________________
१८४ श्रीपार्श्वनाथचरिते
उपाध्यायं च शास्त्रं च याऽतिक्रम्य प्रवर्तते ॥ ३७८ ।। यत्किश्चित् खन्यमानस्य यथा कूपस्य कस्यचित् । नालमुद्घटते येन खनकः प्लाव्यते जनैः ॥३७९ ।। तथाच्छात्रस्य कस्यापि शिक्ष्यमाणस्य किंचन । उन्मीलति तथा ज्ञानं येन विस्माप्यते गुरुः ॥ ३८० ॥ तत् त्वं गजेन्द्रमारोप्य सत्वरं त्वमिहानय । तथा सुमतिरित्यस्य नामास्तु स्वगुणार्जितम् ॥ ३८१ ॥ इत्यादिश्य नृपः प्रैषीत् परिवारं सहस्तिनम् । सोमोऽपि स्वगृहे गत्वा निजबन्धूनमेल यत् ॥३८२॥ अथ कारितशृङ्गारं कृतकौतुकमङ्गलम् । हस्त्यारूढं महाऽसौ सुतं निन्ये नृपौकसि ॥ ३८३ ॥ राजा सम्मुखमभ्येत्य कृत्वा सत्कारमुज्ज्वलम् । पौरोहित्ये नियोज्यतं गृहं प्रति व्यसर्जयत् ॥ ३८४ ।। राजमान्यतयैवं स ययौ लोकेऽपि पूज्यताम् । पित्रादिबन्धुषु नतो याति राज्ञोऽन्तिके सदा ॥ ३८५ ॥ करोति साधुसंसर्ग शृणोति विविधं श्रुतम् । सार्थनामा क्रमाज जज्ञे सुमतिः सुकृतार्जनात् ॥ ३८६ ॥ विवेकमन्यदा ज्ञातुं बहुश्रुतमिमं नृपः । पप्रच्छ वद भोः! कस्माद् जीवानां विविधा स्थितिः ॥३८७॥ सुमतिः प्राह राजेन्द्र ! यत् त्वं तत्त्वं विदन्नपि । मां पृच्छसि प्रसादोऽत्र हेतुस्तत् किंचिदुच्यते ॥ ३८८ ॥ स्वस्वकर्मवशाद् देव ! जीवा वैचित्र्यभाजिनः । अभिनेयवशाद् नानावेषं कुर्युर्यथा नटाः॥ ३८९ ॥ पुण्य-पापमयं कर्म तद्वशेन नृणां भवेत् । विवेकश्चाऽविवेकश्च ताभ्यां सर्व शुभाऽशुभम् ॥ ३९० ॥ १ पुरोहितकर्मणि ।