________________
सप्तमः सर्गः।
३८५ अथ तौ स्वजनस्येव समग्रगुणशालिनः। विशश्रमतुराम्रस्य तले संतापहारिणि ॥ ६९ ॥ सत्फलैः सहकारस्याऽमलैगिरिनदीजलैः। पितृमातृसुखं ताभ्यां प्रापि तत्रापि धर्मतः ॥ ७० ॥ तयोस्तत्रस्थयोर्भानुरस्तमाप गलद्युतिः । दिनान्ते का कथाऽन्यस्य शूरस्याऽपीदृशी दशा ? ॥७१॥ मन्दतेजा बजनीचैः करदण्डोपलक्षितः। वृद्धत्वेन ध्रुवं सूर्योऽप्यासन्त्रास्तो विडम्ब्यते ॥ ७२ ॥ सन्ध्याऽपि पक्षिणां रावैः ऋन्दित्वेनाऽत्यये क्षणात् । रक्ताऽम्बरवती सद्यो ममज्जेवाऽपराऽम्बुधौ ॥ ७३ ॥ कृता पद्मापणश्रेणिरनुद्धाटा सरोवरैः । मित्रनाशे यतो दुःखं जायते विमलात्मनाम् ॥ ७४ ॥ छिद्रेक्षिभिरिवाऽऽक्रान्तमकस्मात् तारकैर्नभः । येन दोषोदये क्षुद्राः प्रकटाः स्युः कुतोऽपि हि ॥ ७५ ॥ गते तमोरिपावस्तमभितः प्रसरत् तमः । सर्वमेव समीचक्रे निर्विवेक इव प्रभुः ॥ ७६ ॥ आकाशफलके ध्वान्तमषीलेपिन्युडुच्छलात् ।। कालो बाल इवाऽद्यापि लिखत्यक्षरमालिकाम् ॥ ७७ ॥ अथैतत् समयेऽपृच्छद् वरसेनः सहोदरम् । किं किश्चिज् ज्ञायते भ्रातः ! तातरोषस्य कारणम् ? ॥७८॥ ज्येष्ठोऽवादीन्न जानामि वत्स ! किश्चित् तथाविधम् । इङ्गितैः किन्त्विदं मन्येऽपरमातुविजृम्भितम् ॥ ७९ ॥ लघुर्बभाण तातोऽपि प्रत्येति किमलीकके ? । सोऽप्यूचे वत्स ! मुग्धस्त्वं महिला कूटमन्दिरम् ॥ ८॥ अलीकमपि जल्पन्ति तथैव कथमप्यमूः। मन्यन्ते सत्यमेवेति यथा रागान्धबुदयः ॥ ८१ ॥ १ इनः सूर्यः । २ रजन्युदयेऽपि ।