________________
श्रीपार्श्वनाथचरिते
गृहीत्वा पालयित्वा च पर्यन्तेऽनशनक्रमात् ॥६६८।। देहमौदारिकं त्यक्त्वा ललिताङ्गो दिवं गतः । ततश्च्युत्वा समुत्पद्य विदेहे सिद्धिमेष्यति ॥६६९॥
(विशेषकम् ) ज्ञात्वा धर्मजयादेवमैहिकामुष्मिकं फलम् । सर्वदुःखापनोदाय धर्मे कार्यः सदोद्यमः ॥६७०॥ मुनेर्वाक्यमिति श्रुत्वाऽबुध्यन्त बहवो जनाः। नियमाऽभिग्रहादीनि स्वस्खभाग्याऽनुमानतः ॥६७१।। रोहणादिव रत्नानि तस्मादादाय सद्गुरोः । भक्त्या कृतनमस्कारा ययुः सर्वे यथास्पदम् ॥६७२॥ उज्ज्वले सद्गुणे स्वच्छे पटे रङ्ग इव स्थिरः । निविष्टो मानसे धर्मो मरुभूतेगुरूदितः ॥६७३॥ प्रकृत्या लघुकर्माऽसौ विशेषेणोपदेशतः। विषयेभ्यो विरक्तात्मा धर्मकृत्यपरायणः ॥६७४॥ दाक्ष्य-दाक्षिण्य-सौजन्य-सत्य-शौच-दयादिभिः । कनिष्ठोऽपि गुणैर्येष्ठो मरुभूतिरभूत् तदा ॥६७५।। मिथ्यात्वकठिनत्वेन ज्येष्ठोऽपि कमठः पुनः । तथैवाऽभिन्नहृदयो मुद्गशैल इव स्थितः ॥६७६॥ वेधसा मलिनात्माऽसौ कषोपल इव ध्रुवम् । मरुभूतेगुणस्वर्णरेखोद्योताय निर्मितः ॥६७७॥ यथा केतकपत्राणामेकत्रोत्पन्नवासिनाम् । वर्णगन्धादिना भेदो महानित्थं नृणां गुणैः ॥६७८।। तथाप्रदीप-सर्षपौ श्लाघ्यो लघू अपि गुणोज्ज्वलौ । महान्तावपि न श्रेष्ठौ प्रदीपन-विभीतकौ ॥६७९।। वसुन्धरा पुनर्भावयतिना मरुभूतिना । १ विषविशेषः।