SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः। ४४३ चार्वाद्या इव यत्याद्या मुक्तिस्वस्थानमियति । भवाऽब्धौ मूढवद् दुःखी मिथ्यादृष्टिस्तु तिष्ठति ।।८२४॥ अन्तरङ्गमिमं सारोपदेशं हृदि विभ्रता । पश्चादपि हि मोक्षाय यतितव्यं मनीषिणा ।। ८२५॥ इत्यादिदेशनां कृत्वा विरते गणभृद्वरे । प्रणम्य सर्वे श्रीपार्थ स्थानं निजनिजं ययुः ॥ ८२६ ॥ तत्तीर्थसंभवः पार्थनामा श्यामश्चतुर्भुजः । यक्षः फणिफणच्छत्रो गजाऽऽस्यः कूर्मवाहनः ॥ ८२७ ॥ नकुला-ऽही वामदोभा बीजपूरो-रगौ पुनः । दक्षिणाभ्यां दधद् दोभ्यों भक्तः पार्थोऽभवद् विभोः॥८२८ तदा पद्मावती नाम्ना देवी तत्तीर्थभूरभूत् । स्वर्णवर्णा प्रभावाऽऽन्या कुर्कुटो-रगवाहना ।। ८२९ ।। दक्षिणाभ्यां पद्म-पाशौ वामाभ्यां च फला-ऽङ्कुशे । कराभ्यां दधती स्वामिपार्थे शासनदेवता ॥ ८३० ।। अथ योति पुरो धर्मचक्रे सिंहासने च खे । दुन्दुभौ ध्वनति च्छत्र-चामरैरुपशोभितः ॥ ८३१ ॥ विजहार ततोऽन्यत्र वर्णाम्भोजेषु सञ्चरन् । अवस्थितकच-श्मश्रु-नखः सङ्घान्वितो विभुः ॥ ८३२ ॥ . (युग्मम् ) . गच्छतोऽस्याऽभवन् नम्रा द्रुमा न्युब्जाश्च कण्टकाः। ऋत्वि-न्द्रियार्थ-मरुतोऽनुकूलाः शकुना अपि ॥८३३॥ प्रभुप्रभावतो नेशुरायोजनशतं गदाः। तद्विहाराऽवनौ चासन्नेति-वैराग्रुपप्लवाः ॥८३४॥ सर्वातिशयवानेवं कोटिसङ्ख्यैः सदा सुरैः। सेव्यमानपदाम्भोजः स व्यहार्षीद् विभुर्भुवम् ॥८३५॥ यस्योचैः कमठाम्बुदोज्झितजलैरुद्भूतभोगीश्वरो१ गच्छन्ति । २ सप्तम्यन्तम् । ३ अधोमुखाः ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy