________________
तृतीयः सर्गः। यच्च त्वयोदितं कष्टात् सौख्यं न स्यात्तदप्यसत् । कटुकादौषधादत्र किमारोग्यं न जायते ? ॥ ८७ ।। किश्च लोके स्फुरत्कीर्तिः सद्गतिन्यस्तचेतसः । धर्मोद्यतस्य जीवस्य स्वर्गादप्यधिकं सुखम् ॥ ८८ ॥ तथायेन चारु कुलं रूपं बलं ज्ञानं धनं यशः। आनिन्ये तस्य धर्मस्यानुपकुर्वन्नरोऽधमः ।। ८९ ॥ उक्तं चनीयते येन धर्मेण लक्षसम्पत्तियोग्यताम् । नरः शर इवैतस्माद् विमुखः पतति क्षितौ ॥९०॥ अतो धर्मकुटुम्बस्य धर्मस्थानस्य चानिशम् । पोषणं कुर्वता भाव्यं कृतज्ञेन मनीषिणा ॥ ९१ ॥ दया माताऽस्य सत्कर्मविनियोगः पुनः पिता । प्रिया श्रद्धा गुणाः पुत्रा धर्मस्येदं कुटुम्बकम् ॥ ९२ ॥ सङ्घश्चतुर्विधो बिम्बं चैत्यं चाप्यागमोऽर्हताम् । सप्ताप्येतानि धर्मस्य स्थानकानि विदुर्बुधाः ॥ ९३ ॥ धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः । अतो धर्मो न मोक्तव्यः श्रयणीया गुणाः सताम् ॥ ९४ ॥ किश्चसंदिग्धेऽपि परे लोके त्याज्यमेवाशुभं बुधैः । यदि नास्ति ततः किं स्यादस्ति चेनास्तिको हतः॥९५॥ इत्थं संदेहपक्षेऽपि लौकिकैरपि कथ्यते । प्रमाणनिश्चिते त्वस्मिन् कथं धर्मो निषिध्यते ? ॥ ९६ ॥ गुरूणां विनतैर्भाव्यं कर्तव्या साधुसङ्गतिः । सविवेकं मनो धार्य न त्याज्यं सत्त्वमुत्तमम् ॥ ९७ ॥ विनयश्च विवेकश्च सुसङ्गश्च सुसत्त्वता । ... लौकिका अप्यमी श्लाघ्या गुणा लोकोत्तरास्त्वलम् ॥९८॥ २१