________________
श्रीहीरसरिरिति कोविदतर्कणैषा ॥ ११ ॥ धर्माख्यानात् तदाऽऽदानात् प्राग्जन्मस्मरणादिव । स एवाऽजनि संबन्धस्तयोर्मुनि-धनाढ्ययोः ।। १२ ॥ जिनधर्मरतो मुनिभक्तियुतः
शुभशास्त्रगतिस्तपदत्तमतिः । उपदेशमवाप्य गुरोः सुमुखात्
त्वरितः प्रथितुं महमात्मनि यः ॥ १३ ॥ येन श्रीलक्ष्मिचन्द्रेण परदुःखापहारिणा । कारितं पथिकस्थानमौषधी-पुस्तकालयम् ॥ १४ ॥ सिद्धाचले च सत्क्षेत्रे तीर्थे सम्मेतभूधरे । खकीयं कर्म दग्धुं यो देवसद्मान्यकारयत् ॥ १५ ॥ सुदुस्तपं तपस्तप्त्वाऽऽराधयद् यो यथाविधि । एकादशीतिथिं पुण्यो भावशुद्धिसमन्वितः ॥ १६ ॥ तेनैव धर्मानुचरेण हर्षात् श्रीपार्श्ववृत्तं निजवित्तदानात् । उद्यापनायै तपसो निजस्य प्राकाशि धर्माख्यमुनीन्द्रवाक्यात् ॥१७॥ तस्यास्ति वल्लभा नाम्ना सुगुणा सुगुणालयम् । दग्धं कामं पतिं ज्ञात्वाऽऽगमत् किं कामवल्लभा ? ॥ १८ ॥
यः संसन्ति तत्पुत्रास्तेष्वाद्योऽमरचन्द्रकः । मध्यमो मोहनो धर्मी पश्चिमः फुल्लचन्द्रकः ॥ १९ ॥ एते सर्वे महापुण्या धर्मकर्मपरायणाः । मातृ-पितृमहाभक्तिभाजो भान्ति महाशयाः ॥ २० ॥ पौत्रोऽप्यस्यास्ति श्रीचन्द्रो मध्यपुत्राङ्गजः शुभः । नयनानन्दको योऽस्ति बालचन्द्र इवाङ्गिनाम् ॥ २१ ॥ कुटुम्बमेवमेतस्य जीवतान्नन्दतादपि । आकल्पं धर्मकर्माणि कुर्याद् धर्मप्रभावतः ॥ २२ ॥
॥ इति वंशप्रशस्तिः ॥
३ -आस्मार्थम् ।