________________
अष्टमः सर्गः ।
तत् श्रुत्वा तं परिव्राजं महात्मा सचिवोऽमुचत् । कण्डकरौ तौ चाssहास्त जामेय-मातुलौ ॥ १६५ ॥ पृष्टौ तेनाऽभयं दच्चा यथावस्थं शशंसतुः । अथ सत्याविमौ मत्वा नीतिज्ञो मन्त्रयमुञ्चत ।। १६६ ॥ ततस्तौ चलितौ स्वस्य मन्यमानौ नवं जनुः । प्राप्तौ च पथि पल्लीशन रैर्बलिन रेक्षिभिः ॥ १६७ ॥ धृत्वा पद्माटवीदेव्याश्चण्डाया भवने च तौ । क्षिप्तौ बन्दिनृणां मध्ये, धृतानां वधहेतवे ॥ १६८ ॥ चण्डसेनोऽथ तत्राऽऽगात् सपुत्रां प्रियदर्शनाम् । आनाय्य बालमादाय देव्यै प्राणमयत् स्वयम् ॥ १६९॥ देवीं रौद्रं च कर्मेदं द्रष्टुं नेयं क्षमेति सः । पल्लीशोबन्धुभार्याया नयने वाससाऽप्यधात् ॥ १७० ॥ समय देवीपूजार्थमेतस्या रक्तचन्दनम् । भिल्लैरानाययच्चैकं देव्या वृन्दनरं पुरः ।। १७१ ॥ तैश्व दैववशाद् बन्धुदत्त एवोपढौकितः । कोशान्निखिंशमाकर्षन्निस्त्रिंशोऽथ स पल्लिराद ।। १७२ ।। बन्धुपत्नी ततो दध्यौ हा ! कष्टं श्रावके कुले । जताया अपि मे कार्ये हन्यन्ते इति पूरुषाः ॥ १७३ ॥ बन्धुरप्यागतां स्वस्य मृतिं ज्ञात्वा सुधीरधीः । परमेष्ठिनमस्कारोच्चारमारभत द्रुतम् ॥ १७४ ॥ निशम्य तद्ध्वनिं भर्तृशङ्कया प्रियदर्शना । दृशा वुद्घाटयामास ददर्श च पतिं पुरः ॥ १७५ ॥ पल्लीशं च जगौ भ्रातः ! सत्यसन्धो भवानभूत् । मा शंसेथाः स एवाग्रे यत्तेऽयं भगिनीपतिः ॥ १७६ ॥ ततो हृष्टविषण्णोऽसौ पल्लीशो बन्धुपादयोः । पतित्वाऽऽख्यद् ममाज्ञानाऽपराधः क्षम्यतां विभो ! ।। १७७ ।।
१ आच्छादयामास ।
५८
४५७