SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः । ४१७ स वैताढ्यपुराद् यावत् तत्रोद्याने समागतः ।। ४८२ ।। राजा विस्फारिताक्षोऽथ यावदुद्यानमीक्षते । तावद् विध्वस्तसंदेहः कुमारस्तातमानमत् ॥ ४८३ ॥ सुतमालिङ्गय सन्तापनिर्वापणसुधाकरम् । रुदन्नतीव दुःखेन गुरुणा बोधितो नृपः || ४८४ ॥ विलग्य पादयोः पत्युर्मुमोच जयसुन्दरी । अश्रुपूरं तथा येनाऽखिलोऽभूदाकुलो जनः ।। ४८५ ।। पप्रच्छ च मुनिं नाथ ! मम केनैष कर्मणा । दुःसहः सुतविश्लेषो जज्ञे वर्षाणि षोडश १ ।। ४८६ ॥ मुनिराह मुहूर्तानि षोडश स्थापिता त्वया । यत् सपत्नी शुकी दुःखे हृत्वाऽण्डं तत्फलं हृदः ||४८७|| सुखं दुःखं च यो यस्य तिलाल्पमपि यच्छति । सुक्षेत्रे बीजवद् भूरि लभतेऽमुत्र तत्फलम् ॥ ४८८ ॥ इत्थं गुरुवचः श्रुत्वा पश्चात्तापाऽऽकुलात्मना । प्राचीन दुष्कृतं राज्ञी तयाऽऽशु क्षमिता रतिः ।। ४८९ ।। रत्याप्युत्थाय भणिता प्रणम्य जयसुन्दरी | क्षमस्व जनितं यत् ते सुतदुःखं मया सति ! ।। ४९० ॥ गुरुस्ते इत्युपाद् युवाभ्यां मत्सरेण यत् । बद्धं गुरुतरं कर्म ध्वस्तं क्षमणयाऽद्य तत् ॥ ४९१ ।। यथा हि मलिनैः स्पृष्टो जलस्पर्शेन शुद्ध्यति । दुष्कृतैर्मलिनोऽप्यात्मा क्षमणात् स्यात् तथा शुचिः ॥ ४९२ ॥ तावद् धन्यतमास्तेऽत्र दुष्कृतं ये न कुर्वते । धन्यास्तेभ्योऽपि ते ये स्वं क्षिपन्ति क्षामणादयम् ||४९३ ॥ नृपः पप्रच्छ किं नाथ ! प्राक् कृतं सुकृतं यतः । राज्यं मे जयसुन्दर्याः कुमारस्याऽप्यजायत ।। ४९४ ॥ यथा शुक्रभवे क्षिप्त्वा जिनस्य पुरतोऽक्षतान् । १ ला खोऽपि कृत्वाऽपि पापं योऽस्मान्निवर्तते इत्यपि । ५३
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy