________________
२७७
षष्ठः सर्गः पदाक्रान्तपुटश्चैष निन्ये मातृगृहे वरः ॥ ३६॥ - यत्रास्ते सितदुकूलपच्छादितमुखी वधूः। छन्नेन्दुः शरदभ्रेण पौर्णमासीव शर्वरी ॥ ३७॥ नीरङ्गीस्फेटनायाऽस्याः सखीभिः प्रार्थितो वरः। ददावाऽऽचारिकं स्मित्वा ताभिरुद्घाटितं मुखम् ॥ ३८ ॥ दृष्टा चाऽनेन सा किश्चिद्विकस्वरमुखाम्बुजा । सहर्षसाध्वसा चेतोभुवोऽपि स्वान्तहारिणी ॥ ३९ ॥ मङ्गलाचारपूर्व च जज्ञे पाणिग्रहस्तयोः । बद्धाश्चलौ च तौ तस्माद् गतौ चतुरिकाऽन्तरे ॥ ४० ॥ तत्र मुक्तावचूलाढ्ये प्रवरस्तम्भतोरणे । सूर्यवत् सदिनश्रीकः कुमारः शुशुभेतराम् ॥ ४१ ॥ अथोपचारः प्रारंभे स्वजनानां समन्ततः । श्रीखण्डपुष्पताम्बूलैर्नेपथ्याश्वगजादिभिः ॥ ४२ ॥ ततस्तत्राज्यलाजाद्यैविप्रेणोद्दीपितेऽनले । भ्रमितुं विधिनाऽऽरेभे मङ्गलानि वधूवरम् ॥ ४३ ।। प्रथमे मङ्गले राज्ञा स्वर्णभाराः सहस्रशः । दत्ताः, कुण्डलहाराचं द्वितीये सारभूषणम् ।। ४४ ॥ तृतीये स्थाल-सिपायं चतुर्थे दिव्यचीवरम् । अन्यान्यपि हि कृत्यानि कृतानि निखिलान्यपि ॥४५॥ बहिरङ्गविवाहेनाऽप्येवं प्रीणितविष्टपः । आजगाम कुमारेन्द्रः स्वगृहं मङ्गलोत्सवैः ॥ ४६ ॥ अश्वसेननृपेणाऽपि बहु सत्कारितो जनः । अनर्ण्यमणिमुक्ताभिर्वध्वाश्चाभरणं ददौ ॥ ४७ ॥ जातोद्वाह इति स्वामी नीलरत्ननिभस्तया । गौराङ्गया शुशुभेऽत्यन्तं विद्युतेव नवाम्बुदः ॥ ४८ ।। प्रभुः क्रीडाचलोद्यानादिषु क्रीडंस्तयान्वितः । १ सानन्दा सभया च । २. मण्डलानि, इत्यपि ।