________________
श्रीपार्श्वनाथचरितेअहो ! यादृक् पुलिन्द्रोऽसौ तादृक् त्वं कटपूतनः ॥७५९॥ एवं विडम्बनारूपं पूजितोऽशुचिमूर्तिना।। येनाऽत्यन्ताऽधमेन त्वं तं साक्षादेव जल्पसि ॥ ७६०॥ येनैवं तु मया चोक्षवस्त्रदेहभृता चिरम् । विधिना पूजितस्तस्य स्वप्नेऽपि स्वं न दर्शयः ।। ७६१ ॥ सुरः प्रोवाच मा कोपं कार्मुिग्ध ! यदन्तरम् । स्वस्य तस्य च कल्ये त्वं ज्ञास्यसि स्वयमेव हि ॥७६२।। द्वितीयदिवसे यावदाययो धार्मिकः शिवम् । एकाक्षिविकलं तावद् ददशैं शुशोच सः ।। ७६३ ॥ हहा ! केनाऽपि पापेन स्वामिनो नेत्रमुद्धृतम् । नीचानां संगतिः किं वा देवानामपि दारुणा ॥ ७६४ ॥ इत्यस्मिन् विलपत्यागात् पुलिन्द्रस्तादृशं शिवम् । वीक्ष्य सद्योऽम्बकं तस्मै भल्ल्योद्धत्य निजं ददौ ॥७६५।। अहो ! सात्त्विक ! याचस्व किमपीष्टमिदं सुरे। वदत्येव निरीहत्वात् पुलिन्द्रोऽगाद् यथागतम् ।।७६६॥ सुरोऽथ धार्मिकं ब्रूते मुग्ध ! दृष्टं त्वयाऽन्तरम् ? । एवं सात्त्विकभक्त्याऽहं तुष्ये नो बाह्यपूजया ।। ७६७ ॥ इत्युदाहरणं ज्ञात्वा पूज्यो धर्मधियैव हि । जिनो येन तरुः सिक्तः स्वयमेव फलिष्यति ॥ ७६८ ॥ तथा केनाऽप्यसंबद्धप्रार्थनावशतः स्फुटम् । अकिञ्चनकर तीर्थमपि लोके विधीयते ॥ ७६९ ॥ तथा देवपुरे सोमनामासीत् कुलपुत्रकः । रूपवांश्चतुरो दाता गुणरागी प्रियंवदः ॥ ७७० ॥ पत्नी च तस्य रुद्राख्या स्तब्धा कर्कशभाषिणी । कुरूपा निर्गुणा किन्तु प्रिये प्रेमवती भृशम् ॥ ७७१ ॥ भर्ता तु दर्शनेनाऽपि स तस्या दूयतेतराम् । , राक्षसः।