________________
४४०
श्रीपार्श्वनाथचरितेतथाहिश्रीवसन्तपुरेऽभूवन् चत्वारः सार्थवाहजाः। चारुयोग्यो हितज्ञश्च मूढश्चेत्यभिधानतः ॥ ७८५ ॥ अन्योऽन्यसुहृदः सर्वे ते वणिज्यार्थमन्यदा । उल्लङ्घय जलधिं रत्नद्वीपं रत्नाकरं ययुः ॥ ७८६ ॥ तत्र चारुः स्वभावेन कौतुक-व्यसनोज्झितः । लोकस्यावर्जको रत्नपरीक्षाकुशलः स्थिरः ।। ७८७ ॥ वज्रे-न्द्रनील-वैडूर्य-पद्मरागा-ऽञ्जनादिकम् । पञ्चवर्ण महानयं स रत्नौघमुपार्जयत् ।। ७८८ ॥ .: योग्योऽपि कुरुते किश्चिद् वाणिज्यं चारुशिक्षया । . जानीते सोऽपि रत्नानां गुण-दोषविचारणाम् ॥ ७८९ ॥ किन्त्वारामसरःक्रीडाकौतुकी भ्रमते बहु । तथापि मिलितान्यस्य माणिक्यानि कियन्त्यपि ॥७९०॥ शृणोति च वचश्वारोमन्यते च करोत्यपि । वर्ततेऽसौ तथा चारौ यथा तस्य हृदि स्थितः ॥ ७९१ ॥ हितज्ञश्च न जानाति स्वयं रत्नपरीक्षणम् । ततोऽसौ यस्य कस्याऽपि कथितं मन्यतेऽखिलम् ॥७९२॥ शृणोति चारुशिक्षां च तुष्टः किन्त्वस्य नो हृदि । किश्चित् तिष्ठति मुग्धत्वान्नाट्यादौ च बहुभ्रमात् ॥७९३॥ अतः परमुखप्रेक्षी स धूतॆर्विप्रतारितः। काचा-ऽश्मगवलादीनि रत्नभ्रान्त्या समग्रहीत् ॥७९४॥ मूढस्तु न स्वयं वेत्ति न चारुमपि पृच्छति । न शृणोत्युदितं तस्य न चाऽपि बहु मन्यते ॥७९५।। दक्षंमन्यतया मूर्खः शङ्ख-शुक्ति-कपदकान् । केवलं मीलयामास कृत्वा भूरि धनव्ययम् ।। ७९६ ।। कुसङ्गतिपरैधूतैर्वञ्च्यमानः स नित्यशः । अविश्वस्तश्च मित्राणां मोहाद् गमयते दिनान् ॥ ७९७ ॥