________________
४४२
श्रीपार्श्वनाथचरितेतदहो ! विविधाऽऽराम-रामा-नाट्यादिकौतुकैः । रमणीयमिदं स्थानं मुक्त्वा नाऽन्यत्र मे मनः ॥ ८११ ॥ इति तं बोधविमुखं ज्ञात्वा मुक्त्वा च ते क्रमात् । गताः खस्थानमानन्दं चाऽऽपुश्चावदियः परम् ॥८१२॥ मूढस्तु व्यसनाऽसक्तस्तत्रैव स्वजनोज्झितः। परिक्षीणधनो धृतर्महादुःखेन संस्थितः ॥ ८१३ ॥ दृष्टान्तोऽयं मयाऽऽख्यातोऽधुनोपनय उच्यते । यद् वसन्तपुरं राशिरेष सांव्यवहारिकः ॥ ८१४ ॥ ये वयस्याश्च चत्वारस्ते यति-श्राद्ध-भद्रकाः । मिथ्यादृष्टिश्च, यो रत्नद्वीपो मर्त्य भवो हि सः ॥ ८१५ ॥ समुद्रलङ्घनं यत् तद् जीवयोन्यवगाहनम् । यानेन द्वीपप्राप्तिर्या तन्मय॑त्वं सुकर्मणा ॥ ८१६ ॥ चारोः पञ्चविधै रत्नैर्यच्च बोहित्थपूरणम् । व्रतानां न्यसनं ब्रह्मपञ्चमानां तदात्मनि ॥८१७।। योग्यस्य काननेच्छा या खल्परत्नार्जनं च यत् । गृहिणो विषयासेवापूर्व सोऽणुव्रतोद्यमः ॥ ८१८ ॥ यद् हितज्ञस्य मुग्धत्वात् काचखण्डादिसंग्रहः । भद्रकत्वेन जीवस्य सा सर्वत्राऽपि धर्मधीः॥ ८१९ ॥ मूढस्य यच्च शुक्त्यादिग्रहणं धूर्तवचनात् । स कुधर्मग्रहो मिथ्यादृशो वैधर्मिकाऽऽज्ञया ॥ ८२० ॥ यत् स्वाऽऽस्पदं गमी योग्य-हितज्ञौ चारुरूचिवान् । यतेरासनमोक्षस्य तज् ज्ञेयं भव्यबोधनम् ॥ ८२१ ॥ यच्च तौ चारुमभ्यर्च्य रत्नान्यार्जयतां पुनः। श्राद्ध-भद्रकयोः साधुधर्माङ्गीकरणं हि तत् ॥ ८२२॥ शिष्टोऽपि चारुणा मूढः स्वस्थानं नाऽगमद् यथा । गुर्वादेशेऽप्यभव्यस्य तथा मुक्तावनादरः॥ ८२३ ॥ १ ब्रह्म ब्रह्मचर्य पञ्चमं येषु तेषाम् ।