________________
श्रीपार्श्वनाथचरितेदृष्टस्ताभ्यां तदा कुर्वन् तैलाभ्यङ्गविधि नृपः । विस्मितौ चाऽधिकां दृष्ट्वा शक्रोक्ताद् रूपसंपदम् ॥११८७।। पृष्टौ च चक्रिणा किं भो इहाऽऽगमनकारणम् ? | केवलं तौ धुनीतः स्म शिरोन्युञ्छनकं किल ॥११८८॥ उक्तं ताभ्यां यथारूपं वर्णितं ते जगत्त्रये । तद् द्रष्टुं कौतुकेनाऽऽवां चक्रवर्तिन्निहाऽऽगतौ ॥११८९।। अहो ! धन्योऽहमेवैको यद्रूपं वर्ण्यते सुरैः। इत्यलंगवितेनोक्तौ तौ भूयोऽपि महीभुना ॥ ११९० ॥ अहो ! विप्रो ! मदीयं किं रूपं लोकेन वर्ण्यते । युवाभ्यां ददृशे किंवा स्तोकवेला प्रतीक्ष्यताम् ॥११९१।। विधाय मज्जनं यावत् पुनर्मण्डनभूषणैः । शरीरसंस्थितिं कृत्वाऽलङ्करोमि सभामहम् ॥ ११९२ ॥ तदा सिंहासनस्थस्य युवां मे रूप-तेजसोः । प्रेक्षेथां श्रियमित्युक्तौ तौ द्विजौ निर्गतौ ततः ॥ ११९३ ।। जीयते मत्तमातङ्गघटाऽपि सुभटैः कलौ । गर्वः सर्वकषस्त्वेष महतामपि दुर्जयः ॥ ११९४ ।। अथ शीघ्रं नृपः स्नात्वा कृत्वाऽङ्गे मण्डनादिकम् । . मध्येराजसमं सिंहासनस्थोऽजूहवद् द्विजौ ॥ ११९५ ॥ ताभ्यां चाऽऽगत्य दृष्ट्वा तदेहशोभामनीदृशीम् । समुत्पन्नविषादाभ्यां भणितो भूपतिर्यथा ॥ ११९६ ॥ मनुष्याणामहो ! रूप-तेजो-यौवनसंपदः । अनित्याः क्षणमात्रेण यदेता नाशमागताः ॥ ११९७ ॥ चक्रवर्ती ततोऽपृच्छत् संभ्रान्तौ भो द्विजौ ! कथम् ? । सविषादाविव ब्रूथस्तावप्यभणतां पुनः ॥ ११९८ ।। भो महाराज ! देवानां रूप-तेजो-बल-श्रियः। आरभ्योत्पत्तितः शेषषण्मासान् यावदासते ॥ ११९९ ॥ ततः परं तु हीयन्ते, मनुष्याणामिमाः पुनः ।