________________
अष्टमः सर्गः।
४५९ बन्धोः स्वानुभवाऽऽख्यानाजिनधर्मे बहुर्जनः। रक्तोऽभूदथ पल्लीशं सत्कृत्याऽसौ विसृष्टवान् ।। १९१ ॥ सुखेन तस्थुषस्तत्र बन्धुदत्तस्य धर्मिणः । द्वादशाब्दी व्यतिक्रान्ता शरत्कालोऽन्यदाऽभवत् ॥१९२॥ यत्र सन्मार्गगा नद्यो निर्मलाश्वाऽभवन् पुनः । क्षीणे वित्ते यथा प्रायः पुंसां चित्तप्रवृत्तयः ॥१९३ ॥ सरो हृद्याम्बुजं जज्ञे गगनं स्पष्टतारकम् । . स्वच्छभावेन साधूनां यथा चित्तं लसद्गुणम् ॥ १९४ ॥ आसेन्दुर्भानुजं तापं विवेक इव मानजम् । सुसङ्गतिरिवाऽभूद् भूः प्रशस्यफलशालिनी ।। १९५॥ मयूरा मौनिनोऽभूवन् ज्ञाततत्त्वा इवर्षयः । हंसाश्च स्पष्टतां भेजुर्घनान्ते धार्मिका इव ॥ १९५ ॥ सरसां नीरमर्काशुशोष्यमाणं शनैस्तटम् । तत्याज गृहिणा द्वन्द्वदग्धं चित्तं ममत्ववत् ॥ १९६॥ श्रीपार्थः समवासार्षीनागपुर्या तदा बहिः। तल्लोकं सुकृताऽस्तोकं स व्यधादुत्तमोत्तमम् ॥ १९७ ॥ महा बन्धुदत्तोऽपि तत्र सप्रियदर्शनः। गत्वा नत्वा प्रभु श्रुत्वा देशनामिति पृष्टवान् ॥ १९८ ॥ केन मे कर्मणा स्वामिन्नूढमात्रा अपि प्रियाः षण्मृता विरहवासीद् बन्दिता च कथं मम ॥ १९९ ॥ स्वाम्याख्यदत्र विन्ध्याद्रौ हिंस्रात्मा शबरेश्वरः। नाना शिखरसेनोऽभूत् श्रीमत्याख्या च तत्प्रिया ॥२०॥ मार्गभ्रष्टोऽन्यदा साधुगच्छस्तत्राऽऽगतः स तम् । दृष्ट्दैत्य कृपयाऽपृच्छद् यूयं भ्रमत किं न्विह ? ॥ २०१॥ मार्गे भ्रष्टा वयमिति तैरुक्ते पतिमब्रवीत् । श्रीमती भोजयित्वैतान् फलायैलंगयाऽध्वनि ॥२०२॥ १ चिक्षेप ।