य सर्वजनोत्तमम् । जगाम कर्म निर्मूल्य स राजा मोक्षमक्षयम् ॥४९९॥ एवं राज्ञी कुमारश्च स्थिता देवी च या दिवि । चत्वार्यपि ययुर्मोक्षमक्षता प्रभावतः ॥५००॥ पुष्पा-ऽक्षतगता द्रव्यपूजेत्थं कथिताऽधुना । भावरूपस्तथाऽर्चायां वनराजकथोच्यते ॥ ५०१॥ अस्त्यत्र भरतक्षेत्रे नरेन्द्रैः सुप्रतिष्ठितम् । क्षितिप्रतिष्ठितं नाम पुरं सुरपुरोपमम् ।।.५०२॥ नर-नारीजना यत्र सुरसारूप्यधारिणः । लक्ष्यन्तेऽक्षिनिमेषेण पादस्पर्शेन च क्षितौ ॥ ५०३ ॥ तत्र चण्डभुजादण्डक्षपिताऽरातिगोषः । रक्षिता लोकसस्यानां सुस्थितो नाम पार्थिवः॥ ५०४ ॥ अथोच्छिन्नकुलस्तत्र धन-खजनवर्जितः । आर्तध्यानपरो नित्यमेकोऽस्ति कुलपुत्रकः ॥ ५०५॥ पात्रपाणिः स भक्ष्यार्थ प्रतिगेहं परिभ्रमन् । समाख्यातीव लोकानामदातुः फलमीदृशम् ॥ ५०६ ॥ प्रायेण तद् गृहं नास्ति यत्र लौल्याद् गतो नहि । परं दौस्थ्यतमश्छन्नमिव तं कोऽपि नेक्षते ॥ ५०७ ॥ वित्तादुत्तानतामेति निःस्वान्नीचमुखो भवेत् । अरघट्टघटीत्यर्थे स्पष्टमेव निदर्शनम् ॥ ५०८ ॥
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy