Page #1
--------------------------------------------------------------------------
________________
(
)
ॐ श्रीविजयनेमिसूरीश्वरग्रन्थमालारत्नम्-५२ ॥ न्यायाचार्य-न्यायविशारद-महामहोपाध्याय-श्रीमद्
यशोविजयगणिमणिविरचितम्
अनेकान्तव्यवस्थाप्रकरणम्।
तस्य
उत्तरार्धम् ।
तदुपरि
तपोगच्छाधिपति-शासनसम्राट्-सूरिचक्रचक्रवर्ति-सर्वतन्त्रस्वतन्त्र श्रीमद्विजयनेमिसूरीश्वर-पट्टालङ्कार-व्याकरणवाचस्पति
कविरत्न-शास्त्रविशारद-श्रीविजयलावण्यसूरीश्वरेण विरचिता तत्त्वबोधिनी विवृतिः।
सम्पादक:--- म पच्यासप्रवरश्रीदक्षविजयो गणिमणिः
प्रकाशकः A श्रीविजयलाल सूरीश्वरज्ञानमन्दिर, बोटाद, सौराष्ट्र A वीर सं० २४८४] नेमि सं० ९
विक्रम सं० २०१४ = = = = =
Page #2
--------------------------------------------------------------------------
________________
=
=
= = = = = = = = ___+ श्रीविजयनेमिसूरीश्वरग्रन्थमालारत्नम्-५२ ॥ न्यायाचार्य-न्यायविशारद-महामहोपाध्याय-श्रीमद्
यशोविजयगणिमणिविरचितम्
e:--
अनेकान्तव्यवस्थाप्रकरणम्।
तस्य उत्तरार्धम् ।
तदुपरितपोगच्छाधिपति-शासनसम्राट्-सूरिचक्रचक्रवर्ति-सर्वतन्त्रस्वतन्त्रश्रीमद्विजयनेमिसूरीश्वर-पट्टालङ्कार-व्याकरणवाचस्पति
कविरत्न-शास्त्रविशारद-श्रीविजयलावण्यसूरीश्वरेण विरचिता तत्त्वबोधिनी विवृतिः ।
wM
सम्पादक:पन्यासप्रवरश्रीदक्षविजयो गणिमणिः ॥
- प्रकाशकः
mMN Mwwwwwwwwwwwwwww
A श्रीविजयलावण्यसूरीश्वरज्ञानमन्दिर, बोटाद, सौराष्ट्र A वीर सं० २४८४] नेमि सं० ९ [विक्रम सं० २०१४ = = = =
= = ==
Page #3
--------------------------------------------------------------------------
________________
प्रकाशक- १ श्रीविजयलावण्यसूरीश्वर-है है ज्ञानमन्दिरना कार्यवाहक 卐
श्रेष्ठिवर्य ईश्वरदास मूलचंद, ___ बोटाद, सौराष्ट्र. Erwwwwwwwwws
EEVANAVANIVRUARY
मुद्रकलक्ष्मीबाई नारायण चौधरी निर्णयसागर प्रेस, २६।२८ कोलभाट स्ट्रीट, मुंबई नं. २
vUvYAVALVANIVRUARY
मूल्यम् - रूप्यकपञ्चकम् ।
AQalaaiolololaoooooooooo
looooooolaalac
700000000000000000000000000
प्राप्तिस्थान
[१] श्रीविजयलावण्यसूरीश्वरज्ञानमन्दिर,
बोटाद, सौराष्ट्र.
[ २ ] सरस्वतीपुस्तकभंडार, ठे. रतनपोल, हाथीखाना, अमदावाद. (गुजरात)
Cob0000000000000oooooooooo
2090
Page #4
--------------------------------------------------------------------------
Page #5
--------------------------------------------------------------------------
________________
તોગચ્છાધિપતિ શાસનસમ્રાટ્ સરિચચક્રવર્તી સર્વતન્ત્રસ્વતન્ત્ર
શ્રીકદમ્બગિરિપ્રમુખતીર્થોદ્ધારક પૂજ્યપાદ પ્રાત:સ્મરણીય
ગણિપદ-વિ, સં, ૧૯૬૦
દીક્ષા-વિ. સં. ૧૯૪૫
જન્મ-વિ. સં. ૧૯૨૯
60 ? @LJ1¥
6) શંક ૮૭
3 f6 +21+
વલ્લભીપુર
ભાવનગર
મહુવા
શાસતસપાટ
વલ્લભીપુર માગશર શુદ ૨
ભાવનગર જેટ શુદ પ
પંન્યાસ પદ-વિ. સં. ૧૯૬૦ આચાર્યપદ-વિ.સં.૧૯૬૪ સ્વર્ગવાસ-વિ. સં. ૨૦૦૫
મહુવા
આસો વદ અમાસ
આચાર્યમહારાજાધિરાજ શ્રીમદ્વિજયનેમિસૂરીશ્વરજી
મહારાજ સાહેબ.
嗡嗡嗡555555
edu
Page #6
--------------------------------------------------------------------------
________________
poarsasarasaran
પ્રકાશકીય-નિવેદન. હું
tensesse susrestas ન્યાયવિશારદ ન્યાયાચાર્ય પૂજ્યપાદ મહામહોપાધ્યાય શ્રીમદ્દ યશોવિજયજી મહારાજ વિરચિત જૈનદર્શનના મૂળાધાર અનેકાન્તવાદ
સ્યાદવાદને જણાવતા એવા આ “એનેન્તવ્યવસ્થા-પ્રારા” ગ્રંથનો પ્રથમ વિભાગ, વ્યાકરણવાચસ્પતિ કવિરલ શાસ્ત્રવિશારદ અજોડ વ્યાખ્યાનકાર સાત લાખ લોક પ્રમાણ સંસ્કૃત સાહિત્યના અષ્ટા પ. પૂજ્ય આચાર્યવર્ય શ્રીમદ્ વિજયેલાવણ્યસૂરીશ્વરજી મહારાજ રચિત વિદ્વત્સમાજ અને તત્ત્વરસિક જીવોને બોધ આપનારી “તવોધિની વિસ્તૃતિ” સહિત, પૂર્વે અમારા જ્ઞાનમંદિર તરફથી પ્રકાશિત થયેલ હતો. ત્યાર પછી ઘણું લાંબા સમયે તેનો આ દ્વિતીય વિભાગ પ્રકાશિત કરવામાં આવે છે.
વૃત્તિ સહિત આ ગ્રંથમાં આપેલ વિષયના સ્પષ્ટીકરણ માટે વિશદ વિષયાનુક્રમણિકા આપવામાં આવી છે. તદુપરાંત શુદ્ધિપત્રક પણ આપેલ છે.
આ ગ્રંથના સંપાદક વિદ્વચ્છિરોમણિ પ્રસિદ્ધવક્તા દેશનાદક્ષ પૂજ્યપંન્યાસપ્રવર શ્રીદક્ષવિજયજી ગણિમહારાજ છે.
તથા પ્રસ્તાવનાના લેખક દરભંગામાં આવેલ “મિથિલાસંસ્કૃતમહાવિદ્યાપીઠ” ના પ્રધાન આચાર્ય તાર્કિકશિરોમણિ સર્વદર્શનના રહસ્યજ્ઞ સાક્ષરશિરોમણિ શ્રીયુત શશિનાથઝાજી મહાશય છે.
પ્રાંતે ગ્રંથકાર વાચકવર્ય, ટીકાકાર આચાર્ય મહારાજ, સંપાદક પચાસપ્રવર અને પ્રસ્તાવના લેખક તાર્કિકશિરોમણી એ સર્વેનો અત્ર સબહુમાન આભાર સ્વીકારવાપૂવૅક, અને આવા દર્શનપ્રભાવક અનુપમ ગ્રંથને વિદ્વતસમાજ અને તત્ત્વજ્ઞ જનો આનંદથી પઠન-પાઠનાદિમાં અપનાવે, એવી વિનમ્ર વિજ્ઞપ્તિ કરી વિરમીયે છીયે. I ગુમ એવડુ | શ્રીસ્તુ છે
–
Page #7
--------------------------------------------------------------------------
Page #8
--------------------------------------------------------------------------
________________
॥ ॐ तत्सत् ॥ ॥ सवृत्तिकस्य-'अनेकान्तव्यवस्थाप्रकरण-स्य प्रस्तावना ॥ सुविदितमेवैतत्-विश्वषां सारस्वताम्भोधिनिमग्नान_नल्पदोषकणिकासंस्पृष्टगुणप्रकरललामस्थानमुक्तिजनकज्ञानविषयतत्त्वरत्नजिघृक्षापरानवरताभ्याससमासादितदृढतराबाधितयुक्तिसमष्टयुपेतमनीषायानपात्रास्खलद्गतिपरिभ्रमणसमुपलब्धविवेकानां विदुषां, यदुत अन्यापरिशीलितदोषमोषसमुल्लसितविचारधुरीणनिजेष्टापारकृपापारावा
राप्तप्रवरसंसूत्रितसूत्रभाष्यवार्त्तिकादिग्रन्थसार्थोपदर्शिततत्त्वनिचययुक्तत्वश्रद्धाधना वादिनो निजपक्षविपक्षपरपक्षसमुल्लासितानल्पविकल्पग्रासाभिभवसम्भाव्यमानान्यथाभावशङ्काकलुषितं स्वखाप्तोपदिष्टं तत्त्वप्रकरमन्योन्यं परोपकल्पितविकल्पेषु कश्चिद्ध्यान्ध्यविलसितः, कश्चित् प्रमाणमार्गातीतः, कश्चित्स्वमताग्रहविलसितः, कश्चिदित्थमुत्थाप्यमानोऽयं स्वपक्षमपि परिभवतीति नोद्भावनाहः, कश्चिदनभ्युपगतोपालम्भरूपः, इत्यादितर्कसमुत्तम्भितविचारसार्थपरिकरोपेतप्रत्यक्षादिप्रमाणतोऽन्योपादीयमानदोषगणप्रतिक्षेपपुरस्सरमभ्युपगमसौधशिखरे व्यवस्थापयन्ति, तत्र केचित् यत्परोपदर्शितवपक्षप्रतिक्षेपकमभिभावयितुमशक्यं दूषणगणं तत्र गजनिमीलिकामेवावलम्बन्ते, केचित्पुनर्यादृशी परकीया पदार्थाभ्युपगमव्यवस्था दूषयितुमशक्या तादृशीं तामस्पृशन्तोऽन्यादृशीमेव दूषयितुं शक्यां भवतो येयं व्यवस्थेत्येवं प्रसह्यारोपिता खोत्प्रेक्षितपरकीयसाधनगणसमर्थितां व्यवस्थां प्रतिक्षिपन्ति, तत एव च परमतखण्डननिकरोपेतापातरमणीययुक्तिजालविलसितखमतमण्डनोपजातविस्तारग्रन्थकर्तृत्वेन खोत्कर्षकाष्टां शास्त्ररहस्यानभिज्ञपण्डितम्मन्यजनसमुदाये प्रगुणयन्ति, अपरे पुनः समीचीनतया स्वाप्तोदीरिततत्त्वसाधनप्रवणशास्त्रोद्भावनायैव यतन्ते, अन्ये पुननर्मा नाम सरला कुयुक्तिनिकरोपेतप्रमाणाभाससमुल्लासितानर्थसार्थफलकप्रतारकदाम्भिकादिकुवादिरचितासच्छास्त्रसन्दर्भाभ्यासजातसन्मार्गपरित्यागिनोऽभूवन्नित्यभिप्रायवन्तोऽसच्छास्त्रोक्ततत्त्वखण्डनैकप्रवणमेव ग्रन्थरत्नं प्रकाशयन्ति, तथाभूता एव केऽपि विद्वांसोऽसच्छास्त्राभिमतपदार्थसार्थयथार्थखण्डनपुरस्सरं खाप्ताभिप्रेतयथार्थसमर्थनपरं शास्त्रं रचितवन्त इत्येवं प्रतायमाने सारखताम्बुधितरङ्गप्रचये नियतिवाद-कालवादा-ऽदृष्टवादपुरुषार्थवाद-स्वभाववादान्यतमप्राधान्यं समाश्रित्य, सत्कार्यवादा-ऽसत्कार्यवादसदस कार्यवादा-ऽवयविवाद-परमाणुप्रचयवादा-ऽनिर्वचनीयतावाद-परिणामवाद-विवर्त्तवादत्रिगुणात्मकप्रकृतिसृष्टिवाद-मायावाद-शब्दमयब्रह्मैकतावाद-ऽर्थब्रह्माद्वैतवाद-दृष्टिसृष्टि
Page #9
--------------------------------------------------------------------------
________________
वाद-विशिष्टाद्वैतवाद - शुद्धाद्वैतवाद क्षणिकतावाद - निराकार विज्ञानवाद - साकारविज्ञानमात्रवाद-शून्यवाद-भूतचैतन्यवाद - जीवात्म विभुवाद - जीवाणुवाद - जीवमध्यमपरिमाणवादाद्यन्यतमं समाश्रित्य च प्रत्येकत्रादसमर्थनप्रवणोहापोहसमुल्लसिते सकलन याकूतसमष्ट्यालिङ्गितस्याद्वादप्रमाणराजसाम्राज्यमयः
'द्विविधमनेकद्वादशविधं महाविषयममितगमयुक्तम् । संसारार्णवपारगमनाय दुःखक्षयायालम् ॥ १॥ ग्रन्थार्थवचनपटुभिः प्रयत्नवद्भिरपि वादिभिर्निपुणैः । अनभिभवनीयमन्यैर्भास्कर इव सर्वतेजोभिः ॥ २ ॥
इति तत्त्वार्थ सूत्रभाष्यकृत्कारिकाद्वयोपवर्णितव रूपस्तीर्थकृन्मुखाम्भोजविनिर्गतः श्रुताम्भोधिस्सकला परसार खताम्भोधितरङ्गानभिव्याप्य तन्महातरङ्गो जयति, यस्मिन् - केत्रलालोकावलोकितपदार्थसार्थ प्रकाशके स्वतः प्रतिष्ठितप्रमाणके दोषकणिकासंस्पृष्टशब्दार्थगुणविभूषिते प्रवाहतोऽनादौ तीर्थकृद्भिरपि नमस्कृतेऽनेकान्तवादे एतदुपदिष्टं सकलं तत्त्वं सत्यमेवेत्येकान्तश्रद्धामुपगताः पदवाक्य प्रमाणपारावारवारीणसत्त्वानुग्रहगद्यपद्यात्मकानेकलक्षश्लोकप्रमाणचतुश्चत्वारिंशदुत्तरचतुर्दशशतशास्त्रसूत्रण सूत्रधारा
यमाणविरहपदवीविभूषिता हरिभद्रसूरयोऽनेकान्तमतभक्त्युद्रेकादन्वर्थामनेकान्तजयपताकां प्रकटयामासुः, अनेकान्तमतभक्तिश्च तेषाम्
“पक्षपातो नमे वीरे, न द्वेषः कपिलादिषु ।
युक्तिमद्वचनं यस्य, तस्य कार्यः परिग्रहः ॥ १ ॥ इति
पक्षेनावध्रियते, पक्षपातश्चाग्रहमूलको न तेष्वाग्रहसंश्लेषरहितेषु सद्युक्त्युपपन्नप्रमाणान्तराबाध्यजिनवचनोल्लासच्छुरितहृदयेषु सम्भाव्यते, यतस्तैरेवोक्तम् " आग्रही बत निनीषति युक्तिं, तत्र यत्र मतिरस्य निविष्टा । पक्षपातरहितस्य तु, युक्तिर्यत्र तत्र मतिरेति निवेशम् ॥ १ ॥” इति । सर्वेऽप्यनेकान्ततत्त्वप्रकार समुद्भासन किर्मी रितविधिनिषेधादिनयनिक्षेपा इत्याद्युद्दीपितार्थसार्थसमुच्छलत्तरङ्गजिनवचनोदधिदेशप्रदेशा निरूपिता एवैतैर्महात्मभिरशेमुषीविशेषशालिभिः स्वनिर्मित ग्रन्थनिचयैरित्य पूर्वार्थनिरूपण कर्त्तव्यत्वाभावात्तदनन्तरभाविनां पण्डितसमष्टिमुकुटानां तदुच्छिष्टप्रचारकत्वमापतितमिति नाशङ्कयं तावद्भिरप्यनल्पतत्त्वरत्नप्रकाशकैः शास्त्रैर्जिनवचनैकदेशस्यैव कतिपयप्रकारनिचयस्य समुट्टङ्कनात् तस्याप्यनिरूपितप्रकारप्रकाशकशास्त्रविधातृणामपूर्वोपादेयार्थोपदेशकत्वात्, समग्रजिनवचनोदधिव्याख्यानस्य केनापि कर्तुमशक्यत्वात्, तदुक्तं तत्त्वार्थभाष्यकृता
Page #10
--------------------------------------------------------------------------
________________
"महतोऽतिमहाविषयस्य दुर्गमग्रन्थभाष्यपारस्य । कः शक्तः प्रत्याशं जिनवचनमहोदधेः कर्तुम् ॥ १ ॥ शिरसा गिरिं बिभित्सेदुच्चिक्षिप्सेच्च सक्षितिं दोया॑म् । प्रतितीर्षेच्च समुद्रं मित्सेच्च पुनः कुशाग्रेण ॥ २॥ व्योम्नीन्दु चिक्रमिषेन्मेरुगिरिं पाणिना चिकम्पयिषेत् । गत्याऽनिलं जिगीषेच्चरमसमुद्रं पिपासेच्च ॥ ३ ॥ खद्योतकप्रभाभिः सोऽभिबुभूषेच्च भास्करं मोहात् । योऽतिमहाग्रन्थार्थ जिनवचनं संजिघृक्षेत ॥ ४ ॥ एकमपि तु जिनवचनाद्यस्मान्निर्वाहकं पदं भवति ।
श्रूयन्ते चानन्ताः सामयिकमात्रपदसिद्धाः ॥ ५॥” इत्यादि, तादृगविचारग्रथनपरायणा धीधना अन्येऽपि जिनभद्रगणिक्षमाश्रमणमल्लवादि-सिद्धसेनदिवाकरप्रमुखा महनीयकीर्तयो जिनमतप्रद्योतनैककार्या नय-निक्षेप-मित्यादियथार्थविभजनपरीक्षणाक्षुण्णशक्तयः परवादिसमष्टयाकलितैकान्तवादाखिलप्रकारापहारानुसन्धानसमुल्लसितामितसद्युक्तिसङ्घटितग्रन्थसन्दर्भोक्त्रासितपरवादिमुकुटा बभूवुः, पूर्वमपूर्वचतुर्दशपूर्वादितनुसङ्घटितातनुजिनवचनाम्बुधौ सारस्वताम्बुधिमहातरङ्गायमाणे उत्तरोत्तरानुपमबुद्धिवैभवशालिगुरुपरम्परागतखमतपरमताकूतोपेतशास्त्राध्ययनाध्यापनैकनिष्ठगुर्वाज्ञापरिपालनपरायणतत्तत्समुदायनियमोपेतावस्थितिकविनयादिगुणागारानगारजिनमतश्रद्धेकनिकेतनतीर्थोन्नत्युपायमार्गणदत्तचित्तानल्पमुनिप्रवरपल्लवितशास्त्रनिचयोपचीयमानेऽपि क्रमशो बुद्धिह्रासान्योन्यानुचिन्तनवैमुख्यचतुर्दशपूर्वधराद्युपदेशाभावस्वमतपरमतरहस्यावेदकशास्त्राध्ययनाध्यापनविच्छेदखभक्ताल्पज्ञकतिपयजनानुरञ्जनयोग्यव्याख्याननैपुण्यतदुपयोगिसुबोधाल्पप्रमाणशास्त्राध्ययनाध्यापनप्रचारशिथिलीकृततर्कादिप्रधानगूढाशयोपेतपरिश्रमावबोध्यतत्त्वप्रकरादर्शकशास्त्राध्यापनादिसामर्थ्यादिभाजनमुनिसमाजतो ह्रासनिदानादुत्तरोत्तरमपचीयमाने जैनसङ्घभाग्योदयतो बाल्यावस्थात एव जैनमतरुचिः सांसारिकविषयानासक्तचित्तो जैनसाधुसङ्गतिपरायणो विशिष्टबुद्धिनिधानः सौराष्ट्रदेशान्तर्गतभावनगराधीशामोदस्थान-जीवत्स्वामिनामकश्रीवर्द्धमानजिनेन्द्रापूर्वप्रभाभासुरमूर्तिमन्दिरोपेतमहुवा-ऽपराभिधानख्यातमधुपुरनगरासमुद्रभूतलव्याप्याकल्पस्थायिप्रसिद्धिजनको जिनमतमात्रस्वीकृतिधामवीशाश्रीमालीवणिक्कुलावतंसलक्ष्मीचन्द्र-दीपालीजनकजनन्यमन्दानन्दसमुल्लासको नेमचन्द्राभिधानः
Page #11
--------------------------------------------------------------------------
________________
४
कतिपयवर्षांणि यावद् गृहवासस्थितिमनुभूय ततो विरक्तो जैनीं दीक्षां प्रसिद्ध "बुटेराय जीत्यपराभिधान' बुद्धिविजय' शिष्यतपागच्छालङ्कारवृद्धिचन्द्राभिधानप्रसिद्धवृद्धिविजयाद् मुनिवराज्जग्राह गुरुकृतेन 'नेमिविजय' इति नाम्ना लोके प्रसिद्धोऽभवत्, दीक्षाग्रहणसमनन्तरमेव मुनि कर्त्तव्यावश्यक नित्यकर्मप्रतिक्रमणाद्यनुष्ठानपरायणो भूत्वा स्वकीयकर्मग्रन्थाद्यध्ययनपुरस्सरं पाणिनीय व्याकरणं कौमुदीमनोरमाभूत्यादिकं क्रमशोऽधीतवान्, तदनु श्रीसिद्धहेमचन्द्रशब्दानुशासन- बृहद्वृत्तिमपि समधीतवान्, न्यायवेदान्तादिदर्शनकृतपरिश्रमः प्रत्यहं विविधदृष्टान्तोपेतविशिष्टसाधुचरितशास्त्रार्थव्याख्यानेन जैनसङ्घ वैष्णवादिकञ्च जैनमतरुचिप्रत्यलं चकार, इत्थं लोकोपकारकत्वेन लोके प्रसिद्धतरतामुपगतस्य जैनमतोल्लासकस्य तस्य गुणगणाकृष्टाः बहवः श्राद्धाः श्रेष्ठिनः परमभक्ता बभूवुः, तदुपदिष्ट जैनधर्मोन्नतिकारकप्रत्येकवणिक्समाजावस्थानग्रामाभिनवजिनमन्दिरनिर्मिति- जिनेश्वर प्रतिमाप्रतिष्ठापन-जीर्णोद्धार-जैनसङ्घप्रतिक्रमणादिधर्मक्रियाकरणोपयोगिधर्मालय-मुनिगणाव
स्थितिव्याख्यानाविघ्नस्थानोपाश्रय-दीन वणिग्जनरक्षण-तद्धर्माध्ययनाध्यापनाद्युपयोगिपुस्तकागार - शिक्षकमासिक शुल्का दिप्रदान - तीर्थयात्रादिकरणेषु यथासाध्यधनोपयोगिनश्च संवृत्ताः, शास्त्रोक्तचातुर्मासिकैकग्रामावस्थितिसमयव्यतिरिक्त समय नियमितावस्थितिविहरणायाततत्तद्भामानवच्छिन्नख समय पर समयोल्लसितसद्युक्तिनिकरानन्दाधायकदृष्टान्तसमष्ट्यलंकृतभववैराग्योद्दीपकमुक्तिमार्गौला सकतदीयव्याख्यानश्रवणोपजातभववैराग्यभाजश्च कुलशीलसम्पन्नास्ततो जैनीं दीक्षां परिगृह्य धर्मध्यानपरायणा अभूवन् । स्वर्गं तेच गुरौ वृद्धि विजये तत्प्रथमशिष्यं पन्यास 'गम्भीर विजय' गणिप्रवरं ज्येष्ठभ्रातरं बहुमानपुरस्सरं तत्परिशीलितकर्मग्रन्थार्थापूर्व विचारपर्यालोचनेनानुरञ्जयन् तत एव योगोद्वहनपुरस्सरं वल्लभीपुरे राज्ञः श्रावकाणाञ्चात्याग्रहात्तदानन्दकन्दोल्लास कं चतुर्विधसङ्घसमक्षं पन्यासपदं गणिपदञ्च जग्राह स्वयञ्च विनीतायैकान्तभक्ताय विविधकर्मग्रन्थादिविचारसागराय ' आनन्दसागराय गणिपदं ददौ,' स चानेन सहैव विहरन् तीर्थयात्रादिकञ्च कुर्वन् बहुसमयमेतत्सङ्गतिमासाद्य लोके प्रसिद्धोऽभवत्, एवं विहरमाणस्य प्रतिग्रामं जैनधर्मोन्नतिं कुर्वतोऽस्य पन्न्यासनेमिविजयगणिप्रवरस्यैकदैवम्मतिरुत्पन्ना - श्रीसिद्धसेनदिवाकरनिर्मितस्य सम्मतितर्कस्य यदि समीपस्थग्रामान्तरेऽध्यापनं शास्त्रपारावारपारीणेन जैनेन तदितरेण वा क्रियते तदा चतुर्मासेऽपि तदध्ययनार्थमवश्यं गन्तव्यं 'जैनसाधुभिः, नात्र शास्त्राज्ञाविलोपः, इत्थं महत्त्वोपेतस्यास्याध्ययनाध्यापनादिकमवश्यं प्रचारणीयम
Page #12
--------------------------------------------------------------------------
________________
स्माभिः, येन जैना अपि विद्वांस एतद्न्थाध्याफ्नसमर्था भवेयुः, ततो जैनमतोंयोतकमिदं सम्मतिप्रकरणं न कोऽपि जैनः पाठयितुं समर्थ इत्यहो पाण्डित्यमेषामित्युपहासोऽपि विलीयेत, किन्तु महावादार्णवस्य परमतप्रश्नप्रतिविधानोल्लसितजैनमतसमर्थनप्रवणस्यास्याध्ययनयोग्यतैव नास्तीदानीन्तनानां जैनसाधूनाम् , तत एव-'उदयनादिनैयायिकमतानभिज्ञाः कर्मग्रन्थाद्यर्थाभिज्ञा अपि महनीया यशोविजयोपाध्यायोल्लिखितं 'तथा चोदयनो जगौ' इति पद्यचरणं कर्मण उदयादित्थम्भवतीत्यकथयदित्यर्थकतया वर्णयन्ति । _परमतावगतये तर्कसंग्रहस्य मुक्तावलीमात्रस्यं चेदानीमध्ययनं यत्प्रचलति जैनसाधुसमाजे, ततः सम्मतितर्काध्ययनयोग्यता न सम्पद्यते, ततो दिनकरीरामरुद्रीकलितमुक्तावलीग्रन्थस्य तत्त्वचिन्तामणेरनुमानखण्डस्य पञ्चवादस्य वेदान्तादिमतस्याध्ययनं तत्सम्पत्तये कर्तव्यमित्येवं विचारारूढो हठीसिंहात्मजश्रेष्ठिप्रवरजयसिंहाग्रहतो राजनगरे (अहमदावादे) जैनसमाजव्याप्तानेकप्रकारावाससङ्कले प्राचीनात्यन्तोन्नतातिरमणीयप्रस्थरसमुल्लासितचतुर्विंशतिजिनानल्प. रत्नदेदीप्यप्रतिभासमलङ्कतबहुविधप्रासादोल्लसितप्रकाशे पाँजरापोलेल्याख्याप्रसिद्धतदैकदेशे बहुमानपुरस्सरं चातुर्मासिकी स्थितिमाससाद, तत्रत्या 'मनसुखभाई भगुभाई, लालभाई दलपतभाई'-प्रभृतयो नगरप्रेष्ठिप्रमुखास्तीर्थराजपाद लितादिरक्षणार्थोपकल्पित 'आनन्दजी कल्याणजी-संस्थानिरीक्षकप्रधानास्तदीयापूर्वव्याख्यानश्रवणसञ्जाततद्भक्तिलीनास्तत्तत्तीर्थरक्षणादिजैनधर्मोन्नतिविचारे तेन सहैकवाक्यतामुपादायैव तदुपदिष्टकर्तव्यमार्गपरायणा बभूवुः, श्रेष्ठी मनसुखभ्राता च तदीयस्वपरसमयापूर्वपुस्तकनिचयोपचयार्थावश्यकर्त्तव्यतल्लेखनाभिप्रायपूरणाय तल्लेखनार्थमागतेभ्यो लेखकेभ्यः श्लोकप्रमाणनियमितद्रव्यप्रदानतस्तदभिप्रेतं लेखकद्वारा सम्पादयामास, यद्यप्यन्येऽपि श्राद्धास्तद्भक्तिनिरतास्तदभिप्रेतं सम्पादयामासुरेव, अतिकृपणोऽपि तदुपदेशमाकर्ण्य तथाविधे जैनमतोन्नतिकर्मणि यथासाध्यं द्रव्यव्ययमकुर्वदेव, तथापि मनसुखभ्रातुरुपदेशमन्तराऽपीत्थं प्रवृत्तिः, वशिष्यपरशिष्यानविशेषेण व्याकरणन्यायादिशास्त्राण्यध्यापयतोऽप्यस्य प्रतिदिनं व्याख्यानं स्वसमीपागतश्राद्धधर्मप्रतिबोधनं तीर्थप्रवरसिद्धाचलादिरक्षणादिविचारार्थमागतैः श्रेष्ठिप्रवरैस्सह राजनीतिपरिशोधनं च कुर्वतो मा भवतु परिश्रमातिशयोऽध्येतृणाञ्च मुनिप्रवराणां प्रतिदिनं निर्विघ्नं भवतु खाध्याय इत्युपात्तबुद्धिः श्रेष्ठिप्रवरो मनसुख
Page #13
--------------------------------------------------------------------------
________________
भ्राता वैयाकरण-नैयायिकादीन् पण्डितप्रवरान् समुचितवेतनप्रदानेन तदध्यापनसहायकत्वेन तत्समीपे नियोजितवान् ।
ततो विहारे मार्गगतेऽपि ग्रामे साधूनामध्ययनप्रचार आसीदेव, ततो प्रामाद्रामान्तरं गच्छन् स्तम्भतीर्थ-(खम्भात )-ग्रामं तत्रत्यश्राद्धैः प्रतिमाप्रतिष्ठापनार्थ चातुर्मासावस्थानार्थमत्यन्ताग्रहतो गतवान् , तदीहिताखिलकार्यनिष्पत्त्यनन्तरं क्रमेण विहृत्य सौराष्ट्र नगरप्रधानं जैनमतनिरतानां वणिजामावासस्थानं राज्ञा भावसिंहेन परिपालितं भावनगरं ज्येष्ठगुरुभ्रातुः पन्यासगम्भीरविजयगणिप्रवरस्य दर्शनार्थ ययौ, बहुकालादन्योन्यदर्शनत उभयोरप्यानन्दसमुल्लासः समजनि, श्रावकाणाञ्चाभ्यर्थनया ज्येष्ठभ्रातुरनुज्ञया च तत्रैव चातुर्मासकर्तव्यतानिर्णयो जातः, तत्र प्रतिदिनमपूर्वापूर्वालोचनधर्मोपदेशमयव्याख्यानं प्रतिक्रमणादिकरणानन्तरं रात्रौ पन्यासगम्भीरविजयगणिना समं शास्त्रविचारपल्लवीकरणं शिष्याणामधीततत्तद्रन्थसम्यग्ज्ञानपरीक्षणं खदर्शनवन्दनार्थसमागतकर्मग्रन्थाद्यभिज्ञश्रावकप्रवरजिज्ञासितसन्दिग्धार्थयथार्थनिर्णयं कुर्वतोऽस्य सर्वतः पाण्डित्यं सर्वथा जैनधर्मरक्षणसामर्थ्य चालोक्यायमेवास्माकं सूरिभवितुमर्हतीति मनसि निश्चित्य पं० गम्भीरविजयगणिः तत्रत्यान्सर्वान् मुनिप्रवरान् श्रावकप्रवराँश्चाहूय तस्मिन् विषये तैस्सममेकवाक्यतामभिनीय भवानेव सूरिपदं गृह्णात्वित्येवं वदन्तमपि नेमिविजयं सर्वानुमत्या महता प्रयासेन सूरिपदग्रहणाभिमुखं चकार 'जयतु जयतु भगवान् आदीश्वर' इति खीकारावबोधिकां जयघोषणां कृतवन्तः श्रावकाः, तत्प्रातरेव ज्योतिर्विद्भिनिर्णीते तत्प्रदानमुहूर्त तत्रत्यश्रावकप्रवरैरामन्त्रणपत्रद्वाराऽऽमन्त्रिता राजनगरादिवासिनो मनसुखभ्रातृप्रवरादयो देशान्तरीयाश्चान्ये समीपग्रामगताश्च साधुसाध्वीप्रभृतयस्त्वरितं तत्र समागताः, प्राप्ते च तस्मिन् सुमुहूर्त सोत्सवं चतुर्विधसंघसमक्षं विधिविधानपुरस्सरं सूरिमन्त्रप्रदानपूर्वकं सूरिपदारोपणं तस्य मुनीन्द्रस्य नेमिविजयस्य कृतवान् पन्न्यासगम्भीरविजयगणिः, सुगन्धामोदवासक्षेपप्रदानञ्च तच्छिरसि कृतवन्तः साधु-साध्वी-श्रावक-श्राविकाजनाः, नेमुश्चाभिनवं तं सूरिं पं० गम्भीरविजयगणिना सह ते सर्वेऽपि, विशिष्टं व्याख्यानञ्च दत्तवान् विजयनेमिसूरिः, तस्मिन्दिने सर्वत्र जैनमन्दिरे पूजोत्सवोऽभवत् , तत्रागतेभ्यः पण्डितेभ्यो यथायोग्यं द्रव्यप्रदानं संघवात्सल्यञ्चाभवत् ,सूरिश्च तद्दिनं सूरिमन्त्राराधनादिनाऽनयत् , ततः पन्यासप्रवरानुमोदितविहारस्याचार्यप्रवरविजयनेमिसूरेस्तीर्थराजसिद्धाचलमुद्दिश्य गन्तुकामस्यानुकूल्यमभिलषन्तः श्राद्धाः सिद्धाचलतीर्थयात्रार्थमामन्त्रितानां
Page #14
--------------------------------------------------------------------------
________________
साधुसाध्वीश्रावकश्राविकाणां सम्मेलनेनैकं सङ्घपतिं कृत्वा विजयनेमिसूरीश्वरमप्रे प्रयान्तमनुगच्छन्तः कतिपयदिवसैः पादलिप्तपुरं प्रविविशुः, तत्र सङ्घन सह सिद्धाचलशिखरमारुह्य तत्र प्रतिमन्दिरं जिनेश्वरमूर्तिदर्शनतत्स्तुत्यादिकं शिष्यैरन्यसाधुसाध्वीभिश्च सह चकार श्रीविजयनेमिसूरिः,श्रावकश्राविकाश्चाक्षतपुष्पादिभिरर्चनं चक्रुः, इत्थमेव प्रतिवर्ष तीर्थयात्राऽपूर्वग्रामचातुर्मास्यवस्थानादिकमस्याभूत् इत्थं विहरतोऽस्य मार्गागते यत्र यत्र ग्रामे एकदिवसमध्यवस्थानं तत्र तत्र शिष्याणां व्याकरणन्यायादिशास्त्राध्ययनं पण्डितद्वाराऽभवदेव, श्रीहेमचन्द्रसूरिनिर्मितव्याकरणमुद्रण-तत्परिशोधनेऽभूतामेव, एवं श्रीमद्यशोविजयोपाध्यायविरचितन्यायालोक-वर्द्धमानस्तवटीकाखण्डनखाद्यादेः परितः शोधनपूर्वकं मुद्रणमभवदेव, यदा यदा व्याख्यानादिकार्यकरणानन्तरमवकाशो भवति तदा तदा शिष्याणामध्यापनं पठितग्रन्थसम्यग्ज्ञानपरीक्षणं प्रारब्धनिर्माणंहेमप्रभाव्याकरणनिर्माणञ्चाकरोत्, कदम्बगिरितीर्थोद्धरणार्थञ्च तन्निकटवासिभ्यस्तद्भमिस्वामिभ्य उपदेशेन तदुपयुक्तभूभागसम्प्रदानत्वमभिनवोपकल्पितजिनदासधर्मदाससंस्थानियुक्तश्रावकप्रवराणामास्थाय तत्राधो देशे तत्कार्यपरायणानां तत्कार्योपयोगिगृहं साधूनामवस्थानव्याख्यानाद्यालयं जैनसङ्घावस्थानोपयोगिनीं धर्मशालां कदम्बगिर्यपरिभागेषु च जिनमन्दिराणि च कत्तुं तत्स्थानप्रधानाः प्रयत्नवन्तो बभूवुः, तदुन्नत्यैकदत्तचित्तश्च सूरिप्रवरो यत्र कुत्रापि ग्रामे स्थितो विहरन् वा दर्शनार्थमागतान् श्रेष्ठिप्रवरान् तथोपदिदेश यथा ते जिनदास-धर्मदाससंस्थाप्रधानाध्यक्षान्प्रति विशिष्य तत्तत्कार्यनिष्पत्तिप्रत्यलानि द्रव्याणि प्रेषयामासुः, तत्तजिनबिम्बानि विशिष्टजातीयप्रस्तरैर्निर्माय जयपुरवासिनःशिल्पकलाकुशलास्तत्समीपमानयामासुः, परीक्षितानि च तानि यथायोग्यमूल्यप्रदानेन गृहीत्वा तत्रत्यश्रेष्ठिनो जिनदासधर्मदाससंस्थायां प्रेषयामासुः, इत्थमुत्तरोत्तरं प्रतिवर्ष तत्तत्कार्यनिष्पत्तितो वृद्धिमुपगते प्रभूतमन्दिरोपजातविशिष्टप्रभावे कदम्बतीर्थे भूयो भूय आगत्य तत्तजिनबिम्बप्रतिष्ठाकरणोत्सुकानेकवेष्ठिप्रवरद्वारा प्रत्येकं मन्दिरेषु जिनबिम्बप्रतिष्ठां कारयामास श्रीविजयनेसूरीश्वरः।
इत्थं जैनधर्मोन्नतिं विदधानस्यास्य क्रमेण बहवः शिष्या व्याकरणन्यायादिशास्त्रनि. ष्णाता अभूवन् , तेभ्यश्च योगोद्वहनादिपुरस्सरं गणिपदं पन्यासपदं च ददौ, तेष्वपि च ये तत्तच्छास्त्रेषूहापोहसमर्थाः स्वसमीपमागतान् श्रावकांश्च प्रतिबोधयितुं निपुणाः पण्डितसभायां च प्रतिवादिभिः समं शास्त्रार्थ कृत्वा तान्पराजित्य अहोपाण्डित्यकाष्ठा
Page #15
--------------------------------------------------------------------------
________________
मारूढोऽयम्'-इत्येवं विद्वद्भिस्सम्मानिता व्याख्यानविदग्धा अभिनवशास्त्रग्रन्थनपरिनिष्ठितबुद्धयश्चतुर्विधसङ्घ जैनमार्गे व्यवस्थापयितुं प्रगल्भाः, तेभ्यःक्रमेण सङ्घसमक्षं महोत्सवोल्लसितसूरिमन्त्राराधनपुरस्सरं सूरिपदं प्रददौ, ते च सूरीश्वराः सूरिचक्रचक्रवर्तिगुरुवरविजयनेमिसूरिश्वराज्ञया 'स्वशिष्यपरिवृताः पृथक् पृथक् विहारं चक्रुः, कदाचित् कदाचित्समुपस्थिते तीर्थयात्रा-जिनदेवप्रतिष्ठादिजैनधर्मोन्नतिप्रसङ्गे गुरुवरसमीपमप्यलञ्चक्रुः; एतत्समकालं च सङ्घन सह केसरियाजीतीर्थयात्रानुभवनं मेदपाटे, जेसलमेरतीर्थगमनं मरुदेशे, सिद्धाचलतीर्थयात्राकरणं पुनः स्तम्भतीर्थविभावनं तत्रत्यप्रतिष्ठादिकरणं, पुनः सङ्घपति-माणेकालमनसु. खभ्रातृसमुल्लासितसङ्घाग्रगमनोपलब्धसिद्धाचलायनेकतीर्थयात्रादिसम्भावितात्यन्तजैनधर्मोन्नतिसम्भूतमानवजन्मसाफल्यमेतत्सर्वं सम्पाद्य कृतकृत्यस्य श्रीविजयनेमिसूरेर्विद्वद्गणमुकुटताभिव्यञ्जकस्तन्निर्मितग्रन्थरत्नसमुच्चयो यथा-न्यायसिन्धुप्रकरणम् १, प्रतिमामार्तण्डः २, स्पृश्यास्पृश्यनिर्णयः ३, श्रीयशोविजयोपाध्यायकृतवर्द्धमानस्तवव्याख्यारूपखण्डनखाद्यस्य विवरणम् ४, श्रीयशोविजयपाध्यायकृतन्यायालोकस्य विवरणम् ५, पूर्वार्धात्तराोपेतं नयोपनिषत्प्रकरणम् ६, सप्तभङ्गयुपनिषत्प्रकरणम् ७, सूत्रतद्व्याख्यानाकलितं अनेकान्तोपनिषत्प्रकरणम् ८,टीकोपेतसम्मतितर्कव्याख्यानम् ९, बृहद्धमप्रभाव्याकरणम् १०, लघुहेमप्रभाव्याकरणम् ११, इत्यादि, __ 'आनन्दजी कल्याणजी संस्थासंरक्षकप्रधानमनुमुखभातृभगूभातृलालभातृदलपतमातृप्रभृतिजैनधर्मोन्नतिनिरतश्रावकप्रमुखविविधान्योन्योपनीततर्कवितर्कगर्भप्रश्नप्रतिविधानकिर्मीरितगम्भीरविचारोल्लासितशास्त्रनीतिराजनीत्यविरोधास्पदजैनधर्ममार्गोपदेशपरायणस्य समस्तप्रमेयव्यापकनामादिनिःक्षेपचतुष्टयान्तर्गतस्थापनानिक्षेपसमर्थकानेकदृष्टान्तकान्तोपदेशावर्जितजिनप्रतिबिम्बभक्तिभाजनदुण्ढकमतत्यागपुरस्सरस्वीकृतश्वेताम्बरमूर्तिपूजकमतानेकग्रामजनजिनमूर्तिदर्शनतत्पूजनप्रतिदिनकर्त्तव्यतासौलभ्यनिदानश्रावकावासकलोलादिग्रामगतजिनमन्दिरजिनप्रतिबिम्बप्रतिष्ठादिजैनधर्मोन्नतिविधानप्रभावितकीर्त्तिवातस्य मायाविप्रलब्धजैनकुलोत्पत्तिमात्रप्रयोज्यजनताभिमानभाजनाल्पज्ञकतिपयजनकर्तृकतीर्थकरप्रतिमा समाव॑स्तुतिवन्दनाद्यारोपितखगताभिनवतीर्थकरत्वागमानभिज्ञजैनमताशातनालम्पटधूर्तशिरोमणिसम्पर्कसम्भाव्यभावजैनसङ्घोपहासदूरीकरणप्रभावदेदीप्यमानामितप्रतापस्य विहारक्रमायातानेकग्रामगतपरस्परवैमत्योपजातनानाप्रकारविरोध
Page #16
--------------------------------------------------------------------------
________________
कलुषितश्रावकसमष्टयैकमत्यसम्पादनसम्पादितविरोधापहारपूर्वकसङ्घवात्सल्योपचय- : निमित्तोपदेशोल्लासितकारुण्यपारावारस्य बहुविधकामनासमृध्योयातभावनगराधीशादितत्प्रधानप्रभृतिकर्तृकप्रमाणकुशलादिपृच्छापूर्वकान्यानिवर्त्यबहुकालजिज्ञासितोपनीतानेकप्रकारप्रश्नविषयीकृतपदार्थसार्थसम्यगावेदनोल्लासितान्तिकस्थनृपादिगतजैनमतश्रद्धातिशयाभिवर्धितसमीहितसिद्धिप्रभावितजगद्गुरुताभाजनस्य विशिष्टपुरुषदिदृक्षोपगतपण्डितप्रकाण्डभारतजनस्वातत्र्यैककार्यपरायणकाशीविश्वविद्यालयोल्लासकविशिष्टविचारसागरमहामनादिबिरुदविराजितदेशनेतृप्रवरमदनमोहनमालवीयानेकविद्यानिधाना-ऽऽनन्दशङ्करध्रुवप्रभृतिकर्तृकनानादर्शनविचारपूर्वकविश्वविद्यालयोन्नतिसाधनाध्ययनाध्यापनसम्यक्प्रचारानुकूलशिक्षणवैशिष्टयनिरीक्षणार्थकाशीविश्वविद्यालयागमनाभ्यर्थनापरिभावितापूर्वपाण्डित्यस्य सूरिचक्रचूडामणेराचार्यविजयनेमिसूरीश्वरस्य पट्टालङ्कारा विजयदर्शनसूरि-विजयोदयसूरि-विजयनन्दसूरि-विजयविज्ञानसूरि विजयपद्मसूरि-विजया- . ऽमृतसूरि-विजयलावण्यसूरि-विजयकस्तूरसूरयोऽष्टावाचार्यास्तदीयाज्ञाप्रतिपालनपरायणास्तत्कामितोत्तरोत्तरजैनधर्मोन्नतिप्राचीननवीनजैनाचार्यप्रणीतशास्त्राध्यापनकुशला न्यायादिदर्शन-व्याकरण-साहित्यमननपरिनिष्ठितबुद्धयोऽन्यानुच्छिष्टाभिनवग्रन्थरचनपटवो निजपरदर्शनाभिज्ञविद्वजनसदसि वादिप्रतिवादिभावेन मल्लप्रतिमल्लन्यायेन शास्त्रार्थसङ्ग्राममुररीकृत्यानेकान्तमतेनैकान्तमतं प्रतिक्षिपन्तो विजयन्ते ।
तेषां मध्ये आचार्यविजयदर्शनसूरिर्विशेषतो नव्यन्यायप्रवीणोऽपि खदर्शनपरदर्शनाध्ययनाध्यापनोपजातपाण्डित्यप्रकर्षः स्याद्वादबिन्दु-खण्डनखाद्योपेतमहावीरस्तवप्रकरणटीका-न्यायालोकटीका-श्रीमदुदयसूरिकृतत्रुटितांशपूरणोपेतश्रीमद्यशोविजयोपाध्यायकृततत्त्वार्थप्रथमाध्यायविवरणटीका, सिद्धसेनदिवाकररचितसम्मतितर्ककारिकाटीका,इत्येवं ग्रन्थनिचयं जैनमतसुखावबोधाय रचितवान् । - आचार्यविजयोदयसूरिस्तु प्राचीनन्यायविशारदो नवीनन्यायोपनीततत्त्वसमष्टयभिज्ञोऽखिलदर्शनप्रवेशकुशलबुद्धिनिधानो यावन्तो हस्तलिखिता मुद्रिताश्च जैनागमा उपलभ्यन्ते तेषां सर्वेषामादित आरभ्यान्तपर्यन्तं गुरुसकाशात्स्वयञ्च पूर्वापरपर्यालोचनपुरस्सरं पदार्थव्याक्यार्थभावार्थानवगत्य निरन्तरं स्वसमुदायपरसमुदायस्थसाधुसाध्वीवृन्दं तत्त्वजिज्ञासून श्रावकान् तदितरांश्चाध्यापयन् आगमज्ञानां शिरोमणिरेव सम्भूतः, यः कोऽपि स्वसमुदायगतः परसमुदायगतो वा विद्वान् साधुप्रवरो यस्मिन् कस्मिन्नप्यागमगूढार्थे सन्दिहानः पृच्छति स्म तं तत्तद्विषयपरि
Page #17
--------------------------------------------------------------------------
________________
स्फुटावेदनेन तथा निस्सन्दिग्धं विदधाति स्म यथा गुरुमेवैनं स जानाति स्म, ज्योतिर्विदग्रणीरप्ययं देवप्रतिष्ठा-दीक्षादिमुहूर्त्तान्यप्यावेदयति, परमगुरुभक्तस्तदुपदिष्टजैनधर्मोन्नतिविधायककार्यकरणत एवाध्ययनाध्यापनाद्यवशिष्टमपि प्रतिदिनं समयं यापयति स्म, ग्रन्थशोधनादिकमप्येतत्कर्त्तव्यमेव, एतावताऽपि जिनवचनमहोदधिस्समुच्छलत्तरङ्ग एतत्कर्तृकश्रीयशोविजययोपाध्यायरचिततत्त्वार्थप्रथमाध्यायविवरणत्रुट्यदंशपरिपूरणादिकृत्येनाराधितो विजयतेतराम् , स्वशिष्यप्रधानविजयनन्दनसूर्युपरि निहितसकलविधेयधर्मकार्यभारस्यास्य नेत्ररोग एवाभिनवग्रन्थरचनाप्रतिबन्धकः संवृत्तः।
आचार्यविजयनन्दनसूरिस्त्वधीतन्यायादिशास्त्रोऽभिनवकल्पनासूत्रणसूत्रधारोऽतिसूक्ष्मनिरीक्षणोपादितधर्माङ्गविहिततिथिनिर्णयो यावत्स्वगुरुप्रवरगुणसम्पन्नोऽनुपममेधावी शास्त्रार्थे निर्भीकोऽमलशास्त्रतत्त्वगूढरहस्यावेदनत आनन्दयति सुरनन्दनवद्विबुधवृन्दम् , प्राचीननवीनखमतपरमतगूढाभिप्रायावगतिनिरन्तराभ्यासरसिको निजाभ्याससमागततत्त्वजिज्ञासुकर्मग्रन्थादिप्रवीणसाधुश्रावकादिकं यथासमयं प्रतिबोधयन् जैनमतसमुन्नतिपरो जिनवचनमहोदध्युपासनकनिरतोऽणुमात्रजनमताशातनकर्तृन् प्रतिक्षिपन् वैवखत इवोग्रप्रतापः शमादिगुणनिधानोऽपि दरीदृश्यते ।
अन्येऽपि च विजयामृतसूरिप्रभृतयो व्याकरणन्यायादिग्रन्थाध्ययनाध्यापनादिनिपुणा जिनवचनाम्बुध्यवगाहनपरिप्राप्तनवतत्त्वचिन्तामणयो यथासमयं भगवतीसूत्रादिसविधिव्याख्यानतश्चतुर्विधसङ्घ जैनमतैकश्रद्धाप्रवणं कुर्वन्तो विहरणागततत्तद्रामेषु सदुपदेशद्वारा जिनमन्दिरजिनप्रतिमादिप्रतिष्ठादिकं धर्मोन्नतिनिबन्धनं कारयन्तस्तीर्थयात्रादिकं च पल्लवयन्तो विजयनेमिसूरीश्वराज्ञापरिपालकाः संवृत्ताः।
तत्त्वबोधिनीविवृतिकर्तृपरिचयः सौराष्ट्रान्तर्गते बोटादनगरे वीशाश्रीमालज्ञातीयो 'जीवनकाल'नामा श्राद्धप्रवरः, तस्य 'अमृत' नामा धर्मपत्नी, तया पूर्वमेकस्तनयोऽजनि, यस्य 'ठाकरशी' इति नाम, तदनु एका बालिकाऽजनि, यस्याः 'शिव' इति नाम, तदनु १९५३ तमे विक्रमाब्दे भाद्रबहुलपञ्चम्यामेकस्तनुजोऽजनि, यस्य 'लवजी' इति नाम, अनेन पूर्वजन्मार्जितपुण्यवशादष्टादशे वर्षे विश्वविख्यातजैनाचार्यप्रवरश्रीमद्विजयनेमिसूरीश्वरपार्श्वे प्रव्रज्या गृहीता, 'लावण्यविजय' इति नाम च निरमायि ।
व्याकरण-न्याय-साहित्यागमादिविविधशास्त्राण्यधीयानाय विहितपञ्चचत्वारिंशदागमयोगाय योग्याय प्रज्ञानिधानायास्मै गुरुप्रवरेण शास्त्रविहिता प्रवर्तकपदवी
Page #18
--------------------------------------------------------------------------
________________
गणिपदवी पन्यासपदवी वाचकपदवी आचार्यपदवी च क्रमेण प्रदत्ता, तत्रापि वाचकपदवीप्रदानावसरे व्याकरणवाचस्पति-कविरत्न-शास्त्रविशारद' इति पदवीत्रयमपि प्रसन्नेन गुरुप्रवरेण प्रादायि ।।
अयं चाचार्यविजयलावण्यसूरिः चित्रनिर्माणकलाकुशलोऽधीतविजयनेमिसूरिनिर्मितबृहद्धेमप्रभाव्याकरणः सम्यक्परिभावितहैमशब्दानुशासनो न्यायादिदर्शनान्तर्गतावश्यकमुक्तावल्यादिग्रन्थसार्थाध्ययनोत्पादितसर्वदर्शनप्रवेशशक्तिः साहित्ये गुरुप्रवरविजयनेमिसूरीश्वरशिक्षणप्रभावावलम्बनेन कृतभूरिपरिश्रमो वार्षिकान्तरालिकपठितापठितग्रन्थलेखपरीक्षायामन्येभ्यः परीक्ष्येभ्योऽखिलविषयलब्धाङ्ककीकरणोपजाताधिकाङ्केन परीक्षोत्तीर्णप्राथम्यासादितगुरुहस्तप्रदत्तपुस्तकरत्नोपहारो वाक्यैकवाक्यतानीतास्खलद्गतिसङ्गतिकविशिष्टदृष्टान्तप्राचुर्यभाजनानेकागमविषयसुखावबोध्यार्थनिकरकरम्बिताविच्छिन्नप्रवाहशालिव्याख्यानधुरन्धरो नियमितसमय प्रतिदिनव्याख्यानश्रवणोपजातजिनमतश्रद्धातिशयोपनीतविविधश्रुतविदितजैनधर्मरक्षणोपयुक्तद्रव्यदानार्थाहम्पूर्विकाप्रवृत्तदानशौण्डीर्यश्रेष्ठिगणमुकुटपूजितपादपद्मो विनीताध्ययनैकपरायणानुपमप्रतिभासम्पन्ननित्यविहितकर्मानुष्ठानशीलान्तेवासिमुनिजनापरित्यक्तपार्श्वः सारस्वताम्बुधिनिमग्नहृदयस्सारस्वताम्बुधिकल्लोलतरङ्गायमाणवादिप्रतिवादिसूक्ष्महृदयङ्गमतर्कवितर्काकलितस्वस्वसिद्धान्तानुसारिशास्त्रार्थसमुद्गततत्त्वरत्नप्राप्यानन्दितचित्तोऽस्ति । अस्य साहित्यभावनोद्गतामन्दप्रकाशरूपाप्राथमिकी तिलकमञ्जरी व्याख्याकृतिः १,अनधीतव्याकरणनैयायकादीनां परस्मैपदात्मनेपदोभयपदविवेकोपसर्गसम्बन्धादिकृतवैलक्षण्यानभिज्ञानामधीतव्याक. रणानामपि मन्दप्रज्ञानां धातुरूपावगतिसौलभ्यकारी धातुरत्नाकरः २, सन् घटः सन् पट इत्यादिप्रतीतो भासमानमनुगतं सत्त्वं न नैयायिकाद्यभिमतं परसामान्यं, नापि बौद्धाद्यभिमतमर्थक्रियाकारित्वं, नापि वेदान्त्यभिमतमद्वितीयब्रह्मरूपं, नापि साङ्ख्यायभिमतं सत्त्वरजस्तमस्स्वरूपत्रिगुणात्मकत्वं, तनिराकरणयुक्तीनां सम्मत्यादावुपदर्शितत्वात्, किन्तूत्पाद-व्यय-ध्रौव्यात्मकत्वं, सर्व वस्तु प्रतिक्षणं पूर्वपर्यायरूपेण विनश्यति वर्तमानपर्यायरूपेणोत्पद्यते पूर्वापरपर्यायानुस्यूतद्रव्यरूपेणावतिष्ठते, एतदेव अष्टसहस्याम्
'घटमौलिसुवर्णार्थी, नाशोत्पादस्थितिष्वयम् । शोकप्रमोदमाध्यस्थ्य, जनो याति सहेतुकम् ॥ १ ॥
इति पद्येन निर्णीतम् ।
Page #19
--------------------------------------------------------------------------
________________
. अस्य पद्यस्यायमर्थः यस्य सुवर्णद्रव्यस्य घटपर्यायात्मना यस्मिन् क्षणे यो नाशस्तत्र घटार्थी जनः शोकं याति-प्राप्नोति, तस्मिन्नेव क्षणे तस्यैव सुवर्णद्रव्यस्य मुकुटपर्यायात्मना य उत्पादस्तत्र मौल्यर्थी जनः प्रमोदमानन्दं प्राप्नोति, तस्यैव च सुवर्णद्रव्यस्य तस्मिन्नेव क्षणे सुवर्णद्रव्यरूपेणानुगतेन या स्थितिरवस्थानं तत्र सुवार्थी जनः न शोचति नापि मोदते किन्तु माध्यस्थ्यमवलम्बते नाशोत्पादस्थितीनां धर्माणां धर्मिणा समं भेदाभेदात्मकाविष्टम्भावलक्षणतादात्म्यमेव सम्बन्ध इति तदेवैकद्रव्यं नाशरूपत्वाच्छोकस्य कारणमुत्पादरूपत्वादानन्दस्य कारणमवस्थितिरूपत्वात्माध्यस्थ्यं च कारणमपेक्षा भेदश्च विरोधापहारको वर्त्तते, एतद्दृष्टान्तावष्टम्भेन सर्वत्र वस्तुन्येकस्मिन्क्षणेऽपेक्षाभेदेन नाशोत्पादस्थित्यात्मकत्वलक्षणं सत्त्वं सुदृढनिरूढं भवति, एतदभिप्रायिकैव 'उप्पेइ वा विगमेइ वा धुवेइ वा' इति भगवन्मुखाम्भोजनिर्गता त्रिपदी, एतदर्थपरिभावनप्रवणा तत्त्वार्थसूत्रपञ्चमाध्यायगता 'उत्पादव्ययध्रौव्ययुक्तं सत् ॥ ५ ॥ २९ ॥ तद्भावाव्ययं नित्यम् ॥ ५॥ ३० ॥ अर्पितानर्पितसिद्धः ॥ ५॥ ३१ ॥ इति त्रिसूत्री, सविवरणभाष्योपेतायास्तस्याः सम्यगुपपादनप्रवणं त्रिसूत्रीविवरणं यत्किमपि पाण्डित्यं कर्तुर्गमयति, अन्वर्थशास्त्रवार्तासमुच्चयाभिधानग्रन्थस्य श्रीमद् 'हरिभद्रसूरिविरचितस्य तत्कृतव्याख्यानन्यायविशारदयशोविजयोपाध्यायकृतव्याख्यानद्वयसमनुगमनकरं शास्त्रवार्तासमुच्चयविवरणम् , अपश्चिमतीर्थङ्करमहावीरस्तुतिरूपमहावादिसिद्धसेनदिवाकरप्रणीतद्वात्रिंशिकोपलब्धद्वाविंशतिकाविवरणं द्रष्टुविद्वजनसमष्टयमन्दानन्दसमुल्लासकम् , खमतपरमतावगतिकृतपरिश्रमाणां न्यायविशारदयशोविजयोपाध्यायानां जिनवचनाम्बुध्यवगाहनतत्त्वरत्नानां प्राचीनसूरिरचितानल्पागमपरिचयोपजातधीवैभवभाजां नव्यन्यायाद्यध्ययनपरिश्रमोपजनितनवीनतर्कवितर्ककल्पनासूत्रणसूत्रधाराणां जैनमतभक्तिसमुल्लसिता न्यायालोकमहावीरस्तवप्रकरणतद्विवृति-खाद्यखण्डन-नयोपदेशतवृत्ति-नयामृततरङ्गिणी-नयररहस्यसप्तभङ्गीप्रकरणा-ऽनेकान्ततत्त्वव्यवस्थाप्रकरणा-ऽष्टसहस्रीविवेचनपराष्टसहस्त्रीप्रभृतयो बहवो ग्रन्थास्समुल्लसन्ति, येषां मध्ये न्यायालोक-महावीरप्रकरणतट्टीकाखाद्यखण्डनयोविवरणे सूरिचक्रचक्रवर्तिगुरुप्रवरविजयनेमिसूरिविरचिते विजयदर्शनसूरिविरचिते च, अष्टसहस्रीव्याख्यानञ्च विजयोदयसुरिणा यथासमयं क्रियते, अवशिष्टानां प्रायोऽखिलानां व्याख्यानानि विजयलावण्यसूरिणा निर्मितानि ।
तेष्विदमनेकान्तव्यवस्थाप्रकरणं, तद्व्याख्यानञ्चेदम् , तत्र मूलाभिप्रेतयावद्विष
Page #20
--------------------------------------------------------------------------
________________
१३
यसम्यगबोधकत्वेन तद्व्याख्यानस्य समीचीनत्वं तत एव च प्रशंसनीयत्वं सुप्रतिपदम्, विषयानुक्रमणिकया च मूलतद्वयाख्यानयोस्स्याद्वादविषयाणामेकान्तवादविषयाणां च समर्थननिरसनप्रकाराणां तत्साक्षितयोपनिबद्धानां तत्तद्ग्रन्थवचनानामवबोधनं कृतमस्ति व्याख्यानकर्त्रा च स्वनिर्मितविषयानुक्रमणिकात्मकेन पद्यनिचयेन तत्सर्वं स्फुटी - कृतमिति तत्पर्यालोचनं पिष्टपेषणन्यायविषयतां नातिक्रामति, किन्तु जिनवचनाम्बुध्येकदेशातिगम्भीरप्रदेशावगाहनपटिष्ठमनीषायानपात्र निरन्तरगमनागमनव्यापारपरा
यणवृद्धाचार्यपरम्परायातस्य तीर्थान्तरीयायातस्यैतद्भन्थीयविचारनिकरस्य जिनवच - नाम्बुधिसमुच्छलिततरङ्गैकदेशप्रदेशत्वमेव, न तु स्वकपोलकल्पनामात्रविजृम्भितत्वमित्येतत्प्रकटयितुमेव तत्र तत्र तत्तन्मतविषयनिरूपणे 'तत्त्वार्थसूत्र - तद्भाष्यगौतमसूत्र - भाषारहस्य- सम्मतितर्क- रत्नाकर आवश्यक निर्युक्ति-अ ध्यात्मोपनिषद् - विशेषावश्यकभाष्य-वेद् गीता - अन्ययोगव्यवच्छेदद्वात्रिंशिका आगम- वाक्यपदीय - वशिष्ठवाक्य छान्दोग्योपनिषद-पातञ्जलयोगदर्शन-वार्त्तिक- आचाराङ्ग साङ्ख्यकारिका-श्लोकवार्त्तिकसौगतवचन-आचाराङ्गटीका, द्रव्यसङ्ग्रह प्रशमरति उत्तराध्ययनअनुयोगद्वार भगवतीसूत्र - तार्किकवचन-नवतत्त्व-प्रवचनसारोद्धारपञ्चाशकग्रन्थसंवादो दर्शितो मूलकृता, स च संवादोऽयत्नोपनत एव मूलसमानविषयके तद्वयाख्याने यथा गङ्गाप्रवाहपातो रथ्योदकं पवित्रयति तथाऽनेकान्तवादः सकलवस्तुव्यापको लोकव्यवहारान्यथानुपपत्त्या स्वस्याभ्युपगमविशेषान्यथानुपपत्त्या च परैरपि हृदयेनाभ्युपगम्यमानः स्वसङ्गतिमितमस्मन्निर्मितमनेकान्तव्यवस्थाप्रकरणं पवित्रयतु, अहं पुनर्भवभूतिप्रभृतिविषयसुखविमुखो भवान्तरेप्यनेकान्तविषयां ध्रुवां मतिमेवैतद्रन्थ कर्णतोऽभिलषामि परेऽप्येतादृशा एव भवन्त्वेतदभिप्रायवतोपाध्यायेन मूलान्ते त्रयोदशभिः पद्यैरनेकान्तवादस्तुतिर्विहिता, अस्यास्सम्यगर्थप्रपञ्चो दर्शितो व्याख्यानकर्त्रा लावण्यसूरिणा,
अयं च ग्रन्थो नयसमूहमयस्य जिनवचनमहोदधेरुद्गतानि सर्वाणि न्यायादिदर्शनानीत्या वेदनायैव तत्तन्नयविचारपरिसमाप्तौ -
‘दर्शितेयं यथाशास्त्रं, नैगमस्य नयस्य दिक् । कणाद दृष्टिहेतुः, श्रीयशोविजयवाचकैः ॥ १ ॥ दर्शितेयं यथाशास्त्रं, सङ्ग्रहस्य नयस्य द्ग् ि। वेदान्तराद्धान्तहेतु, र्यशोविजयवाचकैः ॥ २ ॥ दर्शितेयं यथाशास्त्रं, व्यवहारनयस्य बिक् । सांख्यराद्धान्तहेतुः, श्रीयशोविजयवाचकैः ॥ ३ ॥
Page #21
--------------------------------------------------------------------------
________________
दर्शितेयं यथाशास्त्रमृजुसूत्रनयस्य दिक् ।
बौद्धसिद्धान्तहेतुः श्रीयशोविजयवाचकैः ॥ ४ ॥ इति पद्यानि कोडीकुर्वन् विजयते, 'अन्वीक्षानयमाकलथ्य गुरुभिर्ज्ञात्वा गुरूणां मतं, चिन्तादिव्यविलोचनेन च तयोः सारं विलोक्याखिलम् । तन्त्रे दोषगणेन दुर्गमतरे सिद्धान्तदीक्षागुरुगङ्गेशस्तनुते मितेन वचसा श्रीतत्त्वचिन्तामणिम् ॥ १ ॥ यतो मणेः पण्डितमण्डनक्रिया, प्रचण्डपाखण्डतमस्तिरस्किया। विपक्षपक्षे न विचारचातुरी, न च स्वसिद्धान्तवचोदरिद्रता ॥ २॥'
इत्येवं कण्ठोक्तविशिष्टताभाजनगङ्गेशोपाध्यायकृतिरूपतत्वचिन्तामणिग्रन्थस्य नव्यन्यायविचारसागरस्य यथावदवबोद्धृत्वं'सिताम्बरशिरोमणिविदितचारुचिन्तामणि,-विधाय हृदि रुच्यतामिह समानतन्त्रे नये। अनर्गलसमुच्छलद्बहलतर्कवर्णोदकच्छटाभिरयमुत्सवं वितनुते विपश्चित्कुले ॥ १॥
___ इति पद्यान्तर्गतविदितचारुचिन्तामणिरिति स्खविशेषणेन प्रकटयतो मूलकर्तुयशोविजयोपाध्यायस्यायमभिप्रायः- यद्यपि तत्त्वप्रकाशकानि सन्ति चतुर्दशअष्टादश वा विद्यास्थानानि तथापि-'आन्वीक्षिकी'-नाम्ना प्रसिद्ध न्यायशास्त्रमेव तर्कशास्त्रतया प्रसिद्धं वाद-जल्प-वितण्डान्यतमकथाश्रयणप्रवृत्तशास्त्रार्थोपयोगितामञ्चति परमतनिराकरणपूर्वकस्वमतव्यवस्थापनलक्षणपरीक्षा शास्त्रार्थत एव सुदृढा भवति, तत्र च परमतखण्डने हेत्वाभास-जाति-निग्रहस्थानान्यतमस्य दोषतयोद्भावनमावश्यकम्, एतत्प्रपञ्चनं च यथा न्यायदर्शने, न तथा वैशेषिक-सांख्य-योग-वेदान्तमीमांसा-बौद्धादिदर्शने, इति शास्त्रार्थेच्छुभिरध्येतव्यं न्यायशास्त्रमिति ।
यत्र च नैगमनयप्रकृतिकवैशेषिकदर्शन-न्यायदर्शन-सङ्ग्रह-नयप्रकृतिकवेदान्तदर्शन-व्यवहारनयप्रकृतिकसाङ्ख्यदर्शन-र्जुसूत्रादिनयप्रकृतिकबौद्धादिदर्शनानां निरूपणं तस्यास्यानेकान्तव्यवस्थाप्रकरणस्य विरचनं न सर्वदर्शनाभिज्ञतामन्तरेण सम्भवतीति प्राचीननवीनतत्तद्दर्शनार्थनिरूपणप्रवणशास्त्रपरिज्ञानमप्यासीदेवोपाध्यायस्य, स्वयमेव च स्वनिर्मितखाद्यखण्डनान्ते
"निबन्धाः प्राचीनाः परिचयमिताः खेलतितरां, नवीना तकोली हृदि विदितमेतत्कविकुले । असौ जैनः काशीविबुधविजयप्राप्तबिरुदो, मुदं यच्छत्यच्छः समयनयमीमांसितजुषाम् ॥ १॥” इत्यनेन यस्य
Page #22
--------------------------------------------------------------------------
________________
न्यायविशारदत्वबिरुदं काश्यां प्रदत्तं बुधैायाचार्यपदंततः कृतशतग्रन्थस्य यस्यार्पितम्।" इत्यादिना च प्रकटीकृतम्।
यथा च श्रीहरिभद्रसूरिरचितग्रन्थाः प्रायोऽन्ते सन्निविष्टविरहपदलाञ्छिता एककर्तकतया निर्णीता भवन्ति तथा श्रीमद्यशोविजयोपाध्यायग्रन्था अपि बाहुल्येन स्वाराधितसरस्वतीमत्राक्षर 'एंकार'घटितमङ्गलश्लोकविभूषिता एककर्तृकतया निर्णीता भवन्ति, अस्यैतादृशपाण्डित्य-कवित्वे सरस्वतीमन्त्रस्य (कारस्य काश्यां गङ्गातटे जापप्रभावादेव सम्भूते, तत्र महावीरस्तवप्रकरणे
"ऐकारजापवरभाष्यकवित्ववित्त्व, वाञ्छासुरद्रुमुपगङ्गमभङ्गरङ्गम् ।
सूक्तैर्विकासिकुसुमैस्तव वीरशम्भो,रम्भोजयोश्चरणयोर्वितनोमि" पूजाम् ॥१॥ इति स्वनिर्मितमङ्गलमेव प्रमाणम् , अत्र ऐमित्यस्य गुम्फनमस्ति, एवमस्मिन् मूले ऐन्द्रस्तोमनतमित्यत्र ऐमित्यस्य गुम्फनम् । अष्टसहरूयाम्
"ऐन्द्रमहः प्रणिधाय न्यायविशारदयतियशोविजयः।
विषमामष्टसहस्रीमष्टसहस्रयां विवेचयति ॥ १ ॥" इत्यत्र ऐन्द्रमह इत्यस्य घटकं 'ऐम्' इति, पातञ्जलयोगदर्शने
'ऐन्द्रवृन्दनतं नत्वा, वीरं सूत्रानुसारतः।
__ वक्ष्ये पातञ्जलस्यार्थ, साक्षेपं प्रक्रियाश्रयम् ॥ १ ॥ इत्यत्रापि तया, एवं नयरहस्यप्रकरणे-ऐन्द्रश्रेणिनतमित्यत्रापि, एवं नयोपदेशप्रकरणे-ऐन्द्रधाम हृदि स्मृत्वेति, नयोपदेशप्रकरणस्य नयामृततरङ्गिण्यां वृत्तौ-ऐन्दवीयविमलाकलेति, पार्श्वनाथजिनस्तोत्रे ऐन्द्रमौलिमणिदीधितिमालेति, शङ्खपार्श्वनाथस्तोत्रे-ऐंकाररूपां प्रणिपत्येति तदीयद्वितीयस्तोत्रेऐंकाररूपस्मरणोपनीतामिति ।
स्याद्वादपरमभक्तोऽयम् , यतः स्वसमानतन्त्रस्य दिगम्बरस्य सामान्यविशेषगुणसङ्ख्या-सामान्यविशेषस्वभावानामनेकान्तवाद एव सम्यक्तया समन्वयः, द्रव्यार्थिकस्य दश भेदाः, पर्यायार्थिकस्य षड् मेदाः, नयोपनयभेदविचारः, नैगमस्य त्रयो मेदाः, सङ्ग्रहस्य द्वौ भेदौ, व्यवहारस्य द्वौ भेदौ, ऋजुसूत्रस्य द्वौ भेदौ, शब्द-समभिरूढवम्भूतानां त्रयाणाभेकैकभेदः, सर्वसङ्कलनयाऽष्टाविंशतिर्भेदाः, उपनये सद्भूतासद्भूतव्यवहारस्य शुद्धाशुद्धाधुपचरितानुपचरितादिभेदवर्णनम् , मयोपनयस्वभावयोजनमित्यादिप्रक्रियायाः युक्तिपुरस्सरं खण्डनं कुर्वतोऽप्यस्य अष्टसहस्रीविवरणे
Page #23
--------------------------------------------------------------------------
________________
'स्याद्वादार्थः क्वापि कस्यापि शास्त्रे, यः स्यात्कश्चिदृष्टिवादार्णवोत्थः। .
तद्वयाख्याने भारती सस्पृहा मे, भक्तिव्यक्त ग्रहोऽणौ पृथौ वा ॥१॥' : इत्युक्तिः स्याद्वादैकान्तभक्तिप्रतिपादिका, तीर्थान्तरीयेऽपि स्वसमयान्यसमयवर्तिनि स्याद्वादसरणिमवलम्ब्य पदार्थस्वीकर्तरि ममताबुद्धयोपदेशसमीहाऽस्यासीत् , यतो मूले वृक्षः कपिसंयोगी न शाखायामिति प्रतीतिबलात्कपिसंयोगिन्यपि वृक्षे कपिसंयोगिभेदं घटवत्यपि भूतले पटत्वेन घटो नास्तीति प्रतीतिबलात्पटत्वावच्छिन्नघटनिष्ठप्रतियोगिताकाभावञ्चाभ्युपगच्छन्तं शिरोमणि प्रति'अव्याप्यवृत्तिगुणिभेदमुदीर्य नव्या,-भावं प्रकल्प्य च कथं न शिरोमणे ! त्वम् ॥ स्याद्वादमाश्रयसि सर्वनयोपपन्नं, ब्रूमः प्रसार्य निजपाणिमिति त्वदीयाः ॥ १॥
इत्युक्तिः स्याद्वादाश्रयणोपदेशरूपति, यथा च विधिनिषेधरूपयोर्गुणिभेदाभेदयोरवच्छेदकमेदेनैकत्रावस्थानमविरुद्धं तथान्यत्रापि विधिनिषेधयोरवच्छेदकभेदेनैकत्रावस्थानं स्यादेव, घटवत्यपि पटत्वादिरूपव्यधिकरणधर्मावच्छिन्नप्रतियोगिताको घटाभावो वर्तते, न च तत्र विरोधः, तथा खद्रव्य-क्षेत्र-काल-भावावच्छेदेन सत्त्ववत्यपि परद्रव्य-क्षेत्र-काल-भावावच्छेदेन सत्त्वाभावः स्यादेव, 'सर्वे धर्मा अव्याप्यवृत्तयो धर्मत्वात्कपिसंयोगादिवद्-इत्यनुमानेन सर्वेषां धर्माणामव्याप्यवृत्तित्वसिद्धो स्वाभावसामानाधिकरण्यसिद्धया स्याद्वादसिद्धिरप्रतिहता सर्वत्रेत्युपदेशः सर्वांस्तीर्थान्तरीयान प्रत्यविशिष्टोऽपि कपिसंयोगतद्वद्भेदादीनामव्याप्यवृत्तित्वमभ्युपगच्छन्तं शिरोमणिम्प्रति विशेषेण दत्तपदो भवतीति ।
केवलिनि साकारानाकारोपयोगरूपयोनिदर्शनयोर्योगपद्यं मल्लवादी प्रतिपादयति, जिनभद्रगणिक्षमाश्रमणास्तु ऋमिकत्वमुशन्ति, सिद्धसेनदिवाकरस्तु यदेव ज्ञानन्तदेव दर्शनमित्येकं कथयति, 'केवली जं समयं जाणइ न तं समयं पस्सई' इत्यागमविरोधमपि स्वस्वमते व्याख्यानभेदेन परिहरन्ति, इत्थं मतभेदे किमत्र तत्त्वम् ? न हि परस्परविरुद्धं सर्वमेव तत्त्वं भवितुमर्हतीत्येवं सन्दिहानाः परे. अल्पबुद्धयो मा नामैवमवहेलनां स्याद्वादवादिषु कुर्युः, यदुत ये विशिष्टप्रज्ञाशालिनः स्याद्वादवादिनः स्वगृह एव वैमत्यकोलाहलं कुर्वन्ति ते कथमेकान्ततापनयनेन पराभिहितपदार्थेष्वनेकान्ततां व्यवस्थापयिष्यन्ति ? तथा व्यवस्थायां वा कः श्रद्धां विधास्यतीत्यादिकुविचारपिशाचप्रवेशभयमपि सर्वनयमये स्याद्वादसङ्गरे नास्तीत्युपदर्शयितुं ज्ञानबिन्दौ
Page #24
--------------------------------------------------------------------------
________________
१७
“प्राचां वाचां विमुखविषयोन्मेष सूक्ष्मेक्षिकायां, येऽरण्यानीभयमधिगता नव्यमार्गानभिज्ञाः । तेषामेषा समयवणिजां सम्मतिग्रन्थगाथा, विश्वासाय स्वनयविपणिप्राज्यवाणिज्यवीथी ॥ १ ॥ भेदग्राहिव्यवहृतिनयं संश्रितो मल्लवादी, पूज्याः प्रायः करणफलयोः सीनि शुद्धर्जुसूत्रम् । भेदोच्छेदोन्मुखमधिगतः सङ्ग्रहं सिद्धसेन,स्तस्मादेते न खलु विषमाः सूरिपक्षास्त्रयोऽपि ॥ २ ॥ चित्सामान्यं पुरुषपदभाक् केवलाख्ये विशेषे, तद्रूपेण स्फुटमभिहितं साद्यनन्तं यदेव | सूक्ष्मैरंशैः क्रमवदिदमप्युच्यमानं न दुष्टं, तत्सूरीणामियमभिमता मुख्यगौणव्यवस्था ॥ ३॥ तमोऽपगमचिज्जनुक्षणभिदा निदानोद्भवाः, श्रुता बहुतराः श्रुते नयविवादपक्षा यथा । तथा क इव विस्मयो भवतु सूरिपक्षत्रये, प्रधानपदवीधियां क्व नु दवीयसी दृश्यते ॥ ४ ॥
इत्यादि स्याद्वादश्रद्धाधायकं पद्यकदम्बकं रचितवान् श्रीयशोविजयोपाध्यायः, एतत्स्याद्वादभक्तितद्विका शोल्लासकग्रन्थसार्थ करणावेदितापूर्वनव्यन्यायादिपाण्डित्यावलोकनोपजात- तदीयग्रन्थाध्ययनाध्यापन- तद्व्याख्यान करणादृतचित्ताः श्रीविजयनेमिसूरयस्तच्छिष्याश्च स्वशिष्यपन्या सदक्षविजयगणि- तच्छिष्यपन्याससुशीलविजयगण्यादीनां विशेषप्रतिपत्तये स्वाभ्यासदार्व्याय च श्रीमदुपाध्यायग्रन्थनिचयं व्याख्यासनाथं कुर्वतो श्रीविजयलावण्य सूरेरियम्- 'अनेकान्तव्यवस्था प्रकरणव्याख्याऽऽनन्दयतु विद्वद्वृन्दमिति ॥ ॐ ॥
विक्रमाब्द-२०१४ [ वसन्तपञ्चमी ]
ता. १०-१-५८
लेखकः
मिथिलासंस्कृतमहाविद्यापिठस्य प्रधानाचार्यः
शशिनाथ झा ( दरभङ्गा, बिहार . )
Page #25
--------------------------------------------------------------------------
Page #26
--------------------------------------------------------------------------
________________
ષદર્શનનિષ્ણાત-તાર્કિકચૂડામણિ-સાક્ષરશિરોમિણમિથિલાસંસ્કૃતમહાવિદ્યાપીઠના પ્રધાનાચાર્ય
દરભંગાનિકટવાતર ડીવાસ્તવ્ય શ્રીયુત-શશિનાથાજી
Page #27
--------------------------------------------------------------------------
Page #28
--------------------------------------------------------------------------
________________
अङ्काः,
विषयाः,
॥ ऋजुसूत्रनयनिरूपणम् ॥
१ निरुक्तितो लक्षणमृजुसूत्रस्य, ज्ञानगतं वस्तुगतञ्चावक्रत्वमृजुस्वमुद्भावितम् ।
२ क्रमेण ज्ञान - शब्दार्थात्मकर्जुसूत्रलक्षणं भावितम्, तत्र प्रमातृगता-ऽभ्युपगमगते च ऋजुसूत्रलक्षणे भाविते ।
३ स्वोपदर्शितनिरुक्तौ विशेषावश्यकभाष्यसंवादः, "उज्जुं ऋजुं'• इत्यादिसंवादकभाष्यवचनस्य विवरणम् ।
४ ऋजुसूत्रनये अतीता ऽनागत - परकीयवस्तूनां वक्रत्वं निष्टङ्कितम् । ५ अतीताद्यर्थाभ्युपगन्तृव्यबहारनयम्प्रति ऋजसूत्रनयस्य पर्ययोगो दर्शितः ।
६ लिङ्ग-सङ्ख्या-वचन-पर्यायभेदेऽपि निक्षेपचतुष्टयाक्रान्तमेकमेव वस्त्वभ्युपगच्छत ऋजुसूत्रस्य भावरूपैकनिक्षेपाक्रान्तं लिङ्गसङ्ख्या-भिन्नपर्यायशब्दावाच्यं स्वीकुर्वतः शब्दनयाद्विशेषो दर्शितः, तत्र भाष्यसंवादश्च ।
ऋजुसूत्रनयाद्वौद्धदर्शनस्याविर्भावः, तदुपोद्वलकं पलालं न दहत्यग्निरिति पद्यं बौद्धदर्शनानुसारिणः ।
तत्त्वबोधिनीविवृतिसमलङ्कृतस्यानेकान्तव्यवस्थाप्रकरणस्योत्तरार्द्धस्य विषयानुक्रमणिका -
७
८ क्षणक्षयसाधकं प्रत्यक्षादिप्रमाणं नास्तीति तदभ्युपगन्तृबौद्धमतमृजुसूत्रनयसमुत्थं न युक्तमिति स्थैर्यवादिनः पूर्वपक्षः ।
९ अन्त्यक्षणदर्शनात् प्राक् सदृशदर्शन दोषान्न क्षणक्षयप्रत्यक्षमित्यत्र क्वचित्तदपरिज्ञानमिति संवादः ।
१० क्षणिकत्वबाधिका प्रत्यभिज्ञाप्रत्यक्षात् स्थैर्य प्रतिपत्तिर्दर्शिता ।
• पत्र-पङ्की
१- ७
१-१३
२- २
२- ६
१
७- २
८- ३
Page #29
--------------------------------------------------------------------------
________________
११
अङ्काः , विषयाः,
पत्र-पती ११ प्रत्यमिशाप्रामाण्ये तत्रापूर्वार्थविज्ञानमिति भट्टपद्यमुपष्ट. म्भकम् ।
९- २ १२ इन्द्रियसम्प्रयोगजत्वेन प्रत्यभिज्ञानस्य प्रत्यक्षत्वमित्यत्र नहि . स्मरणतो यत् प्रागित्यादिपद्यत्रयं भट्टस्य संवादकमुपदर्शितम् । १०- २ १३ सामान्यद्रव्यादिलक्षणापूर्वप्रमेयसद्भावः प्रत्यभिज्ञानस्य स्थापितः। १०- ९ १४ सविकल्पकस्य निर्विकल्पकस्य च प्रत्यभिज्ञानस्य प्रामाण्यं
भावितम् । १५ विनाशस्य सहेतुकत्वेन कारणविलम्बाद्विलम्बे स्थैर्यमनाबाधकम् ।
१४- १ १६ भावान्तरविनिर्मुक्तभावरूपस्य विनाशस्य सहेतुकत्वे भावान्तर___ विनिर्मुक्त इति पद्यसंवादः, इति स्थैर्यवादिपूर्वपक्षः। स्थैर्यवादिपूर्वपक्षप्रतिविधानं बौद्धस्य । ..
१५- ३ १७ क्षणक्षयसिद्धौ नाध्यक्ष प्रवर्तत इत्यस्यापाकारणम् । १५-६ १८ विकल्पात्मकप्रत्यक्षस्य क्षणिकतायामभावेऽपि निर्विकल्पक- प्रत्यक्षं तत्र प्रमाणमिति निष्टङ्कितम् ।
१६-३ १९ व्यवहारसाधनाय विप्रतिपत्तिनिरासाय च प्रत्यक्षविषयेऽपि
क्षणिकत्वेऽनुमानस्यादरः, तत्सम्भवश्च सविकल्पकस्यापि तस्य
परम्परया वस्तुसम्बन्धेन प्रामाण्यञ्च । २० क्षणिकत्वे सत्त्वहेतुकानुमानं दर्शितम्, तत्र क्षणिकत्वस्य
प्रत्यक्षेणानिश्चयाखेतु-साध्ययोस्तादात्म्याविनाभावग्रहो न
सम्भवतीति प्रश्नः। २१ तत्र बौद्धाभिमतं साध्य-साधनयोस्तादात्म्यमनुमानसिद्ध
माशङ्का निराकृतम् । २२ सामर्थ्यलक्षणसत्त्वस्य नित्यात् खव्यापकक्रम-योगपद्यनिवृत्त्या
निवर्तमानस्य क्षणिकेष्वेवावस्थानमिति बौद्धाभिप्रेतमाशका .. निराकृतम्।
२०- १
१८- १
१८-३
Page #30
--------------------------------------------------------------------------
________________
अङ्काः ,
२०-१३
२८-७
विषयाः,
पत्र-पक्षी २३ क्षणिकत्वे क्रमाक्रमप्रतिपत्तेरसम्भवो दर्शितः ।
२०- ३ . २४ नित्यात् क्रमाक्रमव्यावृत्तिः स्पष्टीकृता। २५ क्षणिकत्वस्य प्रत्यक्षेणाग्रहात् साध्य-साधनयोरविनाभावग्रहो न ..
सम्भवतीति प्रश्नस्य प्रतिविधानं केषाश्चिद् बौद्धविशेषाणां तत्र क्रमयोगपद्ययोः प्रत्यक्षसिद्धत्वमुपपादितम् ।
२१-६ २६ दृष्टेष्विवादृष्टेष्वपि क्षणिकत्वव्याप्तमर्थक्रियाकारित्वं सिद्धमिति
सत्त्वेन क्षणिकत्वस्यानुमानं विदुषां युक्तमिति दर्शितम् । २५२७ सत्त्व-क्षणिकत्वयोस्तादात्म्यलक्षणप्रतिबन्धग्रहो विपर्यये बाधक
प्रमाणादित्यभ्युपगन्तृणां बौद्धविशेषाणां मतमुपदर्शितम् । २८ तत्र अक्षणिकेषु क्रमयोगपद्यायोगो व्यवस्थापितः, तत्र सह
कारिक्रमात् कार्यक्रम इति स्थैर्यवाद्यभिमतस्य निराकरणम् । २९ अक्षणिकेष्विव क्षणिकेष्वप्यर्थक्रियासामर्थ्यलक्षणं सत्त्वमनुप
पन्नमिति प्रतिबन्धा प्रत्यवस्थानं स्थैर्यवादिनः, तत्र कः शोभेत इति पद्यत्रयसंवादः ।
३४- २ ३० अस्य प्रतिविधानं क्षणिकवादिनः तत्र सामग्याः कार्यजनकत्व
प्रवाद उपचारात् कुर्वद्रूपत्वलक्षणविशेषबलात् प्रत्येकस्य कारणत्वमुक्तविशेषस्य व्यवस्थापनश्च ।
३६-६ ३१ क्षणिकक्षित्याद्यनेककारणजनितस्यैकत्वम् ।
३८- ३ ३२ सामग्रीमाश्रित्य कारणभेदात् कार्यमेदासजनस्य क्षणिकपक्षे
इष्टापत्त्या परिहरणम् । ३३ क्षणिकानामेव हेतुत्वे तत्क्षणोत्पन्नानामुदासीनानामपि हेतुत्व
प्रसञ्जनस्य निराकरणम् , कुर्वद्रूपत्वेन कारणतामालम्ब्य स्थिरवाद्युपदर्शितदोषान्तराणामप्युन्मूलनम् ।
... ४२- २ ३४ क्षणिकपक्षेऽनष्टात् कारणात् कार्यजन्मोपपादनम्, तत्र अनष्टा
जायते कार्यम् इति प्राचीनपद्यसंवादः ।
४०-
३
Page #31
--------------------------------------------------------------------------
________________
पत्र-पती
४६- ३
४८
४९- ४
५०- १
अङ्काः,
विषयाः, . ३५ अत्र अविद्धकर्णोद्दयोतकरायुक्तः क्षणिकपक्षे कार्यकारणभावा
सम्भवदोष उद्भाव्यापाकृतः । ३६ तत्र विनाशस्य सांव्यावहारिक-तात्त्विकभेदेन द्वैविध्यम् . तत्र
प्रथमो निवृत्तिरूपस्तुच्छो न कार्यजनकः किन्तु भावरूपो
द्वितीयस्तथा, तत्र भावे ह्येष विकल्पः स्यादिति वचनसंवादः। ३७ प्रत्यभिज्ञायाः क्षणिकत्वानुमानबाधकत्वं स्थैर्यवाद्युक्तं न युक्तं
तस्या अनिश्चितप्रामाण्याया बाधकत्वानुपपत्तेरित्युपदर्शितम् । ३८ विरुद्धोभयखभावावगाहित्वेन प्रत्यभिज्ञानस्य न प्रामाण्यम् ,
तथा दुष्टकारणारब्धत्वेनापि न तस्य प्रामाण्यम् ।। ३९ सत्संगप्रयोगजत्वमपि परसम्मतं प्रत्यक्षत्वप्रयोजकमस्यासिद्धम्। ४० देशादिभिन्नसामान्यस्याभावेन तद्विषयत्वमप्यस्यासिद्धम् ,
तद्भावेऽप्यनधिगतार्थगन्तृत्वं प्रामाण्यनिबन्धनं तस्य न सम्भ
वतीति । ४१ अपूर्वप्रमेयाभावान्न तस्य प्रामाण्यम् । ४२ समारोपव्यवच्छेदकतया तस्य पराभिप्रेतप्रामाण्यस्य निरासः।
४३ सन्देहापाकरणात् प्रत्यभिज्ञानं प्रमाणमिति परोक्तमपाकृतम्, . ... तत्र प्रमेयाधिक्यमेव प्रामाण्यप्रयोजकं न तु संशयापाकरणमिति
.. समर्थितम् । ४४ निर्विकल्पकं प्रत्यभिज्ञानं प्रमाणतया पराभ्युपगतं व्युदस्तम्। ४५ पूर्वापरसंवेदनाधिगतभावैकत्वग्राहकं प्रत्यभिज्ञानं प्रत्यक्षरूपतां
नाञ्चतीत्युपपादितम् । ४६ प्रत्यभिज्ञाने यः स इत्याकारयोरन्योन्यानुप्रवेशेन भानमन्योन्या. ... ननुप्रवेशेन च भानमित्युभयं दूषितम् । ___४७ पूर्वदृष्टं पश्यामीति व्यवसायबलान्निर्विकल्पकदर्शनस्य पूर्वापरैक
त्वग्राहित्वाभ्युपगमोऽपि स्थिरवादिनो न युक्त इति दर्शितम् ।
५०- २
५०-६
५२- ४ ५३- ४
५४-
१
५९- ३
६१- १
Page #32
--------------------------------------------------------------------------
________________
विषयाः,
अङ्काः,
४८ लुनपुनर्जातकेशादिषु व्यभिचारेण पूर्वदृष्टं पश्यामीत्यध्यवसायस्य पूर्वापरैकत्वावगाहिदर्शनव्यवस्थापकत्वं न सम्भवतीत्यपरेषां वादिनां मतमुपदर्शितम् ।
४९ एकत्वाध्यवसाय विकल्पवशान्निर्विकल्पकप्रत्यभिज्ञानकत्वं न युक्तिमदित्युपसंहृतम् ।
५० निर्विकल्पकं ज्ञानमेकत्वावगाहिं, तदनन्तरभावि सविकल्पकं प्रमाणमिति मतमपहस्तितम् ।
५१ असद्भूततत्ताविषयकत्वेन सविकल्पकस्य भ्रान्तत्वं तत्तायाः सद्भूतत्वाभ्युपगमो दूषितः ।
५२ अक्षव्यापारानन्तरं कथं प्रत्यभिज्ञोदय इत्याक्षेपप्रतिविधानम् । ५२ पूर्वदृष्टार्थस्मरण-वर्त्तमानदर्शनयोर्भेदाग्रहात् सोऽयमिति व्यवहारो नान्यथेत्युपपादितम् ।
५३ स एवायमिति व्यवहारैकत्वादेकत्वमित्यभ्युपगमोऽनेकविकल्पकबलितो दर्शितः ।
,
५४ निर्विकल्पक सविकल्पक प्रत्यभिज्ञानयोः प्रामाण्यासिद्धेर्न प्रत्यक्षविरोधमनुभवन्ति क्षणिकवादिन इत्युपसंहृतम् ।
५५ विनाशस्य सहेतुकत्वासिद्ध्या विनाशस्य सहेतुकत्वात् तद्धेत्वभावादेव कियत्कालं स्थैर्यमिति स्थिरवाद्युक्तस्य खण्डनम् । ५६ अनुपलब्धितोऽतिरिक्त नाशासिद्धौ 'दृष्टस्तावदयं घटः' इति प्रभाकरमतानुसारिवचनं संवादकमुपदर्शितम् ।
५७ कपालादिरूपस्य घटध्वंसस्याप्यस्तु ध्वंस इत्यस्य खण्डनम् । ५८ अभावरूपे ध्वंसे कारकव्यापारो न सम्भवति हेतुमत्त्वे 'तस्याभावरूपत्वप्रच्युतिरित्यादिदोषोपदर्शनम् ।
५९ अभावरूपविनाशस्य हेतुमत्त्वे हेतुभेदाद्भेदप्रसङ्गः, लोकोऽप्यकिञ्चिद्रूपतामेव तस्यावगच्छतीति भावितम् ।
पत्र:
६२- ३
६४
६४- ४
६४- ४
६५- ८
६६- ४
६८- ३
७१- ३
.७१- ६
७३- १
७६- १
७६- ५
७९- १
Page #33
--------------------------------------------------------------------------
________________
अङ्काः , विषयाः,
पत्र-पली ६. भावानां खभावतो नश्वरत्वमनश्वरत्वञ्च दूषितम् । ६१ विरोधिनमपेक्ष्य भावो निवर्तत इति कादाचित्को विनाश इत्यत्र
खभावोऽपि स तस्येत्थम्' इति पद्यं स्थिरवादिनः संवादकमपहस्तितम् । ..
८१६२ अत्र स्थिरवादिनः 'स्वभावतो द्युत्पत्तिस्वभावस्य न किञ्चिदु
त्पत्तिहेतुभिः' इत्यादिप्रतिबन्दिग्रहणमुपदश्र्योन्मूलितम् । .६३ भावखभावस्य नाशस्य भावहेतुव्यतिरिक्तहेत्वनपेक्षत्वमात्रेण
निर्हेतुकत्वे बौद्धवचनं संवादकं दर्शितम् । ६३ प्रत्यक्षतोऽनुमानतश्च सर्वभावानां क्षणिकत्वं व्यवस्थितमिति बौद्धमतमुपसंहृतम्।
८४-१ सम्मतौ द्रव्यार्थिकनयविचारे यथैतन्मतखण्डनं तथैव संक्षिप्य
परिभावितम्। ६४ क्षणक्षयित्वे बौद्धोक्तं प्रत्यक्षं प्रमाणं न युक्तिमत् , तत्र स्थिर
स्थूलरूपाणामेव घटादीनां प्रतिभासादित्यादि भावितम् । ८५६५ अध्यक्षाप्रवृत्तौ नानुमानादपि क्षणक्षयनिश्चयः, विकल्पमात्रं तु
तत्र बौद्धस्यापि सम्मतम् । ६६ स्थैर्यावगाहिप्रत्यभिज्ञानबाधितत्वादपि क्षणिकत्वे नानुमानं
प्रमाणम् , तस्य प्रत्यभिज्ञानस्य च प्रामाण्यं शङ्कासमाधानाभ्यां
निष्टङ्कितम् । ६७ प्रत्यभिज्ञाने इन्द्रियजत्वार्थजत्वैकावभासित्वादेर्व्यवस्थापनम् । ९१- १ ६८ तत्तेदन्ताविशिष्टैकत्वग्राहिणः प्रत्यभिज्ञानस्याप्रामाण्यमाशा . . प्रतिक्षिप्तम् ।
___९२- ५ ६९ तदेवेदमिति प्रत्यभिज्ञानस्यानिन्द्रियजस्यालिङ्गजस्यापि बाधार
हितत्वेन प्रामाण्यमवश्यमभ्युपगन्तव्यमिति कल्पान्तरं पल्लवितम् । ९४- १ ७. सामान्यप्रत्यासत्त्याऽविनाभावग्रहणमपि नैयायिकादीनां न सम्भवतीति चर्चील्लासः कृतः।
९५- ५
८८- १
Page #34
--------------------------------------------------------------------------
________________
विषयाः,
अङ्काः,
७१ ऊहाख्यप्रमाणमेव सर्वोपसंहारेण व्याप्तिग्राहकं जैनाभ्युपगत
मास्थेयमित्युपसंहृतम् ।
७२ नित्यात् क्रमयौगपद्याभ्यां सहार्थक्रिया व्यावर्तमाना क्षणिकेष्वे-. वावतिष्ठत इत्याद्युक्तमपि बौद्धस्य न युक्तमिति विचारितम् ! ७३ नित्याद्वयावृत्ताऽप्यर्थक्रिया क्रमयौगपद्याभ्यां क्षणिकेभ्योऽपि व्यावृत्ता न क्षणक्षयसिद्धौ प्रगल्भेति विवेचितम् ।
७४ तत्र क्षणिकाः केवला एकमुत्पादयन्ति उतानेकम्, समुदिता अपि तदेकमनेकं वेति विकल्पेषु दोषाः समुद्भाविताः । ७५ सौत्रान्तिक- वैभाषिकमते सञ्चितेभ्योऽणुभ्यः सञ्चितानामेवोत्पत्तिः ज्ञानमपि विषयालोकादिसामग्रीप्रभवं नैकं युक्तं नवा तथाऽभ्यु
पगमः ।
८१ क्षणिकत्वसाधकतयोपादीयमानमर्थक्रियालक्षणसत्त्वं भावानामर्थक्रियातः सत्त्वं सत्त्वाद्वाऽर्थक्रियेति विकल्पाभ्यां निराकृतम् । ८२ निर्हेतुको ध्वंसः पदार्थोदयानन्तरभावीति पदार्थानां क्षणिकत्व - मित्यपि बौद्धानां कल्पनं न सदिति प्रपञ्चितम् ।
पत्र- पती
८३ निर्हेतुकस्य विनाशस्य प्रथमक्षण एव सद्भावप्रसक्तिः, नहि तस्य क्वाचित्कत्वं कादाचित्कत्वं वा युक्तमिति भावितम् । ८४ बौद्धैरपि मुद्गरादीनां विरोधित्वं व्यवस्थापयद्भिर्गले पादुकान्यायेन नाशकारणत्वमवश्यमभ्युपेयमिति दर्शितम् ।
१०१- १
१०१
१०३ - ४
१०४- १
७६ अन्तर्बहिर्ज्ञानयोर्भिन्नयोरिव भेदावभासो न तु भिन्नयोरेवेति बौद्धवचनसंवादत आशय बाह्यार्थवादत्यागप्रसङ्गतः परिहृतम् । ७७ ग्राह्य-ग्राहकाकारयोः संवित्तृत्वमाशक्य प्रतिक्षिप्तम् ।
१०६- ३
१०६ - ६
१०७- ५
७८ अनेकमनेकं जनयतीति पक्षस्य खण्डनम् । ७९ अवान्तरकारणविशेषात् कार्यविशेष इति कल्प उद्भाव्यापकृतः । १०८- २ ८० कुर्वद्रूपत्वेनैव हेतुत्वं कारणत्वेनैव कार्योत्पत्तिव्याप्यत्वमित्यस्य
निराकरणम् ।
१०५- ३
१११- ५
११३- ४
११४- ५
११६- २
११८- २
Page #35
--------------------------------------------------------------------------
________________
विषयाः,
अङ्काः,
८५ विनाशहेतु पक्षनिक्षिप्तश्च भावोत्पत्तावपि समान उत्पत्तिहेतुः स्वभावत एवोत्पित्सुं भावमुत्पादयतीत्यादिरूपेण विकल्पो. दर्शितः ।
.
८६ घटप्रच्युतेः कपालस्वरूपत्वे कुतः क्षणिकत्वमिति बौद्धमतखण्डनसमाप्तिः ।
८७ ऋजुसूत्रनयस्य पर्यायनय तरुमूलत्वम्, शब्दादिनयानामेतच्छाखारूपत्वम्, तत्र 'मूलनिम्माणं' इति गाथा संवादरूपेणोपदर्शिता व्याख्याता चं ।
८८ ऋजुसूत्रतरोः अशुद्ध शुद्धशुद्धतराः शब्दसमभिरूढैवम्भूताः शाखा प्रशाखाप्रतिशाखारूपा
स्थूलसूक्ष्म-सूक्ष्मतरभावतः
भाविताः ।
८९ शब्दादीनामृजुसूत्रमेदरूपत्वं व्युत्पत्तिनिमित्ततः परिभाषया च दर्शितम् ।
९० शब्दादिव्यावृत्तमृजुसूत्रनयलक्षणं नयविभागप्रयोजकमुपदर्शितम्, सप्तनयविभागस्यान्यथानुपपत्तिः, अन्यथा प्ररूपणे दोषोपदर्शनञ्च ।
९१ द्रव्यार्थिकः पर्यायार्थिको नैगमः सङ्ग्रहो व्यवहार ऋजुसूत्रः 'शब्दसमभिरूढ एवम्भूतश्चेत्येवं नव नया इत्येकविभाग - करणमतं दिगम्बरस्यापहस्तितम् ।
९२ पञ्च सप्त नयादेशवन्नव नयादेशोऽन्य इति दिगम्बराशयस्य प्रतिक्षेपः, एवं सप्तधा नवधा च तत्त्वविभागवन्नयविभागोऽपि तथा स्यादित्यस्यापि तदाशयस्योन्मूलनम् ।
९३ दर्शितस्य सर्वस्य ऋजुसूत्रवचनविस्तारस्य बाह्यार्थाभ्युपगमपरत्वं निगमितम् ।
९४ बाह्यग्राहकत्वलक्षणकौटिल्य र हितस्वस्वरूपप्रकाशज्ञानज्ञापकत्वतः शुद्धपर्यायास्तिकऋजुसूत्र इति कल्पः ।
पत्र-पी
१२४- २
१२७-६
१२७- ७
१२९ - ४
१३०- ५
१३२- ७
१३३- ३
१३५ - १
१३६- ५
१३६ - ६
Page #36
--------------------------------------------------------------------------
________________
अङ्काः,
९५ सर्वधर्मविरहशून्यतेत्यभ्युपगमपरः शुद्धतरपर्यायास्तिकावलम्बि
विषयाः,
ऋजुसूत्रं इति कल्पान्तरम् ।
९६ सौत्रान्तिक- वैभाषिकौ बाह्यार्थाभ्युपगमपरौ यथाक्रममृजुसूत्र-शब्दौ बाह्यार्थप्रतिक्षेपेण विज्ञानमात्राभ्युपगमपरः समभिरूढो योगाचारः विज्ञानस्याप्यभाव इत्यभ्युपगन्ता एवम्भूतो माध्यमिक इति सम्मतिवृत्तिस्तदाकलनं स्वकृतस्याद्वादकल्पलतापरिशीलनं कार्यमित्युपदेशः ।
॥ इति ऋजुसूत्रनयविचारः ॥
॥ अथ शब्दनयनिरूपणम् ॥ ९७ व्युत्पत्तिविशेषतः शब्दशब्दं निरुच्य तद्वाच्यार्थ प्राधान्येनोपचारान्नयस्य शब्दत्वं सदृष्टान्तं वर्णितम्, तत्र “सवणं सवइ" इति विशेषावश्यकसंवादः । एवं तस्य शब्दवाच्यार्थपरिग्रहप्राधान्ये “इच्छइ विसेसियतरं” इति निर्युक्तिदलं, तत्र “तं चिय रिउत्तमयं" इति भाष्यं च ।
९८ उक्तभाष्यव्याख्यानं, तत्र एकस्यैव भावघटस्याभ्युपगन्तृत्वेन नामादिनिक्षेपचतुष्टयाभ्युपगन्तुर्ऋजुसूत्राद्विशेषिततरत्वमा वेदि -
पत्र - पङ्क्ती
तम् ।
९९ शब्दनये नामादिनिराकरणे “नामादओ न कुम्भा" इति भाष्यं प्रमाणं तदुपवर्णनञ्च ।
१०० ऋजुसूत्रशिक्षणार्थं " जइ विगयाऽणुप्पन्ना" इति भाष्यं..
तद्व्याख्यानञ्च ।
१०१ ऋजुसूत्रशब्दयोः प्रकारान्तरेण " अहवा पच्चुप्पन्नो" "सब्भावासब्भावो” इति गाथाद्वयं भेदे प्रमाणम्, तद्व्याख्याने सद्भा वादिभिर्विशेषितत्वं स्पष्टीकृतम् ।
१३७ - १
१३७ - ३
.. १३९- २
१४१-१
१४१-११
१४३-२
१४४-२
Page #37
--------------------------------------------------------------------------
________________
पत्र-पती
१४५-१
१४८-६ १४९-३
१५२-६
१५४-४
अङ्काः ,
विषयाः, १०२ अत्र सद्भावासद्भावाभ्यां कुम्भस्यार्पितत्वे सप्तापि भङ्गाः क्रमेण
भाविताः। १०३ स्याद्वाददृष्टं सप्तमेदं घटादिकमर्थं यथाविवक्षमेकेन केनापि
भान विशेषिततरं शब्दनयः प्रतिपद्यते, स्याद्वादिनस्तु सम्पूर्णसप्तभन्यात्मकमपि प्रतिपद्यन्त इति विशेषावश्यकवृत्तिदर्शितं
निगमितम् । १०४ प्रसङ्गात् सप्तभझ्या अर्थनयाश्रितत्व-शब्दनयाश्रितत्वयोर्विचारः,
तत्र अर्थनयमतमुपदर्शितम् । १०५ शब्दनयमतम् । १०६ प्रकारान्तरेणर्जुसूत्राच्छब्दनयस्य विशेषिततरत्वमाशय प्रति
क्षिप्तम् । १०७ सप्तभङ्गया अर्थनयाश्रितत्वे शब्दनयाश्रितत्वे च ऋजुसूत्राच्छ
ब्दस्य विशेषिततरत्वं नोपपन्नमिति प्रश्ने ग्रन्थकारः प्रथम "एवं सतविअप्पो” इति सम्मतिमतं यद्यपीत्यादिना प्रकटीकृत्य
तथापीत्यादिना वाकलितं समाधानं प्रकटितवान् । १०८ लिङ्ग-वचने समाश्रित्य विशेषिततरं वस्त्विच्छति शब्दनय इत्यु
पदर्शकं “वत्थुमविसेसओ" इति भाष्यं तव्याख्यानञ्च । १०९ कुत एवमित्याकाङ्घानिवृत्तये हेतुप्रतिपादकं “धणिभेयाओ" इति
भाष्यं तद्व्याख्यानं च।। ११. नामादिनिक्षेपेषु भाव एव वस्त्विच्छति शब्द इति "तो भावो . चिय' इत्युपसंहारभाष्यं तद्विवरणञ्च तत्र समभिरूढेन सहास्य
मतभेदश्च । १११ कारकादिभेदेनानेकार्थाभ्युपगन्तृत्वं शब्दस्य भावितम् ।
॥ इति शब्दनयनिरूपणम् ॥
१५४-७
१५६-६
१५७-३
१५८-८
१६०-६
Page #38
--------------------------------------------------------------------------
________________
११
विषयाः,
॥ अथ समभिरूढनयनिरूपणम् ॥
११२ एकमेव संज्ञां समभिरोहतीति समभिरूढ इति व्युत्पत्तौ "जं जं सण्णं भासई" इति भाष्यं तद्विवरणञ्च तत्र घटशब्दवाच्योऽर्थः कुटादिशब्दवाच्यो नेच्छत्ययम् ।
अङ्काः,
११३ समभिरूढे वस्तुनः सङ्क्रमणमवस्त्वित्युपदर्शकं “वत्थूओ” इति निरुक्तिदलं, तद्व्याख्यारूपं " दव्वं पज्जाआ वा" इति " णहि सद्दंतरवच्च” इति पद्यद्वयरूपं भाष्यं, तद्व्याख्यानञ्च ।
११४ घट-कुटादिपदार्थानां भेदसाधकप्रमाणप्रतिपादकं “घडकुडसद्दत्थाणं" इति भाष्यं तद्याख्यानञ्च ।
११५ शब्दन यशिक्षणार्थं " धणिमेयाओ” इति भाष्यं तद्विवरणञ्च । ११६ तत्र विभिन्नलिङ्ग-वचनादिशब्दवाच्यत्वमर्थभेदे न प्रयोजकं, किन्तु विभिन्नशब्दवाच्यत्वमित्यादि चर्चितम् ।
११७ वसत्याद्यभ्युपगमेऽप्यस्य पूर्वनयेभ्यो भेदः, तत्र वसति विचारमधिकृत्य “आगासे वसइत्ति" इति "वत्युं वसइ" इति च भाष्यगाथाद्वयं तद्विवरणञ्च ।
११८ एतद्विचार एव सङ्ग्राहकमन्यत्रोक्तं " णेगम - ववहाराणां" इति स्वयं पद्यं तद्विवरणञ्च ।
११९ प्रस्थकविचारसमाश्रयणेनास्य नयस्य पूर्वनयेभ्यो भेदोपदर्शकं " माणं पमाणमिट्ठ" इति भाष्यं तद्याख्यानश्च ।
१२० शब्दनयानां किं प्रमाणं प्रस्थकादि, किं वा न प्रमाणमित्यत्र यदभिमतं तस्योपदर्शकं "णहि पत्थाइ पमाणं” इति भाष्यं तद्विवरगञ्च ।
१२१ अत्रैव परमतशङ्कासमाधानप्रवणं
“पत्थादयो वि” इति
" तक्कारणं ति वा " इति भाष्यगाथाद्वयं तद्याख्यानञ्च ।
पत्र- पङ्की
१६३-५
१६४-४
१६६-३
१६६-१२
१६७-५
१६९–३
१७१-३
१७२-५
१७३–६
१७४-३
Page #39
--------------------------------------------------------------------------
________________
अकाः, विषयाः,
पत्र-पती १२२ प्रस्थकस्य प्रमाणत्वप्रतिपत्तये प्रस्थकत्वप्रकारकालौकिकधान्य
चाक्षुषे खावच्छिन्नचक्षुःसंयोगसम्बन्धेन प्रस्थकस्य हेतुत्वम् , इति नव्यतकस्य निराकरणम् ।
। १७६-१ १२३ प्रस्थकज्ञानमेव प्रस्थकप्रमाणमिति त्रयाणां शब्दनयानामविशिष्टम् , एवमपि विषयभेदस्तत्रेति दर्शितम् ।।
१७६-७ १२४ पञ्चानां धर्मास्तिकायादीनां देशप्रदेशकल्पनायामप्यस्य नयस्य
मते षष्ठीसमासादिनेष्टं, किन्तु कर्मधारय एवैतस्य सयुक्तिकत्वव्यवस्थानपरं "देसी चेव य देसो" इति “एत्तो चेव समाणाहिगरणया" इति भाष्यगाथाद्वयं तद्विवरणञ्च ।
१७७-२ १२५ नयान्तरतो मेदसिद्ध्यर्थ समभिरूढनयाकूतान्तरोपदर्शकं "घड
कारविवक्खाए" इति "कुंभंमि वत्थुपज्जाय” इति च गाथाद्वयं तयाख्यानञ्च ।
१८१-२ १२६ मृदादिद्रव्यमेव घटकारशब्दार्थः कुलालादिस्तु घटकाराध्यव
सायकार एव, अभिमानिकसम्बन्धेन केवलं बाह्यघटादिकारित्वं कुलालादावभ्युपगच्छन्ति व्यवहारमूढाः, उक्तार्थे "मृदावादिभावैः ?" इति स्वपद्यस्योल्लेखः ।
१८२-५ १२७ एतन्नये परगतस्य दानहरणादेर्नास्त्येव सद्भावः, शब्दसमभिरूढयोरवान्तरविशेषोऽपि दर्शितः।
१८३- १ १२८ हिंसाविषये नैगमादीनामभ्युपगममेदे, शब्दनये खपरिणाम
विशेषरूपा सेति विचारे शब्दसमभिरूढयो वहिंसाद्याश्रित्य विषयभेदः, एवम्भूतस्तु क्रियाकालान्यकालस्पर्शिपदार्थप्रतिक्षेपाद्विशिष्यत इति दर्शितम्।
॥ इति समभिरूढनयविचारः ॥
Page #40
--------------------------------------------------------------------------
________________
अङ्काः , विषयाः,
पत्र-पती ॥ अथ एवंम्भूतनयविचारः॥ .. १२९ पदार्थव्युत्पत्तिनिमित्तक्रियाकालव्यापकपदार्थसत्ताभ्युपगमपर
एवंभूतः, तत्र “एवं जह सद्दत्थो" इति भाष्यं तद्वयाख्यानश्च । .
१८४- ६ १३० एवम्भूतनयस्वरूपोपदर्शकं “वंजण-अत्थ-तदुभयं" इति ।
नियुक्ति-वचनं “वंजणमत्थेणत्थं च" इति तद्वयाख्यानरूपं भाष्यं तद्विवरणञ्च ।
१८६- ४ १३१ व्युत्पत्तिनिमित्तक्रियाकाल एव तद्वाचकोऽन्यदा नेत्यस्य
प्रमाणतः समर्थकं “सद्दवसादभिधेयं" इति भाष्यं तद्विवरणञ्च। १८७-१० १३२ समभिरूढनयशिक्षणार्थकं “सद्दपरिणामओ" इति भाष्यं तद्वयाख्या च ।
१८८-१२ १३३ समभिरूढो यदि वस्तुसङ्क्रमण न स्वीकरोतु तदा कथं निश्चेष्टेऽर्थे
चेष्टावतोऽपि संक्रान्तिः, तथा सति प्रतिज्ञाहानिस्तस्येत्युपदर्शकं
"जइ वत्थुसङ्क्रमो” इति भाष्यं तद्विवरणश्च । . १३४ समभिरूढनयादित एवम्भूतनयस्यान्योऽपि मतभेद इत्युप
दर्शकं "एवं जीवं जीवो" इति भाष्यं, तव्याख्याने पञ्चेन्द्रियाणीति वचनाद्दशविधप्राणधारणं कुर्वन्नेव जीव इति संसारी जीवो, मुक्तस्तु सत्त्वात्मादिशब्दैर्व्यपदेश्य इति ।
१९०- २ १३५ व्यवहारतः कालत्रये इन्द्रियबलमायुःप्राणापानलक्षणचतुष्
प्राणा जीवाः, निश्चयतश्चेतनाद्वययुक्तो जीव इति दिगम्बरस्य कपोलकल्पितं मतं न युक्तमित्युपपादितम् ।
१९१- ४ १३६ सिद्धान्ते आदिदेशना व्यवहाराश्रितैव, न तु निश्चयदेशना, .
एतत्प्रतिपादनं व्यवहारभाष्ये, तत्समर्थनं खोपज्ञविवृतिसमलङ्कृते गुरुतत्त्वविनिश्चये इत्यादि विचारितम् ।
१९४- ५
१८९- २
Page #41
--------------------------------------------------------------------------
________________
१४
१९७
अङ्काः, विषयाः,
पत्र-पती १३७ देश-देशिनोरेकत्वं समर्थयता समभिरूढेन देशी चासौ देशश्चेति
यदुक्तं तदपि न युक्तमित्युपदर्शकं "जइ देसि च्चिय देसो" इति
भाष्यं तद्वयाख्या च। १३८ अभेदपक्षोक्तदोषभयात् समभिरूढस्य देश-देशिनोः स्वानिष्टमपि
मेदाभ्युपगमनं न युक्तमित्युपदर्शकं “अह भिन्नो तस्स तओ" इति भाष्यं तद्विवरणञ्च ।
१९८-१२ १३९ देशिन एकदेशभूत एव देश इत्यवबोधनार्थ नोदेशी इति
प्रयोग इत्यप्ययुक्तमित्यर्थकं "नो सद्दो वि समत्त" इति भाष्यं तद्विवरणञ्च ।
. १९८- ८ १४० समभिरूढाभिमतो नीलोत्पलादिशब्दानां कर्मधारयसमासोऽपि
न युक्त इत्युपदर्शकं "नीलुप्पलाइसद्दा” इति भाष्यं तद्विवरणं च। १९९-११ १४१ सर्व धर्मास्तिकायादिकं वस्तु सम्पूर्ण देश-देशिकल्पनारहितम् ।
एतस्माद्विलक्षणमवस्त्वित्युपसंहारपरं नो वत्थुसंकराइ इति
भाष्यं तद्विवरणश्च । १४२ अखण्डवस्तुव्यतिरिक्तवस्त्वनभ्युपगमे नीलघट इत्यादिसमासवाक्या
नीलो घट इत्यादिवाक्याच्च बोधानुपपत्त्याशङ्कायामिष्टापत्तिरेव समाधानम् ।
२०१-१ १४३ समभिरूढतो नयत एवम्भूतनये लाघवादिको विशेष आवेदितः । २०१- ३ १४४ शब्दादिनयत्रयविचारसमर्थनावेदकं ग्रन्थकर्तृपद्यम् । २०३- ५
॥ इति सप्तनयविचारः॥
२००-९
१४५ एते च नयाः प्रत्यक्षादिस्थले परस्परसापेक्षाः प्रमाणं, शब्दस्थले ___ च सप्तभनयात्मकमहावाक्यरूपाः प्रमाणम्, न निरपेक्षाः, तत्र
"जे वयणिजवियप्पा इति" सम्मतिगाथा तद्विवरणश्च । २०३-३ १४६ पुरुषविशेषमपेक्ष्यैकनयदेशनाप्यदुष्टेत्यत्र “पुरिसजायं तु" इति सम्मतिगाथा, तद्विवरणञ्च ।
२०४-१२
Page #42
--------------------------------------------------------------------------
________________
१५
अङ्काः ,
विषयाः,
पत्र-पती १४७ स्याद्वाददेशनाया अभ्यर्हितत्वेन तद्वाक्यात्मकसप्तभङ्गीवाक्यस्यो
पदर्शनम्, तत्रासत्त्वोपसर्जनसत्त्वविवक्षायां : प्रथमो भङ्गः,
सत्त्वोपसर्जनासत्त्वविवक्षायां द्वितीयभङ्गः। .:. २०५१४८ युगपदुभयविवक्षायां तृतीयभङ्गः, द्वयोधर्मयोरसत्त्वासत्त्वयोः
प्राधान्येन गुणभावेन वा प्रतिपादने कस्यापि वचसो न साम
र्थ्यम्, तत्र षण्णामपि समासवाक्यानां न सामर्थ्य मिति
प्रपञ्चितम् । १४९ समाससमानार्थकत्वेन व्यासवाक्यमपि युगपद्विवक्षितधर्मद्वय
प्रतिपादकं न, केवलं पदं वाक्यं वा तथाभूतार्थप्रतिपादकं न लोकप्रसिद्धमित्युपपादितम् ।
२०९- १ १५० घटशब्दप्रवृत्तिनिमित्त विधिरूपेऽसंबद्ध पटाद्यर्थान्तरप्रतिषेध
इति द्वितीयभङ्गो न सम्भवतीत्याशङ्कायाः प्रतिविधानम् । : २११- ५ १५१ प्रथमभङ्गत एव समानसंविसंवेद्यतया द्वितीयभङ्गार्थलाभादसमर्थको द्वितीयभङ्गस्योपन्यास इत्याशङ्काया दूरीकरणम् ।
२१२- ४ १५२ प्रतियोगिपदार्थानां वृत्तिशब्दार्थैकदेशेऽन्वयो भवतीत्यस्य संवा-:
दकं "प्रतियोगिपदादन्यद्" इति वचनम् । ___ २१२-१६ १५३ सर्व सर्वात्मकमिति साञ्जयमतखण्डनार्थकत्वेन सार्थको द्वितीयभङ्ग इति कल्पान्तरम् ।
२१३- ५ १५४ नामादिचतुर्विधस्वरूपेषु घटादिषु विधित्सितप्रकारेण प्रथमो.
ऽविधित्सितप्रकारेण द्वितीयः, ताभ्यां युगपदादिष्टोऽवाच्य इति द्वितीयः कल्पः ।
२१४- १ १५५ वीकृतप्रतिनियतप्रकारे नामादिके नामघटस्याश्रयणे तद्रूपेण
प्रथमो घट इति तदितरेण चाघट इति द्वितीयः, ताभ्यां युगपदादिष्टोऽवक्तव्य इति तृतीयः कल्पः ।
२१५- ९ १५६ स्वीकृतप्रतिनियतसंस्थानादौ मध्यावस्थाश्रयणेन प्रथमः, पूर्वो
त्तरावस्थालक्षणार्थान्तरेण द्वितीयः, ताभ्यां युगपदादिष्टाभ्यामवक्तव्य इति तुरीयः कल्पः ।
२१६- ५
Page #43
--------------------------------------------------------------------------
________________
पत्र-पक्षी
अङ्काः ,
विषयाः, १५७ मध्यावस्थाखरूप एव वर्तमानक्षणरूपेण प्रथमः, अवर्तमान
क्षणरूपेण द्वितीयो भङ्गः, ताभ्यां युगपदादिष्टोऽवक्तव्य इति - पञ्चमः कल्पः।
२१७-३ १५८ तत्रैव लोचनजप्रतिपत्तिविषयत्वं निज रूपमाश्रित्य प्रथमः,
तदविषयत्वेन परेण द्वितीयः, ताभ्यां युगपदादेशेऽवक्तव्य इति षष्ठः कल्पः।
२१८ १५९ तस्मिन्नेव घटशब्दवाच्यतात्मकनिजरूपेण प्रथमः, कुटशब्दा
भिधेयत्वात्मकार्थान्तररूपेण द्वितीयः, ताभ्यां युगपदादेशेऽवक्तव्य इति सप्तमः कल्पः। .
२१८-८ १६० तत्रैव घटे हेयोपादेयान्तरङ्गबहिरङ्गोपयोगानुपयोगरूपतया
सदसत्वात् प्रथम-द्वितीयौ, ताभ्यां युगपदादेशेऽवक्तव्य इत्यष्टमः कल्पः।.
२१९-८ १६१ तत्रैवोपयोगेऽभिमतार्थावबोधकत्वेन प्रथमः, अनभिमतार्था
नवबोधकत्वेन द्वितीयः, ताभ्यां युगपदादेशेऽवक्तव्य इति नवमः कल्पः ।
२२०- ५ १६२ घटत्वमसाधारणत्वान्निजं, सत्त्वं साधारणत्वादर्थान्तरं, ताभ्यां
प्रथम-द्वितीयौ, अभेदेन ताभ्यां निर्दिष्टोऽवक्तव्य इति दशमः कल्पः ।
२१- १ १६३ अर्थपर्यायो निजः, व्यञ्जनपर्यायोऽर्थान्तरभूतः, ताभ्यां प्रथम
द्वितीयौ, अभेदेन ताभ्यां निर्देशेऽवक्तव्य इत्येकादशः कल्पः। २२२- ८ १६४ सत्त्वमवाच्यं विशेषोऽप्यवाच्यः, प्रत्येकावक्तव्याभ्यां ताभ्यामादिष्टो घटोऽवक्तव्य इति द्वादशः कल्पः ।
२२३- ६ १६५ असन्द्रुतरूपाः सत्त्वादयोऽर्थान्तरं निजं सन्दुतरूपं, ताभ्यामादिष्टो घटोऽवक्तव्य इति त्रयोदशः कल्पः ।
२२४- ४ १६६ रूपादयोऽर्थान्तरभूताः, असंहृतरूपत्वं निजं, ताभ्यामादिष्टोऽवक्तव्य इति चतुर्दशः प्रकारः।
२२६-७
Page #44
--------------------------------------------------------------------------
________________
विषयाः,
पत्र-पकी
२२७- ७
२२७-१२
२२८- ६
अङ्काः , १६७ रूपादयोऽर्थान्तरभूताः, मतुबर्थों निजः ताभ्यामादिष्टो
घटोऽवक्तव्य इति पञ्चदशः प्रकारः । १६८ बाह्योऽर्थान्तरभूतः, उपयोगो निजः ताभ्यामादिष्टोऽवक्तव्यः,
इति षोडशः प्रकारः। १६९ उक्तदिशा भङ्गत्रयसमर्थने “अत्यंतरभूएहि" इति सम्मतिगाथा,
तद्वयाख्यानञ्च । १७० उपदर्शितेषु षोडशखवक्तव्यविकल्पेषु मध्ये एकादशसु त्रयोऽपि
भङ्गाः, द्वादशादिषु पञ्चसु सर्वथैकान्ते सर्वथाऽवक्तव्यभङ्ग एव, तत्र बाधितेऽबाधितेऽनैकान्ते त्रयाणां भङ्गानां क्रमाभिधान
मेव सम्प्रदायसिद्धमिति निगमितम् । १७१ सर्वत्रानेकान्ताभ्युपगमे सर्वमस्तिस्वरूपेण पररूपेण नास्ति चेति
वचनमेवानुपपन्नं खपररूपयोरप्यनिर्धारणादिति पशुपालोक्त
स्यापाकरणम् । १७२ उपदर्शिता आद्यास्त्रयो भङ्गाः सकलादेशाः, अन्त्याश्चत्वारो
भङ्गा विकलादेशा इति मतस्योपपादनम् । . १७३ स्यादस्ति नास्ति च घट इति चतुर्थभङ्गस्य प्रथमविकलादेश
स्योपपादिका "अह देसो सम्भावे” इति सम्मतिगाथा तया
ख्यानञ्च । १७४ स्यादस्त्यवक्तव्यश्च घट इति पञ्चमभङ्गस्य द्वितीयविकलादेश
स्योपपादिका "सब्भावे आइट्ठो” इति सम्मतिगाथा, तद्या
ख्यानञ्च । १७५ एतद्विचारे विशिष्ट प्रतिपत्तये स्वाभिप्राय आवेदितः । १७६ स्यान्नास्ति चावक्तव्यश्च घट इति षष्ठभङ्गस्य तृतीयविकलादेशस्य
समर्थनपरा “आइट्ठोऽसब्भावे” इति सम्मतिगाथा तद्वि
व
२३०-१
२३३
२३५-१
२३६-७
२३८-६
वरणञ्च।
२४०-९
Page #45
--------------------------------------------------------------------------
________________
अङ्काः,
पत्र-पती
२४१-८
२४२-५
२४३-६
विषयाः, १७७ स्यादस्ति स्यान्नास्त्यवक्तव्यश्च घट इति सप्तमभङ्गस्य चतुर्थवि
कलादेशस्योपपादिका “सब्भावासब्भावे” इति सम्मतिगाथा
तदर्थप्रकटनश्च । १७८ एते सप्तभङ्गाः परस्पररूपापेक्षाः प्रत्येकात्मना समुदायात्मना
च सप्तभङ्गयात्मका तथात्वं च विभज्योपपादितवन्तः सम्प्रदायविदां मतमाश्रित्य, सुनयत्वं द्विधोदाहरणसम्वलितं प्रमाणदुर्नय-सुनयविभागः, तत्र सुनयवाक्यस्यैव व्यवहारकारणत्व
मिति विवेकः । १७९ अत्र आद्यभङ्गादीनां त्रिप्रकारत्वादिकं मल्लवादिप्रभृतिदर्शितं
विभज्य दर्शितम् । १८० अनन्तधर्मात्मके वस्तुनि तत्प्रतिपादकवचनस्य सप्तविधत्वमेव,
नाष्टविधत्वादिकं तेन सप्तभङ्ग्येव प्रमाणं नाष्टभङ्गयादिकमिति
प्रश्नप्रतिविधानाभ्यां निर्णीतम् । १८१ सप्तभङ्गया नयविभागोपदेशरूपा "एवं सत्तवियप्पो" इति
सम्मतिगाथा तद्विवरणञ्च । १८२ स्यादवक्तव्य एव घट इति तृतीयभङ्गस्य ऋजुसूत्रनिमित्ततायां
किं बीजमिति प्रश्नप्रतिविधानम् , तत्र प्रश्नान्तरस्य स्खीयबुद्धि
प्रविभावितोत्तरोपदर्शनम् । १८३ “एवं सत्तवियप्पो” इति सम्मतिगाथाया व्याख्यानान्तरम् । १८४ व्यञ्जननये प्रथम-द्वितीयावेव भङ्गाविति टीकाकृतो व्याख्यान
मुपसंहृत्य तत्र तत्तात्पर्यस्योदृङ्कनपुरस्सरं कथं सङ्गमनमित्याक्षेपस्य
खमनीषया प्रतिविधानमावेदितम् । १८५ स्यादवक्तव्य एवेति तृतीयभङ्गस्य सम्भवेऽपि देशकृताश्चत्वारो
भङ्गा देश्यतिरिक्तदेशाभावान्न शुद्धव्यञ्जननये सम्भवन्तीत्युपदिष्टम्।
२४३-१६
२४६-२
२४७-७
२५१-१
२५२-९
२५६-१
Page #46
--------------------------------------------------------------------------
________________
१९
विषयाः,
अङ्काः,
१८६ स्वगुरुपूर्णप्रसादप्राप्तितः कुनयवाददलनपुरस्सरं सप्तभङ्गप्ररूपणमिति पद्येनावेदितम् ।
१८७ नेमिसूरिगुरुप्रसादतो लावण्यसूरिनिर्मिता नयविषयस्यानेकान्तव्यवस्थाप्रकरणस्य तत्त्वबोधिनीविवृतिः पूर्णेत्यावेदितम् । १८८ प्रतिज्ञातस्यानेकान्तात्मकवस्तुनः प्रमाणनयविषयत्वस्योपसंहर
णम् ।
१८९ एकान्तसदसद्विलक्षणस्य जात्यन्तरात्मकस्य घटादेरनुभूयमानत्वं सदृशपर्यायस्य सत्त्वनिमित्तस्य व्यञ्जनपर्यायत्वमेव न त्वर्जुसूत्राभिमतार्थपर्यायत्वम् ।
१९० सामान्यमात्रस्य विशेषमात्रस्य च न शब्दवाच्यत्वं, किन्तु उभयात्मकस्यैव, तच्चार्थपर्यायरूपमेवेति तद्विलक्षणव्यञ्जन पर्यायासिद्धेस्तदपेक्षया कथं सत्त्वमित्याशङ्कायाः प्रतिविधानमनेकान्तवादप्रवेशे तद्विस्तार इत्युपदेशः ।
१९१ सदृशव्यञ्जनपर्यायैरेव सर्वमस्तीत्युपसंहारः, अत्र " परपज्जवेहिं” इति सम्मतिसंवादः ।
१९२ प्रत्युत्पन्नपर्यांयेणास्तित्वनियमेऽप्येकान्तवादापत्तिरिति प्रश्नप्रतिविधानपरा “पज्जुप्पण्णं वि" इति सम्मतिगाथा तद्विवरणञ्च । १९३ प्रत्युत्पन्ने चात्मद्रव्यपर्याये कथमनेकान्तरूपतेति शङ्काया निराकरणम्, तत्र आत्मपर्यायस्यापि ज्ञानादेस्तत्तद्गाह्यार्थापेक्षयाSनेकान्ततोपपादिता ।
१९४ द्रव्य-कषाय-योग-उपयोग- ज्ञान-दर्शन- चारित्र - वीर्येत्यष्ट प्रकारभेदादात्मनः पुद्गलवदनेकान्तरूपता सिद्धान्तसिद्धा, तदुपपादकानि वाचकमुख्यस्य " द्रव्यं कषाययोगा" वित्यादीनि पञ्च पद्यानि प्रशमरतिगतान्युपनिबद्धानि ।
१९५ प्रकारान्तरेणात्मनोऽनेकान्तरूपतोपपादिका "कोवं उप्पायंतो” इति सम्मतिगाथा तद्विवरणं च ।
पत्र-पङ्की
२५६-४
२५६-२८
२५७-१
. २५७-३
२५८-१
२६०-१
. २६०-६
२६१-५
२६२-२
२६३-५
Page #47
--------------------------------------------------------------------------
________________
२० अङ्काः, विषयाः,
पत्र-पक्षी १९६ द्रव्य-गुणयोर्भेद एव न तु मेदाभेदाविति वैशेषिकमतोत्थापिका "रूवरसगंधफासा" इति सम्मतिगाथा तयाख्यानञ्च ।
२६५-८ १९७ एतन्मतखण्डनपरा “पूरे ता अण्णत्तं" इति सम्मतिगाथा . .. तद्विवरणञ्च ।
. २६६-८ १९८ पर्यायागुणस्यान्यत्वे पर्यायार्थिकवद्गुणार्थोऽपि नयः स्यादित्य- .. .
निष्टापत्त्युपदर्शिका "दो उ णया भगवया" इति सम्मतिगाथा, तद्वयाख्या च। .. .
२६८- १ १९९ भगवता गुणार्थिको नयो नाभिहितः, किन्तु तेषु तेषु सूत्रेषु
पर्यायसंज्ञा नियमिता वर्णादिषु ते न पर्याया एव वर्णादयो न गुणा इत्यभिप्रायिका "जं च पुण अरहया" इति सम्मतिगाथा, तद्विवरणं च ।
२६८-८ २०० तत्र गुण एव पर्यायशब्देनोक्तः किं न स्यादिति शङ्कानिराकरण
परा "परिगमणं पजाओ" इति सम्मतिगाथा, तद्वयाख्यानश्च । २६९- ३ २०१ सहभावि-क्रमभाविधर्मवाचकगुणपर्यायशब्दवाच्ययोर्गुणपर्याय
योर्भेदे सति गुणार्थिकनयोऽपि भगवताऽर्थादादिष्ट एवेत्या___ शङ्कापरा "जं पंति अत्थि समए" इति संमतिगाथा,
तद्वयाख्या च । २०२ उक्ताशङ्कानिराकरणपरा “गुणसहमंतरेणापि" इति सम्मतिगाथा, तद्विवरणञ्च ।
२७१-११ २०३ गुणशब्दमन्तरेणापि पर्यायविशेषसंख्यावाचकं सिद्ध्यतीत्येत
ढयितुं दृष्टान्तोपदर्शिका "जह दससु दसगुणम्मि य" इति सम्मतिगाथा तदर्थकथनञ्च ।
२७२- ६ २०४ गुणाणां पर्यायानतिरेकेऽपि “गुणपर्यायवद्रव्यम्” इति वाचकसूत्रं
यथा न विरुद्ध्यते तथा भावितम् , एवं “गुणाणमासओ दव्वं" इत्याधुत्तराध्ययनवचनं, “दव्वं नामे" इत्याद्यनुयोगद्वारवचनं च सङ्गमितम् ।
२७३- १
२७१-१४
www.
Page #48
--------------------------------------------------------------------------
________________
अङ्काः ,
विषयाः,
पत्र-पकी २०५ स्वकपोलकल्पनामात्रस्य दिगम्बरमतस्य प्रतिक्षेपार्थमुपन्यासः, .
तत्र अस्तित्वादयो द्रव्याणां सामान्यगुणाः, तेषु मध्ये अष्टौ . अष्टौ सर्वेषाम् , ज्ञानदर्शनादयाः षोडश विशेषगुणाः, तेषु प्रत्येक जीवपुद्गलयोः षट् षट्, इतरेषां प्रत्येकं त्रयस्त्रयो गुणा इत्यादि दर्शितम् , अस्तित्वादीनां परिभावनञ्च ।
२७४- ५ २०६ अगुरुलघुगुणा आगमप्रमाणकाः, तत्र "सूक्ष्मं जिनोदितं तत्त्वं" इति वचनं संवादकम् ।
२७६-६ २०७ चैतन्यमनुभवनमित्यत्र "चैतन्यमनुभूतिः स्यादिति पद्यं दर्शितम् । २७६-१० २०८ अस्तिखभाव-नास्तिखभावादिभेदेन सामान्यस्वभावा द्रव्याणा
मेकादश चेतनस्वभावाचेतनस्वभावादिभेदेन द्रव्याणां दश विशेषखभावाः।
२७७- ३ २०९ उक्तानां स्वभावानां जीवपुद्गलादिषु विशेषावस्थानप्रकारः, तत्र “एकविंशतिर्भावाः स्युः" इति पद्यमुल्लिखितम् ।
२७७-१० २१० अस्तिस्वभावादीनां विवेचनं, तत्र क्वचित् प्राचीनपद्यसंवादः। २७८- ३ २११ एते खभावा अनेकान्तवाद एव घटन्त इत्यादि बहु चर्चितम् । २८०- २ २१२ विशेषाभावे सामान्यस्याप्यभाव इत्यत्र "निर्विशेष हि सामा
न्यम्” इति पद्यं प्राचां संवादकमुपदर्शितम् । . २८१-४ २१३ प्रसङ्गान्नयोपनययोजनायाः कर्त्तव्यत्वे दिगम्बरोक्ता नयोपनयमेदा विस्तरत उपदर्शिताः ।
२८४-६ २१४ द्रव्यार्थिकस्य दश भेदाः, पर्यायाधिकस्य षट् भेदाः, नैगमस्य
त्रयो भेदाः, सङ्ग्रहस्य द्वौ भेदौ व्यवहारस्य द्वौ, ऋजुसूत्रस्य द्वौ, शब्दादयस्त्रयः प्रत्येकमेकैकभेदा दर्शिताः, सर्वेऽप्यष्टाविंशतिर्नयभेदाः।
२८४-९ २१५ सद्भूतासद्भूतोपचरितासद्भूतव्यवहारभेदेनोक्तानां त्रयाणामुपनयानां विषया अवान्तरभेदाश्च विभाविताः।
२८८-७ २१६ नयोपनयमेदानां यथासम्भवं योजनम् ।
२९१-१
-
.
Page #49
--------------------------------------------------------------------------
________________
२२
२९४-७
२९७-२
२९७-७
अङ्काः, विषयाः,
पत्र-पती २१७ गुणविकाराणां पर्यायाणां द्विविधस्य स्वभावविभावमेदस्यावा
न्तरमेदा दर्शिताः, तत्र "अनादिनिधने द्रव्ये" इति पद्यद्वयं
संवादकम्। २१८ तदेतद्दिगम्बरमतं खण्डितं विस्तरतः तत्र गुणानां पर्यायान
तिरेके गुणखभावभेदकल्पनायां प्रमाणाभावादिहेतुरुपदर्शितः। २९५-१३ २१९ द्रव्यत्वस्य गुणत्वे पर्यायत्वस्य कुतो न गुणत्वम् , एवं सामा
न्यत्वादावपि पर्यनुयोगः। २२० गुण-पर्यायव्यतिरिक्ताः स्वभावा न सन्तीति तेषां पृथगुपदे
शोऽपि न युक्त इति तत्र विध्येकनियमितस्वभावा गुणाः, विधि-निषेधान्यतरनियन्त्रितधर्माः स्वभावा इति दिगम्बराभिप्रायस्य निरसनम् । दिगम्बरोक्तायाः खभावनययोजनाया अपि न सिद्धान्तानुपातित्वमिति भावितम्, तत्रान्वयिद्रव्यार्थिकेनानेकस्वभावत्वयो__ जनस्याघटमानत्वहेतुरुपपादितः ।
२९८-२ २२२ एकत्वसापेक्षानेकत्वग्राहकोऽशुद्धपर्यायार्थिकोऽतिरिक्त इति
दिगम्बराकूतस्योन्मूलनम् , तत्र स्वाभ्युपगमविशेषो दर्शितः। २९९-३ २२३ "परिगमणं पज्जाओ" इति सम्मतिवचनानुसारेणानेकखभावत्वं पर्यायार्थिकेनैव ग्रात्यमिति निगमितम् ।
३०१-१ २२४ अन्यदपि दिगम्बरस्य प्रथममभिहितमुपन्यस्य प्रतिक्षिप्तम् । ३०१-४ २२४ गुणविकाराः पर्याया इत्युद्दिश्य यदपि विभजनं दिगम्बरकृतं तदप्युत्सूत्रविलसितमिति ।
३०३-२० २२५ गुणविकारत्वं पञ्चधा विकल्प्य दूषितम् ।
३०४-५ २२६ गुणा एव हि पर्याया इति सम्मतिप्रतिपादनेन द्रव्यगुणपर्याय
योर्जात्या मेदाभिधानमयुक्तम्, एतेन प्रवचनसारवृत्तौ पर्या. यस्य चतुर्धाविभागकरणञ्चामृतचन्द्रस्य निरस्तमित्यावेदितम् । ३०६- २
mM
Page #50
--------------------------------------------------------------------------
________________
२३ अङ्काः, विषयाः,
पत्र-पती २२७ अस्मिन् विभागे “अणुदुअणुएहिं दव्वे" इति सम्मतिग्रन्थेन
"एगत्तं च पुहुत्तं च” इत्याद्युत्तराध्ययनेन च व्यवस्थापितस्य
परमाणुपर्यायस्य विभागजस्य कुत्रान्तर्भाव इत्याक्षेपोऽनिवार्यः। ३०६-१२ २२८ धर्मास्तिकायादीनामशुद्धस्वभावः पर्यायः “आगासाइआणं" इति सम्मतिसम्मतः कथं नोपदिष्टं इत्याक्षेपः ।
३०७-९ २२९ गुण-पर्यायवद्रव्यमित्यत्र पर्यायातिरिक्तगुणाभावेऽपि युगपद
युगपत्पर्यायविवक्षया सङ्गमनेऽपि मतुब्योगात् द्रव्यपर्याययोर्भेद आयातीति तटस्थाशङ्काया नित्ययोगे मतुपो विधानादेकस्यैव द्रव्यस्य पुरुषस्य पितृ-पुत्राद्यपेक्षया नानात्वमिव नानात्वमिति न द्रव्यगुणयोरन्यत्वमिति प्रतिविधानं, तत्र "पिउ-पुत्त" इत्यादिसम्मतिगाथाद्वयं प्रमाणम् ।
३०८-८ २३० द्रव्य-गुणयोरमेदोपगमे द्रव्याद्वैतैकान्तसिद्ध्या तयोर्भेदाभेदवाद
क्षतिरित्याशङ्कायाः प्रतिविधानम् , तत्र "होज्जाहि दुगुणमहुरं" इति सम्मतिगाथासंवादो दर्शितः ।
३११- १ २३१ अत्रैकान्ताभेदवादिनः शङ्का, सिद्धान्तवादिनः प्रतिविधानं च
"भण्ण संबंधवसा" इति “जुजईसंबंधवसा" इति सम्मति
गाथाभ्यां सङ्गमिते । २३२ अनेकान्तवादिनो रूप-रसादेरनन्तगुण-द्विगुणादिवैषम्यपरिणतिः
कथमुपपन्नेति शङ्कायाः समाधानपरा "भण्णइ विसमपरिणई" इति सम्मतिगाथा, तद्व्याख्यानं च ।
३१३- ३ २३३ द्रव्य-गुणयोर्भेदैकान्तवादिनां द्रव्य-गुणलक्षणानुपपत्त्याशङ्का
“दव्वस्स ठिई-जम्म-विगमाय” इति सम्मतिगाथया व्याख्यासनाथया दर्शिता।
३१५- १ २३४ उक्ताशङ्कोत्तरपरा “दव्वत्थंतरभूया" इति सम्मतिगाथा तद्व्याख्या
च । २३५ उक्तगाथार्थदाार्था “सीसमयिविस्फारण" इति सम्मतिगाथा, ...
तद्व्याख्या च ।
३१२-४
سر
३१६- ४
. . ३१८- ३
Page #51
--------------------------------------------------------------------------
________________
२४
अङ्काः,
विषयाः,
पत्र-पती
३१८- ८
३२०- ३
३२३-१५
३२४-१
२३६ अनेकान्तात्मके वस्तुन्येकान्तभेदादिप्ररूपणा मिथ्यावाद इत्युप
दर्शिका *ण वि अत्थि अण्णवाओ” इति सम्मतिगाथा,
तव्याख्या च । . २३७ सर्वत्रानेकान्त इति नियमेऽनेकान्तेऽप्यनेकान्तः, स चैकान्तैक.... कोटिक इत्येकान्तवादप्रसङ्ग इत्याशङ्कासमाधानपस "भयणावि
हु भइयव्वा" इति सम्मतिगाथा सघ्याख्या। २३८ मूलक्षयकरीमाहुरनवस्थां हि दूषणमिति तार्किकोक्ते स्पष्टी
करणम् । २३९ यथा नैयायिकादीनां मतेऽतिरिक्तस्य घटाभावस्याभावो घट
एवेत्याधुपगमे नानवस्था तथाऽतिरिक्तस्यानेकान्तस्वनेकान्त
एकान्त इत्याद्युपगमे नानवस्थति। २४० इयमनवस्था ज्ञप्तिप्रतिबन्धिका दूषणमिति केषाञ्चिन्मतस्य
खण्डनम् । २४१ अनेकान्तस्य व्यापकत्वे षड्जीवनिकायास्तद्धाते चाधर्म इत्य
त्राप्यनेकान्त इत्याशङ्कायां "नियमेन सद्दहंतो" इति “अणभिग्गहियकुदिट्ठी" इति च गाथे सव्याख्ये तत्राप्यनेकान्तवादो
व्यापक एवेत्युपपादनपरे भाविते । २४२ अनेकान्तस्य व्यापकत्वे गच्छति तिष्ठतीत्यदावप्यनेकान्तः
स्यादित्याशङ्काप्रतिविधानपरा "गइपरिणयं गई चेव" इति
सम्मतिगाथा विस्तृतव्याख्योपेता दर्शिता । २४३ दहनादहनः, पचनात् पचन इत्यत्राप्यनेकान्ते विरोधादहना.
दिस्वरूपाभाव इति प्रश्ननिराकरणार्थिका “गुणानिव्वत्तिय
सण्णा" इति सम्मतिगाथा व्याख्यासनाथा भाविता। २४४ तदतद्रव्यत्वाजीवद्रव्यमजीवद्रव्यमजीवद्रव्यं च जीवद्रव्यं स्या
दित्याशङ्कासमाधानपरा "कुंभो ण जीवदवियं" इति सम्मति'गाथा तद्व्याख्या च। २४५ अनेकान्तव्यवस्थितिश्रद्धैव भावतः सम्यक्त्वं तद्विकलस्य तन्ने
त्यत्र सिद्धसेनस्य "चरणकरणप्पहाणा" इति वचनस्य संवादः।
३२५-५
३२९-४
३३४-२२
३३५-९
३३७-१
Page #52
--------------------------------------------------------------------------
________________
अङ्काः ,
पत्र-पती
३३७-६ ३३७-२० ३३७-२३ ३३५-२५
३३८-१
३३८-३
२३९-३
विषयाः, २४६ चरणस्य श्रमणधर्मत्वं तत्र “वय-समणधम्मे" त्यादिप्राचीन
वचनं मानम् । २४७ हिंसादीनां पञ्चानां व्रतानां तत्त्वार्थसूत्रतः स्वरूपावगमः ।। २४८ क्षान्त्यादीनां दशविधानां परिगणनम् । २४९ सप्तदशभेदानां संयमानां खरूपपरिचयः । २५० वैयावृत्त्य-ब्रह्मगुप्ति-ज्ञानादित्रितय-तपःक्रोधादिनिग्रह इत्येव
मष्टप्रकारस्य चरणस्य स्वरूपसङ्ख्योपदर्शनम् । २५१ करणस्य पिण्डविशुद्ध्यादिरूपत्वे "पिण्डविसोही समिई" इति
प्राचां वचनं प्रमाणं तदर्थोपदर्शनञ्च । २५२ चरणकरणानुष्ठानपरायणानां स्वसमयपरसमयमुक्तव्यापाराणां
निश्चयशुद्धचरणकरणसारापरिज्ञानं भावितम् । २५३ “भण्णइ तमेव सच्चं" इत्याप्तागमाद्व्यार्थपर्यायार्थापरिज्ञानव
तोऽपि यदर्हद्भिरुक्तं तदेवैकं सत्यमित्येतावतैव सम्यग्दर्शन
सद्भाव इत्याशङ्काया निराकरणम् । २५४ स्खसमय-परसमयानभिज्ञस्य सम्यग्दर्शनानभ्युपगमे सामयि
कमात्रपदविदो माषतुषादेर्मुक्तिप्रतिपादकस्यागमस्य विरोध
इत्याशङ्काया निराकरणम् । २५५ गीतार्थनिश्रितस्यागीतार्थस्यापि गुरुपारतन्त्र्यस्य फलतो ज्ञान
दर्शनलक्षणत्वे "गुरुपारतंतनाणं" इति हरिभद्राचार्यवचनं
प्रमाणं दर्शितम् । २५६ गीतार्थाऽनिश्रिताऽगीतार्थस्य स्वतन्त्रचरणकरणप्रवृत्तस्य व्रता
धनुष्ठानवैफल्यस्येष्टापत्तौ “गीयत्थो य विहारो" इत्यागमवचनं
प्रमाणं दर्शितम् । २५७ अनेकान्ततत्त्वविदुषस्तदाज्ञापरस्य वा महाव्रतधारिणश्चारित्र
साफल्यं नान्यस्येति मोक्षार्थिभिरनेकान्ततत्त्वपरिज्ञानाय यत्नो विधेय इत्युपसंहारः।
३४०-७
३४१-३
३४२-१
३४२-७
३४२-१०
Page #53
--------------------------------------------------------------------------
________________
अङ्काः,
२६
विषयाः,
॥ अथानेकान्तवादप्रशस्तिः ॥
२५८ अन्ते अनेकान्तवादस्य सर्ववादोत्कृष्टस्य नमस्कृतिरूपमङ्गलावेदकं पक्षम्, तद्व्याख्यानञ्च ।
२५९ अनेकान्तवादाश्रयणोपदेशपरं पद्यम् तस्य तत्त्वबोधिनी - विवृतिः ।
२६० एकान्तवादिदर्शनानामनेकान्तवादेन सह स्पर्द्धा घटकर्तृत्रिभुवनकर्त्रीः कलहसम्भावना वेदिका ।
२६१ वादयुद्धपरायणा महिषसदृशाः परनया अनेकान्तवादस्तत्रावनिपालसमः ।
२६२ सत्त्वादित्रिगुणात्मकमेकं प्रधानं स्वीकुर्वन् साङ्ख्यः सभायामनेकान्तं नावमन्तुमर्हतीति ।
२६३ तत्त्वतोऽबद्धं व्यवहृतितो बद्धं ब्रह्म, जगच्च व्यष्ट्या समष्ट्या च विविधमभ्युपगच्छन् वेदान्ती वदनमात्रेणाद्वैतं वदन्नपि हृदयेननेकान्तं स्मरति ।
२६४ ज्ञानं नीलादौ प्रमाणं क्षणक्षये न तथा चित्रमप्येकमभ्युपगच्छन् बौद्धो हृदये स्याद्वादं यदि न स्मरेत् ग्रहाभिभूतो गुणगणं स्वीयं क्षपयेदिति ।
२६५ रूपं चित्रात्मनैकं नीलपीताद्यात्मनाऽनेकमभ्युपगच्छन्तौ नैयायिक - वैशेषिकौ स्याद्वादं स्वीकुर्वन्तावेव ।
२६६ एकं ज्ञानं मेयांशे परोक्षं मितिमात्रांशविषये प्रत्यक्षमभ्युपगच्छन् प्रभाकरः, वस्तुमात्रे भेदाभेदलक्षणद्वैरूप्यमभ्युपगच्छन्
ww
भट्टश्च स्याद्वादं स्वीकुरुत एवेति ।
www
पत्र- पली
३४३-२
३४४-१
३४५-१
३४५-१
३४६-१
३४६-५
३४७-३
३४८-१
३४८-५
Page #54
--------------------------------------------------------------------------
________________
विषयाः,
अङ्काः,
२६७ अनेकान्तस्य प्रमाणभूपस्य वादिपरिषन्नववधूः सञ्जातेदानीमिति तन्नामग्रहणादिना भावितम् ।
२६८ स्त्रीमुक्ति-केवलिकवलाहार-मुनीन्द्रधर्मोपकरणादिकेषु निषेधैकान्तमेव न त्वनेकान्तमभ्युपगच्छन् दिगम्बरो जैनराद्धान्तविरोधक एवेति ।
www
२६९ क्रिया-ज्ञान-व्यवहृति-निश्चय - Sपवादो -त्सर्गेषु मिलितापेक्षणाभ्युपगमपरैर्यतीन्द्रैरनैकान्तमहसा हतैकान्तध्वान्तं पवित्रं जैनेन्द्रमतं सर्वोत्कृष्टम् ।
२७० कर्त्तुः श्रीयशोविजयोपाध्यायस्यैतग्रन्थकरणफलविशेषप्रार्थनम् । २७१ ग्रन्थस्यास्य करणकालपरिचयो विद्वत्कुलानन्दविनोदप्रदत्वाशं
सनञ्च ।
२७२ वाचकेत्यादिपद्यत्रयेण ग्रन्थकारस्य स्वपरिचयावेदनम् ।
२७३ तत्त्वबोधिनीविवृतिकृताऽनेकान्तव्यवस्थाप्रकरणस्य सम्पूर्णस्य सर्वेऽपि विषया अनुक्रमेणैकसप्तत्युत्तर शतमित पद्येरुपदर्शिताः ।
॥ अथ टीकाकारप्रशस्तिः ॥
२७४ तत्त्वबोधिनीविवॄतिकृता स्वगुरुप्रवरेभ्यो नेमिसूरीश्वरेभ्योऽर्पितेयं तत्त्वबोधिनीविवृतिस्तदीक्षिता भवत्वित्याशंसनम् ।
२७५ आपुष्पदन्तोदयमियं कृतिर्मूलाभिप्रायादिप्रकाशिका मूलकीर्तिप्रवृत्त्याऽनुगताऽस्त्वित्याशंसनम् ।
२७६ यत्किञ्चिदत्र स्खलितं तच्छोधयिष्यन्ति परकृतिरसिका इत्या
शंसनम् ।
पत्र - पङ्की
३४९-१
३५०-१
३५०-५
३५१-१
३५२-१
३५२-५
३५३-१
३७७-२०
३७८-१
३७८-५
२७७ परम्परयेयमनेकान्ततत्त्वश्रद्धोपोलिका मुक्तिदास्त्वित्याकाङ्क्षणम् । ३७८-९
Page #55
--------------------------------------------------------------------------
________________
अङ्काः, _.. विषयाः,
पत्र-पती २७८ एतदभ्यासतो जैनागमज्ञानमितार्थतत्त्वानां कृतिनां वादे .. विजयफलप्रादुर्भावः।
३७८-१३ २७९ तत्त्वबोधिनीबिवृतिकृतिकालनिर्णयः ।
३७८-१७ २८० कदम्बावनिभूषणभूताया वृद्धिवाटिकाया एतद्रचनापूर्तिसमुल्लसितायाः सर्वोत्कृष्टतयाऽवस्थानप्रार्थनम् ।
३७८-२१
. ॥इति विषयानुक्रमणिका समाप्ता॥
Page #56
--------------------------------------------------------------------------
________________
तत्वबोधिनीविवृतिविभूषितस्यानेकान्तव्यवस्था- ४
प्रकरणस्योत्तरार्द्धस्य शुद्धिपत्रम्
शुद्धम् , अशुद्धम् , पत्रं पतिः शुद्धम् , अशुद्धम् , पत्रं पतिः विशेषा अपि विशेषो अपि ६-२२ मन्यान्य मान्यान्य २५-१९ मीमांसकाव मीमांसकत्र ९-१९ मात्र मत्र २५-२१ स्मरणतो स्मरणता १०- २ भयसाधा भयधा २६-१० त्रुव्य- त्रुट्य ११- ८ प्रत्यक्षेणे प्रत्यक्षणे २८-१६ यधुप यद्यनुप १४-२० अनुपनम अनुनम ३१-२५ कार्यत्वा- कार्यत्वावि- १५- १ हितोत्तरोत्पन्न हितोत्पन्न ३७-१२ समन्वयस्या समन्वस्या १५- ७। णानकान्किकता णानैकान्तिकता ३८-३ मक्षमम मक्षम १६- १ | यद्येकमेकं यद्येकंमेक ३८-१६ प्रामाण्याङ्गी प्रामाण्यङ्गी १६-२२ भिन्नैकरूपतः भिन्नकरूपतः ४०-११ समनन्तर समन्तर १७- १| कारणसम्बन्ध कारणरूपसम्बन्ध ४१-८ निर्विकल्पकप्र निर्विकल्पकत्वप्र १७-१९ | अवच्छेदक अवच्छेक ४२-१६ बौद्धाभिप्रेतं बौद्धाभिप्रितं १९- ७ द्वितीयक्षण- द्वितीक्षण ४२-२२ सम्भवात् समायात् १९-१० स्वगत- खगन ४३-८ नपेक्षत्वानि नपेक्षत्वनि १९-२२ नियमात् नियामात् ४३-१७ निषेधहेतु- निषेधहे- १९-२२ येन स्वीक येनस्वी क ४३-१९ स्वरूपोपव स्वरूपोवव २२- ५ तृतीयक्षणे तृतीणेक्षय ४३-२५ ऋमिप्रतिभासा ऋमिभासा २२-१२ | मेव मे व ४४-२० धत्ते- धत्त- २२-१३ | सहेतु सद्वेतु ४४-२२ भासानन्तर भासान्तर २२-१४ | सहेतु सद्धेतु ४४-२३ भासानन्तर भासान्तर २२-१६ | द्योतकरा द्योतकारा ४५- ५ त्वस्योभ त्वमुभ २२-१८ | समस्तीति सम स्तीति ४६- ९ इदमस्मा इदस्मा २३-११ | भावस्या भावास्या व्यतिरिक्त- व्यतिरीक्त- २४- ६ शक्यं शक्य
४७-१०
Page #57
--------------------------------------------------------------------------
________________
अशुद्धम्,
विनाशास
अप्रामाण्य अप्रमाण्य
विपर्ययबा विर्यबा
शुद्धम्, विधानास
प्रामाण्य
पूर्वदृग्गो
वगतैकत्व
रज्ञान
स्योभयत्रैव
स्योयत्रैव
प्रतिभासात् प्रतिसाभात्
तदनन्तर
चन्दनम् '
परैकव
त्रुट्यद्रूप
त्रुट्यद्रूत्व
व्यवसायस्य । व्यवसायस्या
स्थितिवि
स्थितिवि
तया ल स्तत्तदन्तयो निर्विकल्पकं कत्वात् ( त्सो
,
चोक्ता
त्वं न द्रव्य पर्यायव
सविकल्पक
लविनाश
त्यर्थः ।
रादिकं
प्रामण्य
पूर्वगो
वगैकत्व
सर्व
तरज्ञान
संयोगाद
तदन्तर
चन्दम् '
परत्वैकत्व
त्वं द्रव्य. पयायत्वं
सविल्पक
कालविनाश
त्यर्थ ।
रादिक
पत्रं पङ्किः शुद्धम्,
'पत्रं पङ्क्तिः
४७-२२ भिप्रेत
८०-१२
४९- १ | स्थैर्य
८२- ९
४९- ३ . भास्येव
८५-२२
५० - १८ गोनिर्विकल्पक वागोनिर्विकल्पक ८७ - १३
८७-२१
८८- ६
९०-११
९१-२१
९२-१८
सर्दश
संयोद
५६ - ६ हणरूप
५६ - १०
५८ - १४ | मर्छु ५८- २४
मिति
५९ - १ | देवदत्तादे
६०- २
तयाऽक्ल
स्तत्तदन्तयो ६७- ८ निर्विकल्पकं, ६८-६ कत्वात् । ( त्सो ६८-२२
चैकोक्ता
६९-२५
सोऽयं घटः
अशुद्धम्,
भिप्रत
स्थर्य
भासस्येव
७०-१९
या देवेति
७० - २३
नन्वेवम
७१ - १४ | कुर्वन्ति
७१-२१ | दर्शनस्य
७३ - १७ | कुर्वद्रूप
७३ - १८
कुर्वद्रूप
७७ - ३ | कुर्वद्रूप ७९-१७ | शङ्कते
णहरूप सोऽयघटः
प्रामाण्य
६२ - २२ इत्यादि
६४ - २ | मुपदर्श ६४ - १२ | दुर्घटा
६५ - १९ ज्ञानं
६६-१२ |दित्यत आह ६६-२० प्रामाण्यं भ्युपगम्यते भेदकल्पना भेदल्पना
या निरृत्तत्वेऽपि ।
मष्टं
मिते
देवत्तादे
प्रमाण्य
इत्यादि
मुर्श
ज्ञान
दित्य आह
९४ - १८
९६-१६
१००-१९
प्रामाण्य
१०१-१४
भ्युगम्यते १०२ - ११
९२-२०
९३-१२
९३-१८
स्यादेवत
नवे
करोति
दर्शन
कुर्वद्र
कुर्वद्रप
कुर्वद्र
शाङ्क
१०३-१४
या । निवृत्तत्वेऽपि
१०३ - २५
१०९-१४
१०९-२५
११०-१२
१११- ३
१११- ५
१११-१४
११२- २
११५-१६
Page #58
--------------------------------------------------------------------------
________________
शुद्धम् , अशुद्धम् , पत्रं पतिः | शुद्धम् , अशुद्धम् , पत्रं पतिः त्पत्त्यनन्तरं त्पत्त्यन्तरं ११७-१२ | सिकघट . सिकपट १४२-१७ वहितत्व वहित्व १२०-१९ | तस्य तख १४३-१९ सन्तत्यु- सन्तयु- १२०-२१ र्पितः सन् र्पित सन् १४४-२३ रन्वयव्य रन्वव्य १२०-२४ । स्यादयं स्यदयं १४४-२४ मुद्रादे- मुद्गगरादे- १२०-२६ नार्पितः, नापितः, १४५-१८ मुद्रादि मुद्गगरादि १२१- ९ | पाप्तो पाद्या १४५-२४ मुद्रादि मुद्गगरादि १२१-११ षष्ठो षष्ठा १४५-२४ कालानन्तर कालान्तर १२३- ४ | नार्पितः, नापितः, १४५-२५ बाधकाभावात् , बाधकाऽ-वात् , तदेकैक तदेकेक १४६-२२
१२४- १ | सामान्यतो सामान्यता १४९-१७ सहेतु सद्धेतु १२४-१८ तत्र नात्र १४९-२६ पश्चात्सत्त्वं पश्च सत्त्वं १२६-२५ | इति एवं इति एव १५२-१७ विरुद्धमत विरुद्धात् मत १२६-२५ त्वात्प्र त्वात् , प्र १५३- १ वृक्षं व्य वृक्ष व्य १२९-१६ | श्रितत्वे त्रित्वे १५३-१९ समभि सम्मभि १३०- २ च्छब्दनयस्य च्छब्दनस्य १५३-२१ अतीतत्वा अतीतात्वा १३०-२४ | भङ्गयेक भङ्ग्यक १५३-२३ ग्राहित्वं वर्त्त ग्राहित्वंवत १३१- ५ अस्य
यस्य १५४-१४ मेदत्वं व्य मेदत्व व्य १३१-१९ द्वितीय- द्विताय- १५४-१६ ननु नु १३१-२४ क्तव्यो क्तव्या १५४-१८ देव । किम- देवकिम- १३३-२१ स्वाभि स्वभि १५४-१९ विभागः, विभाग १३४- ७ | नचैवमिति नचवमिति १५६-१३ मुपदर्शनेन मुपददर्शनेन १३४-१३ | | एवं सति एव सति १५८-१८ यैकादशधा यैकदशधा १३४-२१ सूत्रेण सूत्रण - १५९-१२ द्रव्या- द्रव्य- १३५- ९ अर्शोऽस्यास्ति अझैस्यस्यसन्ति १५९-१६ बाह्याभ्युप बाह्यार्थभ्युप १३७-१३ | दर्शयति दशयति १६०- १ गोऽर्थसङ्गतो गोऽसर्थङ्गतो १३७-१६ | इन्दन ।
१६०-१५ असौ शब्द असौशब्द १४१- २ चेद्रामो चेद, ग्रामो १६१- १ द्रव्ययोः परि द्रव्ययो परि १४१-२३ । क्षायां क्षाया. १६१-१५
इन्द्रन
Page #59
--------------------------------------------------------------------------
________________
शुद्धम् , अशुद्धम्, पत्रं पङ्क्तिः | शुद्धम् , अशुद्धम् , पत्रं पतिः न भवति च भवति १६१- १ शब्दादितो शब्दादिता १७६-२० तद्व्याख्या तद्वाख्या १६४-१७ | वाऽरघट्टो वाऽघरट्टो १७७-१२ सङ्करोऽति सङ्कराति १६४-२२ पदाना- प्रदाना- १७७-२१ च्यत्वस्य च्यत्वस्यार्थ- १६७- ८ देशिनो देशितो १७८-११ न्धनाव धनां नाव १६७-१६ तत्सम्बन्धः तत्सम्बन्ध १७९-२१ न तझ्यापकत्वं येन
त्वात्कु त्वात् , कु १८२- ६ व्या व्यापकाभावाघ्या १६८- १ णादिफलं णादि फलं १८३-१२ शक्यते शक्यंते १६८- २ जननायोप जननायाप १८३-१८ नानार्थस्थले नानार्थस्थले १६८-१३ | विशेषादेव विशेषादिव १८३-२१ सन्त्येव सत्येव १६८-१९ प्रत्यला प्रत्यक्षा १८४-२२ प्रयोजक- प्रयाजक १६९-१५ निमित्ता या क्रिया निमित्तयाक्रिया प्रस्थकादि प्रस्थवादि १६९-२०
१८४-२३ सती वसता १७०-१३ | तत्स्वीकार तत्वीकर १८४-२४ प्रथमपतौ-नवसतीत्य- १७१- १ प्रवणनयो प्रवणनेयो १८५-१८ तः प्रागू सप्तमपतिगतः 'सत्त्वात्' इत्या- | ऽर्थोऽनैव ऽर्थो नैव १८५-१९ रभ्य 'वस्तुनि' इत्यन्तो ग्रन्थो ज्ञेयः। तेनैव तेनेव १८६-२० समर्थनीय समथनीय १७२- ३ | वदभिन्न वद भिन्न १८६-२५ सम्मतैव सम्मवतैव १७२- ९ | यथाशब्द यथा शब्द १८७-१४ सः ॥ स॥ १७२-२४ स्यादेवम स्यादेव प्र १८८- ९ मानमिच्छन्तः मान मिच्छन्तः १७३- ५ देश्यो . देशो १९०-१७ नहि नैव नहि नव १०३-१० हि यतः . यतः १९४-२३ प्रस्थाकस्य प्रथकस्य १७३-११ | वचनक वचनव २०१-११ केवलमिव केवलामव १७३-१३ सन्धानेन, व सन्धानेन व २०१-१९ प्रामाण्ये प्रमाण्ये १७४-१४ त्वम्पदा त्वं पदा २०२-१८ इत्यनैका इत्यनका १७५- २ | जहद्ध जहद् वृ २०३- ७ प्रमाणप्र. प्रमाण-Sप्र १७६- ३ | अनन्तरमुप अनन्तरगुण २०३-१९
मति १७६-१४ | एवोत्सर्ग एवोसर्ग २०४-२१ नेत्यर्थः। नत्यर्थः । १७६-१४ विशेष- विशेषः २०५-१९
नेति
Page #60
--------------------------------------------------------------------------
________________
અ[L[L[L[[[[[[[[[[[[[[[
[[[[[[n[L[[L[urupur[[
ri[L[[LI[[[[[[[[[[[L[ r[ r[[[[પn rurupurn
[[
[[[ક
ગણિપદ-વિ. સં. ૧૯૦ પંન્યાસપદ-વિ. સં. ૧૯૦ઉપાધ્યાયપદ-વિ.સં. ૧૯૯૧ આચાર્યપદ-વિ. સં. ૧૯૯૨
માગશર સુદ ૮ | માગશર સુદ ૧૦ | જેઠ વદ ૨ | વૈશાખ સુદ ૪ ભાવનગર (સૌરાષ્ટ્ર ) | ભાવનગર (સૌરાષ્ટ્ર ) | મહુવા (સૌરાષ્ટ્ર ) , અમદાવાદ.
વ્યાકરણવાચસ્પતિકવિરલ શાસ્ત્રવિશારદ અનુપમવ્યાખ્યાનસુધાવર્ષાવિવિધગ્રન્થપ્રણેતા પરમપૂજ્ય આચાર્યદેવરા
શ્રીમદ્દ વિલાવણ્યસૂરીશ્વરજી મહારાજ સાહેબ.
蝙蝠 蝙蝠 蝙蝠 蝙蝠 蝙蝠
ઉપHITUTHirLinuપપપપનના પાપે પપપપપપપપનનuપનાપurrIF\r\rr
અમદાવાદ બોટાદ (સૌરાષ્ટ્ર ) | સાદડી (મારવાડ) | સાદડી (મારવાડ ) |
કારતક વદ ૨ માગશર સુદ ૩ અષાડ સુદ ૫ ભાદરવા વદ ૫ જન્મ-વિ. સં. ૧૯૫૩ | દીક્ષા–વિ. સં. ૧૯૭૨ |વડી દીક્ષા-વિ. સં. ૧૯૭૩ (પ્રવર્તક પદ-વિ. સં. ૧૯૮૭
FinતીnliminlindnliJnanpinnurricuપનriuuuNILLIFપપપપપપપપપપપપnirin[vrutપનrurLrLrULTLTLTLTUBE
Page #61
--------------------------------------------------------------------------
Page #62
--------------------------------------------------------------------------
________________
॥ अहँ ॥
आशैशवशीलशालिने श्रीनेमीश्वराय नमो नमः । न्यायविशारद-न्यायाचार्य - महामहोपाध्यायश्रीयशोविजयगणिवरविरचितम्
अनेकान्तव्यवस्थाप्रकरणम् ।
[ उत्तरार्द्धम् ]
ऋजु - अवक्रं श्रुतं ज्ञानमस्य ऋजुश्रुतः, यद्वा ऋजु - अवक्रं वस्तु श्रीमत्तपोगच्छाधिपति-सर्वतन्त्र स्वतन्त्र-शासनसम्राड्-जगद्गुरु श्री विजयने मिसूरीश्वर - पट्टालङ्कारेण ‘व्याकरणवाचस्पति-शास्त्रविशारद - कविरत्न' इति पदालङ्कृतेन श्री विजयलावण्यसूरिणा प्रणीता
तत्त्वबोधिनी विवृतिः
अथ ऋजुसूत्र नयनिरूपणम् - ·
ऋजुसूत्रस्य निरुक्तितो लक्षणमुपदर्शयति — ऋज्वति - ज्ञाने अवक्रत्वमकुटिलत्वम् अतीताऽनागतपरिहारेण वर्तमानक्षणस्वरूपवस्तुग्राहित्वम्, तथा च वर्त्तमानक्षणमात्रग्राहिज्ञानजनको नय ऋजुसूत्रनयः, निरुक्तिसन्निविष्टषष्ठ्यर्थ सम्बन्धस्य जन्यजनकभावलक्षणसम्बन्धरूपत्वे चैतल्लक्षणं शब्दात्मकर्जुसूत्रस्य तादात्म्यरूपत्वे च वर्तमानक्षणमात्रग्राहिज्ञानात्मकत्वं ज्ञानात्मकर्जु सूत्रस्य, विषयविषयिभावलक्षणसम्बन्धरूपत्वे च वर्त्तमानक्षणमात्र ग्राहिज्ञानविषयत्वमर्थात्मकर्जु सूत्रनयस्य, आत्मना सह कथञ्चित्तादात्म्यलक्षणाविष्वग्भावस्य षष्ठ्यर्थ सम्बन्धरूपत्वे निरुक्तज्ञानवत्त्वं तादृशप्रमा
Page #63
--------------------------------------------------------------------------
________________
[ तत्त्वबोधिनीविवृतिविभूषितम्
२]
सूत्रयतीति ऋजुमूत्रः, यद् भाष्यकृत् —
"उज्जुं ऋजुं सुयं नाणमुज्जुसुयमस्स सोऽयमुज्जुसुओ । सुत्तयइ वा जमुञ्जं, वत्थं तेणुञ्जसुत्तोति ॥" [ विशेषावश्यकभाष्यगाथा - २२२२ ] ऋजुत्वं चैतदभ्युपगतवस्तुनोऽवर्तमान- परकीयनिषेधेन प्रत्युत्पन्नत्वम्, अतीतमनागतं परकीयं च वस्त्वेतन्मते वक्रम्, प्रयोजनाकर्तृत्वेन परधनवत् तस्यासत्त्वात्, स्वार्थक्रियाकारित्वस्यैव स्वसत्ता
तृस्वरूपात्मकर्जुसूत्रनयस्य,
अभ्युपगम्याभ्युपगमभावात्मकसम्ब
सम्ब
न्धस्य षष्ठ्यर्थत्वे तथाभूतज्ञानाभ्युपगन्तृत्वमभ्युपगन्तृस्वरूप र्जु सूत्रस्य च लक्षणम्, लक्ष्यभेदेन लक्षणभेदस्य दोषानावहत्वात्, न्धत्वेन दर्शितसर्वसम्बन्धानां ग्रहणेन तादृशज्ञानसम्बन्धित्वं सकलर्जुसूत्रानुगतं लक्षणमिति बोध्यम् । निरुक्तयन्तरोपदर्शनेन लक्षणमुपदर्शयति — यद्वेति — सूत्रयतीत्यस्यावगाहत इत्यर्थकत्वे ज्ञानरूपर्जुसूत्रस्य ज्ञापयतीत्यर्थकत्वे शब्दस्वरूपस्य तत्प्रतिपादकात्मनश्च ऋजुसूत्रतयाऽभिप्रेतस्य लक्षणम् । निरुक्तनिरुक्तिद्वयान्यतरलभ्यमृजुसूत्रलक्षणं भाष्यकृत्सम्मतमित्युपदर्शयति-यद् भाष्यकृदिति । भाष्यवचन मुल्लिखति - उज्जुं० इति - "ऋजु ऋजु श्रुतं ज्ञानमृजु सूत्रमस्य सोऽयमृजुसूत्रः । सूत्रयति वा यदृजु वस्तु तेनर्जुसूत्रः ॥” इति संस्कृतम् । निरुक्तभाष्यवचनं विवृणोति - ऋजुत्वं चेति । एतदभ्युपगतवस्तुनः ऋजुसूत्रनयाभ्युपगतवस्तुनः, । अवर्त्तमान- परकीयनिषेधेनेति— अवर्त्तमानो वर्त्तमानभिन्नोऽतीतोऽनागतश्च, तथा यश्च परकीयः, एतत्रितयस्य निषेधेन - परिहारेणेत्यर्थः । एतन्मते ऋजुसूत्रमते । अतीतादीनां त्रयाणां वक्रत्वे हेतुमाह - प्रयोजनाकर्तृत्वेनेति । परधनवदितियथा परस्वामिकं धनं न कस्मैचिद् दातुमुपभोक्तुं वा क्षममिति स्वप्रयोजनाकर्तृत्वेन स्वापेक्षयाऽसदेव तथेत्यर्थः । तस्य अतीताऽनागत- परकीयवस्तुनः । असत्त्वाद् ' अत्रैव 'प्रयोजनाकर्तृत्वेन
6
>
Page #64
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[३ लक्षणत्वात्। अत एव व्यवहारनयवादिनं प्रत्ययमेवं पर्यनुयुङ्क्तेयदि व्यवहारानुपयोगादनुपलम्भाच सङ्ग्रहनयसम्मतं सामान्य त्वं नाभ्युपगच्छसि ? तदा तत एव हेतुद्वयाद् गतमेष्यत् परकीयं च वस्तु माऽभ्युपगमः, नहि तैः कश्चिद् व्यवहारः क्रियते, उपलब्धिविषयीभूयते वा, वासनाविशेषजनितो व्यवहारस्तु सामा
इत्यस्यान्वयः । स्वप्रयोजनानिष्पादकत्वेऽपि कथं स्वापेक्षयाऽसत्त्वमित्यपेक्षायामाह-वार्थति । अत एव स्वार्थक्रियाकारित्वलक्षणस्वसत्वराहित्यादतीता-ऽनागत-परकीयानामेतन्मतेऽसत्त्वादेव । अयम् ऋजुसूत्रनयः । एवं 'यदि' इत्यादिनाऽनन्तराभिधीयमानप्रकारेण । पयनुयुङ्क्ते प्रश्नयति । यदीति-अस्य ‘नाभ्युपगच्छसि' इत्यत्रान्वयः। व्यवहारानुपयोगात् आनयन-नयन-दोहन-वाहनादिव्यवहारो गवादिव्यक्तित एव न तु गोत्व-द्रव्यत्वादिसामान्यत इति व्यवहारासम्पादकत्वात् । अनुपलम्भाच्च प्रत्यक्षे गवादिव्यक्तिरेव भासते, न तु गोत्वादि सामान्यं गवादिव्यक्तिभ्यः पृथक्तयोपलभ्यत इत्युपलम्भाभावादपि, एतद् द्वयमभ्युपगमाभावे हेतुः । त्वं व्यवहारनयः, तत एव हेतुद्वयात् व्यवहारानुपयोगा-ऽनुपलम्भलक्षणहेतुद्वयादेव, अस्य 'माऽभ्युपगमः' इत्यत्रान्वयः, गतम् अतीतम् , एष्यत् अनागतम् , परकीयं परसम्बन्धि, माऽभ्युपगमः हे व्यवहारनय! त्वं मा स्वीकुर्याः । अतीतत्वादिषु त्रिषु व्यवहारानुपयोगा-ऽनुपलम्भौ दर्शयति-नहीति । तैः अतीतादिभिः । ननु 'अतीतो घटः, भविष्यति घटः, इदमस्य न भवति' इत्येवं व्यवहारोऽतीतादिषु दृश्यत एवेत्यत आह-वासनाविशेषजनित इति- सोऽयं व्यवहारोऽतीतादिरर्थोऽप्यस्तीत्येतादृशार्थाभ्युपगन्तृप्रणीतशास्त्राभ्याससंस्कारादेवोपजायत इति न तद्बलादतीतादिवस्त्वभ्युगमः स्वीकरणीयः, वासनाविशेषजनितव्यवहारतोऽपि वस्तुनः स्वीकारे सामान्याभ्युपगन्तप्रणीतशास्त्राभ्यासतः सामान्येऽपि वासनाविशेषजनितो व्यवहारः
Page #65
--------------------------------------------------------------------------
________________
४]
[ तत्त्वबोधिनीविवृतिविभूषितम् न्येऽप्यतिप्रसज्यत इति, तस्माद् यत् स्वकीयं साम्प्रतकालीनं च तद् वस्तु, लिङ्ग-सङ्ख्यादिभेदेऽपि 'तटः, तटी, तटम्' इत्यादौ, 'गुरुर्गुरवः' 'आपो जलम् , दाराः कलत्रम्' इत्यादौ च विपरिणतनानापर्यायशब्दवाच्यं निक्षेपचतुष्टयाक्रान्तमप्येकमेव स्वीकुरुते ऋजुसूत्रनयः, न तु शब्दनयवद् भावरूपैकनिक्षेपाक्रान्तं लिङ्ग-सङ्ख्याभिन्नपर्यायशब्दावाच्यं च, तदाह भाष्यकृत्
"तम्हा णिययं संपइकालीणं लिङ्ग-वयणभिन्नं पि । नामादिभेयविहियं, पडिवजइ वत्थुमुजुसुओ त्ति ॥"
[ विशेषावश्यकभाष्यगाथा-२२२३ ] समस्तीति सामान्याभ्युपगमोऽपि व्यवहारनयस्य प्रसज्यत इत्यर्थः। ऋजुसूत्रनयाभ्युपगन्तव्यमुपसंहरन्नाह-तस्मादिति । 'तद् वस्तु' 'स्वीकुरुते ऋजुसूत्रनयः' इत्यन्वयः । ‘लिङ्ग-सङ्ख्यादि' इत्यादिपदाद् वचन-पर्यायादीनामुपग्रहः, 'लिङ्ग-सङ्ख्यादिभेदेऽपि' 'एवमेव स्वाकुरुते ऋजुसूत्रनयः' इत्यन्वयः, तत्र लिङ्गभेदेऽप्येकवस्त्वभ्युपगमे निदर्शनम् - 'तटः तटी, तटम्' इति, वचनभेदेऽप्यकवस्त्वभ्युपगमे निदर्शनम्'गुरुर्गुरवः' इति, पर्याय-वचनलिङ्गत्रयभेदेऽप्येकवस्त्वभ्युपगमे निदर्शनम्-' आपो जलम् , दाराः कलत्रम्' इत्यादौ चेति । विपरिणतेति'तटः, तटी, तटम्' इत्यादौ लिङ्गविपरिणामः, “गुरुर्गुरवः' इत्यादौ वचनविपरिणामः, 'आपो जलम् , दाराः कलत्रम्' इत्यादौ च वचनभेदः पर्यायभेदो लिङ्गभेदश्चेति । निक्षेपचतुष्टयाक्रान्तमितिऋजुसूत्रनयो नाम-स्थापना-द्रव्य-भावात्मकनिक्षेपचतुष्टयमप्येकस्मिन् वस्तुन्यभ्युपगच्छतीति निरुक्तनिक्षेपचतुष्टयाक्रान्तमित्यर्थः। एतावता शब्दनयतोऽस्य वैलक्षण्यमावेदितं भवति, तदेव स्पष्टयतिन विति-अस्य च वाक्यान्तेऽनुकर्षणीयेन 'स्वीकुरुते' इत्यनेनान्वयः। शब्दनयवत् साम्प्रत-समभिरूढवम्भूतेति त्रिविधशब्दनयवदित्यर्थः । तत्र साम्प्रतनयः पर्यायभेदेऽप्येकमर्थमुररीकरोति, परं समभिरूढे
Page #66
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
अस्मानयात् परपर्यायासंस्पर्शिन्येकपर्याये वचनं विच्छिन्द बौद्धदर्शनं प्रवृत्तम् , तथा च तदनुसारिणः पठन्ति
"पलालं न दहत्यग्निर्दह्यते न गिरिः क्वचित् । नासंयतः प्रव्रजति, भव्यजीवो न सिध्यति ॥"
वम्भूतौ तु पर्यायभेदेऽर्थभेदमुररीकुरुत इति तदवलम्बनेन ‘पर्यायशब्दावाच्यम्' इत्युक्तम् । उक्तार्थे भाष्यसम्मतिमाह-तदाह भाष्यकृदिति । तम्हा० इति-"तस्मान्निजकं सम्प्रतिकालीनं लिङ्ग-वचनभिन्नमपि । नामादिभेदविहितं प्रतिपद्यते वस्तु ऋजुसूत्र इति ॥” इति संस्कृतम् । स्पष्टत्वान्नास्य व्याख्या कृता । ऋजुसूत्रनयाद बौद्धदर्शनप्रवृत्तिरित्युपदर्शयति-अस्मान्नयादिति-ऋजुसूत्रनयादित्यर्थः, अस्य 'प्रवृत्तम् , इत्यनेन सम्बन्धः । परपर्यायासंस्पर्शिनि परपर्यायासम्बद्धे, एकपर्याये निजैकरूपपर्याये वचनं शब्दम्, विच्छिन्दत् पर्यवसानं कुर्वत् , एकपर्याय एव वस्तुन इत्येवमगच्छदिति यावत् , वर्तमानक्षणपर्यायस्यैकत्वादतीता-ऽनागत-परकीयपर्यायस्य वस्तुनोऽभावाद् वर्तमानक्षणैकरूपमेव वस्त्वित्येवमवगच्छद् बौद्धदर्शनं जातमजुसूत्रनयत इत्यर्थः । एवं कथमवधारितमायुष्मतेत्यपेक्षायामाह-तथा चेतिवस्तुनो वतमानकक्षणपर्यायस्वरूपत्वस्य बौद्धदर्शनाभिमतत्वे चेत्यर्थः । तदनुसारिणः बौद्धदर्शनानुसारिणः । तत्पठनकर्मपद्यमुपदर्शयति-पलालमिति-पलालपर्यायो नाग्निसम्बन्धकाले, तदानीं भस्मभावमनुभवन् पर्यायः पलालपर्यायादन्य एवेति स्वसम्बन्धकाले पलालपर्यायस्याभावान तस्य दहनकर्मत्वमिति युक्तं 'पलालं न दहत्यग्निः' इति, यदाग्निसम्बन्धात् पर्वतस्य दाहो भवति तदा पर्वतपर्यायादन्यपर्याय एवोपजायत इति स एव दहनक्रियाजन्यविकृतिमान् न गिरिस्तस्य तदानीमभावादतः 'क्वचिद् गिरिन दह्यते' इति,
Page #67
--------------------------------------------------------------------------
________________
[ तत्त्वबोधिनीविवृतिविभूषितम् पलालपर्यायस्याग्निसद्भावपर्यायादत्यन्तभिन्नत्वाद् , यः पलालो नासौ दह्यते, यश्च भमभावमनुभवति नासौ पलालपर्यायमनुभवति, एवमग्रेऽपि द्रष्टव्यम् । न चैवं व्यवहारबाधः, सर्वत्र नये क्वचिदंशे तद्वाधात् । ननु क्षणक्षयसिद्धावेवं युक्तम् , तत्रैव च प्रमाणं न पश्यामः, तथाहि-न तावदध्यक्षं क्षणक्षयितामवगच्छत् प्रतीयते, परैरभ्युपगम्यते वा, यतः परैरन्त्यक्षणदर्शिनामेव प्रत्यक्षतः क्षणि
असंयतपर्यायादन्यो यः संयतपर्यायः स एव प्रव्रज्याकालसमकालीनो नासंयतस्तदानीं स्थितिमनुभवतीति 'नासंयतः प्रव्रजति' इति, यः खलु भव्यः स न मुक्तिकाले तदानीं सिद्धो भवन्नेव सिद्ध्यति, न भव्यस्तदानीं तस्याभावादिति 'भव्यजीवो न सिध्यति' इत्यर्थः । 'पलालं न दहत्यग्निः' इत्याद्यचरणाभिप्रायप्रकटनेन सम्पूर्णपद्याभिप्रेतार्थमर्थगत्या सूचयति-पलालपयायस्येति । अग्निसद्भावपर्यायात् अग्निसम्बन्धकालीनपर्यायात् । ‘अत्यन्तभिन्नत्वाद्' इत्युक्त्या नानुगामि द्रव्यं समस्ति, पूर्वपर्यायस्य निरन्वयविनाश एवेति न द्रव्यात्मनाऽप्यभेद इत्यावेदितम् । भस्मभवनस्वभावश्च पर्यायो दह्यते न तु स पलालपर्याय इत्याह-यश्चेति । प्रथमचरणव्याख्यानदर्शितदिशा चरणान्तरव्याख्यानमवसेयमित्याह-एवमग्रेऽपि द्रष्टव्यमिति । ननु 'पलालं दहत्यग्निः, गिरिदह्यते, श्रावकोऽयं प्रव्रजति, भव्यजीवः सिद्धिमेति' इति व्यवहारस्य बाध एवमुपगमे सति स्यादित्याशङ्कां प्रतिक्षिपति-न चैवमिति । निषेधे इष्टापत्तिमेव हेतुतया दर्शयतिसर्वत्रेति-'इदं सदिदं सद्' इत्येवं महासामान्यं सत्त्वमपि व्यवह्रियत एव, तद्वाधो व्यवहारनयेऽपि समस्त्येव, विशेषो अपि व्यवह्रियन्त एव, तद्वाधः सङ्ग्रहेऽपीत्येवं सर्वत्र क्वचिदंशे व्यवहारबाधादित्यर्थः, तथा चान्यनये किश्चिदंशे व्यवहारबाधो यथा न क्षतिमावहति तथा प्रकृतेऽपीति भावः । वर्तमानकक्षणमात्रस्वरूपत्वं वस्तुनोऽसहमानाः
Page #68
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[७ कताया निश्चयतः प्रकल्प्यते, भ्रान्तिकारणसद्भावान्न प्राक, उक्तं च
"क्वचित् तदपरिज्ञानं, सदृशापरसम्भवात् । भ्रान्तेरपश्यतो भेदं, मायागोलकभेदवत् ॥”
] इति । नाप्यनुमानात् तन्निश्चयः, क्षणिकत्वाभ्युपगमे तदङ्गपक्षधर्मत्वास्थिरवादिनः प्रत्यवतिष्ठन्ते-नन्वित्यादिना । एवं युक्तं वर्तमानकक्षणस्वरूपवस्त्वगाहित्वं ज्ञानस्य युक्तम् । तत्रैव क्षणक्षयसिद्धावेव । वस्तूनां क्षणक्षयित्वे प्रमाणसामान्याभावस्य प्रत्यक्षादिप्रमाणविशेषाभावकूटनियतत्वात् प्रत्यक्षादिप्रमाणविशेषाभावमेव भावयतितथाहीत्यादिना । परैः बौद्धैः, अभ्युपगम्यते वा अथवा क्षणक्षयित्वे प्रत्यक्षं प्रमाणं बौद्धैर्नाभ्युपगम्यते । क्षणक्षयित्वे प्रत्यक्षं प्रमाणं बौद्धस्य नाऽभ्युपगमविषय इत्यत्र हेतुमुपदर्शयति-यत. इति ।. परैः बौद्धैः । अन्त्यक्षणेति-सजातीयप्रवाहस्य योऽन्त्यक्षणस्तद्दर्शिनामन्त्यक्षणविनाशप्रत्यक्षतः क्षयित्वमवधार्य तत्पूर्वपूर्वस्य क्षयित्वावगमनेन निश्चयतः क्षणिकता प्रकल्प्यते, पूर्व तु सौसादृश्यलक्षणदोषस्य पूर्वाऽपरक्षणयोस्तादात्म्यभ्रमकारणस्य सद्भावान क्षणिकताया निश्चयः, यदि तु प्रत्यक्षमेव क्षणक्षयमवगाहेत तदाऽन्त्यक्षणदर्शनलक्षणविशेषदर्शनस्याभावेऽपि प्रथमत एव वस्तुनः प्रत्यक्षे तद्गतक्षणक्षयित्वस्यावभासनं स्यादिति भावः, अत्र "क्षणिकताया निश्चयः प्रकल्प्यते" "क्षणिकता निश्चयतः प्रकल्प्यते” इति वा पाठः समीचीनः।
___ अन्त्यक्षणदर्शने सत्येव क्षणिकत्वज्ञानं प्राक् तु सादृश्यदोषान्न तज्ज्ञानमित्यत्र प्राचां वचनं संवादकतया दर्शयति-उक्तं चेति-सदृशापरसम्भवाद् भ्रान्तेर्भेदमपश्यतो मायागोलकभेदवत् क्वचित् तदपरिज्ञानमित्यन्वयः।
Page #69
--------------------------------------------------------------------------
________________
[तत्त्वबोधिनीविवृतिविभूषितम् देरेव निश्चेतुमशक्यत्वात् , सर्वोपसंहारेण व्याप्तिग्रहोपायाभावाच, विकल्पस्याप्रमाणत्वेन तदग्राहकत्वात् , निर्विकल्पेन च तत्संस्पर्शस्यापि कर्तुमशक्यत्वात् , न चान्यद बौद्धानां प्रमाणमस्ति; प्रत्यभिज्ञाप्रत्यक्षाच्च भावानां स्थैर्यप्रतिपत्तिः क्षणिकत्ववाधिका, न च
अनुमानादपि क्षणिकत्वनिश्चयो न सम्भवतीति नानुमानमपि क्षणक्षयित्वे प्रमाणमित्याह-नापीति । तन्निश्चयः क्षणक्षयित्वनिश्चयः । किश्चिद्धेतुकक्षणिकत्वसाध्यकशब्दादिपक्षकानुमानं तदा भवेद् यदि क्षणिकत्वसाधकहेतौ शब्दादिलक्षणपक्षधर्मत्वमनुमानाङ्गं निश्चितं स्यात् , क्षणिकत्वाभ्युपगमे तु हेतुग्रहणसमये क्षणिकः पक्षो विनष्ट एवेति न तद्धर्मत्वग्रहणसम्भवः, पक्षग्रहणकाले चागृहीते हेतावपि न तद्रहणसम्भव इति न पक्षधर्मत्वग्रहणसम्भव इति तद्रूपकारणाभावान्नाऽनुमानप्रवृत्तिसम्भव इत्याह-क्षणिकत्वाभ्युपगम इति । सर्वोपसंहारेण व्याप्तिग्रहे सत्येवानुमानमुदेतीति सर्वोपसंहारेण व्याप्तिग्रहणमनुमानाङ्गम् , तस्याप्युपायाभावान्न सम्भव इत्यतोऽपि न क्षणिकत्वानुमानसम्भव इत्याह-सर्वोपसंहारेणेति । ननु प्रत्यक्षस्य पुरोवर्तिसन्निकृष्टमात्रविषयकत्वे सर्वोपसंहारेण व्याप्तिग्राहकत्वाभावेऽपि विकल्पस्तद्राहकः स्यादित्यत आह-विकल्पस्येति । तदग्राहकत्वात् सर्वोपसंहारेण व्याप्त्यग्राहकत्वात् । निर्विकल्पकप्रत्यक्षं च स्वलक्षणमात्रविषयकत्वेनैव बौद्धेनोपगतमिति तेन न भवेदेव सर्वोपसंहारेण व्याप्तिग्रहणमित्याह-निर्विकल्पेन चेति । तत्संस्पर्शस्यापि सर्वोपसंहारेण व्याप्तिसंस्पर्शस्यापि, एवं चानुमानाङ्गपक्षधर्मत्वव्याप्तिग्रहणयोरभावात् क्षणिकत्वसाध्यकानुमानमेव न सम्भवतीति नानुमानमपि क्षणिकत्वे प्रमाणमिति भावः । प्रत्यक्षाऽनुमानभेदेन द्विविधमेव च प्रमाणं सौगतैरुपेयत इति तदुभयव्यतिरिक्तं प्रमाणं स्वानभ्युपगमपराहतमेवेति न तत्रोपदर्शयितुं शक्यमित्याह-न चेति ।
Page #70
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ] प्रत्यभिज्ञानमप्रमाणम् , " तत्रापूर्वार्थविज्ञानं, निश्चितं बाधवर्जितम् । अदुष्टकारणारब्धं, प्रमाणं लोकसम्मतम् ॥"
इति प्रमाणलक्षणयोगात्, न च स्मृतिपूर्वकत्वात् स एवायमिति प्रत्यभिज्ञानुसन्धानस्य प्रत्यक्षत्वमयुक्तमिति वाच्यम् , सत्सम्प्रयोगजत्वेन स्मरणपश्चाद्भाविनोऽप्यक्षजप्रत्ययस्य लोकप्रत्यक्षत्वेन प्रसि
अन्यत् प्रत्यक्षा नुमानव्यतिरिक्तम् , तथा च यावत्प्रमाणविशेषाभावात् प्रमाणसामान्याभावस्य क्षणिकत्वे सद्भावान्न तत् सिद्धिमुपगच्छतीति। स्थैर्यग्राहकं प्रत्यमिक्षात्मकप्रत्यक्षमपि क्षणिकत्वबाधकं जागर्तीति न केवलं साधकाभावादेव न क्षणिकत्वं किन्तु बाधकसद्भावादपि न क्षणिकत्वमित्याह-प्रत्यभिज्ञाप्रत्यक्षाच्चैति । प्रत्यभिज्ञाया अप्रमाणत्वान्न तया क्षणिकत्वबाघः, अपि तु क्षणिकत्वग्राहकानुमानस्य प्रमाणत्वेन तेन प्रत्यभिज्ञाविषयस्थैर्यमेव बाधितमित्याशङ्कां प्रतिक्षिपति-न चेति । अबाधितापूर्वार्थविषयत्वेनादुष्टकारणारब्धत्वेन च प्रमाणसामान्यलक्षणेन युक्तत्वात् प्रमाणमेव प्रत्यभिज्ञेति निषेधहेतुमुपदर्शयति-तत्र । ननु भवतूक्तलक्षणयोगात् तु प्रमाणं प्रत्यभिज्ञा, स्मृतिपूर्वकत्वात् तु न प्रत्यक्षमिति 'प्रत्यभिज्ञाप्रत्यक्षाच' इत्युक्तिरयुक्तेत्याशङ्कय प्रतिक्षिपति-न चेति-अस्य 'वाच्यम्' इत्यनेनान्वयः । मीमांसकवतंसको भट्टःप्रतिक्षेपहेतुमुपदर्शयति-सत्संप्रयोगजत्वेनेति-'ननु' इत्यादिना भट्ट एव बौद्धप्रतिमल्लतयाधिकृतः प्रश्नयिता, तेन जैनमते प्रत्यभिज्ञा परोक्षमेव, न प्रत्यक्षमित्यस्य न विरोधः, सता वर्तमानेनार्थनेन्द्रियस्य यः सम्प्रयोगः सन्निकर्षस्त. जन्यत्वेनेत्यर्थः । स्मरणपश्चाद्भावित्वेऽपि इन्द्रियार्थसम्प्रयोगजत्वेन प्रत्यभिज्ञानं प्रत्यक्षप्रमाणमित्यत्र भट्टस्य वचनं संवादकतयोप
Page #71
--------------------------------------------------------------------------
________________
१०]
[ तत्त्वबोधिनीविवृति विभूषितम् द्धत्वात् , उक्तं च" नहि स्मरणतो यत् प्राक् , तत् प्रत्यक्षमितीदशम् । वचनं राजकीयं वा, . लौकिकं वापि विद्यते ॥ १ ॥ न चापि स्मरणात् पश्चा-दिन्द्रियस्य प्रवर्तनम् । वार्यते केनचिन्नापि, तत् तदानी प्रदुष्यति ॥२॥ तेनेन्द्रियार्थसम्बन्धात् , प्रागूवं वापि यत् स्मृतेः। विज्ञानं जायते सर्व, प्रत्यक्षमिति गम्यताम् ॥ ३॥"
[. ... ..........] इति । अनेकदेश-कालाऽवस्थासमन्वितं सामान्यं द्रव्यादिकं च वस्त्वस्याः दर्शयति-उक्तं चेति।
'नहि' इत्यस्य 'विद्यते' इत्यनेनान्धयः, यदीदृशं वचनं राजकीय लौकिकं वा भवेत् तदा स्मरणपूर्वभावित्वाभावेन न स्यादपि प्रत्यभिज्ञानं प्रत्यक्षम् , न चैवमित्यर्थः ॥
___ न चापीति-अस्य 'वार्यते' इत्यनेनान्वयः, 'नाऽपि' इत्यस्य 'प्रदुष्यति' इत्यनेनान्वयः, तत् इन्द्रियस्य प्रवर्तनम् , तदानीं स्मरणपश्चात्काले ॥ . .
........... तेन निरुक्तराजकीय-लौकिकवचनाभावेन स्मरणात् पश्चादपीन्द्रियप्रवर्तनस्यादुष्टत्वेन च, स्मृतेः प्रागूवं वापि इन्द्रियार्थसम्बन्धाद् यद् विज्ञानमुपजायते सर्व प्रत्यक्षमिति गम्यतामित्यन्वयः॥
__ अपूर्वार्थविज्ञानत्वं प्रत्यभिज्ञायां व्यवस्थापयति-अनकेतितिर्यक्सामान्यस्या नेकदेशसमन्वितत्वम् , ऊर्ध्वतासामान्यस्या:नेककालावस्थासमन्वितत्वमिति तिर्यक्सामान्यविषयकप्रत्यभिज्ञाया ऊर्ध्वतासामान्यविषयकप्रत्यभिज्ञायाश्चापूर्वार्थविज्ञानत्वम् । अस्याः प्रत्यभिज्ञायाः। अपूर्वविषयकत्वे प्रत्यभिज्ञायां भवचनं प्रमाणयति
Page #72
--------------------------------------------------------------------------
________________
अनेकान्तब्यवस्थाप्रकरणम् ]
प्रमेयमित्यपूर्वप्रमेयस्वभावः, उक्तं च" इदानीन्तनमस्तित्वं, नहि पूर्वधिया गतम् ॥"
] इति । न च पूर्वापरकालसम्बन्धिद्रव्यस्यैकत्वात् कालस्य चातीन्द्रियत्वान्न प्रमेयातिरेक इति वाच्यम् , तथापि प्रत्यभिज्ञातार्थे सन्देहाभावेन तत्प्रामाण्य सिद्धेः, विषयातिरेकस्येव सन्देहापाकरणस्यापि प्रामाण्यांनबन्धनत्वात् , न च सविकल्पमेव प्रत्यभिज्ञानम् , अविकल्पस्यापि तस्य दर्शनात् , प्रथमप्रत्ययाभिन्न विषयाकारात्रुटय उक्तं चेति-'सोऽयं घटः' इति प्रत्यभिज्ञायां पूर्वकालीन वर्तमानकालीनयोरभेदो विषय इति पूर्वकालीनघटास्तित्वं पूर्वानुभवविषय इति तदेव स्मदणविषयः, इदानीन्तनमस्तित्वं च घटस्य न पूर्नानुभवविषय इति तन्न स्मरणविषय इति पूर्वधियाऽनधिगतस्येदानीन्तना. स्तित्वस्याऽवगाहित्वात् प्रत्याभिज्ञायामपूर्वार्थविज्ञानत्वमित्याशयः । ननु पूर्वापरकालीनं द्रव्यं यत् प्रत्यभिज्ञानस्य विषयस्तस्यैकस्य पूर्वानुभवविषयत्वेन नापूर्वत्वम् . क्षणलक्षणकालस्त्वतीन्द्रियत्वान्न प्रत्यक्षात्मकप्रत्यभिशाविषय इति नापूर्वप्रमेयसद्भाव इत्याशङ्कय प्रतिक्षिपति-न चेति-अस्य 'वाच्यम्' इत्यनेनान्वयः । यज्ज्ञानं संशयमपाकरोति तत् प्रमाणमिति व्यवस्थितेः 'सोऽयं घटः' इति प्रत्यभिज्ञाने सति 'सोऽयं नवा' इत्यादिसंशयो विच्छिद्यत इति संशयनिवर्तकत्वेनाऽनधिगतार्थविषयकत्वाभावेऽपि प्रत्यभिज्ञायाः प्रामाण्यं स्यादेवेति प्रतिक्षेपहेतुमुपदर्शयति-तथाऽपीति-अपूर्वप्रमेयाभावे. ऽपीत्यथः। तत्प्रामाण्यसिद्धेः प्रत्यभिज्ञाप्रामाण्यसिद्धेः । ननु बौद्धेन सविकल्पकज्ञानं प्रमाणतया नेष्यत इति तं प्रति सविकल्पकप्रत्यक्षरूपस्य प्रत्यभिज्ञानस्य क्षणक्षयित्वबाधकतयोपदर्शनं न युक्तमि. त्याशङ्कां प्रतिक्षिपति-न चेति-प्रत्यभिज्ञानं सविकल्पकमेव न निर्विकल्पकमिति नियमो न चेत्यर्थः। तत्र हेतुः-अविकल्पस्यापीति-निर्वि
Page #73
--------------------------------------------------------------------------
________________
१२ ]
[ तत्त्वबोधिनीविवृतिविभूषितम्
दूपार्थग्राह्य विकल्पस्यैकत्वप्रत्यभिज्ञानत्वात्, यथा ह्यर्थसंसर्गानुसारिगोऽनुभवादुपजातान्नीलविकल्पानी लानुभवः सौगतैर्व्यवस्थाप्यते तथा 'पूर्वदृष्ट पश्यामि' इत्युल्लेखवतोऽनुसन्धान विकल्पाद त्रुटयदूपशब्दाद्यनुभवः किं न व्यवस्थाप्येत ? अक्षव्यापारानन्तरत्वस्योभयत्राविशेषात्, पूर्वदृष्टताज्ञानस्य पूर्वदर्शनं विनाऽसम्भावत् तद्
कल्पकस्यापीत्यर्थः । तस्य प्रत्यभिज्ञानस्य । 'सोन्यं घटः' इत्यादिज्ञानं प्रकार - विशेष्यभावेन वस्त्ववगाहित्वान्नियमेन यद्यपि सविकल्पकं तथापि प्रथमनिर्विकल्पक ज्ञानविषयवस्त्ववगाहि यन्निर्विकल्पकं तदेव तद्रव्यस्वरूपैकत्वविषयकत्वादयद्रूपवस्तुविषयकं प्रत्यभिज्ञानं स्थैर्यसाधकं क्षणक्षयबाधकं चेत्याह-प्रथमेति । ननु पूर्वापरा त्रुट्यद्रूपवस्तुविषयकं निर्विकल्पकं समस्तीत्येतदेव व्यवस्थापयितुं न शक्यत इति कुतस्तस्यासिद्धस्य प्रत्यभिज्ञानत्वाभ्युपगम इत्यत आह- यथा हीति - नीलादिस्वलक्षणरूपार्थे सति नीलाद्यनुभवलक्षणनिर्विकल्पकं भवति नीलाद्यर्थाभावे तन्न भवतीत्यतोऽर्थसंसर्गानुसारी निर्विकल्पका नुभवः, तत उपजायमानत्वान्नीलादिविकल्पोऽप्यर्थानुसारीति तथाभूतानीलादिविकल्पाद यथा सौगतैर्नीलाद्यनुभवो निर्विकल्पात्मको व्यवस्थाप्यते तथा पूर्वदृष्टार्थे शब्दादिलक्षणे सत्येव तद्गोचरो निर्विकल्पकानुभवो भवति तदभावे च न भवतीत्यत्रुटयद्रूपशब्दाद्यर्थसंसर्गानुसारिणो निर्विकल्पानुभवादुपजायमानत्वात् तथाभूतार्थसंसर्गानुसारिणः 'पूर्वदृष्टं पश्यामि' इत्युलेखशालिनोऽनुसन्धानविकल्पाद त्रुट्यद्पशब्दाद्यनुभवो निर्विकल्पात्मा किं न व्यवस्थाप्येत ? अर्थात् स व्यवस्थाप्येतैव, अक्षव्यापारान्तरभावित्वस्य नीलादिविकल्प इव 'पूर्वदृष्टं पश्यामि' इति विकस्पेऽपि सद्भावादित्य त्रुट्यद्रूपशब्दादिनिर्विकल्पकलक्षणप्रत्यभिज्ञानं प्रमाणं सिध्यत्येवेत्यर्थः । अत्र बौद्धः शङ्कते - पूर्वदृष्टताज्ञानस्येति । पूर्वताज्ञानस्य 'पूर्वदृएं पश्यामि इति ज्ञानस्य । पूर्वदृष्टता पूर्वदर्शन
Page #74
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
विना पौर्वापर्येऽक्षजप्रत्ययप्रवृत्तरभावान्न प्रत्यभिज्ञाप्रामाण्यमिति चेत् ? न-पूर्वदृष्टमित्युल्लेखमन्तरेणापि पौर्वापर्ये गवतारात् , अन्यथाऽत्रुठ्यद्रूपनिश्चयानुपपत्तेः, ततो निर्विकल्पकस्य सविकल्पकस्य वा स्थैर्यग्राहिणः प्रत्यभिज्ञानस्य प्रमाणाबाधितत्वात् क्षणक्षयस्य विषयतेति तत्र निरूपकतया पूर्वदर्शनं विशेषणमिति विशिष्टज्ञानं विशेषणमन्तरेण न सम्भवतीति पूर्वदर्शनमन्तरेण पूर्वदृष्टताज्ञानस्य भवत्यसम्भव इति, वर्तमानेऽर्थे यद्यपि संयोगादिलक्षण इन्द्रियसन्निकर्षोऽस्ति तथाऽपि पूर्वापरीभावे शानलक्षण एव सन्निकर्ष इति पूर्वदर्शनसद्भावमन्तरेणाक्षजज्ञानप्रवृत्तरसम्भव इत्याह-तद विनेति-तथा चार्थसंसर्गानुसारि नोक्तप्रत्यभिज्ञानमतस्ततो नात्रुट्य
पार्थनिर्विकल्पकप्रत्यभिज्ञानप्रसिद्धिः। अर्थसंसर्गाननुसारिणस्तथाप्रत्यभिज्ञानस्य न प्रामाण्यमित्याह-न प्रत्यभिज्ञाप्रामाण्यमिति। पूर्व दर्शनसद्भावमन्तरेण पूर्वदृष्टमित्युल्लेखशालिनः प्रत्यभिज्ञानस्यासम्भवेऽपि वस्तुस्थित्या वस्तुगते पौर्वापर्ये दृशो वतारः स्यादेव. ततश्चात्रुट्यद्रुपनिर्विकल्पकानुभवलक्षणप्रत्यभिज्ञानं प्रमाणमेवेति समाधत्ते-नेति । अन्यथा अत्रुट्यद्पशब्दादिविषयकनिर्विकल्पकानुभवाभावे। तथा चोक्तदिशा निर्विकल्पकरूपमपि प्रत्यभिज्ञानं सम्भवति, अस्माभिस्तु सविकल्पकमपि प्रमाणमभ्युपेयत एव, सविकल्पकप्रत्यभिज्ञानमपि प्रमाणमेव, ततश्च निर्विकल्पकात् सविकल्पकाद् वा स्थैर्यग्राहिणः प्रत्यभिज्ञानाद् बाधितत्वान्न क्षणक्षयस्याभ्युपगमाईत्वमित्युपसंहरति-तत इति । 'प्रमाणाबाधितत्वाद्' इत्युक्त्या तस्य प्रामाण्यमावेदितं भवति, ततश्चोक्तप्रत्यभिज्ञानप्रमाणबाधितत्वमनुक्तमप्यर्थात् क्षणक्षये प्राप्तमित्यतः क्षणक्षयस्याभ्युपगमार्हत्वं नेत्यर्थः ।
विनाशस्य निर्हेतुकत्वादुत्पत्त्यनन्तरमेव भावानां विनाश इति क्षणक्षयित्वमभिमतं सौगतस्य, तश्च न, मुद्गरपातामन्तरं
Page #75
--------------------------------------------------------------------------
________________
१४ ]
[ तत्वबोधिनीविवृतिविभूषितम् नाभ्युपगमार्हत्वम् , किश्च, विनाशस्य सहेतुकत्वात् तद्धत्वभावादेव क्षयिणामपि भावानां कियत्कालं स्थैर्यमनावाधम् , न च विनाशस्य सहेतुकत्वमसिद्धम् .. 'दण्डेन घटो भग्नः, अग्रिना काष्ठं दग्धम्' इत्याद्यनुभवस्य सावजनीनत्वात् , न चावस्तुत्वाद् विनाशस्य न कार्यत्वम् , यथा हि नोपलम्भव्यावृत्तिरेवानुपलम्भः परेषाम् , किन्तु विवक्षितोपलम्भादन्यः पर्युदासवृत्त्योपलम्भ एव. विनाशस्य घटादेर्दर्शनात् सहेतुकत्यमेव विनाशस्येति कारणविलम्बाद् विनाशलक्षणकार्यविलम्बे तावत्कालस्थायित्वमयत्नोपनतमेव भावानामिति कुतः क्षणिकत्वमित्याह-किञ्चति । तद्धत्वभावादेव विनाशहेतोः कियत्काल मसन्निधानादेव। विनाशस्य सहेतुकत्वे सति लद्विलम्बाद् विनाशविलम्बः स्यात् परं विनाशस्य सहेतुकत्वमेवा सिद्धमिति पराकृतं प्रतिक्षिपति-न चेति । निषेधे हेतुमाह-दण्डेनेति। विनाशस्य कार्यत्वे सति सहेतुकत्वं भवेत् , कार्यत्वमेव तु तस्याऽवस्तुत्वान्न सम्भवतीति तन्मतं प्रतिक्षिपति-न चेति । घटविनाशे यत् कपालमुपलभ्यते तदेव कपालं घट वनिर्मुक्तं घटविनाश इति विनाशस्य भावरूपत्वाद् वस्तुत्वमेवेत्यवस्तुत्वस्यासिद्धया न तेनाकार्यत्वं नाशस्य सिद्धयतीति निषेधे हेतुमुपदर्शयति-यथा हीति । परेषां बौद्धानाम् , एतञ्च बौद्धानां वादित्वमवलम्ब्योक्तम् , तेन प्रकृतप्रश्नकर्तुर्मीमांसकस्याऽपि मतेऽनुपलम्भस्योपलम्भव्यावृत्तिरूपत्वाभावेऽपि न तथोक्त्यसामाञ्जस्यम् । यद्यनुपलम्भव्यावृत्तिर्नाऽनुपलम्भस्तर्हि किंवरूपः स इति पृच्छति-किन्त्विति । उत्तरयति-विवक्षितोपलम्भेति-विवक्षितो यो घटोपलम्भस्तस्मादन्यो भिन्नो यः पटादेरुपलम्भः स एव घटानुपलम्भः, नोपलम्भोऽनुपलम्भ इत्यत्र नमो न प्रसज्यप्रतिषेधरूपत्वम्. किन्तु पर्युदासरूपत्वम् , पर्युदासनञः सदृग्ग्राहित्वमित्यतो घटानुपलम्भ इत्यनेन घटोपलम्भभिन्नपटाद्युपलम्भस्य ग्रहणमित्यावेदनायोक्तम्-पर्युदासवृत्येति, तदुक्तम्
Page #76
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ] . . तथा नाशोऽपि भावान्तरविनिर्मुक्तो भाव एवेति तस्य कार्यत्वाविविरोधात् ; उत्तं च
" भावान्तरविनिर्मुक्ती भावोत्रानुपलम्भवत् । अभावः सम्मतस्तस्य हेतोः किं न समुद्भवः ? ॥” [ .
.. ] इति । अत्रोच्यते-यदुक्तं ' क्षणक्षयसिद्धौ नाध्यक्ष प्रवर्तते' इति, तदयुक्तम्-पूर्वांपरक्षणसमन्वस्याध्यक्षाविषयत्वे मध्यमक्षणसत्त्वमेव गृह्णता प्रत्यक्षेण कालान्तरस्थितिविपर्यासंलक्षणंभेदपरिच्छेदात् ।
"द्वौ नौ हि समाख्यातौ पर्युदास-प्रसज्यको । पर्युदासः सदृग्ग्राही प्रसज्यस्तु निषेधकृत" ॥ इति । तथा अनुपलम्भवत् । तस्य भावान्तरविनिर्मुक्तभावस्वरूपस्य नाशस्य । उक्तरूपनाशस्य कार्यत्वं सम्भवतीत्यत्र भट्टवचनं संवादकतयोपदर्शयति-उक्तं चेति । अभावः विनाशः । तस्य भावरूपविनाशस्य । हेतोः कारणात् । किं न समुद्भवः ? अपि तु कारणात् समुद्भवः स्यादेव ।।
। उक्तमीमांसकप्रश्नस्य बौद्धन प्रतिविधानमावेधते-अत्रोच्यत इति । 'तदयुक्तम्' इत्यत्र हेतुमुपदर्शयति-पूर्वापरेति-अतीतानागतेत्यर्थः, अतीतानागतक्षणसमन्वयस्य प्रत्यक्षविषयत्वे कालत्रयवृत्तित्वस्य किञ्चित्कालस्थायित्वपर्यवसितस्य प्रत्यक्षविषयत्वमिति न क्षणिकत्वं प्रत्यक्षसमधिगम्यं स्यात् , पूर्वापरक्षणसमन्वयस्य प्रत्यक्षाविषयत्वे तु वर्तमानलक्षणमध्यमक्षणसत्त्वमेव प्रत्यक्षविषय इति तादृशसत्त्व ग्राहिणा प्रत्यक्षेण कालान्तरस्थित्यभावलक्षणस्य कालान्तरवर्तिनो भेदस्य परिच्छेदात् , तथा च मध्यमक्षणसतो यः पूर्वाऽपरक्षणवर्तिभ्यां भेदः स क्षणिकत्वपर्यवसाय्येवेति क्षणिकत्वग्रहणं प्रत्यक्षतः सिद्धं भवतीति । ननु कालान्तरसमन्वयस्याऽयोग्यत्वात प्रत्यक्षाविषयत्वेऽपि वस्तुनि कालान्तरसमन्वयोऽस्ति,नवेति सन्देह
Page #77
--------------------------------------------------------------------------
________________
१६ ]
[ तत्त्वबोधिनीविवृतिविभूषितम्
न च कालान्तरसमन्वयमधिगन्तुमक्षमध्यक्षं न तदुद्भासयतीति सन्देह एव तत्र युक्तो नासत्त्वमिति वाच्यम्, कालान्तरस्थायित्वस्य कदाचिदप्यनवगतौ सन्देहाभावात् सदृशापरापरक्षणोत्पत्तिदोषादन्त्यक्षणादर्शिनां क्षणिकत्वनिश्चयो विकल्पात्मको नेष्यते, निर्विकल्पकं तु क्षणिकतायां सदैव प्रमाणभावमाविभर्ति क्षणिकत्व
-
एव भवेत्, नैतावता कालान्तरासत्त्वं तस्य सिद्धयति येन क्षणिकत्वं प्रत्यक्षगृहीतं स्यादित्याशङ्कय प्रतिक्षिपति न चेति - अस्य 'वाच्यम्' इत्यनेनान्वयः । तदुद्भासयति कालान्तरसमन्वयं वस्तुनोऽवभासयति । तत्र कालान्तरसमन्वये । तस्यैव क्वचित् संदेहो भवति यस्य कदाचित् कचिनिश्चयः, यथा स्थाणुत्वस्य क्वचिन्निश्चितस्य दूरवर्तिनि उच्चैस्तरे, कालान्तरस्थायित्वस्य कदाचिदपि क्वचिदप्यनिश्चितौ तत्सन्देहस्यासम्भवादित्याह — कालान्तरस्थायित्वस्येति । यद्यपि यावदन्त्यक्षणस्य दर्शनं येषां नास्ति तेषां सदृशापरापरक्षणोत्पत्तिलक्षणदोषेण प्रतिबन्धाद् विकल्पात्मक क्षणिकत्वनिश्चयो न भवति तथापि तेषामपि सदैव क्षणिकत्वस्य निर्विकल्पकं भवत्येव, तदेव च क्षणिकतायां प्रामाण्यमासादयतीत्याह – सदृशेति । नेष्यते बौद्धैर्नाभ्युपगम्यते । सदैव यदा यदा स्वलक्षणस्य निर्विकल्पं तदा तदा तेन विकल्पकाले निर्विकल्पकस्य स्वरूपतोऽभावादेव प्रामाण्यानासादनेऽपि न क्षतिः । नन्वन्त्यक्षणदर्शन भिन्ननिर्विकल्पकस्य क्षणिकत्वप्रकारकाध्यवसायलक्षणक्षणिकत्वविकल्पाजनकत्वेन कथं क्षणिकतायां प्रामाण्यम् यत्रैव जनयेदेनां तत्रैवास्य प्रमाणता ” इत्युक्तेः स्वानुरूपविकल्पजनकतयैव निर्विकल्पस्य प्रामाण्यङ्गीकारादित्यत आहक्षणिकत्व प्रकार केति-अन्त्यक्षणदर्शनदशायां निर्विकल्पकस्य स्वाव्यवहितोत्तरक्षण एव क्षणिकत्वप्रकारकाध्यवसायलक्षणस्वानुरूपविकल्पजनकत्वेन यथा प्रामाण्यं तथा तत्पूर्वपूर्वतरक्षणज्ञान लक्षणनिर्विकल्पानामप्युत्तरोत्तरक्षण ज्ञान परम्पराद्वारा क्षणिकत्वप्रकारकाध्य
?
"
66
-
Page #78
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[.१७
"
प्रकारकाध्यवसायजनकतया समन्तरप्रत्ययस्येव तत्प्रयोजकतया पूर्वपूर्वतरक्षणज्ञानानामपि प्रामाण्याव्याघातात्, स्वविषयविषयकत्वस्योभयत्राविशेषात् व्यवहारसाधनाय विप्रतिपत्तिनिरासाय च तत्रानुमानमाद्रियत एव । क्षणिकत्वपक्षेऽप्यनुमानसामग्रीसम्पत्ती पक्षधर्मत्वादिमा निश्चितस्य हेतोः स्वसाध्यप्रतिबिम्बजननक्षमत्वात् सविकल्पकत्वेऽपि तस्य परम्परया वस्तुप्रतिबन्धेन प्रामाण्यात् । वसायप्रयोजकत्वेन प्रामाण्यस्याव्याघातादित्यर्थः । समनन्तरप्रत्ययस्य यदव्यवहितोत्तरक्षणे क्षणिकत्वविकल्पस्य जननं तस्य निर्वि कल्पज्ञानस्य। तत्प्रयोजकतया क्षणिकत्वप्रकारकाध्यवसायप्रयोजकतया, परम्पराकारणस्यान्यथासिद्धत्वेऽपि प्रयोजकत्वं भवत्येवेत्याशयः क्षणिकत्वविषयकविकल्पस्य स्वविषयविषयकत्वं यथा समनन्तरप्रत्ययलक्षणे निर्विकल्प तथा पूर्वपूर्वतर निर्विकल्पकेऽपीति प्रामाण्यप्रयोजकस्य तस्य सर्वत्राऽविशेषात् सर्वस्यापि प्रामाण्यमित्याह — स्वविषयविषयकत्वस्येति-स्वं क्षणिकत्वविकल्पः, तस्य विषयः क्षणिकत्वम्, तद्विषयकत्वस्येत्यर्थः । उभयत्र समनन्तरप्रत्यये पूर्वपूर्वतरनिर्विकल्पके च । ननु यदि क्षणिकतायां निर्विकल्पक प्रत्यक्षमेव प्रमाणं तदा तत एव सिद्धे क्षणिकत्वेऽनुमानादरणं तत्र निष्फलमेवेत्यत आह-व्यवहारसाधनायेति -' इदं क्षणिकमिदं क्षणिकम्' इत्येवं क्षणिकत्वव्यवहारो निर्विकल्पकत्वप्रत्यक्षतो न भवतीत्येतदर्थ क्षणिकत्वेऽनुमा नमाद्रियते, एवं प्रत्यक्षसमधिगतेऽपि क्षणिकत्वे वादिनो विप्रतिपद्यन्त एवेति तद्विप्रतिपत्तिनिरासोऽनुमानमन्तरेण न सम्भवतीति वादिविप्रतिपत्तिव्यपोहाय तत्रानुमानमाद्रियत इत्याह-विप्रतिपत्तिनिरासाय चेति । क्षणिकत्वाभ्युपगमेऽनुमानांङ्ग पक्षधर्मत्वाद्यनिश्चयादनुमानासम्भव इति पराक्षेपप्रतिविधानायाह-क्षणिकत्वपक्षेऽपीति-क्षणिकत्वाभ्युपगमपक्षेऽपीत्यर्थः । स्वसाध्य प्रतिबिम्बेति-स्वसाध्यानुमितीत्यर्थः । सविकल्पस्यानुमानस्य नार्थस
Page #79
--------------------------------------------------------------------------
________________
१८ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् अनुमानं च क्षणिकतायां 'यत् सत् तत् क्षणिकमेव ' 'सन्ति च द्वादशाऽऽयतनानि' इति । ननु क्षणिकत्वस्य प्रत्यक्षेणानिश्चयात् कथं हेतु-साध्ययोस्तादात्म्याविनाभावग्रहः, न च कृतका विनाशं प्रत्यनपेक्षत्वात् तद्भावनियता यतो भावा इत्यनुमानसिद्धं तत्तादात्म्यम् , निहेतुकत्वेऽपि नाशस्य यदैव घटादयो नाशमनुभवन्तः प्रतीयन्ते तदैव तेषामसौ निर्हेतुकः स्यान्नान्यदेति कथं क्षणविशरारुता कृतकत्वेऽपि भावानाम् ? एकक्षणस्थायित्वस्वभावेनोत्पत्तेर्भा
म्बन्ध इति न तस्य प्रामाण्यमित्याक्षेपसमाधानायाह-सविकल्पकत्वेऽपीति । तस्य अनुमानस्य । साध्य हेत्वादिस्वलक्षणविषयकप्रत्यक्षस्यार्थजन्यत्वेन ततः पक्षधर्मत्वादिज्ञानद्वारा जायमानस्यानुमानस्यापि परम्परया वस्तुजन्यत्वेन वस्तुप्रतिबन्धेन प्रामाण्य स्यादेवेत्याहपरम्परयेति ।प्रयोगतः क्षणिकत्वानुमानं भावयति-अनुमानं चेति । क्षणिकत्वसाधकतयाऽभिमतेन हेतुना सह क्षणिकत्वलक्षणसाध्यस्य तादात्म्यलक्षणाऽविनाभावग्रहस्यासम्भवाद् व्याप्तिग्रहरूपकारणाभावेन नानुमानोत्पत्तरेव सम्भवः, कुतस्तस्य क्षणिकतायां प्रामाण्यमित्याशङ्कते-नन्विति-साध्यस्य प्रत्यक्षेग निश्चये सत्येव साध्यहेत्वोरविनाभावग्रहः, प्रकृते च साध्यस्य क्षणिकत्वस्य प्रत्यक्षेणाऽनिश्चयान्न साध्य-हेत्वोस्तादात्म्यलक्षणाविनाभावः सम्भवतीत्यर्थः। अत्रसाध्य हेत्वोरविनाभावग्रहसम्भवमाशङ्कय प्रतिक्षिपति-न चेति‘कृतका भावा विनाशनियता विनाशं प्रत्यनपेक्षत्वाद्' इत्यनुमानस्वरूपमत्र बोध्यम्। तत्तादात्म्यं प्रकृतसाध्य हेत्वोरविनाभावतयाऽभिमतं तादात्म्यम् । निषेधे हेतुमाह-निर्हेतुकत्वेऽपीति-नाशस्य निर्हेतुकत्वेऽपीत्यन्वयः। तेषां घटादीनाम् । असौ नाशः। अन्यदा विनाशितया घटादीनां प्रतीत्यभावकाले। एवं च यदैव प्रतीयते घटादीनां नाशस्तदैव स इत्युत्पत्तिद्वितीयक्षणे प्रतीत्यभावान्नाशस्या
Page #80
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १९ वानां प्रागपि विनाशसङ्गतिरित चेत् ? न-अनेकक्षणस्थायित्वस्वभावेन स्वहेतुभ्य उत्पत्तेरप्युक्तौ बाधकाभावात् , न च यदि क्वचित् कदाचिद् विनाशो भवेत् तदा तत्काल-द्रव्यापेक्षत्वादन्यानपेक्षत्वहानिः, विनाशहेत्वनपेक्षत्वेनान्यानपेक्षताया अहानेः, अन्यथा द्वितीयेऽपि क्षणे विनाशो न स्यात् तत्कालाद्यपेक्षत्वात् , न च ऽसिद्धया न क्षणिकत्वं भावानां सिध्यतीत्याह-कथमिति-न कथचिदित्यर्थः, किमोऽत्राक्षेपार्थकत्वात् । अत्र बौद्धाभिप्रितं प्रतिक्षेप्तु. माशङ्कते-एकक्षणेति-उत्पत्त्यनन्तरमपि यदि भावानां स्थितिः स्यात् तदैकक्षणस्थायिस्वभावतया भवनमेव तेषां न भवेदिति तादृशस्वभावतयोत्पत्तिबलात् तेषां ध्वंसप्रतीतिसमायात् प्रागप्युत्पत्त्यनन्तरक्षणेऽपि ध्वंस इत्यर्थः । यथैकक्षणस्थायिस्वभावतयोत्पत्तेः कल्पनबलाद् द्वितीयक्षणेऽननुभूयमानमपि ध्वंसं परिकल्प्य भवद्भिः क्षणिकत्वं व्यवस्थाप्यते तथा स्वहेतुभ्यो भावानामनेकक्षणस्थायिस्वभावतयैवोत्पत्तिरित्यस्यापि वक्तुं शक्यत्वेन तादृशस्वभावबलादनेकक्षणस्थायित्वलक्षणं स्थैर्यमेव सिध्येदिति प्रतिक्षिपति-नेति । नन्वेवमभ्युपगमे यदा विनाशो भवेत् तत्कालद्रव्यापेक्षत्वं विनाशं प्रति भावानां भवेदिति कृतका भावा विनाशं प्रत्यनपेक्षा इत्ययं स्वभाव एव व्याहन्येतेत्यतो न यदा कदाचिद् विनाशः, किन्तूत्पत्त्यनन्तरमेवेत्याशय प्रतिक्षिपति-न चेति । यत्र यत्काले विनाशो भवति तद्देश-तत्कालातिरिक्तविनाशहेत्वनपेक्षत्वलक्षणमेवान्यानपेक्षत्वं विनाशं प्रति भावानां स्वभावः, स कदाचित् क्वचिद् विनाशभावेऽपि तद्देश-तत्कालातिरिक्तानपेक्षत्वन्निर्वहत्येवेति निषेधहे. मुपदर्शयति-विनाशहेत्वनपेक्षत्वेनेति-तत्कालादिव्यतिरिक्तविनाशहेत्वनपेक्षत्वेनेत्यर्थः । अन्यानपेक्षतायाः विनाशं प्रत्यन्यानपेक्षत्वस्वभावस्य । अहानेः सद्भावात् । अन्यथा यत्किश्चित्कालाद्यपेक्षणेऽप्युक्तस्वभावहानेरभ्युपगमे । तत्कालाद्यपेक्षत्वात् द्वितीयक्षणलक्षणकालाधपेक्ष
Page #81
--------------------------------------------------------------------------
________________
२०.]
[ तत्त्वबोधिनीविवृतिविभूषितम् क्रम-योगपद्याभ्यां सामर्थ्य लक्षणं सत्यं व्याप्त क्रमा-ऽक्रमनिवृत्ती च नित्यात् सत्त्वं निवर्तमानं क्षणिकेष्वेवावतिष्ठत इत्यपि वक युक्तम्, क्षणिकत्वे क्रमा-ऽक्रमप्रतिपत्तेरेवासम्भवात् , पूर्वोत्तरकालत्वात् , तत्कालस्यानपेक्षणे तदानीमेव भवति नान्यदेति न स्यात् ।
' अर्थक्रियाकारित्वलक्षणसत्त्वव्यापकक्रम-योगपद्यनिवृत्त्या नित्यानिवर्तमानमर्थक्रियाकारित्वलक्षणं सत्त्वं क्षणिकेष्वेवावतिष्ठत इत्यतो भावानां क्षणिकत्वसिद्धिरिति बौद्धाकृतमाशङ्कय प्रतिक्षिपति-न चेति-अस्य 'युक्तम्' इत्यनेनान्वयः । क्रम-योगपद्याभ्यां क्रमकारित्व युगपत्कारित्वाभ्याम् , क्रमकारित्वे युगपत्कारित्वं न भवेत् , युगपत्कारित्वे क्रमकारित्वं न भवेदित्यनयो!भयत्वेन रूपेणाऽर्थक्रियाकारित्वलक्षणसत्त्वव्यापकत्वम्, किन्तु क्रमकारित्व-युगपत्कारित्वान्यतरत्वेन रूपेणेति बोध्यम् । सामार्थ्यलक्षणं अर्थक्रियाकारित्वरूपम् । क्रमा-ऽक्रमनिवृत्ताविति-नित्यो हि भावः क्रमेणार्थक्रियां कुर्वीत ? अक्रमेण वा ? न तावदाद्यः-यत्क्षणे एकं कार्य करोति तत्क्षणे तस्यान्यकार्य प्रति सामर्थ्य समर्थस्य क्षेपायोगात् तदानीमेव कार्यान्तरमपि कुर्यात् , तत्क्षणे कार्यान्तरं प्रति सामर्थ्याभावे कार्यान्तरं कदापि न विदध्यात् , यत्क्षणे यत् कार्य करोति तत् कार्य प्रति सामर्थ्यमित्येवमुपगमे च सामर्थ्यतद्वतोरभेदाद् विभिन्नकालीनविभिन्नकार्यकरणसामर्थ्यभेदतो भावानामपि भेद एवेति न नित्यत्वमिति न नित्यस्य क्रमेणाऽर्थक्रियाकारित्वम् ; नापि द्वितीयः-यावन्ति यस्य कार्याणि तेन तावतां कार्याणां युगपदेव विधाने एकक्षण एव सकलकार्यकारित्वस्वभावविश्रान्तद्वितीयक्षणे करणीयाभावादर्थक्रियाकारित्वलक्षणसत्वस्याऽभावतोऽभाव एव भावानामिति नित्यत्वहानिरित्येवं नित्यात् क्रमाऽक्रमनिवृत्तावित्यर्थः। अयुक्तत्वे हेतुमाह-क्षणिकत्व इति-यदा च क्रमाऽक्रमप्रतिपत्तिरेव न सम्भवति तदा क्षणिके क्रमाऽक्रमा
Page #82
--------------------------------------------------------------------------
________________
[२१
अनेकान्तव्यवस्थाप्रकरणम् ] भाव्यन्यतरप्रतिपत्तृभ्यां तदितरासंस्पर्शात् , यो हि पूर्ववस्तुप्रतीत्यनन्तरमपरस्य ग्राहकः स क्रमग्राही भवेत् , तथा चाक्षणिक बलादापतति, द्धस्य च काल एव नास्तीति कथं कस्य क्रमग्रहः, भिन्नकालवस्तुग्रहाभावे .चानेकवस्तुरूप एव क्रमः, स च नित्यस्यापि क्रमिककार्यकर्तृत्वे न विरुध्यते कालाभावेन तत्सङ्करदोषाभावात् ।
अत्र केचित् प्रतिविदधति-"प्रत्यक्षसिद्ध एव क्रम-योगपये, तथाहि-सहभावो भावानां यौगपद्यम् , क्रमस्तु पूर्वापरभावः, स भ्यामर्थक्रियाकारित्वं कथं व्यवस्थापयितुं शक्यमित्याशयः । तत्र क्रमप्रतिपत्त्यसम्भवमुपपादयति - पूर्वोत्तरेति-पूर्वकालभाविप्रतिपत्त्रा पूर्वकालीनस्यैव वस्तुनो ग्रहणं नोत्तरकालीनवस्तुनः, उत्तरकालभाविप्रतिपत्त्रोत्तरकालीनस्य वस्तुनो ग्रहणं न पूर्वकालीनवस्तुन इत्येवं पूवोत्तरकालभाव्यन्यतरप्रतिपत्तभ्यां तदितरासंस्पर्शादित्यर्थः। भवत्वेवं तावता क्रमाग्रहः कथमायातीत्यत आह-यो हीति । अपरस्य अपरवस्तुनः । तथा च इत्थम्भूतग्रहस्य प्रतिपत्तुः स्वीकारे च, स एव पूर्वोत्तरकालस्थायीत्यक्षणिकत्वं बलात् तादृशस्वीकारसामर्थ्यात् । भिन्नकालीनवस्तुग्रहश्च क्रमग्रहः, स च कालानभ्युपगन्तुबर्बोद्धस्य मते न सम्भवत्येवेत्याह-बौद्धस्य चेति । तस्य बौद्धस्य, मत इति शेषः । यदा च कालाभावाद भिन्नकालवस्तुग्रहो न क्रमग्रहः, किन्त्वनेकवस्तुरूप एव क्रमः, तद्ग्रह एव च क्रमग्रहः, तदा वस्तुनो नित्यत्वेऽप्यनेकवस्तुरूपः क्रमोऽस्त्येवेति तादृशक्रमवत् कार्यकारित्वं नित्येऽपि सम्भवतीति नोक्तक्रमकारित्वं नित्ये विरुध्यत इत्याह-भिन्न कालवस्तुग्रहाभावे ति। स च अनेकवस्तुरूपक्रमश्च । यदि कालो भवेत् तदा य एककार्यस्य कालः सोऽन्यकार्यकालोऽपि तत्सामर्थ्यबलादापततीति नित्यपक्षे कालसङ्क्रमदोषो भवेत् , कालाऽभावे च तस्याप्यभावादित्याह-कालाभावेनेति । तत्सकैरेति-कालसङ्करेत्यर्थः । 'ननु०' इत्याद्याशङ्कायां बौद्धविशेषाः
Page #83
--------------------------------------------------------------------------
________________
२२ ] ·
[ तत्त्वबोधिनीविवृतिविभूषितम्
च क्रमिणामभिन्नः एकप्रतिभासश्च तत्प्रतिभासः । अथैकप्रतिभासानन्तरमपरस्य प्रतिभासः क्रमप्रतिभासो न त्वेकस्यैवातिप्रसङ्गात्, एवमेतत् किन्तु यदैकप्रतिभासो जातोऽपरश्व जायते तदा प्राक्तने यौगपद्यप्रतिभासप्रसक्तिरानन्तर्याभावात्, तस्मात् क्रमिणोः
केचन समादधतीत्याह- अत्रेति । स्वरूपोव वर्णनपुरस्सरं क्रम-योगपद्ययो: प्रत्यक्षसिद्धत्वं भावयति तथाहीति । स च पूर्वापरभावलक्षणः क्रमश्च । धर्म धमिणोरभेद इति पूर्वापरभावलक्षणधर्मस्य क्रमिभ्यो धर्मिभ्योऽभेदात् क्रमिप्रतिभास एव क्रमप्रतिभास इत्याह- क्रमिणामभिन्न इति । एकप्रतिभासश्च एकक्रमिप्रतिभासश्च । तत्प्रतिभासः निरुक्तक्रमप्रतिभासः । एकप्रतिभासस्य क्रमप्रतिभासत्वे यदैक एव क्रमी प्रतिभासते तदाऽपि क्रमप्रतिभास आपद्येत इत्यत एकक्रमिभासानन्तरमपरस्य क्रमिणः प्रतिभास एव क्रमप्रतिभासो न त्वेकस्यैव प्रतिभासस्तथेत्याशङ्कते - अथेति । समाधत्त - एवमेतदितिएकप्रतिभासान्तरमपरप्रतिभासः क्रमप्रतिभास इति यद् भवतोक्तं तत् तथैवेत्यर्थः । एवं तर्हि 'एकप्रतिभासः क्रमप्रतिभासः' इति भवदुक्तं किमयुक्तमिति पृच्छति - किन्त्विति । एकप्रतिभासान्तरमपर प्रतिभासो जायते तदा द्वावपि प्रतिभासौ प्रत्येकमेकप्रतिभास इति कृत्वा क्रमप्रतिभासौ भवतः, एकप्रतिभासत्वलक्षणक्रमप्रतिभासत्वमुभयत्र सद्भावात्, एकप्रभासानन्तर्यविशिष्टा परप्रतिभासस्य क्रमप्रतिभासरूपत्वाभ्युपगमे तु द्वितीयप्रतिभास एव प्रथमैकप्रतिभासानन्तर्यशालित्वादुक्तलक्षणयोगतः क्रमप्रतिभासो भवेत्, प्रथमैकप्रतिभासे तु नैकप्रतिभासानन्तर्य मित्युक्तलक्षणवैकल्यान्न क्रमप्रतिभासत्वम्, ततश्च प्रतिभासस्य क्रमप्रतिभास- यौगपद्यप्रतिभासभेदेन द्वैविध्ये तत्र क्रमप्रतिभासत्वाभावे यौगपद्यप्रतिभासत्वमासज्येतेत्यत एकप्रतिभासानन्तरमपरप्रतिभासः क्रमप्रतिभास इत्येतन्न सम्भवतीत्युत्तरयति-यदेक प्रतिभासो जात इति । एवं चैकप्रतिभास:
!
Page #84
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ २३
4
,
पूर्वा - sपरज्ञानाभ्यां ग्रहणे तदभिन्नः क्रमोऽपि गृहीत एव केवलं पूर्वानुभूतपदार्थाहितसंस्कारप्रबोधाद् इदमस्मादनन्तरमुत्पन्नम् इत्यादिविकल्पप्रादुर्भावे क्रमो गृहीत इति व्यवस्थाप्यते, क्रमि - गोर्ग्रहेऽपि कथञ्चिदानुपूर्व्या विकल्पानुपपत्तौ क्रमग्रहव्यवस्थापनायोगात्, अत एव क्रमिणामेकग्रहेऽपि न क्रमग्रहो व्यवस्थाप्यते, अपि च कथं कालाभ्युपगमवादिनोऽपि क्रमग्रह : ?, सर्वकार्याणामेककालत्वात् । न च भिन्नभिन्न कालोपाधिक्रमात् कार्यक्रमो युक्तः, कालस्याभिन्नत्वेनाभ्युपगमात् तद्योगात् तदुपाधीनां क्रमानुप
यः
क्रमप्रतिभास इत्यनेन यदभिमतं तदुपसंहरति-तस्मादिति । तदभिन्नः क्रमिभ्यामभिन्नः । एवं सति निर्विकल्पात्मकक्रमिग्रहणत एव क्रमग्रहाद् 'इदस्मादनन्तरमुत्पन्नम्' इति विकल्पस्यात्र के उपयोगः ?, न चानुपयुक्त एव सः, तथा सत्युक्तविकल्पाभावेऽपि क्रमो गृहीत इति व्यपदेशः स्यादित्यत आह- केवलमिति । पूर्वेति - पूर्वमनुभूतो य एकपदार्थानुभवानन्तरमपरपदार्थस्तस्मिन्ननुभवबलादाहितो संस्कारस्तद्विषयकः, तस्य कार्याभिमुख्यलक्षणप्रबोधाद् 'इदमस्मादनन्तरमुत्पन्नम्' इत्यादिविकल्पप्रादुर्भावे सति क्रमो गृहीत इति व्यवस्थाप्यत इत्यर्थः । उक्तविकल्पप्रादुर्भावे सत्येव क्रमग्रहव्यवस्थेत्यत्र युक्तिमुपदर्शयति-क्रमिणोर्ग्रहेऽपीति । अत एव यत एव 'इदमस्मादनन्तरमुत्पन्नम्' इत्यादि विकल्पप्रादुर्भावे सत्येव क्रमो गृहीत इति व्यवस्था भवति तत एव । यदुक्तं- 'बौद्धस्य काल एव नास्तीति कथं तस्य क्रमग्रह?' इति तत्राह -अपि चेति-कार्याणां विभिन्नकालत्वे सति कालभेदकृतस्तत्क्रमो भवेत्, कालवादी तु कालमेकमेवोररीकरोतीति कालभेदाभावात् क्रमग्रहासंभवादित्याशयेनाह - सर्वकार्याणामेककालत्वादिति । ननु कालवादिमते कालस्यैकत्वेऽपि कालोपाधयो विभिन्ना इति विभिन्नकालोपाधिक्रमात् कार्यक्रमो भविष्यतीत्याशङ्कां
Page #85
--------------------------------------------------------------------------
________________
२४]
[ तत्त्वबोधिनीविवृतिविभूषितम् पत्तेः, कालोपाध्यन्तरक्रमापेक्षतत्क्रमाभ्युपगमे चानवस्थानात् , स्वरूपेण तत्क्रमाभ्युपगमे च बहूनामसहायानां कार्याणामेव स्वरूपतः क्रमः किं न भवेत् ? अस्माकं तु लोकसिद्धकाल-तत्क्रमाभ्युपगमान दोषः, तस्माद् घटादिः पदार्थोऽर्थक्रियाकारी क्रमाक्रमाभ्यां प्रत्यक्षसिद्धः, तस्यैककार्यकरणं प्रति यत् सामर्थ्य तत् तदैव, न पूर्व न पश्चात् , तत्कार्याभावात् , सामर्थ्य तु ततोऽव्यतिरीक्तप्रतिक्षिपति-न चेति-अस्य :युक्तः' इत्यनेनान्वयः । कालस्यैकत्वे तत्सम्बन्धतः कालोपाधीनामपि क्रमो न भवेत, ततश्च तत्कृतोऽपि कार्यक्रमो न स्यादित्याह-कालस्येति । तयोगात् कालसम्बन्धात् । तदुपाधीनां कालोपाधीनाम्, एककालसम्बन्धादपि कालोपाधीनां क्रमाभ्युपगमे कालसम्बन्धात् कार्यक्रमस्यापि सम्भवेन कालोपाधिक्रमात् कार्यक्रमस्वीकारस्याऽयुक्तत्वं स्यादिति भावः। ननु कालस्याऽन्ये ये उपाधयस्तत्क्रमाद् विवक्षितकालोपाधिक्रमः, ततश्च कार्यक्रम इत्यत आह-कालोपाध्यन्तरक्रमेति । अनवस्थानादिति-कालोपाध्यन्तराणामपि क्रमो नैककालसम्बन्धाद् भवितुमर्हतीति कालोपाध्यन्तरक्रमादेव सोऽभ्युपेयः, एवं तत्कालोपाध्यन्तरक्रमोऽपीत्येवमविश्रान्तेरित्यर्थः । कालोपाधीनां न कालोपाध्यन्तरक्रमात् क्रमः, किन्तु स्वरूपत एवेति नाऽनवस्थेत्येवमुपगमे कार्याणामेव स्वरूपतः क्रमः किं नाऽभ्युपेयते ? अलं कालोपाधिक्रमाधीनतत्क्रमकल्पनयेत्याहस्वरूपेणेति । तत्क्रमाभ्युपगमे च कालोपाधिक्रमाभ्युपगमे पुनः । यद्यपि परमार्थतो बौद्धमते कालो नास्ति तथापि लौकिकक्षण लव-पलदण्ड-मुहूर्त-याम-दिन-मास-वर्षादिव्यवहारानुरोधेन लोकसिद्धकाल तत्क्रमयोबौद्धमतेऽप्युपगमोऽस्त्येवेति ततः कार्यक्रमस्याप्युपगमसम्भवान्न बौद्धमते कश्चिद् दोष इत्याह-अस्माकं त्वितिबौद्धानां पुनरित्यर्थः। तत्कमेति-कालक्रमेत्यर्थः। उपसंहरतितस्मादिति । तस्य घटादेः । तत् एककार्यकारणं प्रति सामर्थ्यम् ।
Page #86
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[२५ मेव, उत्तरकार्योत्पत्तावप्येवं द्रष्टव्यमिति सामर्थ्य भेदेन पदार्थभेदात् कथं न क्षणिकत्वम् ?, यथा च दृष्टेषु घटादिषु क्षणिकत्वव्याप्तमर्थक्रियाकारित्वरूपं सत्त्वं सिद्धं तथाऽदृष्टेष्वपि सिद्ध्य
तदैव एककार्यकरणकाल एव । कथं न तत्तत्कार्यकरणकालात् पूर्व तत्पश्चाद् वा तत्कार्यकरणसामर्थ्यमित्यपेक्षायामाह-तत्कायोभावादितितत्कालात् पूर्व पश्चाच्च तत्कार्यानुत्पत्तेस्तत्करणसामर्थ्य तत्कालभिन्नकाले नास्तीत्यर्थः। तद्गतोक्तसामर्थ्यस्य तत्काल एव सत्त्वे तस्यापि तत्काल एव सत्त्वं तस्य तदभिन्नत्वादित्याह-सामर्थ्य विति। ततः तत्कार्यकरणसमर्थाद् वस्तुनः । अव्यतिरिक्तमेव अभिन्नमेव, भेदे सामर्थ्यस्य तत्कालमात्रे एवावस्थानेऽपि तद्वतोऽन्यकालेऽप्यवस्थानं स्यादपीत्यतस्तत्प्रतिषेधायैवकारोपादानम् । यथैककार्यकरणं प्रति सामर्थ्य तत्कार्यकरणकाल एव, अभिन्नं च तत् ततः, तथा उत्तरकार्यकरणं प्रति यत् सामर्थ्य तदप्युत्तरकार्यकरणकाल एव, तदप्युत्तरकार्यकरणसमर्थवस्तुनोऽभिन्नमेवेत्याह - उत्तरकार्योत्पत्तावप्येवं द्रष्टव्यमिति । इति एतस्माद्धेतोः। सामर्थ्य भेदेन पूर्वकार्यकरणसामर्थ्यमन्यत् तदन्यच्चोत्तरकार्यकरणसामर्थ्यमित्येवं सामर्थ्यभेदेन । पदार्थभेदादू विभिन्नसामर्थ्ययोगतस्तद्वतः पदार्थस्य भेदात् । कथं न क्षणिकत्वम् ? अर्थात् क्षणिकत्वं स्यादेव । दृष्टस्य घटादिलक्षणपदार्थस्य प्रतिक्षणमान्यान्यकार्यसामर्थ्यतः प्रतिक्षणमन्यान्यभावतःक्षणिकत्वम् , तथैवाऽदृष्टानामपि पदार्थानां पूर्वक्षणभाविकार्यकरणसामर्थ्य तत्कालमत्रवृत्त्यन्यत् तदन्यच्चोत्तरक्षणभाविकार्यकरणसामर्थ्यमित्यतस्तेषामपि प्रतिक्षणमन्यान्यभावतः क्षणिकत्वं सिध्यतीत्यर्थक्रियाकारित्वलक्षणसत्त्वहेतोः क्षणिकत्वलक्षणसाध्यस्य सर्वोपसंहारेण व्याप्त्यवगमः स्यादेव, ततश्च क्षणिकत्वव्याप्तं सत्त्वं यत्र यत्र निश्चीयते तत्र क्षणिकत्वानुमानं साध्य हेत्वोस्तादात्म्यलक्षणाविनाभावनिश्चयतः प्रवर्तयन्ति विद्वांस इत्याह-तथाऽदृष्टेऽपीति । सिद्ध्यति क्षणिकत्वव्या
Page #87
--------------------------------------------------------------------------
________________
२६ ]
[ तत्त्वबोधिनीविवृतिविभूषितम्
,
त्यविशेषादिति सर्वोपसंहारेण व्याप्तिमवगत्य यत्र यत्र सत्त्वं निश्चीयते तत्र तत्र क्षणिकत्वानुमानं प्रवर्तयन्ति विद्वांसः, हेतु-साध्ययोस्तादात्म्यप्रतिबन्धनिश्चयादिति स्थितम् न च सच्चे सत्यप्यक्षणिकत्वस्यैव साम्राज्यात ( ज्यम् ), अथ प्रथमक्षणे जन्मैव न स्थितिः, द्वितीये स्थितिरेव न जन्म, एवमपि क्षणिकत्वं प्रसक्तं जन्मजन्मिनोः स्थिति-स्थितिमतोश्चाऽभेदाद्" इति ।
परे तु - "सच्चलक्षणस्य हेतोस्तादात्म्यरूपः प्रतिबन्धो विपर्यये बाधकप्रमाणनिबन्धनः" इत्येवं वर्णयन्ति यत्र क्रम-यौगपद्या
तमर्थक्रियाकारित्वरूपं सत्त्वं सिद्ध्यति । अविशेषात् सामर्थ्यभेदेन भेदस्य दृष्टाऽदृष्टोभयधारणत्वात् । यत उक्तदिशा क्षणिकत्वेनैव व्याप्तमर्थक्रियाकारित्वलक्षणं सत्त्वं ततस्तस्मिन् सत्त्वे सत्यप्यक्षणिकत्वस्यैवावस्थानमित्युपगमो न सम्भवतीत्याह-न चेति - अस्य 'साम्राज्यम्' इत्यनेनान्वयः । प्रथमक्षणे वस्तुनो जन्म, द्वितीयक्षणे वस्तुनः स्थितिरिति पराभ्युपगमेऽपि क्षणिकत्वं वस्तुन आयात्येव, यतो जन्म-जन्मवतोः स्थिति-स्थितिमतोश्चाऽभेदेन जन्मनो जन्मकालं परित्यज्याभावे तद्वतोऽपि तत्कालं परित्यज्य भावाऽसम्भवात् स्थितेश्च स्थितिकालं परित्यज्याऽभावे स्थितिमतोऽपि तदन्यकालेऽसम्भवादित्याह - अथेति ।
विपर्यये बाधकप्रमाणबलात् सत्त्व-क्षणिकत्त्वयोस्तादात्म्यलक्षणाविनाभावग्रह इति वादिनां बौद्धविशेषाणां मतमुपदर्शयतिपरे त्विति - अस्य 'वर्णयन्ति' इत्यनेनान्वयः । क्षणिकत्वलक्षणसाध्यस्याऽभाववति सत्त्वव्यापक क्रमयौगपद्याभावग्रहणमेव विपर्यये सत्त्वलक्षण हेत्वभावग्राहकं प्रमाणम्, ततः क्षणिकत्वनियतं सत्त्वं भवतीत्येवं विपक्षवाधकप्रमाणतः प्रकृते साध्यहेत्वोरविनाभावग्रह इत्याहयत्रेति । 'व्यावर्तमानस्य क्षणिकत्वस्य' इति स्थाने 'व्यावर्तमानस्य
Page #88
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ २७ योगो न तत्रार्थक्रियासामर्थ्यलक्षणं सत्त्वमित्यक्षणिकाद् व्यावर्त - मानस्य क्षणिकत्वस्य क्षणिकेष्वेवावस्थानात् । अथ कथमर्थक्रियासामर्थ्यनिवृत्तिः क्रम-यौगपद्यनिवृत्तिनिमित्तेति चेत् ? तयोस्तद्व्यापकत्वात् । अथात्राऽपि यदि व्याप्यव्यापकभावो बाधकान्तरनिबन्धनस्तदा तत्रापि बाधकान्तरान्वेषणायामनवस्थेति चेत १ नक्रम - यौगपद्याभ्यां सामर्थ्यस्य व्याप्तेः प्रकारान्तरासम्भवतो निश्व
सत्त्वस्य' इति पाठो युक्तः, विपक्षे क्रम-यौगपद्यनिवृत्त्याऽर्थक्रियाकारित्वलक्षणस्य सत्त्वस्य कथं निवृत्तिः ? नहि क्रम-यौगपद्ययोः सत्त्वेन सहाऽविनाभाव निबन्धनं किमपि पश्यामो येन क्रम-योगपद्यनिवृत्त्या सरवनिवृत्तिमवगच्छाम इति परः पृच्छति - अथेति । बौद्ध उत्तरयति - तयोरिति-क्रम - यौगपद्ययोरित्यर्थः । तद्व्यापकत्वात् अर्थक्रियासामर्थ्यलक्षणसत्त्वव्यापकत्वात्, तथा च व्यापकाभावस्य
व्याप्याभावनियतत्वं सुप्रसिद्धमिति भवति क्रम-यौगपद्यनिवृत्तितः सत्त्वनिवृत्तिरित्याशयः । यथा च सत्त्व-क्षणिकत्वयोरविनाभावग्रहो विपर्ययबाधकप्रमाणतस्तथा सत्त्वस्य क्रम- यौगपद्याभ्यां सह व्याप्यव्यापकभावग्रहोऽपि विपर्ययबाधकप्रमाणत इत्येवमनवस्था स्यादित्याशङ्कते - अथेति । अत्राऽपि सत्त्व क्षणिकत्वाविनाभावग्राहकविपर्ययबाधकेऽपि । तत्रापि व्याप्यव्यापकभावग्राहकबाधकान्तरेऽपि । यः करोति स क्रमेण करोति युगपद् वा करोति, कार्यकरणे क्रमयौगपद्याभ्यामन्यः प्रकारो न भवत्येवेति प्रकारान्तरासम्भवत एवार्थक्रियासामर्थ्यलक्षणस्य सत्त्वस्य क्रम- यौगपद्याभ्यां सह व्याप्तेर्निश्चयस्य सम्भवान्न तत्र व्याप्यव्यापकभावग्रहार्थ विपर्यये बाधकान्तरमन्वेपणीयमिति नाऽनवस्थेति समाधत्ते - नेति । प्रकारान्तरासम्भवोऽपि यद्यनुमानान्तरात् तदा तदुत्पत्तिनिबन्धनव्याप्तिग्रहार्थं प्रमाणान्तरमन्वेषणीयमित्यनवस्यैवमपि स्यात्, न चैवम्, प्रत्यक्षेणैव प्रकारान्तरासम्भवस्य निश्चयादित्याह - प्रकारान्तरासम्भवश्चेति । प्रत्यक्षेण
Page #89
--------------------------------------------------------------------------
________________
२८]
[ तत्त्वबोधिनीविवृतिविभूषितम् येनानवस्थाभावात् , प्रकारान्तरासम्भवश्च प्रत्यक्षेणैव निश्चीयते, क्रमेण योगपद्येन वा घटादीनां स्वकार्यमुत्पादयतामध्यक्षेणाऽवलम्बने इतररूपविवेकभानात् तदनन्तरं क्रमभावि तत्कार्य नाक्रमभावीति विकल्पद्वयप्रवृत्तिः, नीलाद्यनुभवोत्तरमनीलादिव्यवच्छेदविकल्पोदयात् तस्याऽनीलादिव्यवच्छेदावगाहित्ववत क्रमप्रतीतावक्रमव्यवच्छेदविकल्पोदयात् तस्याक्रमव्यवच्छेदावगाहित्वस्य न्यायप्राप्तत्वात् । अथ कथं क्रम-योगपद्यायोगोऽक्षणिकेषु भावेषु ? उच्यते-न तावदक्षणिकाः क्रमेणार्थक्रियाकारिणः, कारकस्वभावस्य प्रागेव सन्निधानात् प्रथमक्षण एव द्वितीयादिक्षणभाविसकलकार्य
प्रकारान्तरासम्भवनिर्णयमेव व्यवस्थापयति-क्रमेणेति-क्रमेण स्वकाोत्पादकतया घटादीनां प्रत्यक्षेण ग्रहणे योगपद्येन कार्यकारिरूपस्य विवेकस्तत्र भासते, अक्रमेण च स्वकार्योत्पादकतया च घटादीनां प्रत्यक्षेण ग्रहणे तु तत्र क्रमेण कार्यकारिरूपस्य विवेको भासत इति क्रमेण कार्यकारिघटादिस्वरूपग्राहिप्रत्यक्षे सति तदनन्तरं क्रमभावि घटादिकार्यमिति नाऽक्रमभावि घटादिकार्यमिति विकल्पद्वयप्रवृत्तिर्भवतीत्यतः प्रकारान्तरासम्भवः प्रत्यक्षणैवेति मुकुलितोऽर्थः । क्रमकारिस्वरूपप्रत्यक्षेऽक्रमकारिस्वरूपन्यच्छेदविकल्पोदयः, तत्राऽक्रमकारिस्वरूपव्यवच्छेदावगाहित्वमिति दृष्टान्तावष्टम्भेन व्यवस्थापयति-नीलाद्यनुभवोत्तरमिति । तस्य अनीलादिव्यवच्छेदविकल्पस्य । तस्य अक्रमव्यवच्छेदविकल्पस्य । नित्ये क्षणिकत्वाभाववत्त्वेन विपर्ययस्वरूपे क्रम-योगपद्याभ्यामर्थक्रियाकारित्वाभावः कथं ? येन ततस्तत्र सत्त्वनिवृत्तिसिद्धिरिति शङ्कते-अथेति । 'कथम्' इत्यत्र किम आक्षेपार्थकत्वेन न कथश्चिदित्यर्थः। समाधत्तेउच्यत इति । कारकस्वभावस्य अर्थक्रियाकारित्वस्य । प्रागेव प्रथमक्षण
Page #90
--------------------------------------------------------------------------
________________
[२९
अनेकान्तव्यवस्थाप्रकरणम् ] करणप्रसक्तेः, न च सहकारिक्रमात् कार्यक्रम इति वक्तव्यम् , यतः सहकारिणः किं विशेषाऽऽधायकत्वेन तथा व्यपदिश्यन्ते ? आहोविदेकार्थप्रतिनियताश्चक्षुरादय इवाऽक्षेपकारिणः स्वविज्ञानेन ?, नाद्यः-तजनितविशेषस्यार्थान्तरत्वात् तेनाकारकस्वभावाप्रच्यावनात्, नाऽपि द्वितीयः-नित्यानामेककार्यप्रतिनियमलक्षणसहकारित्व
एव । ननु अर्थक्रियाकारिस्वभावस्य कारणस्य पूर्व भावेऽपि सहकारिसमवधाने सत्येवोक्तस्वभावबलात् कार्य करोतीति यदा सहकारिसमवधानं तदैव कार्य करोति नान्यदेति द्वितीयादिक्षणभाविकार्य प्रत्यपेक्षणीयस्य सहकारिणो न पूर्व समवधानं किन्तु द्वितीयादिक्षण एवेति तदैव कार्य न प्रथमक्षण इति सहकारिक्रमात् कार्यक्रमो भविष्यतीत्याशङ्कय प्रतिक्षिपति-न चेति-अस्य 'वक्तव्यम्' इत्यनेन सम्बन्धः । निषेधे हेतुमाह-यत इति । ये यस्य सहकारिणस्ते तत्र कश्चिद् विशेषमादधतीत्यतः सहकारीति व्यपदिश्यन्ते, अथवा चक्षुरादयो यथा स्वविज्ञानेन सहैकार्थनियता अक्षेपकारिणस्तथा सहकारिणोऽपि विवक्षित कारणेन सहैककार्यनियता अक्षेपकारिण इति विकल्पद्वयं प्रतिक्षेतुमुपदर्शयति-सहकारिणः किमिति । तत्र प्रथमविकल्पं प्रतिक्षिपति-नाद्य इति । तजनितेति-सहकारिजनितविशेषस्य स्वाधारभूतविवक्षितकारणतो भिन्नत्वेन तदुत्पादेऽपि विवक्षितकारणस्य यः पूर्वकालीनोऽकारकस्वभावो यदुपष्टम्भात् पूर्व कार्य नाऽकरोत् तस्य स्वभावस्याऽविनाशेन द्वितीयक्षणे तादृशविशेषभावेऽपि कार्य न कुर्यादेवेत्यर्थः । द्वितीयविकल्पं प्रतिक्षिपति-नाऽपि द्वितीय इति । नित्यानामिति-नित्यानां सहकारिणां नित्यस्य विवक्षितकारणस्य विवक्षितैककार्योत्पत्तिकाले विवक्षितैककार्योत्पत्तिकालात् प्राकाले पश्चात्काले च तेषां पृथद्गशगमनसम्भवतोऽन्योऽन्यं पृथग्भावस्य सम्भवेन सहैव कुर्वन्तीति
Page #91
--------------------------------------------------------------------------
________________
३० ]
[ तत्त्वबोधिनी विवृतिविभूषितम् सम्भवेऽपि प्राक् पश्चात् पृथग्भावसम्भवात् सहैव कुर्वन्तीति सहकारित्वनियमस्यानुक्तिसम्भवात्, साहित्येऽपि प्राक्तनाकारकस्वभावानिवृत्तेः, प्रागेव कारकस्वभावत्वे च न कदाचित् तत्क्रियाविरतिरिति कुत एकार्थक्रियाप्रतिनियमखरूपमक्षणिकानां सहकारित्वम् ? कार्यस्य सामग्रीजन्यतया तस्याश्चापरा परप्रत्यययोगरूपतया प्रत्येकं तत्क्रियास्वभावत्वेऽप्यनुत्पत्तिरिति चेत् ? व्याहत
सहकारिण इत्येवं यः सहकारित्वनियमस्तस्यानुक्तिसम्भवात्, सर्वेषामेकदैकत्र समवधानसम्भवेऽपि प्राक् प्रत्येकं यः कार्याऽकरणतोऽकारित्वस्वभावस्तस्य परस्परसमवधाने सत्यप्यनिवृत्तेः, तत्स्वभावनिवृत्तौ तु नित्यत्वमेव न स्यात्, स्वभाव-स्वभाववतोरभेदेन स्वभावनिवृत्तौ स्वभाववतोऽपि निवृत्त्यापत्तेः, यदि च सहकारिसमवधानात् प्रागपि कारकस्वभावत्वमेव तर्हि कारकस्वभावत्वे सर्वदा विद्यमाने सर्वदैव तत्कार्यक्रिया भवेदिति न कदाचित् तत्क्रियाविर तिरित्येकार्थक्रियाप्रतिनियमलक्षणं सहकारित्वं कुतो नित्यानां स्यात् ? तत् तु तदैवोपपद्यते सहकारिणां समवधाने सति विवक्षितमेकं कार्यं भवति तेषामसमवधाने सति तन्न भवतीति, कार्यस्य सर्वदा भवने तु नैवमिति समुदितार्थः । यद्यपि नित्यानां कारणानां प्रत्येकं तत्क्रियाकारित्वं स्वभावस्तथापि कार्यस्य सामग्रीजन्यत्वेन सामग्र्याश्चाऽपरापरकारणमेलकरूपत्वेन तद्भाव एव कार्यमित्यन्यासमवहितैकैककारणस्य सद्भावेऽपि तत्कार्यानुत्पत्तिरिति शङ्कते - कार्यस्य सामग्रीजन्यतयेति । सामग्रीत एव कार्यजनने सामय्या एव कार्यजनकत्वस्वभावो भवेत्, असमुदिताच्चैकैकस्मात् कार्यस्याऽनुत्पत्त्या केवलस्य कार्यजनकत्वस्वभावो न भवेदेवेति 'प्रत्येकं कार्यजनकत्वस्वभावत्वे न भवति च ततः कार्यम्' इति तु व्याहतमेवेति समाधत्ते - व्याहतमेतदिति । तज्जननेति कार्यजननेत्यर्थः ।
Page #92
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[३१ मेतत्-समुदितस्य कार्यजननस्वभावत्वे केवलस्य तज्जननस्वभावत्वासिद्धेः । किञ्च, प्रत्येकातिरिक्तसमुदाये प्रमाणाभावात् प्रत्येकमनुत्पादकत्वे समुदायस्याप्यनुत्पादकत्वम् । अथ प्रत्येकं कारणानां खरूपयोग्यतैव, फलोपहितकारणतायां त्वेकैकस्य कारणस्येतरकारणसाहित्यमप्यवच्छेदकमिति न दोष इति चेत् ? इतरकारण
यदि च प्रत्येकं न कार्यमुत्पादयति तर्हि समुदायोऽपि नोत्पादयेदेव, तस्य प्रत्येकाऽभिन्नत्वादित्याह-किच्चेति-प्रत्येकातिरिक्तः समुदायो यदि भवेत् तर्हि प्रत्येकस्य कार्यानुत्पादकत्वेऽपि समुदायस्य कार्योत्पादकत्वं स्यात्, न चैवम्, प्रमाणाभावेन प्रत्येकातिरिक्तस्य समुदायस्याभावादित्यर्थः । ननु कारणता द्विविधा-स्वरूपयोग्यतालक्षणा फलोपधानलक्षणा च, तत्राऽऽद्या प्रत्येकं स्वस्वाऽसाधारणधर्मरूपेण, द्वितीया तु सकलसहकारिसमवहितत्वविशिष्टतद्धर्मेणेति सहकारिणामसमवधाने स्वरूपयोग्यकारणमात्रान्न कार्यनिष्पत्तिः सहकारिणां समवधाने तु फलोपहितकारणसद्भावतः कार्योत्पत्तिरिति शङ्कते-अथेति । अवच्छेदकम् इतरकारणसमवहितस्य कारणत्वे त्वितरकारणसाहित्यं तदवच्छेदकं न्यायप्राप्तं यद्विशिष्टस्य कारणत्वं तस्य कारणतावच्छेदकत्वनियमात्, एवं सति इतरकारणसमवधाने सति कार्योत्पादकत्वं कारणस्य स्वभाव इत्युक्तस्वभावो नित्ये सर्वदैवाभ्युपेयः, अन्यथा स्वभावाभावे स्वभाववतोऽप्यभाव इति नित्यत्वमेव न स्यात्, तथा च तत्स्वभावस्य सर्वदा भावे तत्स्वभावप्रविष्टं सहकारिसाहित्यमपि सर्वदैव भवितुमर्हति, विशिष्टस्य विशेषणसद्भाव एव भावो नान्यथेति तत्स्वभावान्यथानुपपत्त्याऽसमवहितानपि सहकारिणः स्वसमीपमानयेदेव कारणमिति सर्वदोक्तस्वभावबलात् कार्य कुर्यादेव कारणमिति समाधत्ते-इतरका रणसाहित्यमपीति । अनुनमन्त्यपि समी
Page #93
--------------------------------------------------------------------------
________________
३२]
[तत्त्वबोधिनीविवृतिविभूषितम् साहित्यमपि यद्येकैककारणस्य कार्योपधानस्वभावानुप्रविष्टं तदाऽनुपनमन्त्यपि तानि गलेपादिकया गृहीत्वा प्रतिक्षणं कार्य कुर्यात् । अथ कारणे हेत्वन्तरोपनिपातेन कार्यजननस्वभाव उत्पद्यत इति केवलस्य न जनकत्वम् , न च सहकारिसहिताऽसहितावस्थयोरस्य खभावभेदः, प्रत्ययान्तरापेक्षस्वकार्यजननस्वभावतायाः सर्वदा भावादिति चेत् ? न-प्रत्ययान्तरसत्त्वेऽपि ह्यस्य स्वरूपेणैव कार्यकारिता, तच्च प्रागप्यस्ति, प्रत्ययान्तरापेक्षायाश्च ततो लभ्यस्या
पमप्राप्नुवन्त्यपि । तानि सहकारीणि । नित्यवादी शङ्कते अथेति । केवलस्य सहकार्यसमवहितस्य । न जनकत्वं कार्यजननस्वभावे सत्येव कार्यजनकत्वं भवति, कैवल्यावस्थायां च कार्यजननस्वभावानुकूलस्य हेत्वन्तरोपनिपातस्याऽभावात् कार्यजननस्वभावाऽनुत्पत्त्या न कार्यजनकत्वम् । ननु सहकारिसमवधाने उत्पद्यमानत्वात् कार्यजननस्वभावोऽस्ति, सहकार्यसमवधाने च कार्याजननस्वभाव इत्येवं स्वभावभेदात् कारणस्य भेदप्रसङ्ग इत्याशय प्रतिक्षिपति- न चेति । अस्य कारणस्य । निषेधे हेतुमाह-प्रत्ययान्तरापेक्षेतिकारणस्य प्रत्ययान्तरापेक्षस्वकार्यजननस्वभाव एक एवोपेयते, स सर्वदैवास्तीति स्वभावभेदाभावात् कारणभेदाप्रसक्तिरित्यर्थः । समाधत्ते-नेति । अस्य कारणस्य । तच्च कार्यकारित्वनियतं स्वरूपं च । प्रागपि सहकारिसमवधानकालात् प्राकालेऽपि । तत्र कारणान्तरापेक्षा तदोपयोगिनी भवेद यदि कारणान्तरेण कश्चिदतिशयस्तत्र भवेत् । तदभावे चाऽनुपकारिणः कारणान्तरस्यापेक्षाया असम्भव एव, तथा च केवल एव किं न कार्य कुर्यात् , यदा च केवलः कार्य न करोति सहकारिसमवहितश्च कार्य करोति तदा नूनमस्य विभिन्नस्वभावतेति न नित्यस्य कार्यकारित्वमित्याह--प्रत्ययान्तरापेक्षायाश्चेति-अस्य 'असम्भवः' इत्यनेनान्वयः ।
Page #94
--------------------------------------------------------------------------
________________
[३३
अनेकान्तव्यवस्थाप्रकरणम्] त्मातिशयस्याभावादसम्भव इति केवल एव कार्य किं न कुर्यात् ? अकुर्वश्च केवलः सहितावस्थायां च कुर्वन् कथं न भिन्नस्वभावो भवेत् ? तन्नाऽक्षणिकस्य क्रमेणार्थक्रिया सम्भवतीति न क्रमयोगः। योगपद्यमपि तस्यासङ्गतम् , द्वितीयादिक्षणेषु तावत एव कार्यकलापस्योदयप्रसङ्गाद् , हेतोस्तजननस्वभावस्याप्रच्युतेः, सनिहितसकलकारणानां चानुदयोऽयुक्तः, प्रथमक्षणेऽपि तद्भावापत्तेः, इति क्रमयोगपद्यायोगादक्षणिकानामर्थक्रियासामर्थ्य विरहलक्षणमसत्त्वमाया
ततः प्रत्ययान्तरतः । तथा च नित्यस्य न क्रमेणाऽर्थक्रियाकारित्वमित्युपसंहरति-तदिति-नञः 'सम्भवति' इत्यनेनान्वयः।
नित्यस्य युगपदर्थक्रियाकारित्वमपि न सम्भवतीत्युपदर्शयतियोगपद्यमपीति-युगपदर्थक्रियाकारित्वमपीत्यर्थः । तस्य नित्यस्य । कथं नित्यस्य योगपद्यमसङ्गतमित्यपेक्षायामाह- द्वितीयादीति-आदिपदात् तृतीयादिक्षणपरिग्रहः, प्रथमक्षणे यावत्कार्यकलापस्योदयो भवति तावत्कार्यकलापस्य द्वितीयादिक्षणेऽप्युदयः प्रसज्येत, तावत्कार्यकरणस्वभावस्य कारणस्य द्वितीयादिक्षणेऽप्यविनाशादित्यर्थः । सन्निहितेति-येषां कार्याणां सकलानि कारणानि सन्निहितानि तेषां सन्निहितसकलकारणानां कार्याणामुदयो न भवतीत्येवमुपगमोऽप्ययुक्त एवेत्यर्थः, यदि सकलकारणसन्निधानेऽपि द्वितीयादिक्षणे तावत्कार्यकलापस्याऽनुदयस्तर्हि प्रथमक्षणेऽप्यनुदयः प्रसज्येतेत्याह-प्रथमक्षणेऽपीति । तद्भावापत्तेः सन्निहितसकलकारणानां कार्याणामनुदयापत्तेः । तथा च नित्यस्य क्रमेण योगपद्येन चार्थक्रियाकारित्वाभावादर्थक्रियाकारित्वाभावलक्षणमसत्त्वमेवेति । सत्त्वलक्षणहेतुर्विपर्ययबाधकप्रमाणबलात् क्षणिकत्वेन साध्येन सह निश्चिततादात्म्यलक्षणाविनाभावः क्षणिकत्वं साधयत्येवेत्युपसंहरति-इति क्रम - योगपद्यायोगादिति । स्थिरवादी क्षणक्षयवादिनं
Page #95
--------------------------------------------------------------------------
________________
३४]
[ तत्त्वबोधिनीविवृतिविभूषितम् तमिति सत्त्वलक्षणः स्वभावहेतुः क्षणिकतायां बाधकप्रमाणबलान्निश्चिततादात्म्यः कथं न गमकः ? । अथाक्षणिकानामिव क्षणक्षयिणामप्यर्थक्रियासामर्थ्यलक्षणं सत्त्वमनुपपन्नमेव, क्रमायोगस्य तत्रापि तदवस्थत्वात् , यौगपद्यस्य च प्रत्येक्षेणैव बाधात् , न च विशिष्टहेतुक्रमादेव कार्यक्रमः, तेष्वेकत्वाभिमानश्च सादृश्यादिति वाच्यम् , प्रतिक्षणोदयं विभ्राणेषु हेतुषु परस्परतो विशेषाधानस्यैव दुर्वचत्वात् , प्रत्ययजनितविशेषस्य खोत्पत्तेः प्राक् पश्चाद् वाऽसम्भ
प्रति प्रत्यवतिष्ठते-अथेति । क्रमायोगस्य क्रमेणार्थक्रियाकारित्वाभावस्य । तत्राऽपि क्षणिकेऽपि । एकं कारणमेकक्षणे एकमेव कार्य कुर्वद दृश्यत इति प्रत्यक्षबाधतो युगपदनेककार्यकारित्वमपि क्षणिकस्य न सम्भवतीत्याह-योगपद्यस्यति । ननु तत्तत्कार्यानुकूलविशेषवद्धेतुक्रमात् कार्यक्रमः क्षणिकेषु सम्भवति, ननु क्रमिकविशिष्टक्षणिकहेतुभावे तेषां भेदप्रतिभासः स्यादिति चेत् ? न-सौसादृश्यदोषेण तेषामेकत्वाभिमानतो भेदप्रतिभासाभावादित्याशङ्कय प्रतिक्षिपतिन चेति-अस्य 'वाच्यम्' इत्यनेनान्वयः। तेषु विशिष्टस्वरूपक्षणिकऋमिकहेतुषु । स्थिरे कारणे कारणान्तरतो विशेषाधानतो विशिष्टता भवेत् , प्रतिक्षणमुदयमासादयत्सु च कारणेषु न परस्परतो विशेषाधानसम्भव इति न विशिष्टतेति विशिष्टहेतुक्रमस्यासिद्ध्या ततः कार्यक्रमासम्भवादित्याह-प्रतिक्षणोदयमिति । कथं विशेषाधानस्य दुर्वचत्वमित्यपेक्षायामाह-प्रत्ययेति-कारणेत्यर्थः । स्वोत्पत्तः प्राक् स्वस्यैवाऽसम्भवेन तत्र प्रत्ययतो विशेषाधानाऽसम्भवादित्याह-प्रागिति । तेषामेवेति-येषु कारणेषु प्रत्ययतो विशेष आधेयस्तेषामेवेत्यर्थः। उत्पत्तेः पश्चादपि तेषु कारणतो विशेषाधानं तदा कल्पयितुं शक्यं यदि विशेषोपहितक्षणतस्तदनुपहितक्षणस्य विवेको भेदेन ग्रहणलक्षणो भवेत्, तस्याऽभावेन च स्वरूपं पूर्वापरयोरविशिष्टमेवेति
Page #96
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[३५ वात् , प्राक् तेषामेवासत्त्वात् , पश्चादप्युपहितानुपहितक्षणाविवेकेन तत्स्वरूपस्य तस्याकार्यत्वात् , अतिरिक्तस्य च सम्बन्धाभावादिति न सहकारिभिरुपकारः, ततो निर्विशेषाणां क्रम-योगपद्याभ्यामर्थक्रियाकारित्वलक्षणं न सत्त्वम् , तदुक्तम्
"कः शोभेत वदन्ने यदि न स्यादहीकता। अज्ञता वा यतः सर्व क्षणिकेष्वपि तत्समम् ॥१॥
तस्याकार्यत्ववत् तदात्मकविशेषस्याप्यकार्यत्वादिति पश्चादपि विशेषाधानं न सम्भवतीत्याह-पश्चादपीति । तत्स्वरूपस्य कारणस्वरूपस्य । तस्य विशेषस्य । यदि च पूर्वपूर्वकारणत उत्तरोत्तरकारणेषु आधीयमानो विशेषस्तत्स्वरूपतो. व्यतिरिक्त एव तर्हि तस्य विशेषस्य तत्कारणस्वरूपतो भिन्नस्य भेदे सम्बन्धायोगादिति नियमतः सम्बन्धाऽसम्भवात् ततो विशिष्टता न सम्भवतीत्याह-अतिरिक्तस्येतिकारणस्वरूपतो भिन्नस्य विशेषस्येत्यर्थः । एवं च क्षणिकेषु कारणेषु सहकारिभिरुपकारलक्षणोऽतिशयो न सम्भवतीत्याह-इति न सहकारिभिरुपकार इति । यदा च विशेषो न तेषु तर्हि अविशिष्टस्वरूपाणां क्षणिकानां कारणानां क्रमेण योगपद्येन वाऽर्थक्रियाकारित्वाभावानार्थक्रियाकारित्वलक्षणं सत्त्वं तेषु सङ्गतमित्युपसंहरति-तत इति ।
उक्तार्थे प्राचां सम्मतिमाह-तदुक्तमिति । क इति-यदि निर्लजता न भवेत्, वा अथवा, अज्ञता न भवेत् तर्हि एवं स्थिरेषु क्रमयोगपद्याभ्यामर्थक्रियाकारित्वलक्षणं सत्त्वं न सम्भवतीत्येवं वदन् ब्रुवाणः सन् कः शोभेत न कोऽपि शोभेत, इत्थं वक्तुं निर्लजोऽशो वा समर्थो नाऽन्य इत्यर्थः, यतः यस्मात् कारणात्, यैर्हेतुभिरक्षणिकेषु कारणेषु क्रम-योगपद्याभ्यामर्थक्रियाकारित्वाऽसम्भवः क्षणिकवादिभिरभिधीयते तत् सर्व क्षणिकेष्वपि तुल्यमित्यर्थः ॥ १॥
Page #97
--------------------------------------------------------------------------
________________
[ तत्त्वबोधिनीविवृतिविभूषितम्
३६ ]
विशेषहेतवस्तेषां प्रत्यया न कथञ्चन । नित्यानामिव युज्यन्ते क्षणानामविवेकतः ॥ २ ॥ क्रमेण युगपच्चैव यतस्तेऽर्थक्रियाकृतः । न भवन्ति ततस्तेषां व्यर्थः क्षणिकताश्रमः ॥ ३ ॥"
[ ] इति, तदयं सत्ताहेतुरसाधारणानैकान्तिक इति चेत् ? असदेतत्सहकारिजनितस्य कारणगत विशेषस्याऽसम्भवेन निर्विशेषत्वेऽपि ' सामग्र्याः कार्यजनकत्वम्' इति प्रवादात् समग्राणां प्रत्येकमितरेतरसहकारिणां स्वस्वविशिष्टक्षणान्तरारम्भकत्वात् तदनन्तरमपि तथैव तदारम्भसम्भवात् सविशेषत्वाभ्युपगमे बाधकाभावात्,
विशेष हेतव इति - यथा नित्यानां विशेषहेतवः प्रत्यया न घटते तथा क्षणिकानामपि पूर्वोत्तरक्षणाविवेकतो विशेषहेतवः प्रत्यया न युज्यन्त इत्यर्थः ॥ २ ॥
क्रमेणेति- - यस्मात् कारणात् क्षणिकाः क्रमेण युगपच्चार्थक्रियाकारिणो न सम्भवन्ति तस्मात् कारणात् कारणानां क्षणिकतासाधनप्रयासो व्यर्थ इत्यर्थः ॥ ३ ॥
एतावता क्षणिकत्वसाधकतया बौद्धाभिमतः सत्त्वहेतुः सपक्षे क्षणिके विपक्षेऽक्षणिके च वृत्तित्वाभावात् सपक्षविपक्षोभयवृत्तित्वाभावलक्षणासाधारणानैकान्तिकता दोषदूषित इत्याह- तदयमिति । क्षणक्षयवादी अक्षणिकवादिनः प्रत्यवस्थानं प्रतिक्षिपति - असदेत - दिति । निर्विशेषत्वेऽपि क्षणिकानां सहकारिजनितविशेषशून्यत्वेऽपि । एकैकस्य कारणत्वत एव सामय्याः कारणत्वमुपचर्यते, न तु वस्तुतः सामग्रीत्वेन कारणत्वमित्यवगतये 'प्रवादाद्' इत्युक्तम् । परस्पर सहकारिभावमापन्नानां क्षणिकानामुत्तरोत्तरं स्वविशिष्ट
Page #98
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[३७ असमर्थात् समर्थक्षणोत्पत्तौ सहकारिसमवधानप्रयोज्यो विशेषो न स्यात् , तथा च प्रागपि स्यादिति चेत् ? न-असमर्थक्षणे समर्थक्षणकुर्वद्रूपत्वाख्यो यो विशेषस्तत्र सहकारिसमवधाननियतताया एव तत्प्रयोज्याया अभ्युपगमे दोषाभावात् , युक्तं चैतत् , कारणस्यैव कार्योत्पत्तिव्याप्यत्वे लाघवात् , त्वया तु स्वेतरकारणविशिष्ट
क्षणान्तरारम्भकत्वम् , तेऽपि विशिष्टक्षणाः परस्परसहकारिभावमापन्नाः कुर्वद्रूपत्वात्मकविशेषकलितक्षणारम्भका इत्येवं क्षणिकेषु सविशेषत्वाभ्युपगमे बाधकाभावात् , एवं च स्वस्वकुर्वद्रूपात्मकेभ्यः सहकारिसमवहितेभ्यः स्वस्वकार्यकुर्वद्रूपत्वलक्षणविशेषकलितक्षणिकस्वरूपकारणान्युत्पद्यन्त इत्युक्तौ न कश्चिद् दोष इत्याशयः । अत्र परः शङ्कते-असमर्थादिति । प्रतिक्षिपतिनेति । असमर्थक्षणे स्वाव्यवहितोत्पन्नक्षणिकस्य यदनन्तरं कार्य तद. समर्थक्षणे, तेन स्वानन्तरोत्पन्नस्वकार्य प्रति सर्वस्य समर्थत्वेऽपि न क्षतिः । समर्थेति-स्वकार्यकरणसमर्थक्षणलक्षणस्वकार्यकुर्वद्रूपाख्यो यो विशेषस्तस्मिन् विशेषे या सहकारिसमवधाननियतता यदा स विशेषस्तदानीमवश्यं सहकारिसमवधानमिति कृत्वा तस्याः सहकारिसमवधानप्रयोज्यायाः स्वीकारे दोषाऽभावादित्यर्थः । एवं क्षणिकवादाभ्युपगतस्यार्थस्य युक्तत्वमित्याह—युक्तं चैतदिति । कथमुक्तस्य युक्तत्वमित्यपेक्षायामाह --- कार णस्यैवेति-कारणस्य स्वकार्यकरणस्य स्वकुर्वद्रूपात्मकाऽसमर्थक्षणादुत्पन्नस्य नियमतः फलोपधानमिति यदा कारणं तदा कार्योत्पत्तिरिति व्याप्यव्यापकभावस्य सम्भवात् कारणस्य कार्योत्पत्तिव्याप्यत्वे स्थैर्यवादिकल्पनीयस्वेतरसकलकारणविशिष्टकारणत्वेन कार्योत्पत्तिव्याप्यत्वापेक्षया लाघवादित्यर्थः । त्वया तु स्थैर्यवादिना पुनः, अस्य 'स्वीकर्तव्यम्' इत्यनेनाऽन्वयः । एवं च अर्थक्रियासामर्थ्यलक्षणसत्त्व
Page #99
--------------------------------------------------------------------------
________________
३८ ]
[ तत्वबोधिनीविवृतिविभूषितम्
कारणत्वेन कार्योत्पत्तिव्याप्यत्वं स्वीकर्तव्यमिति गौरवम्, तस्मात् क्षणिकानामेवार्थक्रियासामर्थ्यलक्षणं सत्त्वं सम्भवतीति नाऽसाधारणानैकान्तिकता । अथ क्षणिकक्षित्याद्यनेककारणजनितं कार्यमेकं न स्यात्, अनेककारणजनितस्यैकत्वाऽसिद्धेरिति चेत् ? एकमेकं करोतीति कुतोऽवगतम् ? तद्भावे तद्भावादिति चेत् ? समानमेतदनेकत्र, तथाहि - एकमङ्करादिकार्यमङ्गीकृत्य विशिष्टक्षणान्तरोत्पादनलक्ष
रूपहेतुर्विपक्षादक्षणिकादेव व्यावर्तते, न सपक्षात् क्षणिकादिति नाऽसाधारणानैकान्तिकता तस्येत्याह – तस्मादिति । ननु भवन्मते प्रत्येकं सर्वस्य कारणस्यैककार्योत्पत्तिव्याप्यत्वमायातम्, तथा च न सामग्रीलक्षणमेकं कारणमेककार्यव्याप्यं किन्त्वनेकानि कारणान्येककार्यव्याप्यानीति तत् कथं सङ्गतम् ? कारणानामनेकत्वे तज्जनितकार्यस्याप्यनेकत्वस्यैव युक्तत्वादित्यनेककारणजनितस्यैकत्वासिद्ध्याऽनेककारणजनितमेकं कार्यमित्यस्याऽसम्भवादित्याशङ्कते - अथेति । एकमेकं करोतीति नियमे सत्यनेककारणजनितस्यैकत्वं न स्यात्, तत्रैव तु न मानम्, एकस्मादेकस्य भाव इति दर्शनाद् यद्येकमेकं करोतीत्युपेयते तर्ह्यनेकभावेऽप्येककार्यस्य दर्शनादनेकमेकं करोतीत्यपि किं न स्यादित्याशयवान् समाधाता शङ्कितारं पृच्छति - एकमेक्रमिति । शङ्कितोत्तरयति-तद्भावे तद्भावादिति
चेदिति - एकस्य कारणस्य भावे एकस्य कार्यस्य भावादेकमेकं करोतीति यद्युपेयत इत्यर्थः । समाधाता आह- समानमिति – अनेककारणभावे सत्येकस्य कार्यस्य भावादनेकमेकं करोतीत्यनेककारणेऽपि समानमित्यर्थः । अनेकस्यैककार्योत्पादकत्वं भावयतितथाहीति । विशिष्टेति - सम्मिलितानां क्षित्यादीनां स्वकार्य सामर्थ्यविशिष्टक्षित्यादिक्षणोत्पादनलक्षणातिशयाधानेन प्रवृत्तिः, अर्थादङ्कुरादिकार्यजननाऽसमर्थाः क्षित्यादयो नाऽङ्कुरादिकार्यमुत्पा
Page #100
--------------------------------------------------------------------------
________________
__ [३९
अनेकान्तव्यवस्थाप्रकरणम् ] णेनातिशयाधानेन क्षित्यादीनां प्रवृत्तिः, तत्र खहेतुपरिणामोपात्तधर्माणस्तदवस्थां प्राप्तास्तस्यैवैकस्य जनने समर्था नान्यस्येति नापरं तजनयन्ति, नवाऽनेकोद्भूतं तदनेकमासज्यते, यतो न कारणमेव कार्य भवतीत्येतदस्माभिरभ्युपेयते, येनानेकपरिणतेरनेकरूपत्वात् कार्यस्याप्यनेकत्वं प्राप्यते, किन्तु केषुचित् सत्वपूर्वमेव किञ्चित् प्रादुर्भवति, तद्भाव एव भावात् तत्कार्यमुच्यत इति नाऽनेकताप्रसङ्गः,
दयन्ति, किन्त्वङ्कुरादिकार्योत्पादनसामर्थ्य विशिष्टक्षित्यादिक्षणान्तराण्येवोत्पादयन्तीत्यर्थः । तत्र क्षित्यादीनां निरुक्तातिशयाधानेन प्रवृत्तौ सत्याम् । खहेविति-स्वहेतवो ये क्षित्यादयस्तेषां ये विशिष्टक्षणान्तरोत्पादनलक्षणाः परिणामास्तेभ्य उपात्तधर्माणः प्राप्तस्वकार्यकुर्वद्रूपत्वलक्षणधर्माणो विशिष्टक्षणान्तरस्वरूपाः क्षित्यादयः, तदवस्था कार्यकरणैकस्वभावावस्थां प्राप्ताः सन्तः, तस्यैकस्य अङ्कुरादिलक्षणैककार्यस्यैव, जनने उत्पादने, समर्था भवन्ति, नाऽन्यस्य अलरादिभिन्नकार्यस्य जनने समर्था न भवन्ति, इति एकस्मात् कारणात् नापरं तजनयन्ति अडरादिभिन्नं कार्य नोत्पादयन्ति, यदा चैकस्यैव कार्यस्य जनने समर्थास्ते तस्मात् , नवा नैव, अनेकोद्भूतं निरुक्तानेककारणसमुत्पन्नम्, तत् कार्यम् , अनेकम् अनेकस्वरूपम् , आसज्यते प्रसज्यते । यदि कारणमेव कार्यरूपेण परिणमते, कारणमेव वा कार्य भवतीत्येवमस्माभिरभ्युपेयेत तदा कारणस्यानेकत्वात् कार्यमप्यनेकं भवेत् , न चैवमुपगम्यत इत्याह-यत इति । अस्माभिः बौद्धैः। येन कारणस्यैव कार्यरूपतया भवनेन । यदि कारणमेव कार्य भवतीत्येवं भवद्भिर्नाभ्युपेयते तर्हि कीदृशो भवतामुपगम इति पृच्छति-किन्विति । उत्तरयति-केषुचिदिति । एवं सति तत् तत्कार्यमिति कथं व्यपदिश्यत इत्यत आह-तद्भाव एवेति-तेषां सत्त्वे सति तस्य भावादुत्पादात् तत्कार्य व्यपदिश्यत इत्यर्थः । इति एवमुप
Page #101
--------------------------------------------------------------------------
________________
४० ]
[ तत्त्वबोधिनी विवृतिविभूषितम्
,
यदि तु तेषु सर्वेषु अभिन्नं रूपं किञ्चिजनकं स्यात् तदा तदेकतरस्थितावपि कार्यजननं स्यात् न स्याद् वाऽन्यसन्निधावपि सामग्रीमाश्रित्य कारणभेदात् कार्यभेदः स्यादिति चेत् ? अयमस्माकमध्यभ्युपगम एव, स्थिरपक्षेऽपि हि सामग्रीत्वमेकं दुर्वचम्, इतरकारणविशिष्टापरकारणस्य सामग्रीत्वेऽननुगमाद् वैशिष्टयस्यापि त
गमे । नानेकताप्रसङ्गः कायस्यानेकताप्रसञ्जनं न भवतीति । सर्वे ते पृथगेव तत् कार्य प्रति कारणभावं विभ्रति, न तु तेषु सर्वेषु किञ्चिदेकमभिन्नं तजनकं समस्ति यतस्तत् कार्यं भवतीति, तथाभ्युपगमे निरुक्तकारणानां मध्यादेककारणमात्रसद्भावेऽपि तत्र तत्कार्यजनकैकरूपस्याऽभिन्नस्य सद्भावात् तत् कार्य स्यात्, तद्गताभिन्नैकरूपतः कार्यस्योत्पत्त्यभावे इतर कारणसमवधानेऽपि ततः कार्य न स्यात् तद्रूपस्य फलोपहितत्वस्यानाश्रयणात् तदानीमपि तस्यैव भावादित्याह - यदि त्विति । सामग्री कार्यजनिका, तत्र सामग्रीत्वमेककारणविशिष्टापरकारणत्वम्, तत्र विशेष्यविशेषणभावे विनिगमनाविरहाद् यस्य विशेष्यत्वं तस्य विशेषणत्वमपि सम्भवति, यस्य विशेषणत्वं तस्य विशेष्यत्वमपीत्येवं निरुक्तरूपस्य सामग्रीत्वस्यानेकत्वात्, एवं सामग्रीत्वस्वरूपप्रविष्टवैशिष्ट्यस्यापि सम्बन्धभेदेन भेदे ततोऽपि सामग्रीत्वस्यानेकत्वात् तदालिङ्गितसामग्र्या अपि भेद इति तद्भेदात् कार्यस्य भेद इत्याशङ्कतेसामग्री माश्रित्येति । इष्टापत्तिरेवोक्ताशङ्कायां समाधानमित्याहअयमिति-सामग्रीभेदात् कार्यभेदापादनलक्षण इत्यर्थः । अस्माकमपि क्षणिकवादिनामपि तथा चेष्टापादनरूपत्वान्नायं दोषावह इति भावः । सामग्रीत्वस्यानेकत्वं नास्मन्मत एव किन्तु स्थैर्यवादिमतेऽपीत्याह-स्थिरपक्षेऽपीति । हि यतः । एकस्य सामग्रीत्वस्य दुर्वचत्वे हेतुमाह — इतर कारणविशिष्टेति - स्वातिरिक्त सकलकारणविशिष्टेत्यर्थः ।
.
Page #102
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]:
[ ४१
सम्बन्धरूपस्याननुगतत्वादिति कल्पितैकत्वानामेव सकलकारणानां सामग्रीत्वं वाच्यम् , तद्वदस्थिरपक्षेऽप्येकक्षणोत्पन्नानां कुर्वद्रूपत्वजात्यैकीकृत्य कल्पितानां कारणानां यदि सामग्रीत्वं कल्प्यते तदा को वा सामग्रीभेद इति । एतेन 'क्षणिकानामेव हेतुत्वे तत्क्षणोत्पन्नानामुदासीनानामपि हेतुत्वं स्याद्' इति निरस्तम् , अन्वय-व्यतिरेकाभ्यां सादृश्यानुसारेणेव कार्यकारणभावव्यवहारात् तनिश्चयानु
अननुगमादिति-अननुगमश्च विशेष्य-विशेषणभावे विनिगमनाविरहतोऽवसेयः।तत्सम्बन्धरूपस्य एकस्मिन् कारणेऽपरकारणरूपसम्बन्धरूपस्य सामानाधिकरण्यात्मकस्य । अननुगतत्वात् निरूपकीभूतप्रतियोग्यनुयोगिभेदेन भिन्नत्वात् , तथा चोक्तस्य सामग्रीत्वस्वरूपत्वे तस्यानेकत्वमपरिहार्यमेव । इति एतस्मात् कारणात् । कल्पितेकत्वानामेव खरूपतोऽनेकरूपाणामपि कारणानामेककार्यनिरूपितकारणत्वरूपैकधर्मवत्त्वेन यद्येकत्वं परिकल्प्यते तर्हि कल्पितैकत्वानाम् , एवकारेण वास्तविकैकत्वस्य व्यवच्छेदः । तद्वत् स्थिरपक्षवत् । कल्पितानाम् एकत्वेन कल्पितानाम् । एवं सति सामग्रीत्वस्यैकत्वात् तदालिङ्गिताया सामग्ऱ्या अप्येकत्वे न भेद इति न सामग्रीमेदात् कार्यभेद इत्याह-तदा को वा सामग्रीभेद इति । एतेनेत्यस्य 'निरस्तम्' इत्यनेनान्वयः। 'एतेन' इत्यनेनातिदिष्टमेव हेतुमुपदर्शयति-अन्वय-व्यतिरेकाभ्यामिति-यत् कार्य येन पूर्ववर्तिना सदृशं तयोरेव पूर्वापरभावापन्नयोरेकसन्तानपतितत्वमिति तयोरेवाम्वयव्यतिरकाभ्यां कार्यकारणभावव्यवहारो भवति, व्यवहारस्य व्यवहर्तव्यपूर्वकत्वात् तादृशव्यवहाररूपकार्यतस्तयोरेव कार्यकारणभाव इति निश्चयः, निश्चयश्च स्वानुभवानुरूपपूर्वक इति तदनुसारेण तत्सामर्थ्यलक्षणशक्तेः कार्यकारणभावपर्यवसिताया अनुभवस्य कल्पनात् सोऽयमनुभवः प्रतिनियतहेतुहेतुमद्भावस्य तत्तत्कार्य
Page #103
--------------------------------------------------------------------------
________________
४२ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् सारेणैव तच्छक्त्यनुभवकल्पनात् प्रतिनियतहेतु-हेतुमद्भावस्यैव प्रामाणिकत्वात्। अथासतोऽजनकत्वान्न क्षणविशरारोः कार्यप्रसव इति चेत् ? न-अनभ्युपगमात् , कार्यकाले सत्त्वस्य कारणतायामप्रयोजकत्वात् , कुर्वद्रूपत्वस्यैव तथात्वात् , तथाप्यविनष्टाद् द्वितीयक्षणव्यापारसमावेशवर्तिनः कार्यप्रसवाभ्युपगमे क्षणभङ्गभङ्गप्रसङ्ग इति चेत् ?,
कारणवलक्षणस्वरूपस्यावगाहीति तत्र प्रमाणमित्यतः प्रतिनियतहेतुहेतुमद्भावस्यैव प्रतिनियतकार्यकारणत्वस्यैव, प्रामाणिकत्वात् प्रमाणसिद्धत्वादित्यर्थः । क्षणिकस्य कारणस्य कार्यकालेऽविद्यमानत्वाद् न कारणत्वमिति क्षणिकात् कार्यजन्म न सम्भवतीति शङ्कतेअथेति । कार्यकाले सत एव जनकत्वमिति नास्माभिरङ्गीक्रियते येन कार्योत्पत्तिक्षणेऽसतः क्षणिकस्य कारणत्वं न भवेत् , नहि कार्यकालवृत्तित्वलक्षणं सत्त्वं कारणताया अवच्छेदकम् , किन्तु तत्तत्कार्यकुर्वदूपत्वेन तत्तत्कार्य प्रति कारणत्वमुपेयते, यदनन्तरं नियमेन कार्यमुपजायते तस्य कार्यकालेऽसतोऽपि तत्कार्यकुर्वद्रूपत्वलक्षणकारणतावच्छेदकधर्मवत्त्वेन कारणत्वस्य सम्भवादिति समाधत्ते-नेति । तथात्वात् अवच्छेकविधया कारणतायां प्रयोजकत्वात् । ननु कार्यानुकूलव्यापारवत एब कारणत्वमिति प्रथमक्षणे कारणं द्वितीयक्षणे तस्य व्यापार इति व्यापारवत: कारणीभूतस्य वस्तुनः क्षणद्वयवृत्तित्वमावश्यकमिति द्वितीयक्षणेऽविनश्यतस्तस्य द्वितीयक्षणवृत्तिध्वंसप्रतियोगित्वलक्षणस्य क्षणभङ्गस्य भङ्ग एवेति शङ्कते-तथापीति-कुर्वद्रूपत्वस्यैव कारणतायां प्रयोजकत्वेऽपीत्यर्थः । व्यापारवत एव कारणत्वमिति यद्यभ्युपगम्येत तर्हि द्वितीक्षणभाविव्यापारप्रतीक्षाया आवश्यकत्वतः क्षणिकत्वं न भवेदपि, न च व्यापारवतः कारणत्वमभ्युपेयते, कुर्वद्रूपत्वेन स्वभवनबलादेव व्यापारमन्तरेणापि कार्य प्रति प्रवृत्तेः कारणस्याभ्युपग
Page #104
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ४३ न-द्वितीयक्षणप्रतीक्षाव्यतिरेकेणापि स्वमहिम्ना कार्यकरणप्रवृत्त्यभ्युपगमात् ,अन्यथा द्वितीयक्षणभाविव्यापारजननेऽप्यपरव्यापारसमावेशव्यतिरेकेणाप्रवृत्तः, तत्रापि चापरव्यापारसमावेशकल्पनायामनवस्थानात् , आरव्यापारनिरपेक्षाणामेवैकव्यापारनिर्वर्तकत्वाभ्युपगमे किमपराद्धं कार्येण ? येनाद्यव्यापार विनैव न तजन्यत इति, न च व्यापारमन्तरेणार्थक्रिया नोपपत्तिमती, व्यापारेणैव व्यभिचारादिति भावनीयम् । अथानष्टात् कारणादुपजायमाने कार्ये मादिति न क्षणिकत्वभङ्ग इति समाधत्ते-नेति । स्वमहिम्ना स्वगत तत्तत्कार्यकुर्वदूपत्वलक्षणसामर्थेन । अन्यथा द्वितीयक्षणभाविव्यापारवत एव कारणत्वमित्युपगमे । द्वितीयेति-द्वितीयक्षणभाविव्यापारेऽपि व्यापारवत एव कारणत्वमिति तदर्थ व्यापारान्तरमनुसरणीयम् , तत्रापि च व्यापारान्तरवत एव कारणत्वमित्यनवस्थानादित्यर्थः। यदि च सम्मिलितानि कारणानि व्यापारान्तरमन्तरेणव व्यापारलक्षणैककार्यमुत्पादयन्तीति नाऽनवस्था,तर्हि कार्यमेवाद्यव्यापारमन्तरेणापि करिष्यन्तीति प्रथमव्यापारकल्पनाऽपि व्यर्थत्याह-अपरव्यापारनिरपेक्षाणामिति । न तजन्यते कार्य न जन्यते । व्यापारमन्तरेण नार्थक्रियाकारित्वमिति नियामात् कथं व्यापारमन्तरेण कार्य स्यादिति व्यापारकल्पनाऽऽवश्यकीति नाशङ्कनीयम्, व्यापारमन्तरेणापि व्यापारलक्षणकार्यस्याऽनवस्थाभयेनस्वी करणीयतया तत्रैव व्यभिचारेणोक्तनियमासम्भवादित्याह-न चेति । ननु अनष्टात् कारणात् कार्यमुपजायते ? नष्टाद् वा ? आये-द्वितीयक्षणेऽपि कार्योत्पत्त्यधिकरणे कारणस्य सत्त्वप्रसङ्गः, तथा सत्येवानष्टत्वस्य कारणे सम्भवः, द्वितीये- प्रथमक्षणे कारणम्, ततो द्वितीयक्षणे तस्य विनाशः, ततश्च नष्टात् कारणात् तृतीयक्षणे कार्यमिति स्यात्, न तु द्वितीयक्षणे कार्यमिति शङ्कते-अथेति । द्वितीयपक्षे तृतीणेक्षय
Page #105
--------------------------------------------------------------------------
________________
४४]
[ तत्त्वबोधिनीविवृतिविभूषितम् कार्य-कारणयोः सहभावप्रसक्तिः, नष्टाच कारणात् कार्योत्पत्त्यभ्युपगमे तृतीयक्षणे तत्प्रसङ्गः, तथाहि-प्रथमे क्षणे कारणसत्ता, द्वितीये तद्विनाशः, तृतीये च कार्योत्पत्तिरिति चेत् ?, न-यथैव कारणविनाशस्तत्सत्तापूर्वको न नष्टाद् भवति तथा तत्समानकालं कार्यमप्यनष्टात् कारणाद् भविष्यतीति दोषाऽभावात् । एवं विनाशोऽपि हेतुमान् स्यादिति चेत् ?,न-नीरूपत्वेन तत्र हेतुव्यापाराभावात्, तदुपन्यासस्यात्र व्यवधायककालाऽसम्भवप्रदर्शनार्थत्वात् , ततो द्वितीयक्षणे कारणं नष्टं कार्य चोपजायत इति कुतस्तयोः सहभावकार्यप्रसङ्गमुपपादयति-तथाहीति । तद्विनाशः कारणविनाशः। अनष्टात् कारणात् कार्यमुत्पद्यत इति प्रथमपक्ष एव स्वीक्रियते, कारणस्य कार्यकालपूर्वकालसत्त्वमपेक्षितम् , तदानीं च स्थितिमनुभवदनष्टमेव कारणम् , तत्सत्तापूर्वकस्तस्य विनाशो यथा न नष्टाद् भवति, किन्त्वनष्टादेव तस्मात् तथैव विनाशसमकालमेव जायमानं विवक्षितकार्य तत्सत्तापूर्वकमनष्टादेव तत इति समाधत्ते-नेति । तत्सत्तापूर्वकः कारणसत्तापूर्वकः। तत्समकालं कारणविनाशसमकालम् । ननु कारणविनाशस्य द्वितीयक्षणे कारणसत्तापूर्वकस्य जायमानस्योररीकारे तस्य हेतुमत्त्वमङ्गीकृतं स्यात् , एवं च निर्हेतुको विनाश इति स्वसिद्धान्तहानिः स्यादित्याशङ्कते-एवमिति-यथा कार्यस्य कारणसत्तापूर्वकत्वेन हेतुमत्त्वं तथेत्यर्थः। विनाशक्षणे एव कार्य भवति, न तु तद्वयवहितक्षणे इत्येतावन्मात्रप्रदर्शनार्थमेव विनाशसमकालत्वं कार्यस्योपदय॑ते, न त्वेतावता विनाशस्य सद्धेतुकत्वं कक्षीकृतं भवति, तुच्छत्वेन विनाशे हेतुव्यापाराभावे तस्य सद्धेतुकत्वासम्भवादिति-नेति । निरूपत्वेन तुच्छतया किञ्चिस्वरूपशून्यत्वेन । तत्र विनाशे। तदुपन्यासस्य द्वितीयक्षणे कारणसत्तापूर्वकतया विनाशोपन्यासस्य । तयोः कार्यकारणयोः।
Page #106
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ४५
प्रसक्तिः ?, तदुक्तम्
"अनष्टाज्जायते कार्य हेतुश्वान्योऽपि तत्क्षणम् । क्षणिकत्वात् स्वभावेन तेन नास्ति सह स्थितिः" ॥१॥
] इति । अत्र चाविद्धकोद्योतकारादिभिर्यदुक्तम्-" यदि तुलान्तकयोनमनोनमनवत् कार्योत्पत्तिकाल एव कारणविनाशस्तदा कार्यकारणभावो न भवेत् , यतः कारणस्य विनाशः कारणोत्पाद एव 'उत्पाद एव विनाश' इति वचनात् , एवं च कारणेन सह कार्यमुत्पन्नमिति प्राप्तम् , यदि च स एव नाशः प्रथमेऽपि क्षणे, न सत्ता भावस्य स्यात् , तदैव विनाशात् , भावस्यैव विनाशत्वे सर्वदा भावस्य
उक्तार्थसंवादि प्राचीनवचनमुपदर्शयति - तदुक्तमिति - ‘हेतु. श्वान्योऽपि' इति स्थाने 'हेतोश्चान्योऽपि' इति पाठो युक्तः, तथा च अनष्टाद् हेतोः कारणात् कार्य जायते, अन्योऽपि कार्यभिन्नोऽपि ध्वंसः, तत्क्षणं कार्योत्पत्तिक्षणम् , भवतीति क्रिया, स्वभावेन कार्यकारणयोःक्षणिकत्वात् तेनक्षणिकत्वस्वभावेन,सह स्थिति स्तीत्यर्थः
कार्य-कारणविनाशयोः समकालत्वं बौद्धाभिमतमसहमानानां नैयायिकप्रवराणामविद्धकर्णोद्योतकरप्रभृतीनां मतस्योपदर्शनपूर्वकं प्रतिक्षिप्तत्वमावेदयति-अत्र चेति। तेषामुक्तिमुल्लिखति-यदीति । कारणविनाशस्य कारणोत्पादरूपत्वे बौद्धवचनमेव प्रमाणयति'उत्पाद एवं विनाशः' इति वचनादिति । एवं च कारणोत्पादस्वरूपस्य कारणविनाशस्य कार्योत्पत्तिकाले स्वीकारे च । एवं कारणोत्पादस्य कारणविनाशरूपत्वे यदा कारणस्योत्पादस्तदा कारणविनाशस्य प्राप्तौ कारणं न कदापि सद् भवेत् स्वोत्पादसमयेऽपि विनाशलक्षणस्वभावस्यैव भावादित्याह-यदि चेति । स एव उत्पाद एव। तदैव प्रथमक्षण एव । यदि च कारणस्वरूपभावस्य विनाशः कारण
Page #107
--------------------------------------------------------------------------
________________
४६ ]
[ तत्त्ववोधिनीविवृतिविभूषितम् सत्त्वम् ; असत्त्वं वा स्यात् , अन्यथा क्षणोत्तरं तन्नाशाभ्युपगमस्याप्रामाणिकत्वप्राप्तेः । अथ कारणोत्पादात् कारणविनाशो भिन्नस्तदा कृतकत्वस्वभावत्वमनित्यत्वस्य न भवेत् , उत्पाद-नाशयोस्तादात्म्यप्रतिबन्ध एव तस्य वक्तुं शक्यत्वात् , व्यतिरिक्ते च नाशे समुत्पन्ने न भावस्य निवृत्तिरिति कथं क्षणिकत्वम् ?"इति तन्निरस्तम् । यतो द्विविधो विनाशः-सांव्यवहार्यस्तात्त्विकश्च, आद्यो भावनिवृत्तिरूप एव, द्वितीयश्च भावः, तत्र कारणनिवृत्तिरूपोऽभावो लोकप्रतीत एव, नायं भावस्वभाव इष्यते, नापि कारणोत्पादादस्वरूप एव, तदा कारणस्य विनाशसमयेऽपि कारणं सम स्तीति सर्वदा कारणात्मनो भावस्य सत्त्वमेवेति न क्षणिकत्वं तस्य स्यात्, अथवा यथा द्वितीयक्षणे विनाशसत्तातो भावस्याऽसत्त्वं तथा प्रथमक्षणेऽप्यसत्त्वं स्यात् , तदाऽपि विनाशस्य भावस्वरूपस्यैव सत्त्वादित्याह-भावस्यैवेति । अन्यथा भावस्याऽसत्त्वाभावे । कारण विना. शस्य कारणोत्पादरूपत्वाभ्युपगमे उक्तदोषो भवेत् , कारणोत्पादादतिरिक्त एव कारणविनाश इत्यभ्युपगमे तु नाऽयं दोष इति यदि परो ब्रूयात् तदा दोषान्तरमुपदर्शयति-अथेति-उत्पादविनाशयोरन्योऽन्यभिन्नत्वे उत्पादखभावस्य कृतकत्वस्य विनाशस्वभावस्यानित्यत्वस्य चाऽन्योन्यभिन्नत्वमेव स्यादित्यनित्यत्वस्य कृतकत्वस्वभावत्वं न स्यात्, उत्पाद-विनाशयोस्तादात्म्यलक्षणप्रतिबन्धे सत्येवाऽनित्यत्वस्य कृतकत्वस्वभावस्य वक्तुं शक्यत्वादित्यर्थः। भावाद् भिन्नस्य नाशस्य भवने भावस्य न किश्चिदपि जातमित्यवस्थितरूप एव सर्वदा भाव इति क्षणिकत्वं तस्य न स्यादित्याह-व्यतिरिक्ते चेति । तत् अविद्धकर्णोद्योतकराद्युक्तम् । निरासहेतुमाह-यत इति । आद्यः सांव्यवहार्यो विनाशः। द्वितीयश्च तात्त्विको विनाशः पुनः । भावः भावस्वरूपः। तत्र द्विविधविनाशयोर्मध्ये ।
Page #108
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ४७
भिन्नो भिन्नो वा नीरूपत्वात्, भेदाभेदप्रतिषेध एव केवलमस्य
क्रियते, तदुक्तम् —
“ भावे ह्येव विकल्पः स्याद् विधेर्वस्त्वनुरोधतः ॥ "
[ ] इति । तेन 'व्यतिरिक्ते नाशे जाते क्षणरूपस्य भावास्यानिवृत्तिः ' इत्यपास्तम्, यतश्च द्वितीयक्षणोत्पत्तिकाल एव प्रथमक्षणनिवृत्ति
अयं लोकप्रतीतः कारण निवृत्तिरूपो विनाशः । न भावस्वभावः इत्यत्र 'नीरूपत्वाद्' इति वक्ष्यमाणो हेतुः । अभिनो न भवतीत्यतो भिन्नत्वम्, भिन्नो न भवतीत्यतोऽभिन्नत्वं चास्याऽऽपादयितुं न शक्य नीरूपे तस्मिन् कस्यापि धर्मस्याऽभावात्, किन्तु नाभिन्न इत्यनेनाभेदप्रतिषेधः, न भिन्न इत्यनेन च भेदप्रतिषेध इत्येवं भेदाऽभेदप्रतिषेधमात्रं विनाशस्य क्रियत इत्याह- भेदाभेदप्रतिषेध एवेति ।
उक्तार्थसंवादिनीं प्राचामुक्तिमुपदर्शयति - तदुक्तमिति । ' ह्येव ' इति स्थाने ' ह्येष ' इति पाठो युक्तः । एष विकल्पः अयं भिन्नोऽभिन्नो वेति । कथं भाव एवैष विकल्प इत्यपेक्षायामाह – विधेरितिकिञ्चिद्धर्मविधानस्य, वस्त्वनुरोधतः वस्तुस्वरूपत्वे सत्येव किञ्चिधर्मवस्वं नाऽन्यथेति, भावनिवृत्तिरूपविनाशस्य वस्तुत्वाभावान्न भिन्नोऽभिन्नो वा' इति विकल्पतः किञ्चिद्धर्मविधानं तत्रेत्यर्थः । तेन वस्तुन्येव विकल्पतः किञ्चिद्धर्मविधानं सम्भवति, न तु भावनिवृत्तिरूपे विनाशे इत्यनेन, अस्य 'अपास्तम्' इत्यनेनाऽन्वयः, तुच्छे विनाशे किञ्चिद्धर्मविनाशासम्भवाद् व्यतिरिके नाशे इत्यस्यैव वक्तुमशक्यत्वादित्याशयः । भावरूपो यस्तात्त्विको विनाशस्तदालम्बनेनैकक्षणस्थायी भावो विनाशशब्देन व्यपदिश्यत इत्याहयतश्चेति । कारणस्वरूपविनाशस्य
कार्यभिन्नकालभावित्वमुपद
"
,
Page #109
--------------------------------------------------------------------------
________________
४८ ]
[तत्त्वबोधिनीविवृतिविभूषितम् स्तेनैकक्षणस्थायी भावो विनाशशब्देनोच्यते, अयं च भावरूपत्वात् तात्त्विकः साधनस्वभाव एव विनाशः कार्योत्पतिकाले च निवर्तते इति कार्यभिन्नकालभावी । न च सर्वकालमस्य सद्भावः, भावस्याऽसत्त्वात् । यद्वा विनाशोऽस्य स विनाशी' इति व्युत्पत्तेरविनाशिव्यावृत्तो भाव एव नाश उच्यत इति । यदपि च प्रत्यभिज्ञायाः क्षणिकत्वानुमानबाधकत्वमुक्तम् , तदप्यसत्-अनिश्चितप्रामाण्याया अस्या बाधकत्वानुपपत्तेः, न च क्षणिकत्वानुमानप्रामाण्येऽस्या र्शयति-अयं चेति । विनाशस्य भावरूपत्बे सर्वदा सत्त्वं यत् पूर्वमा पादितं तदुद्धरति-न चेति । अस्य भावस्वरूपविनाशस्य । विनाशस्यभावरूपत्वे भावस्य सर्वदा सत्त्व एव विनाशस्य सर्वदा सत्त्वं स्यात् , न च भावस्य सर्वदा सत्त्वमिति न तपस्य विनाशस्यापि सर्वदा सत्त्वमित्याह-भावस्येति । असत्त्वात् सर्वकालमससत्त्वात् । भावस्य विनाशरूपत्वोपपादकं कल्पान्तरमाह-यद्वेति । 'विनाशोऽस्य' इत्यत्र षष्ठयर्थसम्बन्धस्तादात्म्यलक्षणो ज्ञेयः। प्रत्यभिज्ञाप्रत्यक्षप्रमाणबाधितं क्षणिकत्वमिति तद्बाधितार्थविषयकस्य क्षणिकत्वानुमानस्य प्रत्यभिज्ञाबाध्यत्वं प्रत्यभिज्ञायाश्च तादृशानुमानबाधकत्वमिति यत् स्थैर्यवादिनोऽभिमतं तदपि न समीचीनमित्याह-यदपि चेति । अनिश्चितेति-प्रत्यभिज्ञायाः प्रामाण्यं न निश्चितम्, अनुमानस्य प्रामाण्यं तु निश्चितमिति निश्चितप्रामाण्यकत्वेन प्रबलीभूतक्षणिकत्वानुमानबाधकत्वस्यानिश्चितप्रामाण्यकरवेन दुर्बलायाः प्रत्यभिज्ञाया अनुपपत्तरित्यर्थः। ननु प्रत्यभिज्ञाया अप्रा. माण्ये सिद्धे सति तया बाधाऽभावात् क्षणिकत्वानुमानस्य प्रामाण्य सिद्धयति, सिद्धे च तस्य प्रामाण्ये तेन बाधात् प्रत्यभिज्ञाया अप्रामाण्यसिद्धिरित्यन्योऽन्याश्रयदोषोपनिपात इत्याशङ्कय प्रतिक्षिपति-न चेति । अस्याः प्रत्यभिज्ञायाः, एवमग्रेऽपि । निषेधे
Page #110
--------------------------------------------------------------------------
________________
भनेकान्तव्यवस्थाप्रकरणम् ]
[४९ अप्रमाण्यनिश्चयोऽस्या अप्रामाण्ये च क्षणिकत्वानुमानप्रामाण्यमित्यन्योन्याश्रयदोषोपनिपातः, यतो न क्षणिकत्वानुमानप्रामाण्य प्रत्यभिज्ञाप्रामाण्याधीनम् , अपितु विपर्यबाधकप्रमाणाऽऽहितस्वसाध्यप्रतिबन्धनिश्चयाधीन मिति । किञ्च, 'अयम्' इत्युल्लेखवद् वर्तमानकालकार्यजनकं स्वभावं वस्तुनः परामृशति, ‘स एव' इत्युल्लेखवच्च प्राक्तनं तदजनकं स्वभावमिति विरुद्धोभयस्वभावावगाहित्वात् कथं प्रत्यभिज्ञानं प्रमाणम् ?, अपि च क्षणविशरारुषु भावेषु सदृशापरापरोत्पत्त्यादिविप्रलम्भहेतोरुपजायमानं तद् दुष्टकारणारब्धत्वादेवाऽप्रमाणम् , अपि च, लून-पुनरुदितकेशादिष्वेकत्वाभावेऽप्यस्य प्रवर्तमानस्य दर्शनात् कुतः स्वविषयव्यवस्थापकत्वम् ।
हेतुमाह-यत इति । न केवलं क्षणिकत्वानुमानबाधितत्वान्न प्रत्यभिक्षायाः प्रामाण्यं किन्तु विरुद्धोभयस्वभावैकवस्त्ववगाहित्वादपि न प्रामाण्यमित्याह-किश्चेति- स एवाऽयम्' इति प्रत्यभिज्ञानम् 'अयम्' इत्युल्लेखवत् ‘स एव' इत्युल्लेखवञ्च, तत्राऽयमित्युल्लेखपत् प्रत्यभिज्ञानं वर्तमानकालकार्यजनकं वस्तुनः स्वभावं परामृशति, स एवेत्युल्लेखवञ्च तद्वस्तुनः प्राक्तनं वर्तमानकालकार्याजनकं स्वभावं परामृशतीत्येवं विरुद्धोभयस्वभाववस्त्ववगाहित्वात् प्रत्यभिज्ञानं कथं प्रमाणम् ? न प्रमाणमेवेत्यर्थः। दुष्टकारणारब्धस्वादपि प्रमाणं न प्रत्यभिज्ञानमित्याह-अपि चेति । विप्रलम्भहेतोः एकत्वभ्रान्तिहेतोः। तत् प्रत्यभिज्ञानम् , विप्रलम्भहेतुत्वात् सदृशापरापरोत्पत्त्यादिरेवात्र दोषः । एकत्वाभाववत्स्वपि लून-पुनरुदितकेशादिष्वेकत्वावगाहितया प्रत्यभिज्ञानस्य प्रवृत्तेर्दर्शनान तस्य स्वविषयव्यवस्थापकत्वमिति प्रत्यभिशयैकत्वाव्यवस्थितौ न क्षणिकस्वबाध इत्याह-अपि चेति । प्रत्यभिज्ञायाः प्रत्यक्षत्वनियामकं
Page #111
--------------------------------------------------------------------------
________________
[तत्त्वबोधिनी विवृतिविभूषितम् किश्व, सत्सम्प्रयोगजत्वमपि प्रत्यभिज्ञानस्यासिद्धम्, बहिरवस्थिततदेतत्कालसंस्पश्येकार्थेन्द्रियसम्प्रयोगासिद्धेः । यदपि 'एतत् प्रत्यभिज्ञानं देशादिभिन्नसामान्यालम्बनम् ' इत्युक्तम्, तदप्यसङ्गतम् - सामान्यादेरपि भिन्नस्य तद्विषयस्याभावात् भावेऽपि भूयः प्रमाणगोचरीकृते तत्र प्रवर्तमानस्य प्रत्यभिज्ञानस्थान घिगतार्थाधिगन्तृत्वायोगात् । मिन्नाभिन्नालम्बनत्वेऽपि च प्रत्यभिज्ञानस्य न प्रामाण्यम्, अपूर्वप्रमेयाभावात्, नहि देशादयस्तत्र प्रत्यभिज्ञायन्ते, प्रागदर्शनात् तेषाम्, पूर्वोपलब्धे तु सामान्यादौ न प्रमेयासत्संप्रयोगजत्वमपि पराभिप्रेतमसिद्धमेवेति न ततः प्रत्यभिज्ञायाः प्रत्यक्षत्व सिद्धिरित्याह- किञ्चेति । सत्संप्रयोगजत्वस्याऽसिद्धत्वे हेतुमुपदर्शयति- बहिरिति - बहिरवस्थितो यस्तदेतत्काल संस्पर्शी - अतीतवर्तमानकालसम्बन्धी एकोऽर्थस्तेन सहेन्द्रियसम्प्रयोगस्य- इन्द्रियसम्बन्धस्याऽसिद्धेरित्यर्थः । अन्यदपि प्रत्यभिज्ञानस्य प्रामाण्यप्रसाधनाय परोक्तं न सङ्गतमित्याह - यदपीति । तद्विषयस्य प्रत्यभिज्ञानविषयस्य । भावेऽपि देशादिभिन्नसामान्यस्य प्रत्यभिज्ञानविषयस्य भावेऽपि । भूयः अनेकवारम् । तत्र सामान्ये, अनधिगतार्थाधिगन्तृत्वेन ज्ञानस्य प्रामाण्यं भवति, सामान्यं तु प्रमाणान्तराधिगतमेवेत्यनधिगतार्थाधिगन्तृत्वाभावान्न प्रत्यभिज्ञानस्य प्रामण्यमित्यर्थः । सामान्यस्य पूर्वापरदेशादितो भिन्नाऽभिन्नत्वमुररीकृत्य तदवगाहित्वेन प्रामाण्योपपादनमपि प्रत्यभिज्ञानस्य न युक्तम्, तथात्वेऽपि प्रत्यभिज्ञानस्याऽपूर्वप्रमेयाभावात् यतो न देशादयस्तत्र प्रथन्ते, सामान्यादिकं तु तत्र भासमानं पूर्वोपलब्धत्वान्नाऽपूर्वमित्याहभिन्नाऽभिन्नालम्बनत्वेऽपीति । प्रागदर्शनात् तेषां देशादीनां प्रागदर्शनात्, य एव च प्रागनुभवगोचरस्तस्यैव प्रत्यभिज्ञायामवभासनमित्यभिसन्धिः । यथाऽग्न्यादिसामान्यस्य पूर्वप्रत्यक्षविषयत्वेऽपि पूर्वा
५०
]
Page #112
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[५१ धिक्यम्। न च पूर्वप्रसिद्धमेवाग्न्यादिसामान्यं देशादिविशिष्टतयाऽधिगच्छतोऽनुमानस्य यथा न प्रामाण्यव्याहतिस्तथा प्रागुपलब्धमेव सामान्यादि देशादिविशिष्टतया प्रतिपद्यमानस्यापूर्वप्रमेयसङ्गतेन प्रामाण्यक्षतिरिति वक्तव्यम् , द्वितीयप्रत्यक्षत एव तत्सिद्धेः प्रत्यभिज्ञानस्याऽपूर्वप्रमेयाऽयोगात् , नहि 'सोऽयम्' इत्युल्लेखद्वयाक्रान्तं प्रत्यभिज्ञानविषयद्वयं प्रत्यक्षद्वयगोचरादतिरिक्तमिति । न च यथा वस्तुस्वरूपग्राहिणाऽध्यक्षेण तदव्यतिरिक्ते क्षणक्षयेऽधिगतेऽपि तनिश्चिन्वानाऽनुमितिः समारोपव्यवच्छेदकतयैव प्रमाणम् , तथा प्रत्यभिज्ञा दर्शनद्वयगृहीतेऽप्यर्थे समारोपनुपलब्धपर्वतादिदेशविशेषसम्बन्धितया तस्यावगाहनादनुमानस्य प्रामाण्यं तथा सामान्यादेः पूर्वोपलब्धत्वेऽपि पूर्वानुपलब्धदेशादिविशिष्टतयाऽवगाहनादपूर्वप्रमेयसद्भावेन प्रत्यभिज्ञानस्य प्रामाण्यमित्याशङ्कय प्रतिक्षिपति-न चेति-अस्य 'वक्तव्यम्' इत्यनेन सम्बन्धः । निषेधे हेतुमाह-द्वितीयप्रत्यक्षत एवेति । तत्सिद्धेः देशादिविशिष्टतया सामान्यस्य सिद्धः। अपूर्वप्रमेयाभावमेव व्यवस्थापयति नहीति-अस्य 'अतिरिक्तम' इत्यनेनान्वयः, पूर्वदेशोऽतीतप्रत्यक्षगोचरो यः ‘स' इत्यनेनोल्लिख्यते, वर्तमानपुरोवर्तिदेशश्च वर्तमानप्रत्यक्षगोचरो यः 'अयम्' इत्यनेनोल्लिख्यते, इत्येवं प्रत्यभिज्ञानविषयद्वयं प्रत्यक्षद्वयगोचरान्न व्यतिरिक्तमिति तादृशदेशद्वय विशिष्टमपि सामान्यं प्रमाणान्तराधिगतमेवेत्यपूर्वप्रमेयाभाव इत्याशयः । अपूर्वप्रमेयाभावेऽपि समारोपव्यवच्छेदकत्वात् क्षणक्षयानुमानवत् प्रत्यभिज्ञायाः प्रामाण्य मित्याशङ्कय प्रतिक्षिपतिन चेति-अस्य ' वाच्यम्' इत्यनेन सम्बन्धः। तदव्यतिरिक्ते वस्त्वभिन्ने । तनिश्चिन्वाना क्षणक्षयनिश्चयं कुर्वाणा, समारोपध्यवच्छेदकतयैव अक्षणिकत्वारोपव्यवच्छेदकतयैव । समारोपव्यवच्छेदकत्वात् भिन्नत्वा
Page #113
--------------------------------------------------------------------------
________________
५२ ]
[ तत्त्वबोधिनीविवृतिविभूषितम्
व्यवच्छेदकत्वादेव प्रमाणमिति वाच्यम्, दर्शनद्वयेनैव समारोपव्यवच्छेद सिद्धेः, समारोपव्यवच्छेदविषया चेयं कुतः प्रत्यक्षतां स्वातन्त्र्येण प्रमाणतां वाssस्कन्देत् ? ।
यदपि ' प्रमेयातिरेकाभावेऽपि सन्देहापाकरणात् प्रमाणं प्रत्यभिज्ञा ' इत्यभ्यधायि, तदप्यापातरमणीयम् - स्मृतेरपि 'किमिदं मया दृष्टमुत न' इति संशयव्यवच्छेदेन 'दृष्टमेव ' इत्युपजायमानायाः प्रमाणताप्रसक्तेः । अपि च, आलोचनाज्ञानानन्तरं सविकल्पक प्रत्यक्षाभ्युपगमात् कालान्तरादिभावोऽपि तत एव निश्चित इति कुतः सन्देहः ? यदपाकरणाय प्रत्यभिज्ञादरो युज्यते, नहि निश्चितमनिश्चितं नाम, तस्मात् प्रमेयाधिक्यमेव प्रामाण्यनिबन्धनम्, न तु संशयापाकरणमपि तथा वक्तुं युक्तम् ।
रोपव्यवच्छेदकत्वात् । एवकारेण अनधिगतार्थाधिगन्तृत्वस्य व्यवच्छेदः । निषेधे हेतुमाह - दर्शनद्वये. वेति । संदेहाऽपाकरणेन प्रत्यभिज्ञायाः प्रामाण्याभ्युपगमे तु स्मृतेरपि सन्देहाऽपाकरणेन प्रामाण्यं प्रसज्यते, न च प्रत्यभिज्ञाप्रामाण्यवादी मीमांसकोऽत्र बौद्धप्रति-' मल्लतयाऽधिकृतः स्मृतेः प्रामाण्यमुररीकरोतीति तं प्रति स्मृतेःप्रामाण्यप्रसञ्जनमनिष्टमेवेत्याशयवान् परोक्तमुल्लिख्याऽपाकरोतियदपीति । स्मृतेरपीति - ' किमिदं मया दृष्टमुत न' इति संशयव्यवच्छेदेन ' दृष्टमेव ' इत्युपजायमानायाः स्मृतेरपि प्रमाणताप्रसक्तेरित्यन्वयः । सन्देहापाकरणमपि प्रकृतेऽन्यत एकत्वस्य निश्च यतः सन्देहाभावादेव न युक्तमिति न तदर्थमपि प्रत्यभिज्ञाया आदरो युक्त इत्याह- अपि चेति । तत एव सविल्पकप्रत्यक्षत एव । तथा वक्तुं प्रामाण्यनिबन्धनतया वक्तुम् । इदानीन्तनास्तित्वमिदानीन्तनप्रत्यक्षेणैव गृह्यत इति न तदपि प्रत्यभिज्ञाया अपूर्वो
Page #114
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[५३ ___यत् तु-" इदानीन्तनमस्तित्वं, न हि पूर्वधिया गतम् ।” इत्युक्तम् , तद् युक्तमेव-इदानीन्तनास्तित्वस्य प्राकालीनास्तित्वतो भेदात् , अन्यथा प्राक्तनविकल्पबुद्धया वस्त्वव्यतिरेकीदानीन्तनास्तित्वस्य कथमग्रहणम् । यैस्तु निर्विकल्पकं प्रत्यभिज्ञाज्ञानं प्रमाणतयाऽभ्युपगतम् , तेषां तदुत्तरकालभाविसविकल्पकादयो घटादिविषयाः प्रमेयातिरेकाभावात् कथं प्रमाणतामश्नुवीरन् ? नहि निर्विकल्पक-सविकल्पकयोरन्तराले सन्देहसम्भवोऽपि येन तदपाकरणेविषय इति यत् पूर्वप्रत्यक्षाऽविषयत्वोपवर्णनं तदिष्टमेवास्माकमपि. न तु ततो मीमांसकस्याभीष्टसिद्धिरित्याह-यत्त्विति । इदानीन्तनास्तित्वस्य प्राकालीनास्तित्वलक्षणपूर्वानुभवविषयाद् भिन्नत्वेन पूर्वधियाऽनधिगतत्वमित्याह-इदानीन्तनास्तित्वस्येति । अन्यथा इदानीन्तनास्तित्वस्य प्राक्कालीनास्तित्वतो भेदाभावे । प्राक्तनेति-प्राक्काले वस्त्वनुभवजन्यविकल्पेन घस्तुनो ग्रहणे तदव्यतिरेकात् प्राक्तनास्तित्वस्य ग्रहणवदिदानीन्तनास्तित्वस्य ग्रहणमेव प्रसज्यत इत्यर्थः। निर्विकल्पकप्रत्यभिज्ञानमभ्युपेत्य तस्यकत्वावगाहित्वेन तत्र प्रामाण्यस्याभ्युपगमे तदनन्तरभाविनां सविकल्पादीनां तद्गृहीतग्राहित्वेनापूर्वप्रमेयाभावात् प्रामाण्याभावः प्रसज्येत, निर्विकल्पकस्य चाऽनन्तरमेव सविकल्पकमिति न तयोरन्तरालकालः समस्ति, येन तयोरन्तरालकाले समुद्भूतस्यैकत्वसंशयस्यापाकरणेन विकल्पबुद्धीनां प्रमेयातिरेकाभावेऽपि प्रामाण्यमातिष्ठेतापीत्याहयस्त्विति-अस्य ' अभ्युपगतम्' इत्यनेनान्वयः । तेषां निर्विकल्पकप्रत्यभिज्ञानप्रामाण्याभ्युपगन्तृणाम् । तदुत्तरकालेति-निर्विल्पकप्रत्यभिशानोत्तरकालेत्यर्थः। पूर्वसंवेदनस्य प्रत्यभिज्ञानकालेऽभावेन प्रत्यभिज्ञानस्य प्रत्यक्षरूपत्वे पूर्वसंवेदनविषयकत्वस्य तत्राऽभावे पूर्वसंवेदनविषयेण सहोत्तरसंवेदनविषयस्य यदेकत्वं तद्विषयकत्वमपि
Page #115
--------------------------------------------------------------------------
________________
५४ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् नाऽपि प्रामाण्यं व्यवतिष्ठेत । किञ्च, पूर्वापरसंवेदनाधिगतभावकत्वग्राहकं प्रत्यभिज्ञानं कथमध्यक्षस्वरूपम् ? प्रथमसंविदोऽसत्यास्तत्र ग्रहणासम्भवात् , अन्यथा भाविसमयादिग्रहणस्यापि प्रसङ्गात् ,भाविकालाद्यग्रहेऽपि तत्सम्बन्धिरूपग्रहाभ्युपगमे आद्यमृद्दर्शनवेलायामेव त्रैकाल्यस्पर्शिस्थास-कुशूलादिसकलव्यक्तिग्रहणप्रसङ्गात् । यदेवोत्तरकालं परामृश्यते तदेव भाविज्ञानविषयीभावस्तु प्रागवगम्यत इति नियमकल्पनान्न दोष इति चेत् ? न-तत्त्वं यदि तस्य न स्यात् , अतीतसंवेदनविषयकत्वमपि यदि प्रत्यभिज्ञाप्रत्यक्षे स्वीक्रियते तर्हि भाविसमयादिग्राहित्वमपि प्रत्यक्षस्य प्रसज्येतेति नोक्तप्रत्यभिज्ञानस्य प्रत्यक्षत्वमभ्युपगन्तुं युक्तमित्याह-किश्चेति । तत्र अध्यक्षरूपे प्रत्यभिज्ञाने। अन्यथा तदानीमसतोऽपि प्रत्यक्षेण ग्रहणाभ्युपगमे । ननु प्रथमसंविदो भाविसंविदश्च तदानीमसत्यायाः प्रत्यक्षप्रत्यभिज्ञानेन ग्रहणाभावेऽपि तत्सम्बन्ध्रिनस्तद्विषयस्य तेन ग्रहणं स्यादित्यत आह-भावीति । ‘भाविकालादि' इत्यादिपदादतीतकालादेरुपग्रहः। तत्सम्बन्धीति-भाविकालादिसम्बन्धीत्यर्थः । आयेतियदा मृदर्शनं भवति तदानीमेव तदर्शनभासमानाया मृदो ये सम्बन्धिनः स्थासकुशूलादयः केचित् पूर्वकालमेव जाताः केचित् तदानीमेव सम्भविनः केचित् पुनरुत्तरकाले भविष्यन्तीत्येवं त्रैकाल्यस्पर्शिमस्तेषामतीताऽनागतकालाद्यग्रहणेऽपि तत्सम्बन्धिनां ग्रहणप्रसङ्गादित्यर्थः। मृद्दर्शनवेलायां तत्सम्बन्धिनामतीताऽनागतादिकालीनानां ग्रहणं तदाऽवकल्प्येत यधुत्तरकालं तेषां परामर्शो भवेत् , येषामेवोत्तरकालं परामर्शस्तेषामेव भाविज्ञानविषयीभावः पूर्वमवगम्यत इति नियमः परिकल्प्यत इति न सर्वस्याऽतीतानागतकालसम्बन्धिनो ग्रहणप्रसङ्ग इत्याशङ्कते-यदेवेति । तदेव' इति स्थाने 'तस्यैव' इति पाठो युक्तः। प्रतिक्षिपति-नेति ।
Page #116
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ५५
दृश्यमानस्य पूर्व देशादिपरिगतत्वं तदा पूर्वदेशाद्यसन्निधाने तत्प्रतिभासासम्भवात्, प्रातिभासिकसन्निधानाभ्युपगमेऽपि तद्वर्तमानतापत्तेः, नहि तद्दर्शनप्रतिभास मन्तरेणान्या वर्तमानता नीलादीनामपि, तथापि पूर्वरूपत्वाप्रच्यवे वर्तमानव्यवहारोच्छेदप्रसक्तेः । यदि च दृष्टतैव दृश्यमानस्य तत्त्वम्, तदापि तस्याः साम्प्रतिदर्शने
' सोऽयम्' इति प्रत्यभिज्ञाने वर्तमानकालीनस्येदमर्थस्य तत्त्वं यत् प्रतिभासते तद् यदि पूर्वदेशादिपरिगतत्वरूपं तदा पूर्वदेशादीनामसन्निहितानामप्रतिभासने तत्परिगतत्वरूपस्य तत्त्वस्याऽपि प्रतिभासनं न भवेदित्याह - तत्वं यदीति । तत्प्रतिभासासम्भवात् पूर्वदेशादि - परिगतत्वरूपस्य तत्त्वस्य प्रतिभासा सम्भवाद् विशेषणाग्रहणे विशिष्टस्याऽप्यग्रहणात् । पूर्वदेशादेरपि तदानीं प्रतिभासमानत्वात् प्रातिभासिकसन्निधानमस्त्येवेति ययुपेयते तर्हि यद् यदा प्रतिभासते तत् तदानीं वर्तमानमिति प्रातिभासिकसन्निधानवतः पूर्वदेशादेर्वर्तमानत्वं प्रसज्येतेत्याह – प्रातिभासिकेति । तद्वर्तमानत्वापत्तेः पूर्वदेशादिगतवर्तमानत्वप्रसङ्गात् । अन्यत्रापि तद्दर्शनप्रतिभासत्वमेव वर्तमानत्वम्, तच्च प्रकृतेऽपि समस्तीत्याह -नहीति । तथापि प्रातिभासिक सन्निधानेन वर्तमानत्वे सत्यपि । यत्रातीतत्वं न तत्र वर्तमानत्वमिति नियमात् पूर्वरूपत्वाप्रच्यवेऽतीतत्वस्यैव भाने तद्दर्शनप्रतिभासस्य वर्तमानव्यवहाराप्रयोजकत्वाद् वर्तमानव्यवहारस्य निबन्धनान्तराभावेनोच्छेद प्रसङ्गादित्यर्थः । तदापि दृष्टतायास्तत्स्वरूपत्वेऽपि । तस्याः दृष्टतायाः, तथा च तत्त्वमपि वर्तमानत्वमिदन्त्वं तु सर्वानुमतमेव वर्तमानत्वमित्येक वर्तमानप्रतिभासित्वमेव प्रत्यभिज्ञानस्य, न तु पूर्वापरद्दगवगतयोरेकत्वस्य प्रतिभासित्वमिति तत्प्रत्यभिज्ञानाऽभावात् पूर्वापरडगवगतैकस्वक्षतेरित्यर्थः । तत्त्वात्मतयोपगताया दृष्टतायाः पूर्वदर्शन एव भानाभ्युपगमे पूर्व
Page #117
--------------------------------------------------------------------------
________________
५६ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् प्रतिभानाभ्युपगमे वर्तमानतापत्तेः पूर्णपरदृगवगतकत्वक्षतेः, पूर्वदृशि तद्भानाभ्युपगमे च तस्याः प्रच्युतौ तद्ग्राह्यताया अपि प्रच्युतत्वात् । न च पूर्वदृष्टताऽप्रतिपत्तावपि पूर्वदृष्टरूपग्रतीतेन दोषः, विशेषणाऽप्रतीती विशिष्टाप्रतीतेः, नहि नीलताऽप्रतिपत्तौ नीलोऽर्थोऽधिगतो भवति, यदि च प्राग्दर्शनगोचरोऽर्थों वर्तमानदृशि तत्स्वाभाव्यादेव प्रतिभाति, तदा पूर्वदृगोचरसकलपदार्थप्रतिभासनप्रसङ्गः । अथाऽभेदस्य नियामकत्वम् , न-नीलादेर्मिनस्यापि वर्त। मानदर्शने प्रतिभासनात् , पूर्वदृष्टस्य वर्तमानदृशि सन्निधानेन दर्शनं प्रत्यभिज्ञानकाले न समस्तीति तद्ग्राह्यताया अपि तदानीमभावान्न प्रत्यभिज्ञाने तद्भानं भवेदित्यतोऽपि पूर्वापरगवर्गकत्वक्षतिरित्याह-पूर्वदृशीति-पूर्वदर्शन इत्यर्थः । तद्भानाभ्युपगमे दृष्टताभानाङ्गीकारे। तस्या पूर्वदृशः। तद्ग्राह्यताया अपि पूर्वदृग्विषयताया 'अपि । पूर्वदृष्ट इति पूर्वदृष्टतावान् , तथा च तत्र पूर्वदृष्टता विशेषणमिति तदप्रतिभासने तद्विशिष्टप्रतिभासनं शङ्कितुमप्यशक्यं विशेषणप्रतिभासे सत्येव विशिष्टप्रतिभासस्योपगमादित्याहन चेति । विशेषणाऽप्रतिपत्तौ विशिष्टप्रतिपत्तिर्न भवतीत्येव दृष्टान्तबलाद् व्यवस्थापयति-नहीति-अस्य भवति' इत्यनेनान्वयः प्राग्दशनगोचरस्यार्थस्याऽयमेव स्वभावः, यदुत, वर्तमानदृशि प्रतिभासनमिति स्वभावबलादेव पूर्वदर्शनगोचरार्थस्य वर्तमानदृशि प्रतिभासनाभ्युपगमे पूर्वदृग्गोचरस्य सकलस्याप्यर्थस्योक्तखभावषलात् प्रतिभासनं प्रसज्यत इत्याह-यदि चेति । ननु पूर्वदृष्टस्य तस्यैवार्थस्य वर्तमानदर्शने प्रतिभासनं यस्य वर्तमानहग्गोचरेदमामेद इति न सकलपूर्वदृग्गोचरार्थप्रतिभासनप्रसङ्ग इत्याशङ्कते-अथेति । एकस्मिन् वर्तमानदर्शने समूहालम्बनात्मके नील-पीतादीमामन्योऽन्यभिन्नानामपि वर्तमानदर्शने प्रतिभासनेनाऽमेदस्य वर्तमानदर्श
Page #118
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ५७
प्रतिभासनानाऽतिप्रसङ्ग इति चेत् ? न-अप्रतिभासेन सन्निधौ सर्वत्रातिप्रसङ्गात् , प्रतिभासेन च सन्निधावितरेतराश्रयात् । एतेन 'पूर्वदृष्टस्या प्रच्युतेर्वर्तमानदृशि भानम्' इत्यपास्तम्, तदप्रच्युतो प्रमाणाऽभावात् , तदवगाहिदर्शनस्यैव तत्र प्रमाणत्वेऽन्योन्याश्रयात् , पूवर्दृष्टस्याऽप्रच्युतौ प्रवर्तमानं दर्शनं प्रमाण सिद्धयति, तत्प्रामाण्यसिद्धौ च पूर्वदृष्टस्याप्रच्युतिरिति । न च परिस्फुटनप्रतिभासनप्रयोजकताया वक्तुमशक्यत्वादिति समाधत्ते-नेति । ननु पूर्वदृग्गोचरोऽर्थो वर्तमानदर्शनकाले सन्निहित इति प्रतिभासते, यस्तु पूर्वदृग्गोचरोऽपि न सन्निहितो न तस्य वर्तमानदर्शने प्रतिभासनमित्याशङ्कते-पूर्वदृष्टस्येति । अत्र पूर्वदृष्टस्य सान्निध्यमप्रतिभासनतो विवक्षितम् ? प्रतिभासनतो वा ? आये-तत्प्रतिभास्यतया विवक्षितपूर्वदृष्टस्येवान्यस्याप्यप्रतिभासनतः सान्निध्यस्य सम्भवेनाऽशेषपूर्वदृष्टप्रतिभासनलक्षणातिप्रसङ्गस्तदवस्थः, द्वितीये-प्रतिभासनबलात् सान्निध्यस्याभिमतत्वे तु प्रतिभासने सति सान्निभ्यम् , सान्निध्ये सति च प्रतिभासनमित्येवमन्योन्याश्रय इति समाधत्ते-नेति । 'एतेन' इत्यस्य 'अपास्तम्' इत्यनेनाऽन्वयः । एतेन' इत्यनेनाभिमतमेव हेतुं दर्शयति-तदप्रच्युताविति-पूर्वदृष्टस्याऽप्रच्युतावित्यर्थः। पूर्वदृष्टावगाहिवर्तमानदर्शनं पूर्वदृष्टाऽप्रच्युतौ प्रमाणमिति 'प्रमाणाभावाद्' इति हेतुरसिद्ध इत्यप्यन्योऽन्याश्रयान्न युक्त इत्याहतदवगाहिदर्शनस्यैवेति-पूर्वदृष्टावगाहिवर्तमानदर्शनस्यैवेत्यर्थः । तत्र पूर्वदृष्टाऽप्रच्युतौ। अन्योऽन्याश्रयमेव सङ्गमयति-पूर्वदृष्टस्येति । तत्प्रामाण्यसिद्धौ च पूर्वदृष्टाप्रच्युतौ वर्तमानदर्शनस्य प्रामाण्यसिद्धौ सत्यां पुनः। पूर्वदृष्टाऽप्रच्युतिसिद्धितो न वर्तमानदृशः प्रामाण्यसिद्धिः किन्तु परिस्फुटप्रतिभासत एवेति नोक्तान्योन्याश्रय इत्याशङ्कय प्रतिक्षिपति-न चेति । निषेधे हेतुमाह-कामेति-कामाभिभूतो जनो
Page #119
--------------------------------------------------------------------------
________________
५८ ]
[तत्त्वबोधिनीविवृतिविभूषितम् प्रतिभासबलादेवेयं वर्तमानदृक् प्रमाणम् , काम-शोकायुपप्लुतविशददृशोऽपि प्रमाणताप्रसक्तेः । न च विसंवादात् साऽप्रमाणम् , इयं तु विपर्ययात् प्रमाणम् , यतः संवाददृशोऽपि पूर्वदृष्टार्थग्राहित्वेन प्रामाण्यं वाच्यं न संवादान्तरेण, अनिष्ठापातात् , पूर्वदृष्टार्थग्राहित्वं च दुर्निरूपम् , पूर्वोत्तरज्ञानयोरेकरूपपरिच्छेदे एकतरपरि
लतामपि कामिनीति साक्षात्करोति, शोकाभिभूतश्च जनो मृतपुत्रादिकं यत्र वचन साक्षात्करोति, तत् साक्षात्कारिदर्शनं च कामिन्यादिपरिस्फुटप्रतिभासीति तत्र प्रमाणतामास्कन्देदित्यर्थः। तयोः प्रामाण्याऽप्रामाण्ययोर्विनिगमकमाशङ्कय प्रतिक्षिपति-न चेति । सा काम शोकाधुपप्लुतविशददृक् । इयं पूर्वदृष्टावगाहिवर्तमानदृक् । विपर्ययात् विसंवादाऽभावात् , संवाददर्शनादिति यावत् । निषेधे हेतुमुपदर्शयति-यत इति । संवाददृशः संवादान्तरेण प्रामाण्याभ्युपगमे किमनिष्टमित्यपेक्षायामाह-अनिष्ठापातादिति-निष्ठा विश्रामः, तदभावोऽनिष्ठा, अनवस्थेति यावत् , तस्या आपातात् प्रसङ्गात् , संवाददृशः प्रामाण्यप्रसाधकं यत् संवादान्तरं तस्याऽपि प्रामाण्यं संबादान्तरेण स्यात् , तस्यापि संवादान्तरस्य प्रामाण्यं संवादा. न्तरेणेत्येवं संवादपरम्पराकल्पनयाऽनवस्थापत्तेरित्यर्थः । भवतु संवाददृशः पूर्वदृष्टार्थग्राहित्वेनैव प्रामाण्यं का नो हानिरित्यत आह-पूर्वदृष्टार्थग्राहित्वं चेति । दुर्निरूपत्वमेव व्यवस्थापयति-पूर्वोत्तरज्ञानयोरिति-पूर्वोत्तरज्ञानयोर्मध्यादेकज्ञानविषयीभूतस्यैकरूपस्य पूर्वरूपस्योत्तररूपस्य वा संवाददृशा परिच्छेदे निश्चय यस्यैव संवाददृशा निर्णयस्तस्यैवैकतरस्य परिशेषात् सद्भावात् तदंश एव वर्तमानदर्शनस्य संवाददृशा प्रामाण्यस्याऽवधृतत्वादित्यर्थः। ननु पूर्वोत्तत्तरशानद्वयावभासिपूर्वोत्तरपरिच्छेदकत्वात् संवाददर्शनस्योयत्रैव वर्तमानदृशः प्रामाण्यनिर्णायकत्वेनोभयरूपव्यवस्थिते कतरपरिशेष
Page #120
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ५९ शेषात् , ज्ञानद्वयावभासिरूपस्य चोभयाऽप्रतिभासे प्रतिसाभात् , अन्यथा सकलातीतज्ञानावभासिरूपप्रतिभासप्रसक्तेः।।
किञ्च, 'यः, सः' इत्याकारयोरन्योन्यानुप्रवेशेन भाने परोक्षाऽपरोक्षरूपमेकं ज्ञानं स्यात् , अन्योन्याजनुप्रवेशेन च भाने प्रतिभासद्वयं परस्परविविक्तमायातमिति प्रतिभासस्याऽपि भेद एवं
इत्यत आह-ज्ञानद्वयावभासिरूपस्य चेति-पूर्वोत्तरशानद्वयावभासिरूपद्वयस्य पुनरित्यर्थः। उभयाऽप्रतिभासे संवाददर्शनकाले एकस्यैव ज्ञानस्य सत्त्वतः संवाददर्शने प्रतिभासः, न ज्ञानद्वयस्येति ज्ञानद्वयप्रतिभासाऽभावे, संवाददर्शने ज्ञानद्वयावभासिरूपस्य अप्रतिभासात् प्रतिभासाऽसम्भवात् । अन्यथा ज्ञानाऽप्रतिभासेऽपि ज्ञानावभासिरूपप्रतिभासाभ्युपगमे। प्रत्यभिज्ञाने 'अयम् , सः' इत्याकारद्वयस्य यदवभासनं तत् किमाकारयोरन्योऽन्यस्वरूपेऽन्योऽन्यस्यानुप्रवेशेन ? अननुप्रवेशेन वा ? आद्य-सः' इति परोक्षस्वरूपानुप्रविष्टतया अयम्' इत्यस्य भानाद् 'अयम्' इत्यंशेऽपरोक्षत्वमिव परोक्षत्वमपि प्रत्यभिज्ञानस्य स्यात् , तथा 'अयम् ' इत्यपरोक्षस्वरूपानुप्रविष्टतया 'सः' इत्यस्य भानात् 'सः' इत्यंशे परोक्षत्वमिवाऽपरोक्ष त्वमपि तस्य स्यादिति परोक्षाऽपरोक्षोभयस्वरूपसङ्कीर्णमेकं ज्ञानं प्रत्यभिज्ञानं प्रसज्येत, अन्योन्यानुप्रवेशादेवांऽशभेदेन तदुभयाऽविरोधोपपादनमपि न सम्भवति, द्वितीये-'अयम्' इति पृथगेव भाति, 'सः' इत्यपि पृथगेवावभासत इति विविक्तप्रतिभासद्वयतस्तच्छालिप्रत्यभिज्ञानमपि ज्ञानद्वयमेव भवेत, नैकं ज्ञानमिति न ततः स्थैर्यप्रसिद्धिरित्याह-किक्षेति । 'यः सः' इति स्थाने 'अयं सः' इति पाठो युक्तः। प्रतिभासद्वयम् 'अयम्' इति प्रतिभासः 'सः' इति प्रतिभास इत्येवं प्रतिभासद्वयम्। परस्परविविक्तम् अन्योऽन्यभिन्नम् । तथा च प्रत्य
Page #121
--------------------------------------------------------------------------
________________
६०]
[ तत्त्वबोधिनीविवृतिविभूषितम् ध्रुवः । न चाऽत्रुट्यदूपतया प्रतिभासात् प्रतिभासस्यैकत्वमेव, यतो विद्युदादिष्वपि पूर्वरूपाप्रतिभासनं यदि त्रुट्यगृत्वमङ्गीक्रियते, तर्हि पूर्वदृष्टाऽप्रतिभासनं वर्तमानदृशः स्तम्भादावस्तीति कथं न त्रुट्यद्रूप एवायं प्रतिभासः स्तम्भादिभेदं विधातुं प्रगल्भताम् । अथ ग्राह्यस्याविरतमुपलब्धिरत्रट्यपता, विद्युदादौ त्ववभासस्य विरतिरित्यत्रुट्यदूपता न युक्तेति चेत्? न-अविरतोपलब्धिरपि किं तस्याहोस्विदन्यस्येति वक्तव्यम् , यद्यन्यस्य कथमेकत्वम् , अथ तस्यैव, सा न सिद्धा, नहि पूर्वदृष्टस्य पुनरुपलब्धिरित्यद्यापि सिद्धम् । भिज्ञानं शानद्वयमेवेति तद्विषययोरपीदमर्थ-तदर्थयोर्भेद एवेत्याह-प्रतिभास्यस्यापीति। 'प्रतिभासस्यापि'इति पाठप्रामाण्ये प्रतिभासस्य प्रत्यभिज्ञानलक्षणस्येति, तद्भेदे तद्विषयभेदोऽर्थादेवेति बोध्यम् । प्रतिभासस्यैकत्वमाशङ्कय प्रतिक्षिपति-नेति । निषेधहेतुमाह-यत इति । 'कथं न' इत्यस्य प्रगल्भताम्'इत्यनेनान्वयः। पूर्वरूपाप्रतिभासनं त्रुट्यद्रूपत्वम् , तदभावोऽत्रट्यद्रूपत्वमित्येव नेष्यते येन पूर्वदृष्टाप्रतिभासनतो वर्तमानदृशस्त्रुट्यद्रूपता स्यान्न त्वत्रुट्यदूपता, किन्तु ग्राहस्य निरन्तरमुपलब्धिरेवाऽत्रुट्यद्रूपतेत्याशङ्कते-अथेति । प्रतिक्षिपतिनेति। तस्य यस्य प्रथममुपलब्धिस्तस्य । अन्यस्य प्रथमोपलब्धाद् भिन्नस्य, अन्यस्याऽविरतोपलब्धिर्नाम प्रतिक्षणं भिन्नभिन्नस्योपलब्धिः, ततः कथं पूर्वोपलव्धस्यैकत्वमित्याह - यद्यन्यस्येति- ‘अविरतोपलब्धिः ' इत्यनुषज्यते। प्रथमपक्षमाशङ्कते-अथ तस्यैवेति-पूर्वोपलब्धस्यैवाऽविरतोपलब्धिरत्रुट्यदूपतेत्यर्थः। समाधत्ते-सा न सिद्धति-पूर्वोपलब्धस्याऽविरतोपलब्धिर्न सिद्धेत्यर्थः। एतदेव स्पष्टयति-नहीति । अन्यदपि परोक्तमुल्लिख्य प्रतिक्षिपति-यदपीति । यद्विषयको व्यवसायो भवति तद्विषयकस्य निर्विकल्पस्याऽवश्यम्भाव इति नियमे सत्येव 'पूर्वदृष्टं पश्यामि' इति व्यवसायबलात् पूर्वापरैकत्वविष
Page #122
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
__यदपि 'पूर्वदृष्टं पश्यामि 'झंडे यवसाय लामिविकल्पक दर्शनं पूर्वापरैकत्वग्राहीत्यभ्युपगम्यते, तदप्ययुक्तम्-व्यवसायमा-- त्रानुसारेण ग्राहकदर्शनाऽव्यवस्थापनात् , प्रतिभासानुसारेणैव व्यवसायव्यवस्थापनात् , अन्यथाऽश्वविकल्पनसमये गोदर्शनाभ्युपगमानुपपत्तेः, प्रतिभासश्च निरस्तपूर्वापरभावो वर्तमानाऽऽरूढ एव परिस्फुटः । न च पूर्वापरदर्शनप्रतिभासिस्वरूपद्वयव्यतिरिक्तं यकनिर्विकल्पकदर्शनलक्षणप्रत्यभिज्ञानप्रसिद्धौ ततः पूर्वापरैकत्वं सिध्येत् , उक्तनियमे प्रमाणाभावात् तु व्यवसायसद्भावेऽपि ततस्तद्विषयग्राहिनिर्विकल्पकाऽसिद्धया ततो व्यवसायव्यवस्थापनं न सम्भवति, किन्तु यत् प्रतिभासते तद्विषयो व्यवसाय इति 'पूर्वदृष्टं पश्यामि ' इति व्यवसायतः पूर्वापरैकत्वग्राहि निर्विकल्पकदर्शनलक्षणप्रत्यभिज्ञानाऽसिद्धया न ततः पूर्वापरैकत्वसिद्धिरित्याह-व्यवसायमात्रानुसारेणेति। अन्यथा व्यवसायमात्रानुसारेण ग्राहकदर्शनव्यपस्थापने। अश्वविकल्पनसमय इति-अश्वविकल्पनसमयेऽश्वाध्यवसाय एव, न गवाध्यवसाय इत्यश्वाध्यवसायानुसारेणाश्वनिर्विकल्पकस्य तदानीमभ्युपगमः स्यात् , अभ्युपगम्यते च तदानीं गोविषयकनिर्विकल्पकदर्शनम् , ततोऽश्वविकल्पकालेऽश्वदर्शनाभावेऽपि तत्राश्वप्रतिभासादश्वव्यवसाय इति व्यवस्था । भवतु प्रतिभासबलाद् व्यवसायव्यवस्था ततः पूर्वापरप्रतिभासात् पूर्वापरकत्वग्राहि ज्ञानमित्यत आह-प्रतिभासश्चेति-दर्शने वर्तमानमात्रस्यैव परिस्फुटः प्रतिभासो न पूर्वापरभावस्येत्यर्थः। तथा च पूर्वदर्शने पूर्वरूपं प्रतिभासत इति पूर्वरूपग्राहित्वं तस्य, यदि पूर्वापररूपानुगतं किञ्चिदेकं नीलादि प्रतिभासेत तदा प्रतिभासबलात् तद्विषयत्वं दर्शनस्य भवेत् , न च तथाविधं किञ्चित् तत्र प्रतिभासत इत्याह-न चेति-अस्य 'नीलादि' इत्यत्राऽन्वयः,
Page #123
--------------------------------------------------------------------------
________________
। ६२ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् नीलादि यदुभयत्रैकं भासेतेत्यप्रतिभासमाने नित्यत्वासाधने न कापि क्षतिः, प्रतिभासस्यैवानित्यत्वसाधनानाध्यवसायवशादध्यक्षग्रहणव्यवस्थेत्येके । अपरे तु मन्यन्ते-यद्यपि नीलाध्यवसा. यानीलदर्शनस्य तद्ग्राहकत्वं व्यवस्थाप्यते तथापि लून-पुनर्जातकेशादिषु 'पूर्वदृष्टं पश्यामि' इत्यध्यवसायाद् व्यभिचारेण न तस्य तद्रूपार्थग्राह्यनुभवव्यवस्थापकत्वम्, न च, विच्छेदाभिहस्तत्र तथा च यत् प्रतिभासते तत् प्रतिक्षणं विलक्षणमेवेति न तस्य नित्यत्वं सम्भवति, यन्न प्रतिभासते तस्यैव नित्यत्वसाधनं यदि क्रियते तदा प्रतिभासमानेऽनित्यत्वसाधनस्याऽस्मदभिमतस्य न तेन बाध इत्याह-अप्रतिभासमान इति । ' प्रतिभासस्यैव ' इति स्थाने 'प्रतिभासमानस्य' इति पाठो युक्तः, प्रतिभासपदं प्रतिभासमानपरं वा। कस्यचिदध्यवसायस्य स्वानुरूपदर्शनप्रभवत्वमिति तादृशब्यवसायेन स्वविषयग्राहकदर्शनव्यवस्था भवति, कश्चित् तु व्यवसायो दोषप्रभवो दर्शनमन्तरेणापि भवतीति व्यभिचारेण तादृशव्यवसायेन स्वविषयग्राहकदर्शनव्यवस्था न भवतीति लूनपुनर्जातकेशादिषु 'पूर्वदृष्टं पश्यामि' इति व्यवसायाद् व्यभिचारेण तादृशव्यवसायस्य न पूर्वापरदृष्टैकत्वग्राहिदर्शवव्यवस्थापकत्वमित्यपरेषां मतमुपदर्शयति-अपरे तु मन्यन्त इति। व्यभिचारेण तत्र पूर्वदृष्टकेशादीनां विनष्टत्वेन पुनर्जातकेशादीनामभिनवानां पूर्वदृष्टत्वाऽ भावेन पूर्वदृष्टविषयकदर्शनाभावेऽपि 'पूर्वदृष्टं पश्यामि' इति व्यवसायस्य जायमानत्वतस्तदभावे तद्भावलक्षणव्यतिरेकव्यभिचारेण। तस्य 'पूर्वदृष्टं पश्यामि' इति व्यवसायस्या ननु भेदग्रहणस्याऽभेदग्रहणप्रतिबन्धकत्वमिति तत्र पूर्वदृष्टकेशादीनां विनाशदर्शनत: 'पूर्वकेशादयो विनष्टा अभिनवाः केशादय उत्पन्ना' इत्येवं विच्छेदज्ञानवद्भिर्भेदग्रहणात् तद्रूपप्रतिबन्धकेन प्रतिबन्धादभेदग्राहि दर्शनं मा
Page #124
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[६३ मेदग्रहणान्मा भूदभेदग्राहिताऽनुभवस्य, अत्र तु नैवमिति वैषम्यमिति वाच्यम् , अवगतविच्छेदानामपि प्रमातृणां समानवर्णसंस्थानप्रमाणेषु केशादिषु तदन्येषामिव प्रत्यक्षेण भेदनिश्चयाऽभावात् , आनुमानिकभेदनिश्चयस्य चात्राऽपि साम्यात् , न च विकल्पवशादनुभवस्य विषयव्यवस्था सङ्गच्छते, अन्यथाऽपि विकल्पसम्भवात् शङ्कानिवृत्तेः, न च बाधकप्रमाणाभावाच्छङ्काऽ
नाम जायताम् ,पूर्वदृष्टं घटं पश्यामि' इति व्यवसायस्थले तु पूर्वदृष्टघटादिविनाशाऽदर्शनाद् विच्छेदानुभवतो मेदग्रहणाऽभावादभेददर्शनं भविष्यतीत्याशङ्कय प्रतिक्षिपति-न चेति-अस्य 'वाच्यम्' इत्यनेन सम्बन्धः। तत्र लून-पुनर्जातकेशादिस्थले । अत्र तु :पूर्वोत्तरकालविद्यमानघटादिस्थले पुनः। नैवं भेदग्रहणतोऽभेदग्राहिदर्शनप्रतिबन्धो नेति । ये पूर्वदृष्टकेशादीनां विनाशदर्शनतस्तेषां विच्छेदमवगतवन्तस्तेषामपि प्रमातृणां विच्छेदानभिज्ञानामिव प्रत्यक्षेण भेदनिश्चयस्तत्र न भवत्येवेति न तत्राप्यभेददर्शनप्रतिबन्धसम्भवः, अनुमानतस्तु यदि विच्छेदाभिज्ञानां तत्र भेदनिश्चयस्तेन चामेददर्शनप्रतिबन्धस्तहि सत्त्वादिना क्षणिकत्वानुमानतो घटादावपि पूर्वापरयोर्मेदनिश्चयसम्भवेन तेन प्रतिबन्धादभेददर्शनाsसम्भव इत्याह-अवगतविच्छेदानामपीति । तदन्येषामिव अवगतविच्छेदप्रमातृभिन्नानामिवानवगतविच्छेदानामिवेति यावत् । 'न च' इत्यस्य 'सङ्गच्छते' इत्यनेनाऽन्वयः। अन्यथापि यादृशविषयप्रतिभासनं ताग्विषयमन्तरापि । शङ्काऽनिवृत्तेः किं स्वप्रतिभास्यविषयसद्भावत एवायं विकल्पः ? तदभावे वा? इति संशयाऽनिवृत्तेः। ननु स्वप्रतिभास्यविषयबाधकप्रमाणाऽभावादुक्तशङ्काऽभाव इत्याशङ्कय प्रतिक्षिपति-न चेति । बाधकप्रमाणे सति विपरीतकोटिनिर्णयो
Page #125
--------------------------------------------------------------------------
________________
६४]
[ तत्त्वबोधिनीविवृतिविभूषितम् मावः, बाधकप्रमाणस्य विपर्ययोपस्थापन एव सामर्थ्यात्, शङ्कायाः कोटिद्वयोपस्थिति विशेषाऽदर्शनमूलत्वात् । तन्नैकत्वाध्यवसायिविकल्पबलानिर्विकल्पप्रत्यभिज्ञाकल्पनं युक्तिमत् ।।
यदपि कैश्चिदुच्यते 'निर्विकल्पकं ज्ञानमेकत्वग्राहि, तदनन्तरभाविसविकल्पकं च प्रमाणम्' इति, तदपि प्रतिविहितमेव-निर्विक
भवतीति तदभावे विपरीतकोटिनिर्णयो मा भवतु नाम, कोटिद्वयोपस्थितिविशेषाऽदर्शनादीनां । संशयकारकाणां सद्भावाच्छङ्का तु स्यादेवेति प्रतिषेधहेतुमुपदर्शयति-बाधकप्रमाणस्येति । निर्विकल्पप्रत्यभिज्ञानखण्डनमुपसंहरति-तन्नति - नो 'युक्तिमद् इत्यनेनाऽन्वयः। एकत्वग्राहिनिर्विकल्पकप्रभवं सविकल्पकं पूर्वापरैकत्वे प्रमाणमिति केषाश्चिन्मतम् , तस्योपदर्शनपुरस्सरं प्रतिक्षेपमावेदयति यदपीति । तदन्तरभावीति-एक्रत्वग्राहिनिर्विकल्पकानन्तरभावीत्यर्थः। पूर्वापरैकत्वग्राहकत्वमेव निर्विकल्पकस्याऽसिद्धम् , संनिहितस्वरूपपरिच्छेदलक्षणस्य तस्याऽसन्निहिते पूर्वग्रहणविषयादावप्रवृत्तेः, स्मृतिरेव चाऽसन्निहितमवभासयितुं प्रभवति, तत एव च विस्मृतं प्राग्दृष्टमपि न प्रत्यभिजानाति, स्मृतिविक लेन्द्रियजमानस्यैव निर्विकल्पकत्वेन स्मृतिसहकृतादिन्द्रियादेकत्वग्राहिनिर्विकल्पकोत्पत्तेर्वक्तुमशक्यत्वात् , 'सोऽयम्' इत्यादिस्वरूपं सविकल्पकं ज्ञानमनुभूयमानं यद्यपि नापलपितुं शक्यं तथाप्यसद्भूततत्ताविषयकत्वेन भ्रान्तत्वादेव तनैकत्वे प्रमाणम् , न च तत्ता सद्भूता, तथा सति पूर्वदर्शनेऽपि विद्यमाना साऽवभासेत, केवलाया इन्द्रियजदृशस्तत्त्वग्रहणेऽसामर्थ्येऽपि स्मृतिसहितायास्तस्यास्तत्र सामर्थ्यमिति कल्पनमपि दुष्कल्पनमेव, स्वाविषये तत्त्वे कथमपि दृशः प्रवृत्तेरेवाऽसम्भवे तत्र स्मृतिसहायस्याऽकिञ्चित्करत्वात् , अविषयेऽपि स्मृतिसहायत इन्द्रियजदृशः प्रवृत्ते
Page #126
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[६५ ल्पकेनैकत्वाऽपरिच्छेदात् , स्वरूपप्रतिभासस्य निर्विकल्पकलक्षणत्वात् , स्वरूपस्य च सन्निहितस्यैव भानात् , असन्निहिते च स्मृतेरेव प्रवृत्तेः, विस्मृतस्य प्राग्दृष्टस्याप्यप्रत्यभिज्ञानात् , स्मृतिविकलेन्द्रियजप्रतिभासस्य च निर्विकल्पकत्वात् । सविकल्पकप्रत्यभिज्ञानमपि भ्रान्तमेव, असद्भूततत्ताविषयत्वात् , तस्याः सद्भूतत्वे प्रथमदर्शनेऽपि भानप्रसङ्गात् । न च स्मृतिसहिताया दृशस्तत्वे व्यापारादयमदोषः, अविषये स्मृतिसाहित्यस्याप्यप्रयोजकत्वात् , अन्यथोत्पलचाक्षुषं गन्धस्मृतिसहायं गन्धमपि गृह्णीयात् । यद्येवं कथमक्षव्यापारानन्तरं प्रत्यभिज्ञोदयः ? इति चेत् ? पुरोव्यवस्थितदर्शने पूर्वदृष्टे स्मृतेरुदयात् , दूरव्यवस्थितचन्दनाद्यर्थदर्शनाद् गन्धस्मृतेः
रुपगमे तु उत्पलादिचाक्षुषस्याऽपि गन्धस्मृतिसहायस्य गन्धग्रहणे प्रवृत्तिरापद्यतेत्याह-निर्विकल्पकेनेति । असन्निहिते स्मृतेरेव प्रवृत्तिरिति कुतोऽवधारितमायुष्मतेत्यपेक्षायामाह-विस्मृतस्येति । तस्याः तत्तायाः, अन्यत् स्पष्टम् । यद्यक्षजज्ञानस्य नासन्निहिते व्यापारस्तदाऽक्षजव्यापारानन्तरं प्रत्यभिज्ञोदयः कथं भवेदिति पृच्छतियद्येवमिति । तत्र 'अयम्' इति प्रत्यक्षम् , तस्मिन् सति 'सः' इति स्मरणम्, इति ज्ञानद्वयमेव भिन्नविषयकम् , न तु पूर्वापरैकत्वग्राह्येकं ज्ञानं प्रत्यभिज्ञानलक्षणम् , तादृशज्ञानद्वयादेव तथाऽभिलापः, यथा चन्दनदर्शन-गन्धस्मरणाभ्यां 'सुरभि चन्दनम्' इति प्रतिपत्तिः, न तु चक्षुरिन्द्रियजन्यं 'सुरभि चन्दनम्' इत्येकं ज्ञानमित्युत्तरयति–पुर इति-पुरोऽग्रे व्यवस्थितस्य वर्तमानस्य सन्निहितस्य वस्तुनो दर्शने सति तल्लक्षणोद्बोधकबलात् पूर्वदृष्टे वस्तुनि स्मृतेः स्मरणस्योदयादित्यर्थः । यदि च 'सुरभि चन्दनम्' इति ज्ञानस्य चक्षुरविषयगन्धावगाहित्वाच्चाक्षुषत्वासम्भवे चन्दनगतरूपलक्षणलिङ्गज्ञानजत्वादनुमितिरूपत्वमुपेयते तर्हि इदमर्थस्य
Page #127
--------------------------------------------------------------------------
________________
६६]
[ तत्त्वबोधिनीविवृतिविभूषितम् 'सुरभि चन्दनम्' इति प्रतिपत्तिवत् । लोचनाविषयत्वाद् गन्धस्य तद्विशिष्टचन्दनप्रतिपत्तिस्तद्गतरूपदर्शनालिङ्गप्रभवेति चेत् ? प्रकृ. तेऽपि वर्तमानदर्शनात् पूर्वकालाधनुस्मरणात् तद्विशिष्टपुरोव्यवस्थितार्थप्रतिपत्तिरानुमानिकीति तुल्यम् । किञ्च, 'सोऽयम्' इति पूर्वदृष्टार्थस्मृति-वर्तमानदृशोर्भेदाग्रहादेव व्यवहारः अन्यथा परोक्षाऽपरोक्षाकारैकज्ञानविरोधात् , 'सः' इत्युल्लेखे स्मृतेरेव 'अयम्'
पुरोवर्तिनो दर्शने सति पूर्वकालादेः स्मरणे च तदात्मकलिङ्गज्ञानात् तत्ताविशिष्टपुरोव्यवस्थितार्थज्ञानमप्यनुमितिरूपमेवास्तु, न प्रत्यक्षमित्याह-लोचनाऽविषयत्वादिति । तद्विशिष्टेति-गन्धविशिष्टेत्यर्थः । तद्गतेति-चन्दनगतेत्यर्थः। प्रकृतेऽपि 'सोऽयम्' इत्यादावपि । तद्विशिष्टेति-पूर्वकालादिविशिष्टेत्यर्थः। 'सोऽयम्' इति व्यवहारमात्रं न त्वेकं पूर्वापरत्वैकत्वविषयकं ज्ञानम् , तथा व्यवहारे च पूर्वदृष्टार्थस्मरण-वर्तमानार्थदर्शनयोर्भेदाऽग्रह एव निबन्धनमित्याह किञ्चति । अन्यथा स्मृति-दर्शनयोर्भेदाऽग्रहात् तादृशव्यवहारस्यानभ्युपगमे, 'सोऽयम्' इत्याकारद्वयशाल्येकं ज्ञानं न सम्भवति 'सः' इति परोक्षाकारस्य 'अयम्' इत्यपरोक्षाकारस्य विरोधेनैकस्मिन् ज्ञाने निरुक्ताकारद्वयस्याऽसम्भवादित्याह-परोक्षेति। सोऽयम्' इत्यत्र 'सः' इत्युल्लेखः स्मृतिप्रभवः, 'अयम्' इत्युल्लेखश्च दर्शनप्रभवः, ताभ्यामेवोक्तव्यवहारस्य निर्वाहे न ज्ञानान्तरकल्पनं युक्तम् , तथाविधस्य तथाविधोल्लेखकारणतथाऽक्लप्तत्वात् 'सः' इत्युल्लेखं प्रति स्मृतेरेव, 'अयम्' इत्युल्लेखे च दर्शनस्यैव हेतुत्वेन क्लृप्तत्वादित्याह-स इत्युल्लेख इति । तत्तेदन्तयोरभिन्नत्वात् संस्कारप्रभवतज्ज्ञाने तत्तायाः 'सः' इत्युल्लेखः, प्रात्यक्षिकतज्ज्ञाने चेदन्तारूपायास्तस्या एव 'अयम्' इत्युल्लेखः, यत्र च स्मृतिकारण-दर्शनकारणोभयसमवधानं तत्रोभयहेतुसमाजात् 'सोऽयम्' इति प्रत्यभिज्ञाकारोपपत्ति
Page #128
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[६७ इत्युल्लेखे च दर्शनस्यैव हेतुत्वात् । न च तत्तैवेदन्ता, संस्कारजन्यतज्ज्ञाने 'स: इत्यभिलापः, प्रात्यक्षिकतज्ज्ञाने च 'अयम्' इति, उभयहेतुसमाजात् 'सोऽयम्' इति प्रत्यभिज्ञाकारोपपत्तिरिति भवानन्दादिकृतसमाधानमपि युक्तम्, 'सोऽयम्' इत्याकारयोः परस्परानुप्रवेशप्रसङ्गात् , तथा च कदाचित् 'सः' इत्येवोल्लिख्येत, कदाचिच्च ‘अयम्' इत्येव, न तु 'सोऽयम्' इति नियतोल्लेखः स्यात् , प्रत्यभिज्ञाया उभयाकारावगाहित्वनिय
स्तत्तदन्तयोरेकत्वेऽपीति भवानन्दादिकृतसमाधानमाशङ्कय प्रतिक्षिपति-न चेति-अस्य युक्तम्' इत्यनेनान्वयः । यदि च तत्तैवेदन्ता तदा तत्ताया इवेदन्ताया अपि 'सः' इत्याकारः, एवमिदन्ताया इव तत्ताया अपि 'अयम्' इत्याकार इति तयोराकारयोरुल्लिख्यमानैकोल्लेखत्वेन परस्परानुप्रवेशप्रसङ्गतः कदाचित् 'सः' इत्युल्लेखमात्रत एव तत्ताया इदन्तायाश्चावगतिः, कदाचिद् 'अयम्' इत्युल्लेखत एव तयोरवगतिरिति । 'सोऽयम्' इत्यनयोरन्यतरत एवोल्लिख्यमानतयाऽभिमतयोस्तत्त्वेदन्त्वयोरवगतिसम्भवे यत् तत्तायाः प्रतिपत्तये 'सः' इति, इदन्तायाः प्रतिपत्तये 'अयम्' इति कृत्वा प्रत्यभिज्ञायां 'सोऽयम्' इति नियतोल्लेखः स न स्यादित्याह–सोऽयमित्याकारयोरिति । यद्यपि तत्तैवेदन्ता तथापि प्रत्यभिज्ञाया उभयाकारावगाहित्वनियमतस्तत्र 'सोऽयम' इत्यभयाकारोल्लेखनियम इत्याशङ्कते-प्रत्यभिज्ञाया इति । तत्तेदन्तयोरेकत्वे 'सः' इत्यनेन यो विषय उल्लिख्यते तदन्यविषयकत्वं नास्ति 'अयम्' इत्युल्लेखस्य, एवम् 'अयम्' इत्यनेन यो विषय उल्लिख्यते तदन्यविषयकत्वं नास्ति 'सः' इत्युल्लेखस्य, अथापि विषयविशेषं विना 'सोऽयम्' इत्याकारद्वयशालिनी धीस्तथाव्यवहारश्चेति ज्ञान-व्यवहारविशेषस्याऽऽकारविशेषत एव
Page #129
--------------------------------------------------------------------------
________________
६८]
[तत्त्वबोधिनीविवृतिविभूषितम् मादुभयोल्लेखनियम इति चेत् ? तर्हि विषयविशेषं विना धीव्यवहारविशेषाभ्युपगमे साकारज्ञानवादप्रसङ्ग इति यत् किश्चिदेतत् ।
एतेन ‘स एवाऽयमिति व्यवहारैकत्वादेकत्वम्' इत्यपास्तम् , यतो व्यवहारो ज्ञानम् ? अभिधानम् ? प्रवृत्तिर्वा ? यदि ज्ञानं, तर्हि तद् निर्विकल्पकम् ? स्मृतिः ? कल्पना वा? यदि निर्विकल्पकं, तत् पूर्वापरकालभाविभिन्नमेव, एककालमपि पूर्वापरार्थप्रतिभासभेदाद् भिन्नम् , अथ स्मृतिः साऽपि दर्शनाद् भिन्ना सम्भवो न विषयविशेषत इति साकारविज्ञानवादप्रसङ्ग इत्याह-- तहीति । एतेन' इत्यस्य 'अपास्तम्' इत्यनेनान्वयः । 'एतेन' इत्यनेनाभिमतमेव हेतुमुपदर्शयति-यत इति । यदि ज्ञानं 'सोऽयम्' इति व्यवहारो यदि ज्ञानस्वरूप इष्यते । तत् 'सोऽयम्' इति ज्ञानम् । तद् निर्विकल्पकं ज्ञानम् । पूर्वकालभावि निर्विकल्पकमन्यत् 'सः' इत्येवं रूपम् , अपरकालभावि निर्विकल्पकमन्यत् 'अयम्' इत्येवंरूपमिति निर्विकल्पकं ज्ञानं भिन्नमेव, तथा च तद्रूपव्यवहारस्यैकत्वाभावात् कथं तदेकत्वादेकत्वमित्याह-पूर्वापरेति । यदि च 'सः' इत्याकारकम् 'अयम्' इत्याकारकं च निर्विकल्पकमेककालमेव, तदाऽपि 'सः' इत्याकारकनिर्विकल्पके पूर्वार्थस्य प्रतिभासः, 'अयम्' इत्याकारकनिर्विकल्पके च वर्तमानार्थप्रतिभास इत्येवं प्रतिभासभेदाद् भिन्नमेव निर्विकल्पकद्वयम् , न तु 'सोऽयम्' इत्येकं तत् तथाऽपि न तदात्मकव्यवहारस्यैकत्वमित्याह-एककालमपीति । 'सोऽयम्' इति स्मृत्यात्मकव्यवहारैकत्वात् । ‘सोऽयम्' इति दर्शनस्यैकत्वमिति ज्ञानरूपव्यवहारपक्षस्य द्वितीयविकल्पमधिकरोति-अथ स्मृतिरिति । 'सोऽयम्'इति स्मृतिर्दर्शनाद् भिन्नति तस्या एकत्वाद् दर्शनस्य तद्भिन्नस्यैकत्वं न सम्भवतीत्याह-साऽपीति-स्मृतिरपीत्यर्थः। तदेकत्वं दर्शनैकत्वम् ।
Page #130
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ].
[६९ कथं तदेकत्वं साधयेत् ?, न चोभयदर्शनविषविषयकत्वात् तदर्थैकत्वमेव स्मृत्या साध्यत इत्यभिप्रेतम् , मिथोऽननुप्रविष्टाकारभेदावगाहिन्यास्तस्यास्तदसाधकत्वात्। न च कल्पनाप्येकास्ति, 'सः' इति, 'अयम्' इति च कल्पनाभेदाता अभिधानमपि 'सः' इति,
ननु यत् पूर्वदर्शनं यच्चेदानीन्तनदर्शनं तदुभयविषयविषयिका या स्मृतिस्तया दर्शनद्वयविषयीभूतार्थस्यैकत्वमेव साध्यते, न तु दर्शनस्यैकत्वम् , तावताप्यभिलषितं पूर्वापरैकत्वं स्थैर्यपर्यवसायि सिद्धं भवतीत्याशक्य प्रतिक्षिपति-न चेति । तदर्थैकत्वमेव दर्शनद्वयविषयैकत्वमेव; एवकारेण दर्शनैकत्वसाधनव्यवच्छेदः । भवतु दर्शनद्वयविषयविषयिणी स्मृतिः, परं प्रथमदर्शनविषयं 'सः' इत्याकारेणावगाहते, अपरदर्शनविषयं च 'अयम्' इत्याकारणावगाहते, आकारद्वयं च परस्पराननुप्रविष्टमेव स्मृतिविषय इति परस्पराननुप्रतिष्टाकारभेदावगाहिन्यास्तस्याः स्मृतेर्दर्शनद्वयविषयार्थैकत्वाऽसाधकत्वादिति निषेधहेतुमुपदर्शयति-मिथोऽननुप्रविष्टेति । तस्या स्मृतेः । तदसाधकत्वात् दर्शनद्वयार्थैकत्वासाधकत्वात् । ज्ञानरूपव्यवहारपक्षस्य 'सोऽयम्' इति कल्पनाज्ञानरूपव्यवहारैकत्वाद् दर्शनकत्वमिति तृतीयविकल्पं प्रतिक्षिपति-न च कल्पनाऽप्येकास्तीति । 'सोऽयम्' इत्यत्र 'सः' इत्येका कल्पना, 'अयम्' इति च द्वितीया कल्पनेत्येवं कल्पनाभेदात् कल्पनैकत्वासम्भवादित्याहस इतीति । 'सोऽयम्' इत्यभिधानरूपव्यवहारैकत्वाद् दर्शनस्यैकत्वमिति द्वितीयपक्षं दूषयति-अभिधानमपीति-'सः' इत्येकमभिधानम् 'अयम्' इति द्वितीयाभिधानमित्येवमभिधानं स्वरूपतो भिन्नम् , तथा 'सः' इत्यभिधानं तत्ताविशिष्टार्थकम् 'अयम्' इत्यभिधानमिदन्ताविशिष्टार्थकमिति भिन्नार्थ च प्रतिभातीति स्वरूपतोऽर्थतश्चैकोक्ताभिधानस्यैकत्वाभावान्न ततोऽपि दर्शनैकत्वसिद्धिरित्यर्थः । स्वरूपत एकत्वाभावेऽप्यर्थतो निरुक्ताभिधानद्वयस्यै
Page #131
--------------------------------------------------------------------------
________________
७०]
[ तत्त्वबोधिनीविवृतिविभूषितम् 'अयम्' इति च भिन्न भिन्नार्थं च प्रतिभाति, एकार्थत्वे पर्यायताप्रसक्तः, तत्तेदन्ताख्याखण्डोपाधिरूपशक्यतावच्छेदकमेदाद् द्रव्यघटपदयोरिव न पर्यायत्वमिति चेत् ? न-अन्यूनानतिरिक्ततयैकार्थ
कत्वम् , ततश्च दशनैकत्वसिद्धिः स्यादित्यत आह—एकार्थत्व इति-'सः' इति 'अयम्' इत्यभिधानयोरेकाभिधेयकत्वे इत्यर्थः। पर्यायतापत्तेरितिएकार्थानां घट-कलश-कुम्भादीनां यथा पर्यायत्वं तदाऽनयोरप्येकार्थत्वे पर्यायत्वं स्यात् , तथा च घटरूपार्थप्रतिपत्तये यदा घटशब्दः प्रयुज्यते न तदानीं तदर्थाधिगतये तत्सन्निधौ कुम्भादि' शब्दाः प्रयुज्यन्ते, एवं 'सः' इत्यस्य प्रयोगे तत्सन्निधौ ‘अयम्' इत्यस्य प्रयोगो न भवेदिति 'सोऽयम्' इत्यभिधानलक्षणस्य व्यवहारस्यानुपपत्तिरित्याशयः । एकप्रवृत्तिनिमित्तकत्वे सत्येकार्थवृत्तित्वं पदानां पर्यायत्वम् , तच्च 'सोऽयम्' इति शब्दयो स्ति, 'सः' इत्यस्य तत्तारूपप्रवृत्तिनिमित्तकत्वम् , 'अयम्' इत्यस्य चेदन्तारूपप्रवृत्तिनिमित्तकत्वमिति शक्यतावच्छेदकभेदाद् द्रव्यपद-घटपदयोघंटात्मकद्रव्यलक्षणैकार्थकत्वेऽपि द्रव्यत्व-घटत्वरूपशक्यतावच्छेकभेदाद् यथा न पर्यायत्वं तथा न पर्यायत्वमिति शङ्कतेतत्तेदन्ताख्येति । अन्यूनाऽनतिरिक्तार्थवृत्तित्वमेव पर्यायत्वम् , द्रव्यपदमधिकार्थवृत्तिकं घटपदात्, घटपदं न्यूनार्थवृत्तिकं द्रव्यपदादित्यन्यूनानतिरिक्तार्थवृत्तित्वं द्रव्यपद-घटपदयोरिति न तयोः पर्यायत्वम् , 'सः' इति 'अयम्' इति पदयोश्च प्रवृत्तिनिमित्तभेदेऽप्यर्थ एक एवेत्यन्यूनाऽनतिरिक्तार्थवृत्तित्वं तयोरिति पर्यायत्वं प्रसज्यत एवेति समाधत्ते-नेति । यदि चैकशक्यतावच्छेदकत्वे सति एकार्थवृत्तित्वमेव पर्यायत्वं तर्हि कम्बुग्रीवादिमत्पद-घटपदयोरपि पर्यायत्वं न स्यात् कम्वुग्रीवादिमत्पदस्य कम्बुग्रीवादिमत्त्वं सखण्डोपाधिरूपं शक्यतावच्छेदकम् , घटपदस्य च घटत्वं सामान्यं शक्यतावच्छेदकमित्येवं शक्यतावच्छेदकभेदादित्याह
Page #132
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[७१ वृत्तित्वेन पर्यायत्वाऽप्रच्यवात् , अन्यथा कम्बुग्रीवादिमद्-घटपदयोरपि पर्यायत्वाऽनानत्तेः, प्रवृत्तिस्तु क्रियारूपत्वात् पूर्वापरभाविनि भिन्नैवेति कुतो व्यवहारकत्वादप्येकत्वम् ? तेन निर्विकल्प कस्य सविकल्पकस्य वा प्रत्यभिज्ञानस्य प्रामाण्याऽसिद्धेर्न प्रत्यक्षविरोधमनुभवन्ति क्षणिकवादिनः।।
यच्च ‘विनाशस्य सहेतुकत्वात् तद्धत्वभावादेव कियत्कालं स्थैर्यम्' इत्युक्तम् , तदप्यसत्-विनाशस्य सहेतुकताया एवाऽसिद्धा, तथा हि-इन्धनादीनामग्निसंयोगावस्थायां त्रितयमुपलभ्यते-तदेवेन्धनादि, कश्चिद् विकारोऽङ्गारादिः तुच्छरूपश्चाऽभावः कल्पनाज्ञानप्रतिभासी, तत्राऽग्न्यादीनां क व्यापार इति वक्तव्यम् , न तावदिन्धनादिजन्मनि, स्वहेतुत एव तेषामुत्पत्तेः, नाप्यङ्गरादौ,
अन्यथेति । प्रवृत्तिर्व्यवहार इति तस्या एकत्वाद् दर्शनस्यैकत्वमिति तृतीयपक्षोऽपि न समीचीन इत्याह-प्रवृत्तिस्त्विति । तथा चोक्तदिशा निर्विकल्पकरूपस्य सविल्पकरूपस्य वा प्रत्यभिज्ञानस्य प्रामाण्याऽसिद्धर्न प्रत्यभिज्ञाप्रत्यक्षप्रमाणबाधः क्षणिकवाद्युपगतक्षणक्षयानुमानस्येत्यनुमानप्रमाणतः सिध्यति क्षणिकत्वमित्युपसंहरतितेनेति । विनाशस्य सहेतुकत्वाद् हेतुविलम्बाद् विनाशविलम्बे यावन्न विनाशस्तावत्कालं प्रतियोगिनः सत्त्वमिति कियत्कालस्थायित्वलक्षणं स्थैर्य भावस्येत्यभिप्रायकं स्थैर्यवादिना यदुक्तं प्रार वचनं तदपि न समीचीनमित्याह-यच्चेति । तद्धत्वभावात् कियत्कालविनाशहेत्वसन्निधेः विनाशस्य सहेतुकत्वासिद्धिमेव भावयति-तथाहीति । तत्र तदानीमुपलभ्यमानत्रितयमध्ये । इन्धनादिजन्मन्यग्न्यादीनां व्यापार इति तावन्न सम्भवतीत्याह-न तावदिति । तेषाम् इन्धनादीनाम् । अङ्गारादिजन्मनि अग्न्यादिव्यापार इत्यस्मा
Page #133
--------------------------------------------------------------------------
________________
७२]
[ तत्त्वबोधिनीविवृतिविभूषितम् विवादाभावात् , किन्त्वन्यादिभ्योऽङ्गाराद्युत्पत्ताविन्धनादेरनिवृत्तत्वात् तथैवोपलब्ध्यादिप्रसङ्गः, न चाङ्गारादिभ्यः काष्ठादे शानायं दोषः ततो वस्तुरूपाऽपरध्वंसोपगमेऽपि काष्ठादेस्तदवस्थत्वात् , काष्ठनाशोपलब्धेः काष्ठोपलब्धप्रतिबन्धकत्वात् तदनुपलब्धिरिति चेत् ? न-अतिरिक्तकाष्ठनाशस्यैवानुपलब्धेः, तदिदमुच्यते
भिरभ्युपेयत एवेति न ततः स्थैर्यवाद्यभिलषितार्थसिद्धिरित्याहनाप्यङ्गारादिजन्मनीति । एवमेवाभ्युपगमे स्थैर्यवादिनोऽन्योऽपि कश्चिद् दोष आपततीति पृच्छति-किन्त्विति । उत्तरयति-अन्यादिभ्य इति-अङ्गाराद्युत्पत्तावपीन्धनादीनां पूर्वावस्थातो वैलक्षण्यं न किमपि जातमिति पूर्ववदिन्धनाद्युपलब्ध्यादिप्रसङ्ग इत्यर्थः । ननु अन्यादिभ्योऽङ्गारादय उत्पद्यन्ते, तेभ्यश्च काष्ठादे शो भवतीति न काष्ठादीनां पूर्ववदुपलब्ध्यादिप्रसङ्ग इत्याशङ्कां प्रतिक्षिपति-न चेति । अङ्गारादिभ्यो वस्तुरूपातिरिक्तनाशोपगमेऽपि यथाऽन्यवस्तुभावे न काष्ठादीनां किमपि भवति तथैव वस्तुरूपव्यतिरिक्तनाशभावेऽपि पूर्ववत् काष्ठादेरवस्थितत्वादुपलब्ध्यादिप्रसङ्ग इत्याह - तत इति । काष्ठनाशोपलब्धिरेव काष्ठोपलब्धिप्रतिबन्धिकेति तदभावरूपकारणाऽभावान काष्ठोपलब्धिप्रसङ्ग इत्याशङ्कते-काष्ठनाशोपलब्धेरिति । तदनुपलब्धिः काष्ठोपलब्ध्यभावः । यद्यतिरिक्तकाष्ठनाशोपलब्धिर्भवेत् तर्हि शक्येताऽपि तस्याः काष्ठोपलब्धिप्रतिबन्धकत्वं वक्तुम् , परमतिरिक्तकाष्ठनाशस्योपलब्धिरेवासिद्धेति समाधत्ते-नेति ।
उक्तार्थसंवादि प्रभाकरमतानुसारिवचनमुपदर्शयति-तदिदमुच्यत इति । दृष्ट इति-अयं घटो मुद्गरपातात् पूर्व दृष्टः । अत्र अस्मिन् घटे, एतद्धटोपरीति यावत् । निपतत् पतनक्रियामनुभवन् तथा घटवत् , मुद्गरस्तदनन्तरं दृष्टः, तदनन्तरं कर्परसंहतिः परस्पर
Page #134
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ।
[७३
"दृष्टस्तावदयं घटोत्र निपतन् दृष्टस्तथा मुद्गरो, - दृष्टा कर्परसंहतिः परमतोऽभावो न दृष्टोऽपरः। तेनाऽभाव इति श्रुतिः क निहिता ? किं वात्र तत्कारणं ? स्वाधीना कलशस्य केवलमियं दृष्टा कपालावली”॥
[ . .. ] इति । - अथ काष्ठादेरङ्गारादिकमेव ध्वंसो नाऽपर इति ततो नोपलब्ध्यादिप्रसङ्ग इति चेत् ? काष्ठादेरङ्गारादिकमेव ध्वंसो नाऽपर विश्लिष्टघटावयवविशेषसमुदायलक्षणा, दृष्टा, परं किन्तु, अतोऽपरः एभ्यो भिन्नोऽभावो न दृष्टः, तेन एतद्वयतिरिक्ताभावादर्शनेन । तथा चैतेष्वेव मध्ये कुत्राप्यभावशब्दो वाचकतया प्रतिबद्ध इति वक्तव्य इत्याशयेन पृच्छति-अभाव इति श्रुतिः क्व निहितेति-अभाव इत्येवंखरूप उक्तव्यतिरिक्तेषु न प्रवर्तत इति प्रश्नाभिसन्धिः । यदा ध्वंसलक्षणोऽभाव एवैतद्वयतिरिक्तो नोपदर्शयितुं शक्यः सुतरां तत्कारणमुपदर्शयितुमशक्य मिस्याशयेन पृच्छान्तरमाहकिं वाऽत्र तत्कारणमिति । ननु कपालावलीरूपो घटविनाशस्तस्य यत् कारणं तदेव घटविनाशकारणं भविष्यतीत्यत आह-स्वाधीनति-कलशाधीनेत्यर्थ । . अग्निसंयोगादिनाऽङ्गारादिक यदुपजायते तदेव काष्टादेर्वस इति तदुपलब्धेरेव प्रतिबन्धकत्वान्न काष्ठाद्युपलब्धिप्रसङ्ग इति शङ्कते-अधेति । समाधाता पृच्छति-काष्ठादेरिति । पर उत्तरयतितस्मिन्- सतीति-अङ्गारादौ सति काष्ठादिनिवृत्तिरित्यगारादिकमेव काष्ठादेव॑सो नाऽपर इत्यर्थः । अङ्गारादितः काष्टादेर्वस इत्यतोऽङ्गारादिकं कारणं काष्ठादिध्वंसश्च कार्यमिति वाक्यार्थः प्रतीयते, काष्ठादिध्वंसश्च यद्यङ्गारादिकमेव तदाऽङ्गारादितोऽङ्गारादिरिति वाक्यार्थः स्यात् , स च न सम्भवति, स्वस्यैव स्खं प्रति कारणत्वा
Page #135
--------------------------------------------------------------------------
________________
७४]
[तत्त्वबोधिनीविवृतिविभूषितम् इत्यत्र किं निबन्धनम् ? तस्मिन् सति तनिवृत्तिरिति चेत् ? नतुच्छस्वभावनिवृत्त्यनङ्गीकरणेऽङ्गारादिभावेऽङ्गारादिभावात् काष्ठादेरङ्गारादिकमेव ध्वंस इति वाक्यार्थः स्यात् , स च स्वात्मनि क्रियाविरोधादसङ्गतः । अव्यक्तस्वात्मरूपविकारान्तरं ध्वंस इत्यप्यनुद्घोष्यम् , बुद्धयादीनामात्मरूपविकारापत्तौ प्रमाणाऽभावात् , प्रदीपादेवाव्यक्तरूपस्य विकारस्य कार्यविशेषादर्शनेनाऽसिद्धेः, तन्न भावान्तरं प्रध्वंसाभावः, भावान्तरस्य च प्रध्वंसत्वे तद्विनाशाद् घटाद्युन्मजनप्रसङ्गः, घटप्रागभाव-तत्प्रध्वंसाऽनाधारकालस्य घटासम्भवादिति समाधत्ते-नेति । स च निरुक्तवाक्यार्थश्च । व्यक्तरूपस्य काष्ठादेरव्यक्तकाष्ठादिस्वरूपं विनाश इत्यपि पराभिमतं न सङ्गतम् , स्वसंविदितरूपाणां बुद्धयादीनामव्यक्तबुद्धयादिस्वरूपसद्भावे प्रमाणाऽभावेन तत्राऽव्यक्तस्वस्वरूपात्मकस्य स्वध्वंसस्याऽसम्भवात् । एवं प्रदीपादेः प्रकाशस्वरूपस्यैवान्यावभासनरूपकार्यकारितया प्रसिद्धस्य कार्यान्तरादर्शनेनाव्यक्तप्रदीपादिस्वरूपतद्विकारासिद्धया तस्याप्युक्तलक्षणविनाशाऽसम्भवादित्याह-अव्यक्तेति। भावान्तरस्य भावान्तरविनाशस्वरूपत्वाऽसम्भवमुपसंहरति-तन्नेति। यदि च काष्ठादेरङ्गारादिकमेव विनाशस्तदाऽभावाऽभावस्य प्रथमाऽभावप्रतियोगिस्वरूपत्वात् काष्ठादिध्वसस्याङ्गारादिस्वरूपस्य विनाशः काष्ठादिकमेवेत्यङ्गारादिविनाशे काष्ठाद्युन्मज्जनं कर्परसंहतिविनाशे घटाद्युन्मजनं च प्रसज्येतेत्याह-भावान्तरस्य चेति । यदि चात्यन्ताऽभावाऽभावस्यैव प्रतियोगिरूपत्वं नाऽपराऽभावाभावस्येति ध्वंसध्वंसम्य न प्रथमध्वंसप्रतियोगिस्वरूपत्वमित्यभ्युपगम्यते तदाऽपि स्वध्वंसस्वप्रागभावानाधारकालत्वं यत्र तत्र स्वाधारत्वमिति नियमेन घटध्वंसध्वंसकाले घटध्वंस-प्रागभावयोरसत्त्वे घटसत्त्वस्याऽवश्यम्भावत एव घटोन्मजनप्रसङ्ग इत्याह-घटप्रागभावेति ।
Page #136
--------------------------------------------------------------------------
________________
तव्यवस्थाप्रकर
[७५ धारत्वव्याप्यत्वात् , न च कपालादेर्भावरूपतेव ध्वस्ता नाभावात्मकतेति नाऽयं दोषः, धर्मिप्रच्यवे धर्मप्रच्यवानिराश्रयधर्मावस्थानाऽयोगात् , कपालादिकार्यपरम्परायामेव घटध्वंसत्वस्वीकारान्न दोष इति चेत् ? न-एवं सति घटध्वंसत्वस्य व्यासज्ज्यवृत्तित्वे यावदाश्रयभानं विनाऽभानप्रसङ्गात् , प्रत्येकं वृत्तित्वे च नानात्वेनाऽननुगमप्रसङ्गात् तन्नानात्वस्य प्रतीतिबाधितत्वाच्च । तत्प्रवंसेति-घटप्रध्वंसेत्यर्थः, निरुक्तकालस्य घटाधारत्वव्याप्यत्वं तादात्म्यसम्बन्धेन बोध्यम् । ननु कपालादीनां विनाशकाले कपालादीनां या कपालादिभावरूपता सैव विनश्यति, तेषां तु या घटादिविनाशलक्षणाभावरूपता सा तु वर्तत एवेति विनाशरूपताया अविनाशान्न घटाधुन्मजनप्रसङ्ग इत्याशङ्कय प्रतिक्षिपतिन चेति । नाऽयं दोषः प्रतियोग्युन्मजनप्रसङ्गो न । कपालादेर्भावरूपताविनाशे नदाधारभूतः कपालादिरपि विनश्यत्येव, एवं च विनष्टे कपालादिलक्षणधर्मिणि तत्र व्यवस्थितो घटादिविनाशरूपताधमोऽपि विनष्ट एव, आधारनाशे तदाश्रितधर्मावस्थानाऽसम्भवादिति निषेधहेतुमुपदर्शयति-धर्मि प्रच्यव इति। ननु मुद्गरपाताद्यनन्तरं कपालादि कार्य यद् भवति तद् यथा घटादिविनाशस्तथा कपालादिविनाशानन्तरमपि कपालादितो यद् भवति तदपि घटादि विनाश इति घटादिविनाशानां यावतां विनाशस्याऽभावान्न कपालादिविनाशे घटाधुन्मजनप्रसङ्ग इत्याशङ्कते-कपालादिकार्यपरम्परायामेवेति । घटध्वंसत्वं कपालाद् उत्तरकार्येषु यावत्सु व्यासज्यवृत्ति ? प्रत्येकं वा वृत्त्युपेयते ? आधे-व्यासज्यवृत्तिधर्मप्रत्यक्ष प्रति यावदाश्रयप्रत्यक्षस्य कारणत्वेन यावतामुत्तरोत्तरभाविकार्याणां प्रत्यक्षस्याऽसम्भवे घटध्वंसत्वस्याऽपि प्रत्यक्षाऽसम्भवात् , द्वितीयेआश्रयभेदेन घटध्वंसत्वस्यापि भिन्नत्वप्रसङ्गात् , तथाप्रतीत्यभावेन नानात्वेन घटध्वंसत्वस्योपगन्तुमशक्यत्वादिति समाधत्ते- नेति ।
Page #137
--------------------------------------------------------------------------
________________
७६ ]
[ तत्त्वबोधिनीविवृतिविभूषितम्
एतेन : कपालादिरूपस्य घटध्वंसस्याप्यस्तु ध्वंसः, न चैवं घटोन्मज्जनप्रसङ्गः, घटध्वंसध्वंसादिपरम्परानाधारकालत्वस्य घटाधारत्वव्याप्यत्वाद्' इत्यप्यपास्तम्, गौरवात्, 'घटध्वंसो ध्वस्तः' इत्यादिप्रतीत्य भावाच्च, तन्न कपालादिरूपं भावान्तरं घटादेसः, नवा तत्र कारकव्यापारसम्भवः, क्रियाप्रतिषेधमात्रप्राप्तेः. अकारकस्य च हेतुमत्त्वाभ्युपगमो विरोधाघातत्वादेव न श्रद्धेयः, तुमचे वाभावस्य कार्यत्वादभावरूपताप्रच्युतिः, भवनधर्मा हि
एतेन इत्यस्य अपास्तम्' इत्यनेनान्वयः । घटध्वंसtars ध्वंसस्योपगमे घटोन्मजनप्रसङ्गमाशङ्कय प्रतिक्षिपतिन चेति । एवं घटध्वंसस्य ध्वंसाभ्युपगमे । यथा च घटध्वंसस्य भावरूपस्य ध्वंसस्तथा घटप्रागभावस्यापि भावरूपस्य प्रागभाव इति तत्परिग्रहाय ' घटध्वंसध्वंसादि ' इत्यादिपदोपादानम्, तथा च यत्र घटध्वंसतदूध्वंस परम्परा घटप्रागभावतत्प्रागभावपरम्पराऽनाधारकालत्वं तत्र घटाधारत्वमिति नियमेन न घटध्वंसध्वंसाधारकाले घटाधारत्वमिति ' घटध्वंसध्वंसादि ' इत्यस्याऽर्थः । 'एतेन' इत्यभिमतमेव हेतुमुपदर्शयति — गौरवादिति - अतिरिक्तकध्वंसकल्पनापेक्षयाऽनेकध्वंसध्वंसादिषु ध्वंसत्वरूपधर्मसम्बन्धकल्पनायां गौरवादित्यर्थः । ध्वंसस्याऽपि ध्वंसस्तदाऽभ्युपेयेत यदि ध्वंसो ध्वस्ततया प्रतीयेत, न चैवमित्याह - घटध्वंस इति । उपसंहरतितन्नेति । अभावरूपे ध्वंसे कारकव्यापारोऽपि न सम्भवतीत्याहनवेति । तत्र अभावरूपे ध्वंसे । अभावस्य तुच्छत्वेन न तत्र कापि क्रियेत्यतस्तत्र कारकव्यापाराऽसम्भव इत्याह- क्रियाप्रतिषेधमात्रप्राप्तेरिति । अकारकोऽपि ध्वंसो हेतुमानित्युपगमस्तु विरोधादेव न सम्भवतीत्याह-अकारकस्येति । ध्वंसस्य हेतुमत्त्वे भवनस्वभावस्य तस्य भावत्वमापद्येतेत्यभावरूपताक्षतिरित्याह- हेतुमत्वे वेति । भव
"
,
6
Page #138
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[७ भावः, अङ्घरादेरपि भावशब्दप्रवृत्तिनिमितं नाऽपरमुपलभ्यते, तचेदभावेऽस्ति कथं न भाव इति ? । अर्थक्रियासामर्थ्य भावशब्दप्रवृत्तिनिमित्तम् , तच्चाभावे नास्तीति चेत् ? न-सामर्थ्य विकलस्य प्रतीतिविषयत्वाऽयोगात् , प्रतीतिजनकत्वे सर्वसामर्थ्याऽयोगाऽसिद्धः । अथ यथा घट-पटादीनां भेदः प्रतिनियतज्ञानविषयतया,
नमेव भावपदप्रवृत्तिनिमित्तमङ्कुरादावपि न त्वन्यत् , तच्च भवनं यदि ध्वंसेऽभ्यपेयते तहि भाव एव सोऽभ्युपेयः स्यान्नाभाव इत्याह-अकुरादेरपीति । नाऽपरं भवनव्यतिरिक्तं न । 'कथम् ' इत्यत्र किम आक्षेपार्थकत्वान्निषेधपर्यवसायित्वेन नद्यस्य प्रकृतार्थगमकत्वेन ध्वंसो भाव एव स्यादित्यर्थः। अर्थक्रियाकारित्वमेव भावपदप्रवृत्तिनिमित्तम्, तञ्च ध्वंसे नास्तीति न ध्वंसो भाव इत्याशङ्कते-अर्थक्रियासामर्थ्यमिति। तच्च अर्थक्रियासामर्थ्य च । प्रत्यक्षजनकस्यैव प्रत्यक्षविषयत्वमिति नियमेन ध्वंसस्य प्रत्यक्षात्मकप्रतीतिजनकत्वाभावे प्रत्यक्षविषयत्वमेव न स्यादिति प्रतीयमानत्वं ध्वंसस्याऽभ्युपगच्छता प्रतीतिलक्षणार्थक्रियासामर्थ्य तस्य स्वीकरणीयमित्येवमपि भाव एव स स्यादिति समाधत्ते-नेति । सर्वसामर्थ्यविकलस्य कार्यमात्रं प्रत्येवाकारणीभूतस्य ध्वंसस्य प्रतीतिविषयत्वानुरोधेन प्रतीतिं प्रति जनकत्वस्य ध्वंसे स्वीकारे तुन सर्वसामर्थ्यरहितत्वमित्याह-प्रतीतिजनकत्व इति । भवनधर्मत्वाविशेषेऽपि घटत्व पटत्वादिविरुद्धधर्माध्यासितत्वेन प्रतीयमानत्वाद् घट-पटादीनां यथाऽन्योऽन्यं भेदस्तथा ध्वंसस्य कार्यत्वेऽपि असप्रतीतिविषयत्वेनाऽभावत्वम् , घटपटादीनां च सत्प्रतीतिविषयत्वेन भावत्वमित्येवं भावाऽभावयोर्भेदः सिध्येदित्याशङ्कते-अथेति । यद् असत्प्रतीतिविषयस्तद् न कार्यम् , यथा शशशृङ्गादि, ध्वंसश्चाऽसत्प्रतीतिविषय इति न कार्यमित्येवं कार्यत्वाऽभावस्यैव तत्र
Page #139
--------------------------------------------------------------------------
________________
७८ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् तथा भावाऽभावयोः कार्यत्वाऽविशेषेऽपि सदसत्प्रतीतिविषयतया भेदः सेत्स्यतीति चेत् ? न-असत्प्रत्ययविषयतया शशशृङ्गादिवत् कार्यताया अप्यस्य दूरोत्सारणात् , अथ खहेतुभावे भावादस्य कार्यता, कथं न सत्प्रत्ययविषयता ? यो हि 'भवति' इति प्रतीयते स 'सन्' इत्यपि प्रतीयते, नहि 'अस्ति-भवति सद्भाव' इत्यादिशब्दानां कश्चिदर्थभेदो विद्वद्भिरिष्यते । अभावात्मकतयैवासौ भवतीत्यदोष इति चेत् ? न-व्याहतत्वात् , न भवतीति ह्यभाव उच्यते, स कथं भवतीति ? । स्वग्राहिणि ज्ञाने प्रतिनियतेन रूपणाऽप्रतिभासनादभाव इत्येतदपि न वक्तव्यम् , अत्यन्तपरोक्षचक्षुप्रसिद्धरिति समाधत्ते-नेति । अस्य ध्वंसस्य । यदि च स्वहेतुतो भवनाद् ध्वंसस्य कार्यत्वं तर्हि कार्यत्वं यत्र तत्र सत्प्रतीतिविषयत्वमिति नियमतो ध्वंसस्य सत्प्रतीतिविषयत्वसिद्धितो भावत्वप्रसिद्धिरपि स्यादित्याह-अथेति-यदीत्यर्थः । अस्य ध्वंसस्य । भवतीत्यस्य योऽर्थः स एव सदित्यस्याऽपीति भवतीत्येवं प्रतीयमानस्य ध्वंसस्याऽवश्यं सत्प्रतीतिविषयत्वमित्युपपाद्य दर्शयति-यो हीति। भवनं ध्वंसस्य प्रतीयमानं नापलप्यतेऽस्माभिः, किन्त्वभावात्मकतयैवास्य भवनमित्यभावत्वं तस्येति शङ्कते-अभावात्मकतयैवेति । असो ध्वंसः । निषेधहे। व्याहतत्वमेव सङ्गमयति-न भवतीति । स्व ग्राहिणि ज्ञाने विनाशः प्रतिनियतेन रूपेण न भासत इत्येतावता प्रतिनियतेन रूपेणाऽनवभासमानत्वरूपमभावत्वमस्येत्येतदपि परवचनं न समीचीनमित्याह-स्वग्राहिणीति । चक्षुरादयोऽतीन्द्रियाः पदार्थाः स्वग्राहिणि ज्ञाने प्रतिनियतेन रूपेण न प्रतिभासन्त इति तेषामभावत्वमुक्तकल्पनायां प्रसज्यत इति निषेधहेतुमुपदर्शयतिअत्यन्तपरोक्षेति-अतीन्द्रियेत्यर्थः । यो हि सकारणकस्तस्य कारणभेदाद् भेद उपलभ्यते, यथा-मार्दवघटाद् मृत्त्वजात्याक्रान्ताद्
Page #140
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[७९
रादीनामप्यभावत्वापत्तेः। किञ्च, यद्यभावरूपो विनाशो हेतुमांस्तदा हेतुभेदात् तद्भेदप्रसङ्गः, न चाऽयमनुभूयतेऽग्न्यभिधातादिहेतुभेदेऽपि घटनाशभेदाऽननुभवात् ,तस्मादहेतुरेवाऽयं निःस्वभावस्तुच्छोऽभ्युपगन्तव्यः, अग्निसंयोगादयस्तु काष्ठादिष्वङ्गारादिकमेव जनयन्ति, काष्ठादयश्च स्वरसत एवं निरुध्यन्त इत्यनवद्यम् , लोकश्राकिश्चिद्रूपतामेव नाशस्य प्रतिपद्यते, तत्त्वमपि चाऽसतोकिश्चिदूपतैव, यतोऽवपरीत्यं तत्त्वमुच्यते, न चैतद्विपरीतं यदकिञ्चिद्रूपो ध्वंस इति । किञ्च, स्वभावतो भावानां नश्वरत्वेऽपरव्यापारवै विजातीयः सौवर्णघटस्तस्माद् भिन्नस्वभावः, न चैवं विनाशे विभिनहेतुकेऽपि वैजात्यमनुभूयत इति न हेतुमान् विनाश इत्याहक्रिश्चेति । तद्भेदप्रसङ्गः विनाशभेदप्रसङ्गः । अष्टापत्तिपरिहारार्थमाहन चेति-हेतुमेदाद् विनाशस्य भेदो न चानुभूयत इत्यर्थः । अननुभवमेव स्पष्टयति-अग्न्यभिघातादीति । तस्मात् हेतुभेदप्रयक्तभेदाभावात् । अयं विनाशः । यद्यग्निसंयोगादिभ्यः काष्ठादिविनाशो न जायते तर्हि अग्निसंयोगादयः किं जनयन्ति ? कथं च काष्ठादीनां निरोधः? येन पश्चात् ते नोपलभ्यन्त इत्यपेक्षायामाहअग्निसंयोदयस्त्विति । लौकिकानुभवादप्यकश्चिद्रूपत्वमेव विनाशस्य, तदेव चाऽसतस्तस्य तत्त्वमित्याह-लोकश्चेति । तत्त्वमपि असाधारणस्वरूपमपि । यदि विनाशः किश्चिद्रूपतयोपलभ्येत तदा तस्याऽकिश्चिद्रूपत्वं विपरीतमिति न तत्त्वं भवेत् , न चैवमतोऽविपरीतस्वस्वरूपत्वादकिश्चिद्रूपत्वमसतो ध्वंसस्य तत्त्वमेवेत्याह-यत इति । भावानां स्वभावतो नश्वरत्वे तद्वलादेव नश्वरो भाव इति नाशार्थ कारकव्यापारस्य वैफल्यम् , स्वभावतो भावानामनश्वरत्वे कारणसहस्रसमवधानेऽपि न स्यादेव नाश इति तदर्थ हेतुव्यापारस्य वैफल्य मित्युभयथाऽपि तत्र कारकव्यापारवैफल्यमि
Page #141
--------------------------------------------------------------------------
________________
८. ]
[ तत्त्वबोधिनीविवृतिविभूषितम् फल्यात् , अनश्वरत्वे च सत्स्वभावस्यान्यथाकर्तुमशक्यत्वाद् व्यर्थों नाशहेतुः । अथ स्वहेतुमिनियतकालस्वभावः पदार्थों जनित इति नोत्पादानन्तरमेव विनंष्टुमुत्सहत इति चेत् ? तर्हि तस्मिन्नेव स्वभावे व्यवस्थितः कथमन्तेऽपि विनश्येत् ? तथा चान्तेऽन्ते तावत्तावत्कालस्थायिस्वभावाऽनपगमे सदा स्थास्नुरेव स्यात् , तत्स्वभावाऽपरावृत्तावकिश्चित्करैर्मुद्गरादिभिस्तन्नाशाऽयोगात् । न च त्याह-किचेति । भावानामुत्पादानन्तरमेव विनाश इत्यसहमानः स्थैर्यवादी शङ्कते--अथेति । “स्वहेतुमिरिति-'अनेनैतावत्कालपर्यन्त स्थातव्यम्' इत्येवं प्रतिनियतकालवृत्तिस्वभावो भावः स्वकारणजनित इत्युत्पादानन्तरमेघ विनाशे तथास्वभाव एव न स्यादिति तथाविधस्वभावान्यथाऽनुपपत्त्या नोत्पादानन्तरमेव विनष्टुमुत्सहत इत्यर्थः । यत्क्षगे विनाशोऽस्याऽभिमतस्तदव्यवहितप्राक्क्षणेऽपि तावत्कालस्थायित्वस्वभावोऽस्यास्तीति कथं तत्क्षणेऽपि विनश्येत् , एवं तदन्तेऽपि तावत्कालस्थायिस्वभावस्य सतो नाशो न भवेद, एवमग्रेऽपीति सदा स्थास्नुरेव स स्यादिति समाधत्ते-- तहीति । एवमुक्तस्वभावस्याऽपरावृत्ती मुद्रादिभिरपि किं कुर्यात् ? नयुक्तस्वभावपरावर्तनमन्तरेण नाशस्य सम्भव इत्याह-तत्स्वभावापरावृत्ताविति । ननु क्षणक्षयवादिनां यद्यपि भावानां क्षणविशरारुस्वभावानां प्रतिक्षणं सभागसन्ताने पूर्वपूर्वस्य विनाश उत्तरोत्तरस्योत्पादः स्वकुर्वद्रूपात्मककारणादेव, तथापि सभागसन्ततिलक्षणप्रवाह निवृत्तिर्मुद्रादिकमपेक्ष्यैव भवति, तत्राप्येवं वक्तुं शक्यत एव-कथमकिञ्चित्करस्य मुद्रादेस्तत्रापेक्षेत्याशङ्कय प्रतिक्षिपतिन चेति अस्य ' वाच्यम्' इत्यनेनान्वयः। प्रवाह एवाऽतिरिक्तो नास्ति को निवर्तमानोऽकिश्चित्करं मुद्रादिकमपेक्षेत ?, परस्परच्यावृत्तस्वभावाः पूर्वापरक्षणा एव हि प्रवाहः, पूर्वापरक्षणाश्च
Page #142
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ८१ भवामप्यकिश्चित्करमपि मुद्गरादिकमपेक्ष्य कथं प्रवाहो निवर्तत इति वाच्यम् , यतो न विशरारुक्षणव्यावृत्तोऽपरः प्रवाहो विद्यते, यो निवर्तमानोऽकिञ्चित्करं मुद्रादिकमपेक्षत इति प्रतिजानीमहे, किन्तु परस्परविविक्ताः पूर्वापरक्षणा एवं प्रवाहः, ते च स्वरसत एव निरुध्यन्त इति न क्वचिदकिश्चित्करापेक्षा निवृत्तिः, केवलं मुद्रादिना रहिता सामग्यविभक्तं कार्य सम्पादयति, तत्सन्निधाने तु विभक्त कार्यान्तरं जनयतीति विशेषः, न तु मुद्गरादयः कारणसामर्थ्य खण्डयन्तीति, अतो यदुक्तम्" स्वभावोऽपि स तस्येत्थं येनापेक्ष्य निवर्तते । विरोधिनं यथान्येषां प्रवाहो मुद्गरादिकम् " ॥१॥
] इति। स्वत एव निरुद्धयन्त इति नाऽकिञ्चित्करमुद्राद्यपेक्षा क्वचिदपि निवृत्तिः, सामग्री तु मुद्रादिना रहिताऽविभक्तं कार्यमुत्पादयति तावता सभागसन्ततिलक्षणः प्रवाहः, मुद्गरादिना सहिता सामग्री विभक्त कार्यान्तरं जनयति, येन विसभागसन्ततिप्रवृत्तिः, न तु मुद्रादीनां कारणसामर्थ्यखण्डकत्वेन सभागसन्ततिनिवर्तकत्वमिति निषेधहेतुमुपदर्शयति-यत इति । ते च परस्परविभक्ताः पूर्वापरक्षणाश्च । तत्सन्निधाने तु मुद्गरादिसन्निधाने पुनः। 'अतः' इति 'प्रतिक्षिप्तम् ' इत्यत्र हेतुः।
स्थैर्यवादिवचनमल्लिखति-स्वभावोऽपीति-तस्य स्थिरस्य, इत्थम् एतादृशः स्वभावः, येन स्वभावेन विरोधिनमपेक्ष्य निवर्तत इति, इत्थं स्वभावाभ्युपगमोऽन्येषामपीत्याह-यथेति, अन्येषां क्षणिकवा- . दिनाम्, विरोधिन मुद्गरादिकमपेक्ष्य सभागसन्ततिलक्षण: प्रवाहो . यथा निवर्तत इत्यर्थः ।
Page #143
--------------------------------------------------------------------------
________________
८२ ]
[तत्त्वबोधिनीविवृतिविभूषितम् तदपि प्रतिक्षिप्तं द्रष्टव्यम् । अथाऽयं विकल्पः सर्वगतत्वादसारः,तथाहि-उत्पादेऽप्येवं शक्यत एव व-स्वभावतो झुत्पत्तिस्वभावस्य न किश्चिदुत्पत्तिहेतुभिः, तत्स्वभावतयैव समुत्पादात्, अनुत्पत्तिस्वभावस्य तु व्यर्था उत्पत्तहेतवः, तद्भावा-यथात्वस्य कर्तमशक्यत्वात् , मैवम्-यतो यद्यभूत्वाभवनलक्षणोत्पत्तिस्वभावहेतोरक्ििश्चत्करत्वम् , तदा इष्टाप.त्तरेव, अथोत्पत्तौ स्वभाव आभिमुख्यलक्षणो यस्य सन्निहितकारगकलापानन्तरभाविनस्तस्य व्यर्थत्वमभिधातुमभिप्रेतम् , तदसानिहिततथाभूतकारणवशात् त्या
स्थर्यवादी शङ्कते-अथेति । अयं विकल्पः स्वभावतो भावानां नश्वरत्वेऽपरव्यापारवैफल्यम् . स्वभावतोऽनश्वरत्वे तत्स्वभावा. न्यथाभावाऽसम्भवान्नाश हेतोयर्थ्यमित्येवंभूतो विकल्पः । एतादृशविकल्पस्य सर्वगतत्वमेव भावयति-तथा ही।त । भावस्य स्वभावतो खुत्पत्तिस्वभावस्तदैव घटते यदि स्वत एयोत्पत्तिग्स्य भवेद , एवं चोत्पत्तिस्वभावतयैव तत्समुत्पादप्राप्लेरुत्पत्तिहेतुभिर्न किञ्चिदित्याह-स्वभावतो हीति । यदि स्वभावतोऽनुत्पत्तिस्वभाव एव भावस्तदा व्यर्थी उत्पत्ति हेतवः, तत्स्वभावान्यथाकरणस्याऽशक्य. त्वेनोत्पत्तरेवाऽसम्भवादित्याह-अनुत्पत्तिस्वभावस्य हि ति। तद्भावान्यथात्वस्य अनुत्पत्तिस्वभावान्यथात्वस्य । समाधत्ते-मैवमिति । इष्टापत्तिरेव यस्याऽभूत्वाभवनलक्षणोत्पत्तिस्वभावः स स्वभावस्तथास्वाभाव्यात् स्यादेवेति तद्धतोरकिश्चत्करत्वमिष्टमेव, उक्तस्वभावस्तथास्वाभाव्यात् स्यादेव, तदन्यत् तु तद्धतुन करोत्येव। 'तदसन्निहित०' इति स्थाने 'तदा सन्निहित०' इति पाठो युक्तः, 'व्यर्थताऽयुक्ता' इत्यकारप्रश्लषः,यस्य सन्निहितकारणकलापानन्तरभाविन उत्पत्तावाभिमुख्य लक्षणः स्वभावः सः 'अयमुत्पद्यते, उत्पन्नोऽयम्' इति व्यपदेशनिबन्धनमिति व्यपदेशलक्षणफलहेतु
Page #144
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ८३ व्यपदेशहेतोपर्थता युक्ता, अनुत्पत्तिस्वभावहेतुबैफल्यं चाभीष्टमेव, नापत्ति हेतवो भावान् भावीकुन्ति । नन्वेवं कथम् 'उत्पद्यतेऽसद्' इतीष्यते ? कारणानन्तरं यः सद्भावः स प्रागसन्नित्ययमत्रार्थः, न पुनरभावो भावत्वमापद्यत इति, हन्त ! यद्येवं तर्हि तु, को भावस्य विनाशः ? उत्पादोऽपि तथैवास्तु भावधर्मत्वाऽ
त्वाद् व्यर्थताऽयुक्तत्यर्थः । स्वभावतोऽनुत्पत्तिस्वभावस्य तूत्पत्तिन कर्तुं शक्यत उत्पत्तिहेतुभिरेति तत्र हेतुवैफल्यष्टिमेवेत्याह-अनुत्पत्तीति-अत्राऽनुत्पत्तिस्वभावे वस्तुन्युत्पत्ति हेतुवैफल्यमिष्ट वेत्यर्थः। इष्टापत्तौ हेतुमुपदर्शयति-नहीति । न नूत्पत्तः पूर्व भावोऽसत्त्वाद. भाव एव, तं चाऽभावमुत्पत्तितः सन्तं कुर्वन्त उत्पत्तिहेतवोऽभावं भावं कुर्वन्त्यव, अभावं भावं न कुर्वन्त्युत्पत्तिहेतच इत्युपगमे तु असत उत्पत्त्यसम्भवाद् ' असदुत्पद्यते' इतीष्टं भवतः कथं सङ्गत स्यादिति शङ्कते-नन्वेवमिति । ' असदुत्पद्यते' इत्यस्याऽभावो भावो भवतीति नार्थः, किन्तु कारणानन्तरं भावस्य यत् सत्वं तत् पूर्व नाऽऽसीदित्येवार्थः, तथाभ्युपगमे 'असदुत्पद्यते' इत्युपपद्यत एवेति समाधत्ते-कारणानन्तरमिति । ननु विनाशो यदि नान्यः कश्चित् तईत्पादोऽपि मा नामाऽतिरिक्तः स्याद् भावधर्मत्वस्योभयत्राऽविशेषाद् , एवम् प्यतिरिक्तस्योत्पादस्योपगमे नाशे प्रद्वेषः किनिबन्धनः ? इत्याशङ्कते-हन्तेति । उदयापवगिस्वभावाद् भावात् स्वकारणत एवोत्पन्नाव रित्तो नाशो नास्त्येव, उत्पादोऽपि भावस्वभावादनन्य एव, पूर्वोत्तरक्षणादीनां सौसादृश्यदोषात् नादृश. स्वभावं पश्यतोऽपि मन्दबुद्धः पूर्वोत्तरक्षणादीनां वेदबुद्धिलक्षणो विवेका नोपजायते, तावता तदानीं क्षणक्षयनिश्चयो न भवति, कारणान्तरतो विसदृशक्षणोत्पादे चाऽनेदभ्रान्तिकारणनिमित्तस्य सौसादृश्यलक्षणदोषस्य विगमाद् विवेके सति क्षणक्षयनिश्चयो
Page #145
--------------------------------------------------------------------------
________________
८४]
[ तत्वबोधिनी विवृतिविभूषितम् विशेषात् , नैवम्-यतो न नाम विनाशोऽन्य एव कश्चिदुदयापवर्गिणो भावात् , भावश्च स्वहेतोरेव तथाभूत उत्पन्नः, न कश्चिद् धर्मोऽस्यानिमित्तः, केवलं तमस्य स्वभावं पश्यन्नपि मन्दबुद्धिर्न विवेचयति, दर्शनपाटवाऽभावात् , यदा तु विसदृशः कपालादिक्षणः प्रत्ययान्तरोपनिपातादुत्पद्यते, तदा भ्रान्तिकारणविगमात् प्रत्यक्षनिबन्धनः क्षणक्षयनिश्चय उत्पद्यते, अनुमानतस्तु विदुषः प्रागपि भवत्येव, यथा विषयरूपदर्शनेऽप्यतत्कारिपदार्थसाधर्म्य विप्रलब्धौ न कारणशक्ति निश्चिनोति प्राक्,पश्चाच विकारदर्शनात् तनिश्चयः, न च शक्ति-शक्तिमतोर्भेद इति, उक्तं च सौगतैः-" जातस्य च
जायते, मन्दबुद्धरित्थंक्षणक्षयनिश्चयः, विदुषस्तु सत्त्वादिलिङ्गकानुमानेन विसदृशक्षणोत्पादाऽदर्शनेऽपि क्षणक्षयनिश्चय इति समा. धत्ते-नैवमिति । तथाभूतः उदयापवर्गिस्वभावः। अस्य भावस्य । ननु भावस्योदयापवर्गिस्वभावस्य प्रत्यक्षेण ग्रहणे क्षणक्षयनिश्चयोऽपि तदानीमेव किं न स्यादित्यत आह-केवलमिति । तम् उदयापवर्गस्वरूपम् । अस्य भावस्य । कस्यचित् कार्यस्य यत् किमपि प्रतिनियतं कारणं तत् पश्यन्नपि जनोऽकारिपदार्थसाधर्म्यतस्तदप्यकारिस्वरूपमेव भ्रान्त्याऽभिमन्यमानस्तदानीमिदमस्यकारणमित्येवमनिश्चिन्वन्नपि विकारस्य कार्यस्य दर्शनानन्तरं निश्चिनोत्येवेदमस्य कारणम्, कारणशक्तिश्च कारणस्वरूपादभिन्नाऽपि पूर्व न निश्चीयते, विकारदर्शने सति तु निश्चीयत इति यथा तथा क्षणक्षयो भावस्वभावोऽपि पूर्वमनिश्चितः पश्चानिश्चितो भविष्यतीत्याह-यथेति । नाशस्य भावस्वभावस्य भावहेतुव्यतिरिक्तहेत्वनपेक्षणमात्रेण निर्हेतुकत्वे बौद्धानां वचनं संवादकतयोपदर्शयतिउक्तं च सौगतैरिति । ऋजुसूत्रसमुत्थसौगतमताभीष्टं क्षणक्षयित्वं
Page #146
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ।
[ ८५ स्वभावस्य विनश्वरत्वेऽन्यानपेक्षणमात्रेण निर्हेतुको नाश उच्यते "
] इति । स्थितमेतत्-प्रत्यक्षतोऽनुमानतश्च सर्वभावानां क्षणिकत्वमिति ।।
एतच द्रव्यार्थिकनिक्षेपविचारे सम्मतावेव यथा दूषितं तथैव किश्चित् संक्षिप्य विविच्य लिख्यते, तत्र क्षणक्षयित्वे यदध्यक्ष प्रमाणमुक्तम् , तदसत्-स्थिर-स्थूररूपाणामेव घटादीनां प्रतिभासात् , न चान्यादृग्भूतार्थप्रतिभासोऽन्यादृग्भूतार्थव्यवस्थापकोऽतिप्रसङ्गात् , न च सदृशापरापरोत्पत्तिदोषादत्र यथानुभवं न विकल्पोत्पत्तिः, नीलादिष्यप्येवमनाश्वासप्रसङ्गात् , यथा हि परमार्थतोऽसदृशा भावानां प्रत्यक्षाऽनुमानाभ्यां सिद्धमित्युपसंहरति-स्थितमेतदिति ।
एतावतोपपादितस्य बौद्धमतस्य खण्डनं सम्मत्युपदर्शितमेव संक्षेपतोऽत्राभिधीयत इत्याह-एतच्चेति-बौद्धाभिमतं सर्वभावानां क्षणक्षयित्वं चेत्यर्थः । प्रत्यक्षे स्थिरस्थूलरूपतयैव घटादीनां प्रतिभासात् क्षणक्षयित्वेनाऽप्रतिभासात्, प्रतिभासानुसारेण प्रत्यक्षविषयव्यवस्था भवति, न तु प्रतिभासोऽन्यादृशोऽन्याशस्य वस्तुनो व्यवस्थापको भवति, तथा सति घटप्रतिभासिप्रत्यक्षतः पटादेरपि सिद्धिः स्यादिति न प्रत्यक्षप्रमाणतः क्षणक्षयित्वसिद्धिरित्याह-तदसदिति । यदि च क्षणक्षयिभावस्वरूपं निर्विकल्पक प्रत्यक्ष प्रतिभासत एव, सदृशाऽपरापरोत्पत्तिदोषात् तु तदनुसारिक्षणक्षयनिश्चयस्वरूपविकल्पोत्पत्तिर्न भवति, किन्तु स्थैर्यविकल्प एव भवति, तर्हि नीलविकल्पोऽपि नीलानुभवान्न जातः, किन्तु नीलविकल्पात् पूर्वमन्यप्रतिभासस्येव निर्विकल्पकम् , दोषवशात् तु नीलप्रतिभासिविकल्प इत्यस्यापि कल्पयितुं शक्यत्वेन न नीलादिप्रतिभासिविकल्पतो नीलादिवस्तुव्यवस्थितिरपि भवेदित्याह-न चेति-अस्य 'न विकल्पोत्पत्तिः' इत्यनन्तरमन्वयः ।
Page #147
--------------------------------------------------------------------------
________________
८६ ]
[ तत्त्वबोधिनीविवृतिदिभूषितम् अपि सदशविकल्पोत्पादकदर्शनहेतको भावाः सदृशव्यवहारभाजस्तथा स्वयमनीलादिस्वभावा अपि न.लादिविकल्पोत्पादक दर्शननिमित्ततया नीला.दव्यवहारभावती प्रपत्स्यन्त इति शङ्का.पेशाची. प्रचारस्य दुर्निवारत्वात् , निश्चयानुरूपेणैव च प्रत्यक्षस्य प्रामाण्यम् , अन्यथा दान हिंसाविरतिचेतसामपि स्वर्गप्रापणशक्तरध्यक्षत एवावगतेन तत्र विप्रतिपत्तिरिति तद्व्युदासार्थमनुमानप्रवर्तनं शास्त्रविरचनं वा सौगतानां वैयर्थ्यमनुभवेत् , निश्चयश्च संहृतसकलविनिषेधहेतुमाह-नीलादिविति । नीलादिष्वनाश्वासप्रसङ्गव भावयति-यथा हीति । विकल्पानुसारेणेव च प्रत्यक्षात्मकदर्शनविषयव्यवस्था, विकल्पश्च स्थिर स्थूलार्थप्रतिभास्येवेति स्थिर स्थूलार्थविषयमेव प्रत्यक्षमिति कथमध्यक्षं क्षणिकत्वे प्रमाणरित्याहनिश्चयानुरूपे व चेति । अन्यथा स्वानुरूपनिश्चयजननमन्तराऽपि प्रत्यक्षस्य स्वविषये प्रागण्याभ्युपगमे । द.नेति-दान स्वर्गो भवति, तेन दानचेतसः स्वर्गप्रापणशक्तिरस्ति, एवं हिंसाविरमणादपि स्वर्गो भवतीति हिंसाविरतिचेतसोऽपि स्वर्गप्रापणशक्तिविद्यते, तथा च तत्स्वसंवेदनप्रत्यक्षं दानादिचित्तमिव तद्तस्वर्गप्रापणशक्तिमपि विषयीकरोत.ति तथाभूतप्रत्यक्षत एव दानादिचेतसि स्वर्गप्रापणशक्तिसि देस्तत्र चार्वाकादेर्वादिनो दिप्रतिपत्तेरसम्भोन तन्निवृत्तयेऽनुमानप्रवर्तनं शास्त्रप्रणयनं च व्यर्थमेव भवेदतोऽनुरूपविकल्पद्वारैव प्रत्यक्षस्य प्रामाण्यं स्वीकर्तव्यमिति क्षणक्षयप्रतिभासविकल्पाभावान्न क्षणक्षये प्रत्यक्षस्य प्रामाण्यमिति न ततः क्षणक्षयसिद्धिरित्यर्थः। यदि च कश्चिद् ठूयात् क्षणक्षयविषयकनिश्चयोऽपि भवत्येवेति, तन्नयुक्तम् . स्थिरस्थूलविषयक निश्चयस्यैव निर्विकल्पकानन्तरमुत्पादादित्याह-निश्चयश्चति-स्थिरस्थूलरूपस्यैव पुरोव्यवस्थितस्य गवादनिश्चयश्चेत्यन्वयः। संहति
Page #148
--------------------------------------------------------------------------
________________
'अनेकान्तव्यवस्थाप्रकरणम् ]
[८७
कल्पावस्थायामश्वविल्पनसमय एव च प्रणिधानानन्तरं पुरोव्यवस्थितस्य गवादेः स्थिरस्थूररूपस्यैवेति कथं क्षणिकत्वेऽध्यक्ष प्रमाणम् ? । नाऽप्यनुमानात् तनिश्चयः, तत्राऽध्यक्षाऽप्रवृत्तावनुमानस्याप्यनवतारात् , तथाहि-अध्यक्षाधिगतमविनाभावमाश्रित्य पक्षधर्मतावगमबल दनुमानमुदयमासादयतीति, अध्यक्षा नवगो तु विषये स्वग:दाविवाध्यवसायफलस्यानुमानस्य प्रवृत्तिरेव संगतैरभ्युपगता, तथा च तदाचार्य:" अदृष्टेऽर्थे विकल्पनमात्रम्" ।
] इति । यदा सर्वविकल्पानां संहारोऽर्थान्न कोऽपि विकल्पः समुत्पद्यते तदानमित्यर्थः। अश्वविकल्पन समय एवेति-यदा मया गोष्टा तदाश्वो विकल्पित इत्युत्तरकालीनस्मरणतः सिध्यत्यश्वविकल्पनसमय एव वा गोनिर्विकल्पकदर्शनम् , ततश्च मनस ऐकाच्यलक्षणप्रणिधाना. नन्तरं पुरोव्यवस्थितस्य स्थिर स्यूलरूपस्येव गवादेनिश्चयो न तु । क्षणिकरूपस्पेति । अनुमानादपि क्ष .कत्वनिश्चयो न सम्भवतीत्याह-नाप्यनुमानादिति । तन्निश्चयःक्षणेकत्वनिश्चयः । कथमनुमानान्न क्षणिकत्वनिश्चय इत्यरेक्षायां तत्र हेतुमाह-तत्रति-क्षणिकत्व इत्यर्थः। प्रत्यक्षेण साध्य-हेत्वोरविनाभावग्रहे.प्रत्यक्षेण च पक्षलक्षणसाध्यधर्मिणि हेत वृत्तित्वरूपस्य पक्षधर्मत्वस्य च ग्रहणे सति अनुनितिरात्मलाभ मामादयति,प्रत्यक्षाःप्रवृत्तौ च व्याप्त पक्षधर्मतानणहरूपकारणाऽभावान्नाऽनुमानाऽवतारसम्भव इत्येव प्रपञ्चयतितथाहीति । अध्यवसायफलस्य सविकल्पकफलस्य । अध्यक्षाऽनवगतेऽर्थे विकल्पमात्रमित्यत्र बौद्धसंवादमाह- तथा चेति । तदाचार्यः सौगतमतोपदेष्टा । अदृष्टेऽर्थे प्रत्यक्षाऽनधिगतेऽर्थे । 'विकल्पनमात्रम्' इति मात्रपदोपादानान्न ततो यथावस्तुविनिश्चय इति लभ्यते, तेन
Page #149
--------------------------------------------------------------------------
________________
[ तत्त्वबोधिनीविवृतिविभूषितम्
किञ्च, स्थायितावगाहिप्रत्यभिज्ञाबाधितत्वादेव क्षणिकत्वे नानुमानं प्रमाणं साधीयः । न च लून- पुनर्जात केशादिष्वेकत्वप्रत्यभिज्ञोदयान्नासावेकत्वे प्रमाणम् ? एवं सति कामलोपहतदृशां धवलिमानमाविभ्राणेषु पीतदर्शनमुदेतीति वास्तवपीतेष्वपि तन्न
<<:]
?
प्रत्यक्षाप्रवृत्तौ यथाकथंचित् प्रवर्तमानमप्यनुमानं तदाभासत्वान्न वस्तुनिर्णयप्रवणमित्यावेदितं भवति । अपि च 'सोऽय घटः' इत्यादि प्रत्यभिज्ञाप्रत्यक्षं पूर्वकालवृत्तिघटरूपतत्पदार्थेन सममेतत्कालवृत्तिघटस्य तादात्म्यमवगाहते, तच्च तादात्म्यं तदोपपद्येत यदि य एव घटः पूर्वकाले वर्तते स एव घट एतत्कालेऽपि वर्तेत, न च पूर्वकालैतत्कालवृत्तित्वद्वयमेकस्य मध्यकालवृत्तित्वमन्तरेण सम्भवतीति पूर्वकालादारभ्यैतत्कालपर्यन्तं यावन्तः क्षणास्तत्सर्ववृत्तित्वे सत्येवोक्तप्रत्यभिज्ञानमितीत्थं स्थैर्यावगाहिना प्रत्यक्षेण बाध्यमानविषयकत्वान्न क्षणिकत्वानुमानं प्रमाणमिति न ततः क्षणिकत्वसिद्धिरित्याह- किचेति । ननु पूर्वापरकालवर्तिनोस्तादात्म्याभावेऽपि लून- पुनर्जातकेशादिषु स एवाऽयं केशः, सैवेयं दीपकलिका ' इत्यादि प्रत्यभिज्ञानं तादात्म्यावगाह्यदयत इति भ्रान्तत्वात्वे प्रमाणं प्रत्यभिज्ञानमित्यसौ न क्षणिकत्वावगाह्यनुमानबाधकमित्याशङ्कय प्रतिक्षिपति- चेति। असौ प्रत्यभिज्ञा । यत्र पूर्वापरयोनैकत्वसम्भवस्तत्र तयोरेकत्वावगाहिप्रत्यभिज्ञानस्य भ्रान्तत्वेऽपि नैता - वता सर्व प्रत्यभिज्ञानमप्रमाणम्, एकस्याऽप्रमाण्ये तज्जातीयत्वात् सर्वप्रत्यभिज्ञानानामप्रामाण्याभ्युपगमे तु कामलरोगाच्छादित नेत्राणां प्रमातॄणां श्वेतशङ्खादिषु पीतत्वावगाहि प्रत्यक्षं भ्रान्तमिति तज्जातीयत्वात् सर्व प्रत्यक्षमप्रमाणमिति न प्रत्यक्षतोऽपि किञ्चिद् वस्तु सिध्येदिति निषेधहेतुमुपदर्शयति - एवं सतीति । धवलिमानमाबिभ्राणेषु शुक्लरूपवत्सु शङ्खादिषु । तत् पीतदर्शनम् । ननु शुक्तेषु
-न
Page #150
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ८९
प्रमाणतामासादयेत् , दोषगुणप्रभवत्वविशेषस्तूभयोः समानः। लूनपुनर्जातनख-केशादिषु भेदाभेदाध्यवसायादुभयतैवाऽस्तु, स्तम्भादिषु तु विशददर्शनावभासिषु क्षणक्षयविकला स्थायिता प्रतिभातीति तेषां स्थिररूपतैवाऽस्त्वित्यन्ये । न च परिच्छिद्यमानस्य वस्तुनः पूर्वकालताऽपि प्रत्यभिज्ञया निश्चयेत्यवस्तुधर्मग्राहकत्वात् तदप्रामा
पीतदर्शनं दोषजत्वादप्रमाणम्, पीतेषु च तद्गुणप्रभवत्वात् प्रमाणमिति विशेषसद्भावान्नैकस्य प्रत्यक्षस्याऽप्रामाण्ये सर्वप्रत्यक्षस्याऽप्रामाण्यमिति चेत् ? तदेतत् प्रत्यभिज्ञानेऽपि तुल्यम् , लूनपुनर्जातकेशादिषु सौसादृश्यदोषप्रभवमेकत्वप्रत्यभिज्ञानम् , नैवं घटादिषु तत् तथा, किन्तु गुणप्रभवमिति दोषप्रभवस्य तस्याप्रामाण्येऽपि गुणप्रभवस्य तस्य प्रामाण्यसम्भवादित्याह-दोषेति । उभयोः पीतदर्शन-प्रत्यभिज्ञानयोः। अत्रान्येषां मतमुपदर्शयतिलून-पुनर्जातेति । उभयतैव भेदाभेदोभयरूपतैव, स्थिर-क्षणिकोभयरूपतैवेति यावत् । तेषां स्तम्भादीनाम् ।' अन्ये ' इत्यनेनास्वरसः सूचितः, तद्वीजं तु समानाकारेषु प्रत्यभिज्ञानेषु एकत्र भेदाभेदोभयविषयकत्वमन्यत्र च तादात्म्यमात्रविषयकत्वं प्रतिभासावैचित्र्यान्नियुक्तिकम् , किञ्च, एकान्तवादिमते भेदाऽभेदयोर्विरोधान्नैकाधिकरणतया प्रतिभाससम्भव इति । ननु 'सोऽयं घटः' इति प्रत्यभिज्ञानेन परिच्छिद्यमानस्य वर्तमानकालीनस्य घटात्मकवस्तुनः पूर्वकालवर्तित्वमपि निर्णीयते, पूर्वकालस्य तदानीमभावात् तद्वर्तित्वमपि तदानीं न सम्भवतीत्यवस्तुधर्मस्य तस्य ग्राहकत्वान्न प्रत्यभिशानस्य प्रामाण्यमित्यप्रमाणेन तेन न क्षणिकत्वानुमानबाधनमित्याशङ्कय प्रतिक्षिपति-न चेति । तदप्रामाण्यं प्रत्यभिज्ञानस्याऽप्रामाण्यम्। यद् घटादि वस्तु वर्तमानकालवर्तित्वाद् वर्तमानकालीनम्, तदेव पूर्वकालेऽप्यासीदिति पूर्वकालवलंपि, तस्य पूर्वकालीनत्व
Page #151
--------------------------------------------------------------------------
________________
९. ]
[ तत्त्वबोधिनीविवृतिविभूषितम् ण्यम् , पूर्वकालीनस्य पूर्वकालीनत्वेन ग्रहेऽवस्तुधर्मग्राहकत्वाऽभावात् । न च सन्निहितविषयबलादुत्पत्त्याविचारकेणाध्यक्षेण पूर्वकालसम्बन्धित्वं परामर्टमशक्यम् , असनिहितस्याप्यतीतकालत्वस्य सन्निहितविषयप्रत्यासत्तिमहिम्नाऽध्यक्षेण निश्चयाविरोधात् , यथा-अन्त्यसङ्खयेयग्रहणकाले 'शतम्' इति प्रतीतिः क्रम
मपि धर्म एवेति पूर्वकालीनत्वरूपवस्तुधर्मग्राहकत्वमेव प्रत्यभिज्ञानस्य, नाऽवस्तुधर्मग्राहकत्वमिति कथं न प्रामाण्यमिति प्रतिक्षेपहेतुमाह-पूर्वकालीनस्येति । ननु प्रत्यक्षं प्रति विषयस्याऽपि सन्निकृष्टस्य कारणत्वेन सन्निकृष्टत्वाद् वर्तमानस्यैव विषयस्य तत्र प्रतिभासनम् , नासन्निहितस्येति न तत्र पूर्वकालीनत्वस्य प्रतिभासनसम्भव इत्याशङ्कय प्रतिक्षिपति न चति । परामटं ग्रहीतुम् । यथा च लौकिकसंयोगादिसन्निकर्षण सन्निहितं सन्निकृष्टं तथा सन्निहितविशेषणत्वप्रत्यासत्त्याऽसन्निहितमप्यतीतकालत्वं सन्निकमिति तत्प्रतिभासनमपि प्रत्यभिज्ञानप्रत्यक्षं स्यादेवेति निषेध. हेतमपदर्शयति-असन्निहितस्याऽपीति । एक द्वयादिसत्येय ग्रहणक्रमेणान्त्यसङ्ख्येयग्रहणसमये 'शतम्' इति प्रत्यक्षप्रतीतिर्भवति, न च सर्वेऽप्येकादयस्तदानीं सन्निहिताः, किन्त्वन्त्यसङ्खयेय एव तथा. अथाऽपि सन्निहितान्त्यसङ्खयेयप्रत्यासत्तिमहिम्नाऽसन्निहिता अपि शतत्वेन रूपेण 'शतम् ' इति प्रत्यक्षप्रतीतौ भासन्त इति सा प्रतीतिः क्रमगृहीतानपि सङ्ख्येयानिश्चिन्वाना यथा न विरुद्धा तथा प्रत्यभिज्ञानात्मकप्रत्यक्षप्रतीतिरपि सन्निहितवर्तमानविषयप्रत्यासत्तिबलादतीतकालत्वं निश्चिन्वानाऽविरुद्धत्याह-यथेति । ननु प्रत्यभिजेन्द्रियजत्वेन प्रत्यक्षस्वरूपाऽभिमता, तत्राऽसन्निहितस्याऽतीतकालत्वस्य प्रतिभासनं न सम्भवतीत्युच्यतेऽस्माभिः, तत्र 'शतम्' इति प्रतीतो यथाऽसन्निहितस्य प्रतिभासन तथा
Page #152
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ २
गृहीतानपि संख्येयान्निश्चिन्वाना न विरुध्यते, न चैषाऽनिन्द्रियजा, इन्द्रियाऽन्वयव्यतिरेकानुविधानात् नाप्यनर्थजा, सन्निहिताऽन्त्यसंख्येयजन्यत्वात् न चैकावभासिनी, एकप्रतिपत्तिसमये 'शतम् '
9
,
6
6
प्रतिभासनं तत्रापि भविष्यतीत्येवं वाचोयुक्तिरयुक्ता भवताम्, शतम्' इति प्रतीतेर निन्द्रियजत्वेन तत्र तथाप्रतिभासनसम्भवेऽपि तद्वलादत्र तथोपपादनाऽसम्भवात् प्रत्यक्षत्वाऽप्रत्यक्षात्वाभ्यामुभयोर्वैलक्षण्यादित्याशङ्कय प्रतिक्षिपति -- न चेति । एषा ' शतम्' इति प्रतीतिः । अनिन्द्रियजा इन्द्रियजा न भवतीति । यथा चेन्द्रियाऽन्वय - व्यतिरेकाभ्यां घटादिप्रत्यक्षस्येन्द्रियजत्वं तथा 'शतम्' इति प्रतीतेर पीन्द्रियाऽन्वयव्यतिरेकनिय तान्वयव्यतिरेकाभ्यामिन्द्रियजत्वमिति निषेधहेतुमाह - इन्द्रियान्वयेति । घटादि - प्रत्ययस्य घटादिलक्षणविषयजत्वेन प्रत्यक्षत्वस्य सम्भवेऽपि 'शतम्' इति प्रत्ययस्याऽर्थत्वाऽभावान्न प्रत्यक्षत्वमित्याशङ्कां निराकरोतिनाऽपीति । अनर्थजा विषयजन्या न भवतीति । शतम्' इति प्रतीतौ शतत्वेनैकाद्यारभ्यान्त्य सङ्घयेयपर्यन्तस्य प्रतिभासत्वेन सन्निहिताऽन्त्य सङ्ख्येयस्याऽपि विषयतया तज्जन्यत्वस्य तत्र सम्भवेनाऽर्थजत्वस्य तत्र भावादिति निषेधहेतुमाह- सन्निहितेति । अन्त्यसङ्ख्येयो नवनवतितमानन्तरगणनामुपगतोऽर्थः, येन शतत्वसङ्ख्यापूरणम् । नन्वन्त्य सङ्घयेय स्वरूपैकव्यक्तिरेव शतम्' इति प्रतीतौ विषय इति न तत्र सन्निहितविषयप्रत्यासत्त्याऽसन्निहितअनमि ते विषमो दृष्टान्त इत्याशङ्कय प्रतिक्षिपति - न चेति - एकावभासिनी ' शतम् ' इति प्रतीतिरिति न चेत्यर्थः । तत्र हेतुमाहएकेति । यथा शतत्वेनान्त्यसंख्येयस्य तत्र विषयत्वमुररीक्रियते तथा प्रथम संख्येयस्याऽपि केवलस्य तत्त्वेन विषयत्वं स्यादिति यथाऽन्त्यसंख्येयग्रहणकाले तन्मात्रविषयत्वात् ' शतम् ' इति प्रतीतिस्तथा प्रथमसंख्येयग्रहणकालेऽपि प्रथम संख्येयमात्रविषयत्वात्
सा
6
·
Page #153
--------------------------------------------------------------------------
________________
९२]
[तत्वबोधिनीविवृतिविभूषितम् | इत्यप्रतीतेः, अन्यथा प्रथमव्यक्तिप्रतिभाससमय एव तत्प्रसङ्गात् , नवाऽप्रमाणम् , बाधकाभावात् , घटाद्यध्यक्षेण तुल्यत्वादिति । न चात्र संख्येयानां विद्यमानता प्रत्यभिज्ञायां पूर्वकालतायास्त्वविद्यमानतेत्यस्ति विशेषः, पूर्वावगतयत्किश्चित्संख्येयविगमेऽपि शतप्रतीतेः । न च वर्तमानकालावच्छिन्नस्यावर्तमानकालावच्छिन्नेन सह समावेशानुपपत्तेस्तत्तेदन्ताविशिष्टैकत्वग्राहिणः प्रत्यभिज्ञानस्याप्रामाण्यमिति वाच्यम् , छत्र-कुण्डलाधवच्छिन्नस्य देवदत्तादेवि परस्परविरुद्धकालावच्छिन्नस्याप्येकत्वाऽविरोधेन तदप्रामास्यात् , न चैवम् , अतो नैकावभासिनी सा प्रतीतिः स्यादित्याहअन्यथेति । तत्प्रसङ्गात् 'शतम् , इति प्रतीतिप्रसङ्गात् । बाधकस्य कस्यचिदभावात् तस्याः प्रतीतेरप्रामाण्यमपि नास्तीत्याहनवाऽप्रमाणमिति। दृष्टान्तदान्तिकयोर्विशेषोपदर्शनेन वैषम्यमाशङ्कय प्रतिक्षिपति-न चेति । अत्र 'शतम् ' इति प्रतीतौ । निषेधे हेतुमाह-पूर्वावगतेति-तथा च यस्य संख्येयस्य विगमस्तस्य विषयभूतस्याऽविद्यमानत्वं संख्येयप्रतीतावपीति नोक्तविशेषस्य सम्भव इति भावः। न च ' इत्यस्य 'वाच्यम्' इत्यनेनाऽन्वयः । यथा छत्र-कुण्डलादिकं परस्परविरुद्धधर्मयोग्यपि तदवच्छिन्नस्य देवत्तादेरेकत्वं तथा वर्तमानकालाऽवतमानकालयोर्विरुद्धधर्म: योगेऽपि तदवच्छिन्नस्य घटादेरेकत्वमविरुद्धमिति तथाऽवगाहित्वेऽपि नाऽप्रमाण्य मिति निषेधहेतुमाह-छत्र कुण्डलाद्यवच्छिन्नस्येति । तदप्रामाण्याऽसिद्धेः प्रत्यभिज्ञाप्रामाण्यासिद्धः। ननु रूपरसादीनां रूपत्व रसत्वादिविरुद्धधर्मयोगेऽप्येकत्र घटादौ सहभाविनां तदभावनियतभावलक्षणो न विरोध इति तद्विशिष्टस्य घटादेरेकत्वं सम्भवति तथैव सहभाविनां छत्र-कुण्डलादीनां न विरोधस्तेषामेकतरभावस्यान्याभावनियतत्वाभावेनोक्तलक्षणविरोधाभावात् ,
Page #154
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
यासिद्धेः । न च देवदत्तादेः सहभाव्यनेक विशेषणावच्छिन्नत्वादेकत्वमविरुद्धम्, तदभावनियतभावलक्षणस्य विरोधस्य सहसम्भविनामभावात् प्रकृते तु प्रागुक्त विरोधशालिविशेषणद्वय विशिष्टस्य नैकत्वं न्याय्यमिति वाच्यम्, एकप्रतिभासवला देवैकत्वसिद्धेः, अन्यथा नीलसंवेदनस्यापि स्थूलाकारावभासिनो विरुद्ध दिक्सम्ब न्धात् प्रतिपरमाणु भेदप्रसक्तेः, तदवयवानामपि दिषट्कयोगाद् भेदापत्तितोऽनवस्थाप्रसक्तेः प्रतिभासविरतिलक्षणा शून्यता स्यादिति
असहभाविनोस्तु पूर्वोत्तरकालयोरे काभावनियतापरभावलक्षणविरोधसद्भावादिति छत्र- कुण्डलाद्यवच्छिन्नस्य देवदत्तादेरैक्यस्य सम्भवेऽपि पूर्वोत्तरकालावच्छिन्नस्य नैक्यसम्भव इति तद्ग्राहिप्रत्यभिज्ञानस्याप्रामाण्यं स्यादेवेत्याशङ्कय प्रतिक्षिपति-न चेतिअस्य वाच्यम्' इत्यनेन योगः । प्रकृते तु ' सोऽयं घटः ' इत्यादि प्रत्यभिज्ञानस्थले पुनः । प्रागुक्तेति तदद्भावनियतभावलक्षणविरोधशालिपूर्वोत्तरकाललक्षण विशेषणद्वय विशिष्टस्य घटादेरेकत्वं न न्यायानुगतमित्यर्थः । भवतूक्तलक्षणो विरोधः पूर्वोत्तरकालयोरेवमपि तद्विशिष्टस्यैकस्य प्रतिभासो भवति प्रत्यभिज्ञायामिति तादृशैकप्रतिभासवलात् पूर्वोत्तरकाल विशिष्टस्य घटस्यैकत्वं स्वीकरणीयमिति निषेधहेतुमुपर्शयति- एक प्रतिभासेति वस्तु यद्यनेकं स्यादनेकप्रतिभासो भवेत्, यादृशं वस्तु तादृशस्तस्य प्रतीतौ प्रतिभास इति न भवति चानेकप्रतिभासः, किन्त्वेकप्रतिभास इति तद्वलादेकत्वस्यैव सिद्धेरित्यर्थः । अन्यथा एक प्रतिभासेऽप्येकत्वमनभ्युपगम्यानेकत्वाभ्युपगमे । नीलसंवेदनस्यापि स्थूलाकारावभासिनः प्रतिभासविरतिलक्षणा शून्यता स्यादित्यन्वयः, कथं स्थूलनीलाकारावभासिनो नीलसंवेदनस्य नीलप्रतिभासे विद्यमाने प्रतिभासविरति लक्षणा शून्यतेत्यपेक्षायां तत्र हेतुमाह - विरुद्धेति
6
[ ९३
-
Page #155
--------------------------------------------------------------------------
________________
९४ ]
[तत्त्वबोधिनीविवृतिविभूषितम्
सर्वव्यवहारविलोपः । अथवा 'तदेवेदम्' इति ज्ञानस्यानिन्द्रियजस्यालिङ्गजस्यापि बाधरहितत्वेन प्रामाण्यमवश्यमभ्युपगन्तव्यम्, अन्यथैवंजातीयस्य कस्यापि प्रामाण्यानभ्युपगमेऽक्षजस्य सन्निहिविरुद्धा या दिशः पूर्वोत्तर दक्षिण-पश्चिमोपर्यधोलक्षणास्तासां षण्णां सम्बन्धात, नाकस्य विरुद्धानेकदिकसम्बन्धः सम्भवतीत्येतस्माद् विरुद्धधर्माध्यासलक्षणहेतोः यावन्तो नीले परमाणवस्तावन्तः स्थूलस्य भेदा इति कृत्वा प्रतिप्रमाणु ये भेदास्तेषां प्रसक्तः, नैतावतैव विश्रान्तिः, किन्तु परमाणुस्वरूपा ये स्थूल-नीलस्याऽवयवास्तेषामपि प्रत्येक विरुद्धदिषट्कलक्षणविरुद्धधर्माध्यासाद् भेदप्रसङ्गतोऽनवस्थाप्रसङ्गान्नीलसंवेदने न किमपि प्रतिभासत इत्यापतितमिति प्रतिभासविरतिलक्षणा शून्यता स्यात्, नेदृशापादानमिष्टापत्त्या परिहर्तुं शक्यम् , यतस्तथाभ्युपगमे ' इदं नीलमिदं पीतम्' इत्यादिसर्वव्यवहारविलोपः प्रसज्यत इत्यतो यथाप्रतिभास्येव वस्तूपेयम्, तथा च प्रत्यभिज्ञाने एकप्रतिभासाद् वस्तुन एकत्वं स्वीकरणीयमित्यर्थः। माऽस्तु वा प्रत्यभिज्ञानस्य प्रत्यक्षत्वमनुमानत्वं च तथापि प्रत्यक्षाऽनुमानव्यतिरिक्तस्यापि तस्य प्रामाण्यं स्वीकरणीयमेव, अन्यथा सौगतानां क्षणिकत्वादिधर्मप्रसिद्धिरपि दर्घटा स्यात् , यतः प्रत्यक्षं सन्निहितार्थमात्रग्राहीति सर्वोपसंहारण क्षणिकत्वादिसाध्येन सह कस्यापि हेतोरविनाभावं न गृह्णात्येव, अनुमानेन च तथाव्याप्तिग्रहाभ्युपगमे तदप्यनुमानं व्याप्तिग्रहणमन्तरेण न सम्भवतीति तथाभूतव्याप्तिग्रहणार्थमनुमानान्तरमास्थेयम्, तत्रापि व्याप्तिग्रहणमनुमानान्तरेणेत्येवमनवस्थाप्रसक्त्या व्याप्तिग्रहणाभावतोऽनुमानाप्रवृत्त्या कुतस्तत्प्रमाणकक्षणिकत्वादिसिद्धिरित्याह-अथवेति । 'अन्यथा' इत्यस्यैव विवरणरूपम्-एवंजातीयस्य कस्याऽपि प्रामाण्यानभ्युपगम इति । एवंजातीयस्य प्रत्यक्षाऽनुमानव्यतिरिक्तस्य, अक्षजस्य सकल पदार्था
Page #156
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् |
[ ९५
तार्थमात्रग्राहित्वेन लिङ्गजस्य चानवस्थाप्रसक्तितः सकलपदार्थाक्षेपेण प्रतिबन्धग्राहकत्वाऽयोगादनुमानप्रवृत्तेरभाव इति कुतस्तदेकप्रमाणकक्षणिकत्वादिधर्मसिद्धिः सौगतानाम्, नहि ते नैयायिकादय इव सामान्यप्रत्यासत्तिं सर्वाक्षेपेण प्रतिबन्धग्राहिकामभ्युपगच्छन्ति । यैरपि सामान्यप्रत्यासत्तिरभ्युपेया, तेषामपि ज्ञातस्य सामान्यस्य
क्षेपेण प्रतिबन्धग्राहकत्वाऽयोगादित्यन्वयः । कथं न प्रतिबन्धग्राहकत्वमक्षजस्येत्यपेक्षायामाह - सन्निहितार्थमात्रग्राहित्वेनेति । लिङ्गजस्य च प्रतिबन्धाग्राहकत्वे हेतुः -- अनवस्थाप्रसक्तित इति । अनुमानप्रवृत्तेरभावः क्षणिकत्वानुमानप्रवृत्त्यभावः । तदेकप्रमाणकेति - अनुमानमात्रप्रमाण केत्यर्थः । येन च नैयायिकादिना सामान्यलक्षणा प्रत्यासत्तिरुपेयते तन्मते सामान्यलक्षणाप्रत्यासत्तिजन्यप्रत्यक्षमेवातीताऽनागत वर्तमानस कल साध्य सकल हेतुग्राहकत्वात् सकलपदार्थाक्षेपेण प्रतिबन्धग्राहकमिति प्रत्यक्षात्मक प्रतिबन्धग्राहिज्ञानतः स्यादप्यनुमानप्रवृत्तिः, सौगतैस्तु सामान्यलक्षणा प्रत्यासत्तिरेव नोपेयत इति कुतस्तत्प्रभवं प्रत्यक्षमविनाभावग्राहकं तन्मत इत्याहनहीति - अस्य ' अभ्युपगच्छन्ति ' इत्यत्रान्वयः । ते सौगताः, 6 अभ्युपगच्छन्ति इत्यत्रान्वयः । प्रतिबन्धग्राहिकां प्रतिबन्धग्रहजनिकाम्, बौद्धा: - " नाऽऽयाति न च तत्रासीन्न चोत्पन्नं नवांशवत् । जहाति पूर्व नाऽऽधारमहो व्यसनसन्ततिः " 11 [ इत्यादिवचनावेदितसामान्यखण्डनयुक्तिजालतः सामान्यमेव प्रतिक्षिपन्ति कुतस्तेषां तस्य प्रत्यासत्तितयोररीकार यैर्नैयायिकादिभिः सामान्यलक्षणा प्रत्यासत्तिरुपेयते तन्मतेऽपि सामान्यलक्षणाप्रभवं प्रयक्षं न सर्वोपसंहारेणाऽविनाभावग्राहकमित्याह — यैरपीति । तेषामपि मत इति शेषः, ज्ञातस्य सामान्यस्य प्रत्यासत्तित्वे इत्यन्वयः, एतच्च प्राचीननैयायिक मतेन तन्मते
1
इत्याशयः ।
"
-
Page #157
--------------------------------------------------------------------------
________________
[ तत्त्वबोधिनीविवृतिविभूषितम् सामान्यज्ञानस्य वा प्रत्यासत्तित्वे वह्नित्वसामान्यप्रत्यासत्त्या कथश्चिद् यावद्वह्निभानसम्भवेऽपि वहिमत्त्वादेवह्निसंयोगादिरूपस्य सामान्यत्वाऽभावेन तत्प्रत्यासत्त्या यावद्वह्निमदादिभानाऽनुपपत्तिः।
वहिरिन्द्रियजप्रत्यक्षस्थले तदिन्द्रियसम्बद्धविशेष्यकज्ञानप्रकारीभूतसामान्यं तदिन्द्रियस्य प्रत्यासत्तिः, मानसस्थले तु स्वसंयुक्तात्मसमवेतज्ञानप्रकारीभूतसामान्य मनसः प्रत्यासत्तिः, सामान्यं येन सम्बन्धेन ज्ञायते तेन सम्बन्धेनाधिकरणानां प्रत्यासत्तिः। सामान्यज्ञानस्येति-एतच्च नव्यनैयायिकमतमवलम्ब्य, अत्र बहिरिन्द्रियजन्यप्रत्यक्षस्थले स्वसंयुक्तमनःसंयुक्तात्मसमवेतसामान्यज्ञानं बहिरिन्द्रियाणां प्रत्यासत्तिः, प्रत्यासत्तिता च तस्य स्वविषयवत्त्वसम्बन्धेन, ज्ञानलक्षणा प्रत्यासत्तिरपि ज्ञानरूपैव, परं तस्य प्रत्यासत्तितानियामको विषयतासम्बन्धः, अत एव सामान्यज्ञानं स्वविषयाश्रयस्य ज्ञानं जनयति, ज्ञानं च स्वविषयस्य ज्ञानं जनयतीति विशेषः, सामान्यज्ञानलक्षणप्रत्यासत्तिश्च बहिरिन्द्रियस्थले तदिन्द्रियजतद्धर्मप्रकारकबोधसामग्रीमपेक्षत इति, मानसस्थले तु स्वसंयुक्तात्मसमवेतसामान्यज्ञान प्रत्यासत्तिरिति बोध्यम् । सामान्यवाभावेन नित्यत्वे सति अनेकसमवेतत्वलक्षणसामान्यत्वस्याभावेन, नेयायिकादिभिश्च वह्निमत्त्वेन समानानां वह्निमतां भावो वह्निमत्त्वमपि अनित्यं सामान्य सामान्यलक्षणाप्रत्यासत्तिस्थले स्वीकृतम् , यद्यपि सर्वेषु वह्निमत्सु वह्निसंयोगादिरूपं वह्निमत्त्वं नैकमनुगतं तथापि वह्नित्वेनाऽनुगतीकृतानां वह्नीनां संयोगस्य संयोगत्वेनाऽनुगतीकृतस्य सकलवह्निमत्साधारण्यात् तत्प्रत्यासत्त्या यावद्वह्निमद्भानमुपपादितम् , परं तत्तव्यक्तित्वेन वह्नीनामननुगतत्वं वह्नित्वेनाऽनुगतत्वमितीत्थं स्वीकृतं स्यात् , तथा च सति स्माद्वादिकक्षाप्रवेशस्तेषां स्यादिति बोध्यम् । अत्र नैयायिकाशङ्का
Page #158
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
न च, तत्राऽपि स्वाश्रयादिसम्बन्धेन वनित्यादिकमेव प्रत्यासत्तिः, न चैवं समवायेन वह्नित्वप्रकारकज्ञानादपि वह्निमतां प्रत्यक्षापत्तिः, परम्परासम्बन्धेन वह्नित्वप्रकारकज्ञानस्यैव तद्धेतुत्वात् , न चैवं 'वह्निमद् ' इतिज्ञानानन्तरं तन्न स्यात् , प्रकारीभूतस्य वह्नः संसर्गमुद्भाव्य प्रतिक्षिपति-न चेति-अस्य ‘वाच्यम् ' इति परेण योगः। तत्रापि वह्निमत्त्वादिना यावद्वह्निमदादिभानस्थलेऽपि । स्वाश्रयादिसम्बन्धेन स्वाश्रयवत्त्वादिसम्बन्धेन, वह्नित्वादेरपि स्वाश्रयीभूतवह्नयादिमत्त्वसम्बन्धेन यावदह्निमत्सु सद्भावाद् वह्नित्वादिलक्षणसामा. न्यप्रत्यासत्त्या यावद्वह्निमदादिभानोपपत्तिः, अत्र ज्ञातस्य सामान्यस्य प्रत्यासत्तिन्वपक्षे स्वाश्रयवत्त्वसम्बन्धेन वह्नित्वादिकं प्रत्यासत्तिः:सामान्यज्ञानस्य प्रत्यासत्तित्वपक्षे स्वविषयाश्रयवत्त्वसम्बन्धेन वह्नित्वादिज्ञानं प्रत्यासत्तिरिति 'स्वाश्रयादि इत्यादिपदात् स्वविषयाश्रयवत्त्वस्य “वह्नित्वादिकम्' इत्यत्रादिपदाद् वह्नित्वादिज्ञानस्य परिग्रहः । ननु यदि वल्लित्वादिकमेव वह्निमदादिभानप्रयो-. जकप्रत्यात्तिस्तहि समवायेन वह्नित्वप्रकारकज्ञानादपि सकलवह्निमतां प्रत्यक्षं स्यादिति तटस्थाऽऽशङ्कां प्रतिक्षिपति-न चेति'वह्नित्वप्रकारकशानाद्' इत्युक्तिः सामान्य ज्ञानप्रत्यासत्तित्वपक्षमवलम्ब्य; शायमानसामान्यप्रत्यासत्तित्त्वपक्षे तु समवायेन वह्नित्वप्रकारकज्ञानविषयाद् वह्नित्वादपि वह्निमतां प्रत्यक्षापत्तिरित्येव मापादनवचनं ज्ञेयम् । निषेधहेतुमाह-परम्परसिम्बन्धेनेति-स्वाश्रयवत्वसम्बन्धेनेत्यर्थः। तहेतुत्वात् वह्निमत्प्रत्यक्षहेतुत्वात् । परम्परासम्बन्धेन वह्नित्वप्रकारकज्ञानस्य वह्निमत्प्रत्यक्षहेतुत्वे 'वह्निमद् . इत्याकारकवह्निप्रकारकज्ञानतो वह्निमत्प्रत्यक्षं न स्यादित्याशङ्कय प्रतिक्षिपति-न चेति । एवं परम्परासम्बन्धेन वह्नित्वप्रकारकज्ञानस्य तद्धेतुत्वे । तन्न स्यात् वह्निमत्प्रत्यक्षं न भवेत् । 'वह्निमद्' इति ज्ञाने प्रकारतया यथा वह्नर्भानं तथा तत्र स्वाश्रयवत्त्वसम्ब
Page #159
--------------------------------------------------------------------------
________________
९८ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् तयापि भाने वाधकाऽभावात् , अत एव 'विशेषणविधया जनकज्ञाने प्रकारीभूतस्यैव संसर्गत्वे जन्यज्ञानेऽपि तथात्वम् , इतरथा तूभयत्रैव प्रकारतानाक्रान्तमेव संसर्गत्वमिति सर्वत्र वह्नित्वेनैव वह्निमतां भानं स्याद् ' इति कुचोद्यमपास्तमिति वाच्यम् । तथाप्यभाववदादिप्रत्यक्षस्थले सामान्यप्रत्यासत्तिताया वक्तुमशक्यत्वात् , न्धेन वह्नित्वमपि प्रकारतया भासत इति तदेव ज्ञानं स्वाधयवत्त्वसम्बन्धेन वह्नित्वप्रकारकमपि, एवं च प्रकारतया भासमानस्यापि वह्ननिरुक्तसम्बन्धघटकतयाऽपि नत्र भानमित्यत उक्तकारणसम्पत्त्या 'वह्निमद्' इति ज्ञानतो वह्निमत्प्रत्यक्षस्य सम्भवा. दिति निषेधहेतुमाह-प्रकारीभूतस्येति । अत एव बाधकाभावात् प्रकारतया भासमानस्य संसर्गतया भानसम्भवादेव, अस्य • अपास्तम्' इत्यत्रान्वयः। तथात्वं प्रकारीभूतस्यैव संसर्गत्वम् । इतरथा तु जन्यज्ञाने प्रकारीभूतस्य संसर्गत्वाऽभावे तु । उभयत्रैव जनकज्ञाने जन्यज्ञाने च । तथा च सति जनकशाने संसर्गतयैव वढे ने वह्निमत्प्रत्यक्षात्मकजन्यज्ञानेऽपि संसर्गतयैव वर्भानव्यवस्थितौ वह्निमत्प्रत्यक्षमपि वह्नित्वप्रकारकमेव भवेत् , न तु वह्निप्रकार कमित्याह-सर्वत्रेति । तत्रापि 'स्वाश्रयादिसम्बन्धेन ' इत्यादिशङ्काप्रतिक्षेपहेतुमुपदर्यात - तथाऽपीति -- वह्निमदादिप्रत्यक्षस्थले स्वाश्रयादिसम्बन्धेन वह्नित्वादिसामान्यस्य प्रत्यासत्तित्वसम्भवेsपीत्यर्थः । अभावेति-अभावो यथा न सामान्यं तथाऽभावत्वमपि न सामान्यमिति यावदभाववत्प्रत्यक्षस्थले सामान्यप्रत्यासत्तितायाः कस्यापि वक्तुमशक्येत्वेन सामान्यप्रत्यासत्या यावदभाववत्प्रत्यक्षासम्भवादित्यर्थः। यदि चाऽखण्डोपाधिस्वरूपमप्यभावत्वमनुगतत्वात् सामान्यस्वरूपमुपेयत इति स्वाश्रयवत्त्वरूपपरम्परासम्बन्धेनाऽभावत्वमेव प्रत्यासत्तिरित्युच्यते तर्हि घटत्वादिकमप्यखण्डोपाधिरेवाऽस्तु, तस्य सामान्यत्वस्वीकारादेव सामान्यकार्य
Page #160
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रणरकम्]
[ ९९
तत्राप्यभावत्वादेरखण्डोपाधेः सामान्यत्वस्वीकारे च तेनैव जात्युच्छेदाद् दत्तस्तस्यै जलाञ्जलिः । किश्च, परम्परासम्बन्धेन वह्निवादिप्रकारकज्ञानं विनाऽपि साक्षात्सम्बन्धेन वह्निमत्त्वादिप्रकारकज्ञानादपि यावद्वह्निमदादिप्रत्यक्षानुभवस्य सा जनीनत्वाद् वह्निमवादेरपि सामान्यत्वं ध्रुवम् , साक्षात्सम्बन्धेन वह्निमत्त्वप्रकारके सिद्धया सामान्यपदार्थोच्छेद एव स्यादित्याह-तत्राऽपीति-अभाववदादिप्रत्यक्षस्थलेऽपीत्यर्थः। तेनैव अखण्डोपाधिनव । तस्यै जात्यै । यदि च वह्नित्वेन सकलवह्निप्रत्यक्षानुरोधेन वह्नित्वादिकं सामान्यमुपेयते तर्हि वह्निमत्त्वेन सकलवह्निमत्प्रत्यक्षानुरोधेन वह्निमत्त्वादेरपि सामान्यत्वं स्वीकरणीयं स्यादित्याह-किञ्चेति । स्वाश्रयवत्त्वरूपपरम्परासम्बन्धेन वह्नित्वप्रकारकज्ञानाद् यदि सकलवह्निमत्प्रत्यक्षमुपपद्यत न स्त्रीक्रियेताऽपि वह्निमत्त्वं सामान्यम् , न चैवम्, परम्परासम्बन्धेन वह्नित्वप्रकारकज्ञानस्य सकलवह्निमत्प्रत्यक्षं प्रति कारणत्वकल्पनापेक्षया स्वरूपसम्बन्धेन वह्निमत्त्वप्रकारकज्ञानस्यैव लाघवेन तत् प्रति कारणत्वकल्पनस्यौचित्या. दित्याशयेनाह-परम्परासम्बन्धेनेति-' परम्परासम्बन्धेन वह्नित्वादिप्रकारकज्ञानं विनाऽपि' इत्यनेन व्यतिरेकव्यभिचारादपि तस्य कारणत्वं न सम्भवतीति दर्शितम् । व्यतिरेकव्यभिचारोद्धाराय साक्षात्सम्बन्धेनेति-तद्धर्मविशिष्टस्य यत्र भानं परम्परासम्बन्धेन तद्धर्मस्यापि तत्र भानमिति नियमश्चात्रोपोबलकः, साक्षात्सम्बन्धेन वह्नित्वप्रकारकज्ञानस्य सामान्यलक्षणप्रत्यासत्तिविधया कारणत्वस्यान्यत्र क्लप्तत्वादत्रापि परम्परासम्बन्धेन वह्नित्वप्रकारकज्ञानस्यैव तत्त्वमुचितमिति लाधवमकिश्चित्करमिति हृदयम्। यदि तद्धर्मविशिष्टस्य प्रकारत्वे तद्धर्मस्यापि प्रकारत्वमिति नियम आश्रीयते तर्हि जातित्वेन सकलजातिप्रत्यक्षे जातित्वप्रकारकज्ञानस्य सामान्यलक्षणप्रत्यासत्तिविधया कारणत्वस्य क्लृप्ततया जाति
Page #161
--------------------------------------------------------------------------
________________
१०० ]
[ तत्त्वबोधिनी विवृतिविभूषितम्
परम्परासम्बन्धेन
त्वप्रकारकत्वमावश्यकमिति चेतु ? तर्हि
जातप्रकार जातित्वप्रकारकत्वमावश्यकमिति जातिमदादिप्रत्यक्षे जातित्वादेः प्रत्यासत्तित्वं स्यात्, तच्चायुक्तमिति वह्निमत्त्वादेर्जातिमत्वादेश्व सामान्यत्वे ध्रुवे च वह्निमदादेरेव जातिमदादेरेव च सामान्यत्वकल्पने लाघवम्, सखण्डाखण्ड सम्भिनैकस्वभावस्य वस्तुनः प्रामाणिकत्वात्, तथा च धूमादेर्धूमसामान्यत्वेन ज्ञाने यावद्धुममदादिप्रत्यक्षेऽपि परम्परया जातित्वप्रकारकज्ञानस्य कारणत्वतो जातित्वादेरपि सामान्यप्रत्यासत्तित्वं भवेत्, तच्च यथा गौरवेणायुक्तं तथैव वह्निमदादिप्रत्यक्षेऽपि परम्परासम्बन्धेन वह्नित्वादेः प्रत्यासत्तित्वमयुक्तमिति वह्निमदादिप्रत्यक्षानुरोधेन वह्निमत्त्वादेर्जातिमदादिप्रत्यक्षानुरोधेन जातिमत्त्वादेश्च सामान्यप्रत्यासत्तित्वोपपत्तये जातित्वं कल्पनीयम्, तत्राऽतिरिक्तवह्निमत्त्व- -जातिमत्त्वादिकं धर्म परिकल्प्य तत्र जातित्वकल्पनापेक्षयाऽपि लाघवाद् वह्निमदादेर्जातिमदादेरेव सामान्यत्वं कल्पनीयम्, तत एव च वह्निमदादिलक्षणसामान्यप्रत्यासत्तिबलात् सकलवह्निमदादिप्रत्यक्षस्योदयसम्भवादिति समाधत्ते तति । तच्च जातित्वादेः प्रत्यासत्तित्वं च । ननु वह्निमदादेः सखण्ड स्वरूपस्य जातित्वेऽखण्ड स्वरूपत्वमपि स्यात्, तत् कथं सङ्गतम् ? सखण्डत्वाखण्डत्वयोर्विरुद्धयोरेकस्मिन् कल्पनाऽसम्भवादित्य आह - सखण्डेति - वस्तुतः सखण्डाऽखण्डोभयस्वभावस्यैकस्य प्रमाणेन विषयीकृतत्वादपेक्षाभेदेन सखण्डत्वाऽखण्डत्वयोरेकस्मिन्नुपपत्तेस्तयोः सर्वधा विरोधस्याऽसिद्धेरित्याशयः । तत्किमीदृशसामान्यलक्षणप्रत्यासत्तिबलसमुद्भूतं प्रत्यक्षम्, एवं सति प्रत्यक्षेणैव सर्वोपसंहारेणाविनाभावग्रह इति न प्रत्यक्षानुमानव्यतिरिक्तस्य प्रमाणस्यावश्यकतेति नाऽनिन्द्रियजाऽलिङ्गजस्य प्रत्यभिज्ञानस्य प्रामाण्यं तद्दृष्टान्तत इत्यत आहतथा चेति - वह्निमदादेर्जातित्वे सिद्धे चेत्यर्थः, यथा च वह्निमदादिः
Page #162
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १०१ ज्ञानमनक्षजमलिङ्गजं सर्वोरसंहारेण प्रतिबन्धग्राहक मूहप्रमाणाख्यमवश्यमभ्युपेयमिति किमप्रकृतेन ? । विवेचितमिदमन्यत्र। ..
। यच्च ‘नित्यात् क्रम-योगपद्याभ्यामर्थक्रियासामर्थ्यलक्षणा सत्ता निवर्तमाना क्षणिकेष्वेवावतिष्ठते' इत्याधुक्तम् , तदसत्क्रमेण कार्यजननेऽपि जनकत्वा जनकत्वस्वभावभेदस्य वस्तुभेदासाधकत्वेन तन्नित्यत्वाऽप्रच्यवात् , यतः क्रमोपेतकार्योपलम्भाद् हेतोजनका जनकस्वभावभेदं कल्पनाऽध्यवस्यति, न च तत्प्रदर्शितसामान्यं तथा धूमादिरपि सामान्यमिति तस्य सामान्यत्वेन ज्ञाने यत् सर्वोपसंहारेणाऽविनाभावग्रहणं तदतिरिक्तमूहाख्यप्रमाणमेवाऽभ्युपेयम्, न तु सन्निहितवर्तमानमात्रविषयकज्ञान एव वर्तमानतया प्रमितस्य प्रत्यक्षत्वस्य तत्र कल्पनं युक्तमित्याशयः । एतद्विस्तराधिगमाय रत्नाकर-सम्मत्यादिकमवलोकनीयमिति सूचयितुमाह-विवेचितमिति-अनिन्द्रिजस्यालिङ्गजस्य प्रत्यभिज्ञोहादिशानस्य प्रामाण्य विचारित ग्रन्थान्तर इत्यर्थः । अन्यदपि बौद्धोक्तं सत्त्व-क्षणिकत्वाऽविनाभावव्यवस्थापनप्रत्यलं वचनमुल्लिख्य प्रति. क्षिपति-यच्चेति । नित्य वस्तु सहकार्यसम्पत्तेः पूर्व यदेव कार्य नाऽकारोत् तदेव कार्य सहकारिसम्पत्तितः कगेतीत्येवं क्रमेण कार्यजनकत्वस्योररीकारेण जनकत्वाऽजनकत्वस्वभावभेदो भवनपि न वस्तुतो भेदस्य साधक इत्येकमेव वस्तु जनकाऽजनकोभयस्वभावं पूर्वोत्तरक्षणवर्तीत्यतो न क्रमजननकारित्वेऽपि नित्यत्वस्य क्षतिरिति बौद्धोक्तस्यायुक्तत्वे हेतुमुपदर्शयति-क्रमेण कार्यजननेऽपीति। क्रमेण कार्यजनने स्वभावभेदभावेऽपि वस्तुनो भेदाभावान्नित्यत्वाक्षतिरित्यत्र हेतुमाह-यत इति । हेतोः कारणस्य । क्रमोपेतेति-क्रमिककार्याणामुपलम्भात् । कल्पना जनकाऽजनकस्वभावभेदविषयिण्यनुमितिः, जनकाऽजनकस्वभावभेदम्, अध्यवस्यति अवगाहते । 'न च' इत्यस्य 'भिद्यन्ते' इत्यनेनान्वयः। तत्प्रदर्शितेति
Page #163
--------------------------------------------------------------------------
________________
[ तत्त्वबोधिनीविवृतिविभूषितम् खभावभेदाद् भावा भिद्यन्ते, अन्यथा कल्पना भावानामेकत्वमप्यध्यवस्थतीति नित्यताऽपि तेषां भवेत , यदि चोदिताऽनुदितप्रयोजनापेक्षः कल्पनारोपितोऽपि जनकाऽजनकस्वभावभेदो भावानामभ्युपगन्तव्यस्तदा स्व-परोत्पाद्यकार्यापेक्षया क्षणेऽपि कल्पनारोपितो निरुक्तानुमितिलक्षणकल्पनाविषयेत्यर्थः। अन्यथा कल्पनाविषयीकृत स्वभावभेदप्रयुक्तभेदतो वस्तुनः क्षणिकत्वे | कल्पना अनुमित्यादिरूपा। यदि कल्पनया स्वभावभेदव्यवस्थित्या क्षणिकत्वं तर्हि एकत्वविषयककल्पनयैकत्वव्यवस्थित्या भावानां नित्यताऽपि भवेदित्यर्थः । यदि च कल्पनया यत् कार्यमुपजायते तत्कार्यापेक्षया जनकत्वम् , यत् कार्य नोपजायते तत्कार्यापेक्षयाऽजनकत्वमित्येवं जनकत्वाऽजनकत्वस्वभावभेदो भावानामभ्युगम्यते तझेकक्षणे एकः क्षणिको भावो योऽभिमतः सोऽपि स्वोत्पाद्यकार्यापेक्षया जनकत्वस्वभावः परोत्पाद्यकार्यापेक्षया चाऽजनकत्वस्वभाव इत्येवं जनक त्वाऽजनकत्वस्वभावभेदादेकक्षणेऽप्येकतयाऽभिमतस्य क्षणिकस्य भेदः स्यादित्येकं किमपि न स्यात्, एकाभावे चानेकमपि कथं भवेत् ? यदेकं न भवति तदनेकमिति गीयते. इत्येकस्य जगत्यभावे न तस्य निषेध इत्येकापेक्षत्वादनेकस्यैकाभावे न सत्त्वं स्यादित्याशयेनाह-यदि चेति-क्रमेण कार्य कुर्वतो नित्यस्य यत् कार्य यदोत्पद्यते तदा तत् कायमुदितप्रयोजनं प्रयोजनपदस्य कार्यपरत्वात् . तदवेक्षः कल्पनाऽऽरोपितो जनकस्वभावः, यच्च कार्य पुनस्तस्यैव नित्यस्य तदानीं नोत्पद्यते किन्तु कालान्तरे जातं भविष्यति वा तत् कार्यमनुदितप्रयोजनम् , तदवेक्षः कल्पनारोपितोऽजनकस्वभाव इत्येवं जनकाऽजनकस्वभावभेदो भावानां क्षणिकवादिना वस्तुभेदसाधकतयाऽभ्युपगन्तव्यः, तदा स्वोत्पाद्यकार्यापेक्षया क्षणे. ऽपि क्षणमात्रस्थायिन्यपि पदार्थे कल्पनारोपितो जनकस्वभावः, तदानीमेव च परोत्पाद्यकार्यापेक्षया कल्पनारोपितोऽजनकस्वभाव
Page #164
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १०३
"
जनका जनकस्वभावभेदः स्याद् अभेदप्रतिभासेन कल्पनाबाधस्तूभयत्र तुल्यः, नाना कार्यजनकै कस्वभावस्यानुभवसिद्धस्य वस्तुनः प्रत्याख्यातुमशक्यत्वात् ।
किश्व, यदि नाम क्रम-यौगपद्याभ्यां नित्यादर्थक्रिया व्यावृत्ता तथापि न ततः क्षणक्षयसिद्धिः, अक्षणिकेभ्य इव क्षणिके
इत्येवं जनकाऽजनकस्वभावभेदः स्यात्, तथा च तत्प्रयुक्त एकक्षणेऽपि क्षणिकस्य वस्तुनो भेदः प्रसज्यत इत्यर्थः । नन्वेकक्षणमात्रस्थायिनोऽभेदः प्रतिभासत इति तेनाभेदप्रतिभासेन भेदप्र तिभासिकल्पना बाध्यत इति बाधितकल्पनया न क्षणिकस्य भेदव्यवस्थितिरिति चेत् ? एवं सति नित्येऽपि वस्तुन्यभेदप्रतिभास उपजायत इति तेनाभेदप्रतिभासेन बाधिता भेदप्रतिभासिकल्पना कथं नित्येऽपि वस्तुनि स्वभावभेदारोपणतो भेदं व्यवस्थापयेदित्याह-अभेदप्रतिभासेनेति । नन्वभेदप्रतिभास एव नित्ये वस्तुनि नाभ्युपेयते, कथं ततोऽभेद ल्पनाबाध इत्यत आह- नानाकार्येतिअनुभूयते च नानाकार्यजनकतयैकं वस्तु तथाऽनुभूयमानतैवैकप्रतिभासः, तस्य तथाऽनुभूयमानवस्तुनोऽपलापासम्भवेऽपलापासम्भवादित्यर्थः, एतावता नित्ये वस्तुनि क्रमेणार्थक्रियाकारित्वमुपपादितमिति न नित्यात् क्रमयौगपद्याभ्यामर्थक्रिया सामर्थ्यलक्षणसत्ता निवर्तत इति कुतस्तस्या नित्यान्निवर्तमानत्वात् क्षणिकेष्ववस्थितिरिति ।
यथा च नित्यात् क्रम-योगपद्याभ्यामर्थक्रियासामर्थ्यलक्षणा सत्ता निवर्तते तथा क्षणिकादपि क्रम - यौगपद्याभ्यामुक्तस्वरूपा सत्ता निवर्तत इति न नित्यान्निवृत्तिमात्रेण तस्याः क्षणिकेष्ववस्थितिसम्भव इत्याह- किञ्चेति । तथाऽपि नित्यात् क्रम-यौपद्याभ्यामर्थक्रिया सामर्थ्यलक्षणसत्ताया। निवृत्तत्वेऽपि ततः निरुक्तलक्षण
Page #165
--------------------------------------------------------------------------
________________
१०४ ]
[ तत्त्वबोधिनीविवृतिविभूषितम्
भ्योऽप्यस्या व्यावृत्तत्वात् , यतः-क्षणिका अपि कार्य केवला एकमुत्पादयन्ति ? उता नेकम् ? समुदिता अपि तदेकम् ? अनेकं वा ? न तावदेकमुत्पादयन्ति, अदर्शनात् . अनभ्युपामाच, एकम्मादेवाग्नरिन्धनविकारधूमभस्मायनेककार्यदर्शनात् , 'न वै किश्चिदेकं जनकम्' इत्यभ्युपगमाच; नाप्येकमनेकोत्पादकम् , सामग्र्या सत्तातः । अस्याः अर्थक्रियायाः। क्षणिकेभ्यो निरुक्तसत्ताया व्यावृत्तत्वप्रसाधनाय विकल्पानाह-यत इति । क्षणिकाः केवला एक कार्यमुत्पादयन्तीत्येकः पक्षः, क्षणिका केवला अनेक कार्यमुत्पादयन्तीति द्वितीयः पक्षः, समुदिताः क्षणिका एकं कार्यमुत्पादयन्तीति तृतीयः कल्पः, समुदिताः क्षणिका अनेक कार्यमुत्पादयन्तीति तुरीयः कल्प इत्येवं चत्वारो विकल्पाः. तत्र प्रथमं कल्पं प्रतिक्षिपति-न तावदेकमुत्पादयन्पीति । अदर्शनात् केवलस्य क्षणिकस्यैककार्यजनकत्वाऽदर्शनात् , न त्वेकमेव क्षणिकमेकं कार्यमुत्पादयत् क्वचित् कदाचिद् दृश्यत इति । अनभ्युपगमाच्च बौद्धैरप्येकस्य क्षणिकस्यककार्य प्रति जनकत्वस्यानभ्युपगमादपि केवलाः क्षणिका एक कार्यमुत्पादयन्तीति न युक्तः। तत्र प्रथमहेतोरेकस्य क्षणिकस्यैककार्यजनकत्वाऽदर्शनस्य दाढायैकस्यानेककार्यजनकत्वदर्शनं हेततयोपन्यस्यति-एकस्मादेवेति। एकस्यैककार्यजनकत्वानभ्युपगमसमर्थनायानेकस्य सामग्रीरूपतामापन्नस्यैककार्यजनकत्वाभ्युपगमं हेतुतया दर्शयति-न वै किञ्चिदेकं जनकमिति एतदन्तरं 'सामग्री वैजनिका' इति दृश्यम् । द्वितीयकल्पं प्रतिक्षिपति-नाप्येकमने कोत्पादकमिति न वै किञ्चिदेकं जनकम् 'सामग्री चै जनिका' इत्युपगमतः सामथ्या एव जनकत्वस्याभीष्टत्वेन यथैकं काय. प्रति नैकस्यैव जनकत्व तथैवानेक कार्य प्रत्यपि नैकस्यैव जनकत्वमिति निषेधहेतुमाह-सामग्रथा एवेति । नोक्तनियममात्रतः सामग्रया एव जनकत्वम् , किन्तूपलभ्यते चानेकस्मात् कार्योत्पत्तिरित्यतोऽपि सामग्रया जनकत्वं नैकस्यैवेत्याह
Page #166
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १०५ एव जनकत्वाभ्युपगमात् , अनेकस्मात् कार्योत्पत्त्युपलब्धेश्व, नाप्य- . नेकमेकोत्पादकम् , अनेकस्मादुपजायमानस्य कार्यस्य नानात्वस्य न्यायप्राप्तत्वात् , इष्यते च सौत्रान्तिक-वैभाषिकाभ्यां सश्चितेभ्यः परमाणुभ्यः सश्चितनामेव तेषामुत्पत्तिः, सश्चितपरमाणुव्यतिरेकेण मिन्नस्य वस्तुनोऽनभ्युपगमात् , संवृत्यैकस्य घटादेश्वाऽजन्यत्वात् , ज्ञानमपि विषयाऽऽलोक-मनस्कारादिसामग्रीप्रभवं नैकं युक्तम् , अनेकस्मात् कार्योत्पत्त्युपलब्धेश्चति । समुदिताः क्षणिका एक कार्यमुत्पादयन्तीति तृतीयकल्पं निरस्यति-नाप्यनेकमेकोत्पादकमिति । कारणभेदात् कार्यभेद इति नियमेन कारणस्यानेकत्वे कार्यस्याप्यनेकत्वं प्रसज्यत इति निषेधहेतुं दर्शयति-अनेकस्मादुपजायमानस्येति । 'पुआत् पुलोत्पत्तिः' इत्यभ्युपगच्छतोः सौत्रान्तिक-वैभाषिकयोौद्धविशेषयोरनेकस्मादनेकोत्पत्तिरेवाभिमतेत्याह-इष्यते चेति। तेषां परमाणूनाम् । ननु कपालादितो घटादेरवयविन एकस्योत्पत्तिदृश्यत एवेति कथं पुजात् पुञ्जोत्पत्तिरित्यत आह-सञ्चितेति-सञ्चिताः परमाणुविशेषा एव कपालादयः, घटादयोऽपि सश्चिताः परमाणुविशेषा एव, सश्चितपरमाणुव्यतिरेकेणातिरिक्तस्यावयविरूपवस्तुनः सौत्रान्तिक वैभाषिकाभ्यामनभ्युपगमादित्यर्थः । ननु 'अयं घटः, अयं पटः' इत्येवमेकस्य घटादेरवयविनोऽपि प्रतिभासनं समस्ति, तस्यैवैकस्यानेकजन्यत्वं स्यादित्याह-संवृत्येति-वस्तुगत्या नास्त्येव घटादिरेकः, संवृत्तिः कल्पना, तया कल्पितस्य तस्य सम्भवेऽपि न तस्य जन्यत्वम्, काल्पनिकस्य तस्य वान्ध्येयकल्पस्य जन्यजनकभावानाश्रयत्वादित्यर्थः । ननु विषयाऽऽलोकेन्द्रियाद्यनेककारणसमुत्थमेकं विज्ञानलक्षणं कार्य दृश्यत एवेति कथमेकस्य नानेककारणप्रभवत्वमित्यत आह-ज्ञानमपीति-'नैकं युक्तम्' इत्यनेनान्वयः, अनेकजन्यस्यानेकत्वे क्लृप्ते यदि ज्ञानमप्यनेकजन्यमिष्यते तदा
Page #167
--------------------------------------------------------------------------
________________
१०६ ]
[ तत्त्वबोधिनीविवृतिविभूषितम्
नाऽपि तदेकरूपमभ्युपगम्यते, अन्तरहङ्कारास्पदसुखादिरूपस्य बहिश्च तद्विपरीतम्य ग्राह्य-ग्राहकाकारोभयरूपस्य तस्य संवेदनात् । अथाऽयमनयोर्भेदावभासो भिन्नयोरिव, न पुनर्भिन्नयोरेत्र, तदुक्तम् –' ग्राह्य ग्राहकसंवित्तिभेदवानिव लक्ष्यते” ।
] इति । नैतदेवम्-बाह्यार्थवादत्यागप्रसक्तेः । न च ग्राह्य-ग्राहकातदप्यनेकमेव स्यान्नैकमित्यर्थः । नोक्तनियमबलादेव तस्यानेकत्वं किन्त्वभ्युपगम्यते स्वसंवेदनेनाऽन्तः सुखादिरूपस्य वहिश्च ग्राह्य ग्राहकोभयरूपस्य ज्ञानस्यानुभूयमानत्वादप्यनेकरूपत्वमेव, न त्वेकरूपत्वमित्याह-नापीति-अस्य 'अभ्युपगम्यते' इत्यनेनान्वयः। तज्ज्ञानमेकरूपं नाभ्युपगम्यत इत्यत्र हेतुमुपदर्शयति-अन्तरिति-'सुखादि' इत्यादिपदाद् दुखादेः परिग्रहः । तद्विपरीतस्य अहङ्कारास्पदसुखादिविलक्षणस्य । तस्य ज्ञानस्य । ज्ञानस्योक्तदिशा भेद मसहमानः शङ्कते-अथेति । अयम् अन्तः सुखादिरूपतया बहिश्च ग्राह्यग्राहको. भयरूपतयाऽनन्तरमुपदर्शितः। अनयोः अन्तर्बहिनियोः । यद्यप्येकमेव ज्ञानं न तु भिन्नम् , अथापि तथा भासत इति कृत्वा भिन्नयोरिव । भिन्नयोरिव तयोर्भेदावभासो न तु भिन्नयोरेवेत्यत्र सौगतवचनं संवादकतयोपदर्शयति-तदुक्तमिति-"एवं स्वप्रकाशोऽपि बुद्धयात्मा विपर्यासितबुद्धिभिः ।" इति पूर्वार्द्ध दृश्यम् । समाधत्तेनैतदेवमिति । यदि स्वप्रकाशचिपमेव ज्ञानं न तु वस्तुगत्या तस्य ग्राह्यग्राहकभावः, किन्तु संवृत्या ग्राह्यरूपतया ग्राहकरूपतया च तदवभासः, एवं तर्हि वास्तवग्राह्यग्राहकभावाभावान्न तस्य ग्राह्यं बाह्य वस्तु नाऽपि तद्ग्राहकं ज्ञानमिति प्रमाणाभावाद बाह्यार्थवाद. उच्छितेत्याह.-बाह्यार्थवादत्यागप्रसक्तेरिति । ज्ञानस्य ग्राह्याकारो ग्राहकाकारश्च सांवृत इति संवृत्योभयरूपत्वेऽपि वस्तुगत्या नोभ
Page #168
--------------------------------------------------------------------------
________________
अनेकान्त व्यवस्थाप्रकरणम् ]
[१०७
कारयोः सांवृतत्वम् , ग्राहकाकारस्य बोधरूपतया समनन्तरप्रत्ययजनितत्वेन ग्राह्याकारस्य च विषयार्पितत्वेन कारणान्वय-व्यतिरेकानुविधायितयाऽसांवृतत्वात् । न च निराकारमभिन्नस्वभावमेकसामग्रीजन्यं ज्ञानं सम्भवति, परमते निराकारस्य विषयाऽग्राहित्वात् , तस्माकमनेकजन्यमिति स्थितम् । नापि पूर्वसामग्रीत उत्तरा सामग्री प्रभवतीति बौद्धसिद्धान्तमनुरुध्याऽनेकमनेकमुत्पादययरूपत्वमित्येकं ज्ञानमनेककारणप्रभवं स्यादित्याशङ्कय प्रतिक्षिपतिन चेति । निषेधे हेतुमाह-ग्राहकाकारस्येति-'उत्तरोत्तरबोधस्य पूर्वपूवैबोधजनितत्वम्' इति ज्ञानस्य स्वाव्यवहितपूर्ववर्तिज्ञानस्वरूपसमनन्तरप्रत्ययजन्यत्वेन तदात्मकग्राहकाकारस्थापि समनन्तरप्रत्ययजनित्वेन, ज्ञाने ग्राहाकारस्यापि 'यदाकारो विषयस्तदाकारं ज्ञानम्' इति नियमानुरोधेन विषयः स्वाकारं ज्ञाने समर्पयतीति विषयार्पितत्वेन, 'समनन्तरप्रत्ययसत्त्वे ज्ञानस्य : ग्राहकाकारसत्त्वं समनन्तरप्रत्ययाभावे ग्राहकाकाराभावः, एवं यदाकारो विषयस्तदाकारं ज्ञानं तदाकारविषयाऽभावे · ज्ञानस्य तदाकाराऽभावः' इत्येवमन्वय-व्यतिरेकानुविधायितया ग्राह्याकार-ग्राहकाकारयोरसावृतत्वाद्-वास्तविकत्वादित्यर्थः । ननु ज्ञानं निराकारमेवेति न ग्राह्यग्राहकोभयरूपता तस्येत्यभिन्नखभावं तदेकसामग्रीजन्यमित्येकस्य तस्यानेककारणजन्यत्वं स्यादित्याशङ्कय प्रतिक्षिपति-न चेतिअस्य 'सम्भवति' इत्यनेनान्वयः । परमते बौद्धमते । तृतीयकल्पखण्डनमुपसंहरति-तस्मादिति । समुदिताः क्षणिका अनेकं कार्यमुत्पादयन्तीति तुरीयकल्पं प्रतिक्षिपति-नापीति-अस्य 'युक्तम्' इत्यनेनान्वयः। रूपज्ञानादिघटितसामग्रीतोऽनन्तरं रूपज्ञानादिघटिता सामग्री जायत इति तत्राव्यवहितपूर्ववर्तित्वाद् रूपं यथा रूपस्य कारणं तथा ज्ञानस्यापि, एवं ज्ञानमपि यथा ज्ञानस्य - कारणं तथा रूपस्थापि, तथा च ज्ञानजन्यत्वेन ज्ञानं यथा ज्ञानरूपं तथा रूपमपि
Page #169
--------------------------------------------------------------------------
________________
१०८ ]
[ तत्त्वबोधिनी विवृतिविभूषितम् तीति वक्तुं युक्तम् , रूपज्ञानादीनां ज्ञानरूपादिजन्यत्वेन ज्ञानरूपादित्वापत्तेः। न चावान्तरकारणविशेषात् कार्यविशेषः, तथाहि-चक्षुरूपालोकमनस्कारादिषु विज्ञानादिकार्योत्पादकेषु मनस्कारो विज्ञानमुपादानत्वेन जनयति, शेषकार्याणि सहकारित्वेन, एवं रूपादिकमपि रूपादिकमुपादानत्वेन, शेषाणि सहकारित्वेज्ञानजन्यत्वेन ज्ञानात्मकं स्यात् , एवं रूपजन्यत्वेन रूपं यथा रूपस्वरूपं तथा ज्ञानमपि रूपजन्यत्वेन रूपस्वरूपं स्यादिति निषेधहेतुमुपदर्शयति-रूपज्ञानादीनामिति । यद्यपि रूपज्ञानादिसामग्री रूपज्ञानादिसामग्रीजन्येति सामग्रीघटकरूपादिजन्यत्वं ज्ञानादीनामपि, एवं सामग्रीघटकशानादिजन्यत्वं रूपादीनामपि, तथाऽपि रूपादिकं प्रति रूपादिकमुपादानविधया कारणम् , ज्ञानादिकं च सहकारिविधया कारणम् , एवं ज्ञानादिकं प्रति ज्ञानादिकमुपादानतया कारणम् , रूपादिकं च सहकारितया कारणम् , तथा चोपादानजातीयमेव कार्य भवति न सहकारिजातीयमिति रूपादे रूपाद्यात्मकत्वमेव शानादेश्च झानादिरूपत्वमवेत्यवान्तरकारणविशेषात् कार्यविशेषो भविष्यतीत्याशङ्कय प्रतिक्षिपति-न चेतिअस्य ‘वाच्यम्' इति परेणान्वयः। अवान्तरकारणविशेषमुपदर्शयति-तथाहीति-मनस्कारश्चित्तस्यैव कार्योन्मुखोऽवस्थाविशेषः, अवस्थाविशेषापनं चित्तमेव वा, स च विज्ञानं प्रत्युपादानकारणं कार्यान्तराणि प्रति तु सहकारिकारणम् , एवं रूपादिकमपि रूपादिकं प्रत्युपादानकारणं शेषकार्याणि प्रति तु सहकारिकारणमिति ज्ञानादिकार्यजनने मनस्कार उपादानतया निविष्टः, रूपादिकं तु सहकारितया निविष्टं सामग्रयाम् , एवं रूपादिकार्यजनने मनस्कारः सहकारितया रूपादिकमुपादानतया निविष्टमित्येकस्या अपि सामप्रयाः स्वभावमेदाद् भेद इति तजन्यानां कार्याणामपि स्वभावभेद इति न रूपज्ञानादीनां ज्ञानरूपादित्वप्रसङ्ग इति शङ्काऽभि
Page #170
--------------------------------------------------------------------------
________________
| १०९
अनेकान्तव्यवस्थाप्रकरणम् ]
नेत्यवान्तरसामग्रीभेदेन तज्जन्मनां स्वभावभेद इति वाच्यम्, मनस्कारादीनां ज्ञानादौ येन रूपेण जनकत्वं तेनैव चक्षुरादिजनकत्वे चक्षुरादीनां ज्ञानादित्वापत्तेः कार्ये सकलस्वगतविशेषाधायकत्वस्योपादानलक्षणत्वात्, रूपान्तरेण च मनस्कारादीनां चक्षुरादिजनकत्वे कथं न स्वभावभेद: ? । उपादान-सहकारिशक्तिभेदेऽपि स्वसंविद्येकत्वेनावभासनान्मनस्कारस्यैकत्वमिति चेत् ? नन्वेवमक्षणिकस्यापि तदतत्कालभाविकार्यजनकत्वस्वभावभेदेऽपि प्रत्यक्षेणैक
1
प्रेतोऽर्थः । येन रूपेण मनस्कारादीनां ज्ञानादिकं प्रति कारणत्वं तेनैव रूपेण यदि तेषां रूपादिकं प्रति कारणत्वं तदा स स्वभावस्तेषां ज्ञानादित्वेन ज्ञानादिजनकत्वलक्षणः, यतस्तद्वलाजायमानानां ज्ञानादीनां ज्ञानादित्वम्, तद्वलादेव च रूपादीनामपि जायमानत्वेन तेषामपि ज्ञानादित्वं प्रसज्येत, ज्ञानादिकं प्रति येन स्वभावेन जनकत्वं तत्स्वभावव्यतिरिक्तस्वभावेन रूपादिकं प्रति कारणत्वे तु स्वभावभेदाद् भेदः स्यादेवति निषेधहेतुमुपदर्शयति'मनस्कारादीनामिति । चक्षुरादिजनकत्वे चक्षुरादिकं प्रति जनकत्वे । तेन स्वभावेन जनकत्वे उपादानविधयैव जनकत्वमायातम्, उपादानं च तदेव भवति यत् सकलस्वगतविशेषाधायकमिति स्वगतज्ञानादिलक्षणविशेषस्य प्रसको रूपादीनां स्यादेवेत्याह- कार्य इति । रूपान्तरेण येन रूपेण ज्ञानादिकं प्रति जनकत्वं तदन्यरूपेण । ननु स्वसंवेदनात्मकज्ञाने मनस्कार एकत्वेनैवावभासत इत्युपादानशक्तिसहकारिशक्तिलक्षणस्वभावभेदेऽपि न तस्य भेद इत्याशङ्कते - उपादानेति । स्थिरोऽपि पदार्थः प्रत्यक्षे एकत्वेनैवावभासत इति तस्य तत्कालभाविकार्यजनकत्वाऽन्य कालभाविकार्यजनकत्वलक्षणस्वभावभेदेऽपि न भेद इति कथमेकत्वं न स्यादिति समाधत्तेनन्वेमक्षणिकस्यापीति । यथा चोपादानत्व- सहकारित्वयोर्जनकत्ववि - शेषरूपयोः कार्यभेदेन जनकत्वा-Sजनकत्वरूपयोर्वा न विरोध इति
Page #171
--------------------------------------------------------------------------
________________
११०]
[ तत्त्वबोधिनीविवृतिविभूषितम् त्वेन प्रतिभासनात् कथं नैकत्वम् ? । उपादानत्व-सहकारित्वे जनकत्वविशेषरूपे कार्यभेदेन जनकत्वाऽजनकत्वरूपे वा न विरुद्धे इति चेत् ? तदतत्कार्यजनकत्वेऽपि तथा न विरोत्स्येते इति तुल्यम् । अन्त्यावस्थायां सर्वेषां प्रत्येकमभिमतकार्यजनकत्वमन्यसनिधिस्तु स्वहेतुप्रत्ययसामोपनीतावर्जनीयसनिधि!पालम्भमहतीत्येकैकतयोरेकत्राध्यासो न विरुद्धधर्माध्यास इति न स भेदप्रयोजकः, तथा तत्कार्यजनकत्व-तदन्यकार्यजनकत्वयोर्न विरोध इति तयोरेकत्राध्यासोऽपि न स्थिरस्य भेदप्रयोजक इति शङ्कासमाधानाभ्यामाह-उपादानत्वेति । तदतत्कार्यजनकत्वे अपि तत्कार्यजनकत्व तदन्यकायजनकत्वे अपि । यद् यत्कार्यकुर्वद्रूपा मकं तत् तत्कार्य करोत्येवेति नियमाद यावन्तो ये यत्कार्यजनकत्वेनाभिमतास्ते सर्वेऽपि प्रत्येकमेव तत् कार्य करोति, स्वस्वकारणेभ्य एकक्षणे ते सर्वे समुत्पन्ना इत्येतावन्मात्रेण तेषां सर्वेषां सम्मेलनं न तु तथासम्मेलनस्य कार्ये उपयोग इत्येकैकस्यैव कार्योत्पादकत्वमित्यपि बौद्धमतं न समीचीनमित्याह-अन्त्यावस्थायामिति-यदनन्तरं कार्य भवत्येव तत्कालीनस्य कुर्वद्रूपात्मकस्य कारणस्याऽवस्थाऽन्त्यावस्था तदानीमित्यर्थः। स्वहेत्विति-स्वस्वकारणसामोपनीताऽवजनीयसन्निधिस्वरूपः । नापेशलं न मनोहरम् , न युक्तमिति यावत् । अन्वयिद्रव्यस्वीकारे यद् द्रव्यं यत्कार्यानुयायि तद् द्रव्यं तत्कार्यस्यानुयायित्वादुपादानम् , यत्कार्ये च नानुयायि नत्कार्यस्य सहकारिकारणमिति व्यवस्थोपपद्यते; अन्वयिद्रव्याऽभावे तु न किमपि कारणं कार्यमनुगच्छति किन्त्वव्यवहितपूर्ववर्तितामात्रेण कारणम् , तथा च मनस्कारस्य यथाऽन्त्यक्षणावस्थितस्य चक्षुर्विज्ञान प्रति कारणत्वं तथा रूपादेरपीति मनस्कारस्य ततो यधुपादानत्वं चक्षुर्विज्ञान प्रति तर्हि तत एव रूपादेरप्युपादानत्वं स्याद् विनिगमकस्य कस्यचिदभावात् , अन्वय-व्यतिरेकदर्शनस्योभयत्राविशे.
Page #172
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १११. स्यैवोत्पादकत्वं युक्तमित्यपि नापेशलं वचः, अन्वयिद्रव्याभावे मनस्कारस्यैवान्त्यक्षणस्थस्य चक्षुर्विज्ञानं प्रत्युपादानत्वं न रूपादेरित्यत्र विनिगमकाऽभावात् , व्यावहारिकाऽन्वय-व्यतिरेकदशनस्य मनस्कारादाविव रूपादावपि तुल्यत्वात् ।
___एतेन ' कुर्वद्रपत्वेनैव हेतुत्वं कारणत्वेनैव च कार्योत्पत्तिव्याप्यत्वम्' इत्यपास्तम् , कुर्वद्रूपत्वस्य जातिरूपस्या नभ्युपगमात् , रादिति निषेधहेतुमुपदर्शयति अन्वयिद्रव्याभाव इति । ___एतेन' इत्यस्य 'अपास्तम्' इत्यनेनान्वयः, एतेन अन्वयिद्रव्याs-. भावे मनस्कारस्येव ज्ञानादिकं प्रति रूपादेरप्युपादानत्वप्रसङ्गेन । 'कुर्वद्रूपत्वे व ' इत्येवकारेण दण्डत्वादिना कारणत्वस्य व्यवच्छेदः, दण्डत्वादिना कारणत्वे दण्डादिसत्त्वेऽपि कारणान्तराभावे कार्यानुत्पत्त्या 'यदा दण्डादिकारणं तदा घटादिकार्योत्पत्तिः' इत्यविना. भावोन सम्भवति,किन्तु 'यदा यावद्दण्डादिकारणलक्षणसामग्री तदा घटादिकार्यम्' इत्येवाविनाभावः, कुर्वद्रपत्वेन कारणत्वे तु यदैकस्थापि कुर्वपात्मककारणस्य समवधानं तदा कार्योत्पत्तिर्भवत्येवेति यदा यस्य कारणं तदा तस्योत्पत्तिः' इत्येवं कारणत्वेन कार्योत्पत्तित्वेन व्याप्यव्यापकभावसम्भवात् कारणकूटत्वलक्षणसामग्रीत्वेन न कार्यव्याप्यत्वमित्याशयः। 'एतेन ' इत्यतिदिष्टं वक्ष्यमाण हेत्वन्तरमप्याह-कुर्वद्रूपत्वस्येति । जातिरूपं कुर्वद्रपत्वं कारणतावच्छेदकम् ? अतद्वयावृत्तिरूपं वा ?, तत्राद्यं न सम्भवति-अङ्करकुर्वपत्वं सामग्रीमध्यमध्यासीने शालिबीजे यवादिबीजे चाङ्गीक्रियते भवद्भिः, तथा च शालित्वाऽभाववति कुर्वपात्मके यवादिबीजेऽङ्कुरकुर्वत्त्वम् , तदभाववति कुसूलस्थशालो शालित्वम् , सामग्रीमध्यमध्यासीने च शालित्वमङ्कुरकुर्वत्वं चेत्येवं शालित्वादिना सार्यात् । एतेन बीजत्वयाप्यं शालिबीजादिगतं कुर्वद्रपत्व
Page #173
--------------------------------------------------------------------------
________________
११२ ]
[ तत्वबोधिनी विवृतिविभूषितम्
अतद्व्यावृत्तिरूपस्य चैकैकक्षणग्रहण विनिर्मोकाभ्यां विनिगमना विरहात् कुर्वन्द्रपत्वस्य कार्येकगम्यतया कार्योत्पत्तेः प्राणिष्टसाधनमन्यद् अन्यच्च नित्यादिगतमतो न बीजत्वेन तस्य साङ्कर्यम्, कुर्वन्द्रपत्वाभाववति कुसूलस्थबीजे बीजत्वस्य सस्वेऽपि बीजत्वाऽभाववति धरण्यादौ बीजत्वव्याप्यकुर्यद्रपत्वस्याभावादिति परस्पराsभाव सामानाधिकारण्याऽभावेन
साङ्कर्यासम्भवादित्यपास्तमित्याह – जातिरूपस्यानभ्युपगमादिति । अतद्वयावृत्तिरूपमपि कुर्वन्द्रपत्वं कारणतावच्छेदकं न सम्भवति, यतो यावन्त्यङ्करकुर्वपात्मकानि कारणानि तन्मध्यादेकं कुर्वन्द्रपात्मकं क्षणं परित्यज्याऽन्यकुर्वद्र पात्मक क्षणभिन्नभिन्नत्वेन, तथा यस्य परित्यागस्तस्य ग्रहणं गृहीतस्य परित्याग इति कृत्वा तद्भिन्नभिन्नत्वेन च विनिगमनाविरहात् कारणत्वं प्रसज्येतेत्याह – अतद्वयावृत्तिरूपस्य चेति । किञ्च, कारणतावच्छेदकज्ञानं कारणताज्ञाने कारणमिति कारणतावच्छेदकज्ञाने सत्येव कारणताज्ञानं नान्यथा, एतदस्य कुर्वद्वपात्मकम् ' इति ज्ञानं च कार्यज्ञाने सत्येव भवति, यदनन्तरं कार्योत्पत्तिईइस्रते तत् तत्कार्यकुर्वद्रूपात्मकमिति निश्चीयते, तथा च कार्योत्पत्तिदर्शनानन्तरमेव तत्कार्य कुर्वपत्वस्य ग्रहः एवं च कार्योत्पत्तेः प्राक् तत्कार्यकुर्वद्रपत्वस्याऽग्रहे तद्वषेण कार्यजकनकत्वस्याप्यग्रहात् कार्योत्पत्तेः प्राणिष्टसाधनत्वस्याग्रहे इष्टसाधनत्वज्ञानाधीनप्रवृत्तेरप्यनुपपत्तिः स्यादित्याह - कुर्वद्रूपत्वस्येति । कार्यैकगम्यतया कार्यमात्रानुमेयतया, 'इदम् एतत्कार्यकुर्वद्पात्मकम् एतदुत्पत्स्यव्यवहितपूर्वकालवृत्तित्वात् यन्नैवं तत्रैवम्' इत्यनुमानमत्र बोध्यम् । धूमत्वावच्छिन्नं प्रति वह्नित्वावच्छिन्नं कारणमित्येवं जातिप्रतिनि कार्यकारणभावे वयभावे कारणाभावादेव न धूमस्य सम्भव इत्यवह्नेर्धूमस्य सम्मावयितुमशक्यतया धूमलक्षण कार्य लिङ्गाद् वहि
"
2
6
Page #174
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम्]
[ ११३
ताज्ञानाधीनप्रवृत्त्यनुपपत्तेः, जातिप्रतिनियतकार्यकारणभावाऽभावेऽवह्वेरपि धूमसम्भावनया प्रसिद्धानुमानस्याप्युच्छेदापत्तेः, तस्मात् क्षणिकेभ्योऽप्यर्थक्रियासामर्थ्यलक्षणं सत्त्वं निवर्तमानं श्रावणत्ववदसाधारणानैकान्तिकतामास्कन्ददसाधकम् । किञ्च, अर्थक्रियालक्षणं यत् सत्त्वं हेतुरुच्यते, तत्र किमर्थक्रियातः सत्वं भावानाम् ? उत सत्त्वादर्थक्रिया ? आये प्रागसत्त्वप्रसङ्गः, अन्त्ये च स्वरूपसत्त्वरूपकारणस्यानुमानं सम्भवति, जातिप्रतिनियतकार्यकारणभावस्याभावे तु यथा धूमकुर्वदूपात्मकाद् वह्न—मस्योत्पत्तिस्तथा धूमकुर्वपात्मकं वह्निभिन्नमपि यत् किमपि स्यात् तस्मादपि धूमोत्पत्तिः स्यादेवेति धूमात् कुर्वद्रूपात्मकस्यैव यस्य कस्यचित् पदार्थस्यानुमानं भवेत् , न तु वढेरेवेति ‘पर्वतो वह्निमान् धूमाद्' इति प्रसिद्धानुमानमपि कुर्वद्रूपत्वेन कारणत्वाभ्युपगमे उच्छिद्यतेत्याह-जाति प्रतिनियतेति । उपसंहरति-तस्मादिति । 'क्षणिकेभ्योऽपि' इत्यपिना स्थिरेभ्योऽर्थक्रियासामर्थ्यलक्षणसत्त्वनिवृत्तिर्भवतैव दर्शिनेत्यस्यानेडनम् । श्रावणत्ववदिति- शब्दोऽनित्यः श्रावणत्वाद्' इत्यत्र यथा श्रावणत्वं नित्यादाकाशादितोऽनित्यात् घटादितश्च निवर्तमानं सपक्षविपक्षव्यावृत्तत्वादसाधारणानकान्तिकताभाजनं तथा 'शब्दादिः क्षणिकः सत्त्वाद्' इत्यत्रोपादीयमानं सत्त्वलिङ्गमपि क्षणिः काऽक्षणिकोभयव्यावृत्तत्वादसाधारणानैकान्तिकतामास्कन्देत् ,तथा च लिङ्गाभासत्वात् सत्त्वं न क्षणिकत्वसाधकमित्यर्थः। क्षणिकत्वसाधनायोपन्यस्तमर्थक्रियालक्षणसत्त्वमपि विकल्पकवलितमित्याहकिञ्चेति । आये भावानामर्थक्रियातः सत्त्वमिति प्रथमकल्पे । प्रागसत्त्वप्रसङ्ग इति-पूर्व कारणं ततः कार्यमिति वस्तुस्थितावर्थक्रियोत्तरक्षणे उपजायते सत्त्वनिबन्धनमिति तस्याः पूर्वक्षणेऽभावात् तदानीमसत्त्वप्रसङ्गो भावानाम् , ततश्च पूर्वक्षणेऽसतां शशशृङ्गकल्पानां कार्यजनकत्वाऽसम्भवान्न स्यादेवार्थक्रियेति भावः। अन्त्ये च सत्त्वा
Page #175
--------------------------------------------------------------------------
________________
११४ ]
[ तत्त्वबोधिनीविवृतिविभूषितम्
मायातम् । किञ्च, अर्थक्रियाया भावानां सत्त्वनियामकत्वे तस्या अपि सत्त्वनियामिकयाऽपरार्थक्रियया भवितव्यम् , तस्या अप्यपरयेत्यनवस्थानात् स्वरूपसत्त्वमेव भावानामवश्यमभ्युपेयम् , तच न क्षणिकत्वव्याप्यमिति नानुमानात् क्षणिकत्वसिद्धिः।
यदपि 'निर्हेतुको ध्वंसः पदार्थोदयानन्तरभावीति तेषां क्षणिकत्वमुच्यते' तदप्यसत्-निर्हेतुकस्याऽपि ध्वंसस्य मुद्गरादिदर्थक्रियेति द्वितीयपक्षे पुनः । स्वरूपसत्त्वमःयातम् असतो नार्थक्रियेति सत्त्वादर्थक्रियोपगता, सत्त्वं च न तदानीमर्थक्रियालक्षणम् , अतः स्वरूपसत्त्वमभ्युपगन्तव्यम् , तथा चार्थक्रियामन्तरेण सत्त्वस्योपपत्तेर्माऽस्तु नित्ये क्रमयोगपद्याभ्यामर्थक्रिया तथापि स्वरूपसत्त्वमुपादाय सन्नव नित्य इत्यभिसन्धिः। भावानां स्वरूपसत्त्वं प्रकारान्तरेण व्यवस्थापयति-किञ्चेति । तस्या अपि भावसत्त्वनियामिकाया अर्थक्रियाया अपि, भवितव्यं च तस्या अपि सत्त्वेन, अन्यथा स्वयमसती सा कथं भावानां सत्त्वनियामिका ? तस्या यदि स्वरूपसत्त्वं भावानामपि स्वरूपसत्त्वमेवाऽस्त्वलमर्थक्रियानुसरणेनेति निगर्वः। तस्या अपि अर्थक्रियासत्त्वनियामिकाया अर्थक्रियाया अपि । भवतु स्वरूपसत्त्वमेव भावानाम् , तदेव च क्षणिकत्वानुमापकं भविप्यतीत्यत आह-तच्चेति-स्वरूपसत्त्वञ्चेत्यर्थः । न क्षणिकत्वव्याप्यं स्वरूसत्त्वं क्षणिकत्वेऽक्षणिकत्वे वा भावानां सम्भवति, ततो न तत् क्षणिकत्वव्याप्यम् ।
अन्यदपि क्षणिकत्वसाधनप्रत्यलं बौद्धाभिमतमुपन्यस्य प्रतिक्षिपति-यदपीति । तेषां भावानाम् । भवतु निर्हेतुको विनाशस्तथापि यदैवोपलभ्यते तदैव तस्य सत्त्वमुपलम्भप्रमाणतोऽभ्युपेयम् , मुद्गरव्यापारानन्तरमेव चोपलभ्यते ध्वंसो न तु घटोत्पत्त्यनन्तरमिति मुद्गरव्यापारानन्तरमेव सोऽङ्गीकरणीयो न तु प्रतियोग्युत्पत्त्यनन्तरमेवेति प्रतिक्षेपहेतुमाह-निर्हेतुकस्यापीति । तदैव मुद्गरव्याग
Page #176
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
व्यापारानन्तरमुपलब्धेस्तदैव तत्सद्भावाभ्युपगमस्य युक्तत्वात् । न च मुद्गरादिव्यापारानन्तरमस्य दर्शनात् प्रागपि सद्भावकल्पनम् , प्रागदर्शनादग्रेऽप्यभावस्य सुवचत्वात् । कारणान्तरमनपेक्षमाणो ध्वंसो भावसत्तामात्रानुबन्धीति प्रतिक्षणध्वंससिद्धिरिति चेत् ? न-सत्तायां क्षणिकत्वाऽसिद्धौ क्षणिकसत्तानुबन्धित्वस्य नाशे
रानन्तरमेव । तत्सद्भावाभ्युपगमस्य ध्वंससद्भावाभ्युपगमस्य । मुद्रादिव्यापारानन्तरं घटादिध्वंसस्य दर्शनान्मुद्गरव्यापारात् प्रागपि तस्य सत्त्वमित्याशङ्कय प्रतिक्षिपति-न चेति । यद्युत्तरकालदर्शनमात्रेण पूर्वकालेऽपि सत्त्वमविनाभावमन्तरेणापि कल्प्यते, तर्हि पूर्वकालेऽदर्शनेनोत्तरकालेऽसत्त्वमेव किमिति न कल्प्यत इति ध्वंसस्य सर्वदाऽसत्त्वमेव स्यादिति प्रतिक्षेपहेतुमाह-प्रागदर्शनादिति । अभावस्य ध्वंसाभावस्य । ननु प्रतियोगितासम्बन्धेन ध्वंसं प्रति तादात्म्यसम्बन्धेन प्रतियोगिन एवैकस्य कारणत्वम् , न तु प्रतियोगिव्यतिरिक्तस्य कस्यचिदपि तं प्रति कारणत्वम् , अतः कारणान्तरमनपेक्षमाणस्य प्रतियोगिसत्तामात्रानुबन्धिनो ध्वंसस्य प्रतियोग्युत्पत्त्यनन्तरमेव भाव इति प्रतिक्षणध्वंससिद्धिरित्याशाङ्कते-कारणान्त रेति-प्रतियोगिभिन्नकारणेत्यर्थः । भावसत्तामात्रानुबन्धित्वेऽपि भावसत्ताया कतिपयकालसम्बन्धित्वे तदनन्तरं नाशो भवेदिति भावसत्तायाः क्षणमात्रसम्बन्धित्व एव क्षणिकभावसत्तामात्रानुबन्धिनो नाशस्य भावोत्पत्यनन्तरमेव सद्भावः स्यात्, न च भावसत्तायाः क्षणिकत्वमद्यापि सिद्धमिति समाधत्ते-नेति। यदि चानेकक्षणस्थितिका या भावसत्ता तदनुबन्धी विनाशः, तदोत्पत्त्यनन्तरमेव विनाशेऽनेकक्षणस्थितिका भावसत्तैव न भवेदतो भावो. ऽनेकक्षणस्थितिमनुभूयाऽनन्तरं विनश्यतीत्यभ्युपगम एवानेकक्षणस्थितिकभावसत्तानुबन्धी विनाश इति सिद्धं भावानां स्थैर्यमि
Page #177
--------------------------------------------------------------------------
________________
११६]
[ तत्त्वबोधिनीविवृतिविभूषितम् वक्तुमशक्यत्वात् , अनेकक्षणस्थितिकसत्तानुबन्धित्वोक्तौ चानेकक्षणस्थितिकसत्तानुभवानन्तरमेव भावेन नंष्टव्यमिति । किञ्च,निर्हेतुकत्वे ध्वंसस्य प्रथमक्षण एव तद्भावप्रसक्तिः स्यान्नोदयानन्तरम् ,नहि निर्हेतुकस्य क्वाचित्कत्वं कादाचित्कत्वं वा युक्तम् , व्याघातात् । न च, भावहेतुरेव तत्प्रच्युतिहेतुरतिरिक्तहेत्वभावाच निर्हेतुकत्वम् , त्याह-अनेकक्षणस्थितिकेति । किञ्च, ध्वंसो यदि निर्हेतुकस्तदा गगनादिवन्नित्यः स्यात् , एवं च प्रथमक्षणेऽपि तस्य सत्त्वं प्रसज्येत, न तु भावोत्पत्त्यनन्तरमेव तस्य सत्त्वम् , शशशृङ्गादिवद् वा कदाचिदपि न सत्त्वमेवमेव भावोत्पत्त्यनन्तरमेव तस्य सत्त्वमिति न स्यात् , उभयथा क्वाचित्कत्वं कादाचित्कत्वं च तस्य न स्यात्, सहेतुकस्यैव वस्तुनो यत्र कारणं तत्र कार्यमिति नियमतो देशप्रतिनियमलक्षणं क्वाचित्कत्वम् , यदा कारणं तदनन्तरक्षणे कार्यमिति नियमतः प्रतिनियतकालसम्बन्धित्वलक्षणं कादाचित्कत्वमित्याहकिञ्चेति । ' प्रथमक्षण एव' इत्येवकारोऽप्यर्थकः, अन्यथा निर्हेतुकस्य गगनादिवत् सर्वदा सत्त्वप्रसक्तौ कालान्तरासत्त्वलक्षणावधारणार्थानुपपत्तिः। तद्भावप्रसक्तिः ध्वंससद्भावप्रसक्तिः। ‘नोदयानन्तरम्' इत्यत्रैवकारो दृश्यः, स च पूर्वकालसत्त्वं व्यवच्छिनत्ति, तथा च भावोत्पत्त्यनन्तरं विनाशो न भावोत्पत्तितः प्रागित्येतन्नेति तदर्थः । 'नहि' इत्यस्य ‘युक्तम्' इत्यनेनान्वयः । व्याघातादिति-काचित्कत्वकादाचित्कत्वयोः सहेतुकत्वे सत्येव सम्भव इति ततः सहेतु: कत्वे निर्हेतुकत्वं न स्यात् , निहतुकत्वे च सहेतुकत्वव्याप्तयोः क्वाचित्कत्वकादाचित्कत्वयोर्न सम्भवः, निर्हेतुकत्वेन सहेतुकत्वव्याप्तयोस्तयोर्विरोधादित्यर्थः । न च ' इत्यस्य ' वाच्यम्' इत्यनेनान्वयः। तत्प्रच्युतीति-भावविनाशेत्यर्थः। एवं सति भावस्य प्रतियोगिनो यत् कारणं तदेव नाशस्य कारणमिति सहेतुकत्वं तस्य स्यादिति निर्हेतुकत्वप्रतिज्ञा भज्येतेत्यत आह-अतिरिक्तहेत्वभावाचेति
Page #178
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ११७
पदार्थाभावे च कुतस्तत्प्रच्युतिरिति प्रथमक्षण एव न ध्वंस इति वाच्यम्, भावप्रभववेलायां तत्प्रच्युतेरनुत्पत्तौ भावहेतुरेव तद्धेतुरित्यस्य वक्तुमशक्यत्वात्, भावोत्पादनद्वारा भावहेतुस्तद्धेतुर्भावोऽपि वा तद्धेतुः प्रतियोगिताद्धे त्वितर हेत्वनपेक्षत्वमेव निर्हेतुकत्वमिति तु यादृच्छिक परिभाषा मात्रम् । मुद्गरादिव्यापारानन्तरमेव तत्र तद्धेतु
भावहेतुभिन्नहेत्वभावात् पुनरित्यर्थः । यच्च निर्हेतुकत्वे विनाशस्य प्रथमक्षण एव सत्त्वमापादितं तच्च न सम्भवति प्रतियोगिभावे सति तद्ध्वंसो भवति, प्रतियोगिनोऽभावे च कस्य ध्वंस इत्याहपदार्थाभावे चेति । यदि भावहेतुरेव तद्विनाशहेतुस्तर्हि भावो यदैव भवेत् तदैव तद्विनाशोऽपि भवेत्, भावहेतोर्भावोत्पत्तितः प्रागेव सत्त्वात् भावोत्पत्तिकाले च भावहेतोरभावात् कुतस्तद्धेतुको विनाशो भावोत्पत्यन्तरं भवेत् भावोत्पत्तिकाले च तद्ध्वंसा नुत्पत्तौ भावहेतुरेव तद्धेतुरित्येतन्न समीचीनमिति निषेधहेतुमुपदर्शयति - भावप्रभववेलायामिति । तत्प्रच्युतेः भावविनाशस्य | अत्र वौद्धस्य प्रतिविधानं नियुक्तिकत्वादश्रद्धेयमित्यावेदयितुमाह- भावो त्पादनद्वारेति । तद्धेतुः भावविनाशहेतुः एवमग्रेऽपि । एवं सति किं निर्हेतुकत्वमित्यपेक्षायामाह — प्रतियोगीति । तद्धेत्विति - प्रतियोगिहेत्वित्यर्थः । यादृच्छिक परिभाषामात्रं स्वेच्छाकल्पितबौद्धसङ्केतमात्रम्, न तु प्रमाणमत्र किञ्चित् । किन्तु मुद्गरादिव्यापारानन्तरं घटादिध्वंसो जायमानः प्रत्यक्षप्रमाणादेव ज्ञायत इति घटादिध्वंसे मुरादिव्यापारहेतुकत्वस्यैव प्रमाणाद् व्यवस्थितेरित्याह — मुद्गरादीति । तत्र ध्वंसे । तद्धेतुकत्वस्य मुद्गरादिहेतुकत्वस्य । ननु भवतु मुद्गरादिव्यापारानन्तरं ध्वंससद्भावस्तथापि तस्य जन्यत्वं कथमिति चेत् ? 'मुद्गरादिव्यापारसत्वे घटादिध्वंससत्त्वं मुद्गरादिव्यापाराभावे घटादिध्वंसाभाव ' इत्यन्वयव्यतिरेकाभ्यां तस्य तज्जन्यत्वं निश्ची
-
"
"
•
Page #179
--------------------------------------------------------------------------
________________
११८ ]
[ तत्त्वबोधिनीविवृतिविभूषितम्
कत्वस्य प्रमाणतो व्यवस्थितेः, अन्यत्रापि कार्यकारणभावेऽन्वयव्यतिरेकयोरेव नियामकत्वात् । किञ्च, परैरपि मुद्गरादीनां विरोधित्वं व्यवस्थापयद्भिः ‘गलेपादुका' न्यायेन नाशकारणत्वमवश्यमभ्युपेयम् , तथाहि-न ते कणभुगादय इत्र कार्यकारणभावात् पृथग्विरोधाख्यं सम्बन्धमभ्युपेयं(पयन्ति), किन्तु घटक्षणो मुद्रादिकं विनाशकारणत्वेन प्रसिद्धमपेक्ष्य समानक्षणान्तरोत्पादनेऽसमर्थ क्षणान्तरमुत्पादयति, तदपि तदपेक्षमपरमसमथेक्षणान्तरम् , तदप्युत्तरं तदपेक्षमसमर्थतमं यावद्घटसन्ततेर्निवृत्तिः, एवमन्यत्रापि विरोधित्वं प्रतिपादयन्ति, तथा चाऽसमर्थक्षणान्तरजनकस्य क्षणस्य मुद्गरादेः कश्चित् सामर्थ्य विधातोऽभ्युपगन्तव्य एव, अन्यथा समर्थयते, अन्यत्रापि कार्यकारणभावेऽन्वय-व्यतिरेकावेव नियामको, तौ च प्रकृतेऽप्यविकलावित्याह-- अन्यत्रापीति। बौद्धरपि स्वाभ्युपगमबलादेव नाशकारणत्वं मुद्गरादेरभ्युपेयमित्याह-किञ्चेति । परैरपि बौद्धैरपि । विरोधित्वं समानसन्ततिजननविरोधित्वम् । मुद्गरादीनां बौद्धर्नाशकारणत्वस्यावश्याभ्युपेयत्वं भावयति-तथाहीत्यादिना। नञः 'अभ्युपयन्ति' इत्येननान्वयः, ते बौद्धाः, नाभ्युपयन्ति नाभ्युपगच्छन्ति । तर्हि कीदृशं तेऽभ्युपयन्तीति पृच्छति-किन्त्वितिविनाशकारणत्वेन प्रसिद्धं मुद्गरादिकमपेक्ष्य घटक्षणः समानक्षणान्तरोत्पादनेऽसमर्थक्षणान्तरमुत्पादयतीत्यन्वयः । तदपि समानक्षणान्तरोत्पादनेऽसमर्थ क्षणान्तरमपि । तदपेक्षं मुद्गराद्यपेक्षं सत् 'असमर्थक्षणान्तरम्' इत्यनन्तरम्'उत्पादयति' इत्यस्यानुकर्षण सम्बन्धः, एवमग्रेऽपि । एवं सति यत् सिद्धं तदाह-तथा चेतिघटस्य मुद्गरादिकमपेक्ष्याऽसमर्थक्षणान्तरजनकत्वसिद्धौ चेत्यर्थः । असमर्थक्षणान्तरजनकस्य घटादिरूपक्षणस्य कश्चित् सामर्थ्य विघातो मुद्गरादेरभ्युपगन्तव्य एवेत्यन्वयः, 'मुद्गरादेः' इति पञ्चम्यन्तम् ।
Page #180
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ११९ क्षणान्तरजननस्वभावात् ततो मुद्गरादिसन्निधानेऽप्यसमर्थक्षणाऽनारम्भप्रसङ्गात् । न च स्वहेतुतोऽसमर्थजननस्वभावस्य तस्योत्पत्ते
यं दोषः, प्रथमक्षण एव सन्तत्युच्छेदप्रसक्तेः । मुद्गरादिसन्निअन्यथा मुद्गरादितो घटगतसामर्थ्य विघाताभावे । ततः घटक्षणात् । यदि मुदरादिकं घटगतस्य घटजननसमर्थघटान्तरजननसामर्थ्यस्य विघातकं न भवेत् तदा मुद्गरादिसन्निधानेऽपि समर्थक्षणान्तरजननस्वभावाद् घटात् समानजननसमर्थक्षणात्मकघट एवोत्पद्यत न समानजननासमर्थघट इत्यर्थः । ननु स्वकारणादसमर्थजननस्वभाव एव घट उत्पद्यत इति ततोऽसमर्थक्षणात्मकघटारम्भ इति न तदनारम्भप्रसङ्गो मुद्गरस्य घटगतसामर्थ्यविघातकत्वाभावेऽपीत्याशङ्कय प्रतिक्षिपति-न चेति । तस्य घटस्य । अयं असमर्थक्षणाऽनारम्भप्रसङ्गक्षणः। यदि स्वहेतुतोऽसमर्थजननस्वभाब एव घट उत्पद्यते तर्हि प्रथमक्षण एवोत्पद्यमानो घट एवम्भूत एव स्यादिति ततः समर्थक्षणान्तरानारम्भे घटसमानजातीयक्षणपरम्परालक्षणघटसन्तत्युच्छेदः प्रथमत एव स्यादिति निषेधहेतुमुपदर्शयति-प्रथमक्षण एवेति । यद्यपि स्वहेतुतोऽसमर्थजननस्वभावस्य घटस्य प्रथमक्षणे उत्पादे ततो :द्वितीयक्षणे समानक्षणान्तरोत्पादनाऽसमर्थस्य घटस्योत्पादात् ततस्तृतीयक्षणे समानक्षणान्तरानुत्पत्त्या तदानीमेव समानक्षणपरम्परास्वरूपसन्तत्युच्छेदः, तथापि यादृशो घटः समानक्षणान्तरोत्पादनासमर्थघटस्योत्पादकस्तादृशोन द्वितीयक्षणोत्पन्नो घटस्तस्य समानक्षणोत्पादनासमर्थस्य घटमात्रोत्पादकत्वाभावादित्यभिसन्धानेन प्रथमक्षणे सन्तत्युच्छेदोक्तिः, अथवा न सदृशद्वयोत्पत्त्यैव समानसन्ततिव्यवहारः, किन्तु ऋमिकतादृशबहूत्पत्त्या तथा व्यवहारः, प्रकृते च न तथाभाव इति सन्ततेः स्वरूपतोऽभाव एव सन्तत्युच्छेद इत्याशयेन तथोक्तिः । यावन्न घटकारणानां मुद्गरादिसमवधानं तावत् ततः समर्थक्षण
Page #181
--------------------------------------------------------------------------
________________
१२० ]
[ तस्वबोधिनीविवृतिविभूषितम्
9
धान सहभाविनः स्वहेतुत एवाऽसमर्थक्षण उत्पद्यत इति चेत् ? न - मुद्गरादिना प्राक्तनशक्त्यनाशने तत्सन्निधिवैयर्थ्यात् । न चाs. किञ्चित्करस्यापि मुद्गरादेः स्वहेतुसन्निधिबलायातत्वात् तत्सम. वहितत्वस्य घटक्षणेऽसमर्थक्षणान्तरजननकाले नोपालम्भविषयतेति वाच्यम् एवं सत्यदासीनसमवधानस्याप्रयोजकत्वेन केवलस्यैव क्षणस्य विलक्षणक्षणान्तरोत्पादकत्वप्रसङ्गात् । किञ्च, एवं विलक्षसन्तत्युत्पादे प्राक्तनसन्तानोच्छेदे वा मुद्गरादेरन्वयस्य व्यत्तिरेकास्वरूपस्य घटस्योत्पत्तिः, तेषां मुद्गरादिसमवधाने तु ततोऽसमर्थघटोत्पत्तिस्तदनन्तरं सन्तत्युच्छेद इति शङ्कते — मुद्ररादीति । स्वहेतुन एवं असमर्थघटक्षणकारणादेव | घटकारणानां यत् समर्थघटोत्पादनसामर्थ्य तस्य नाशो यदि न क्रियते मुद्गरादिना तदा तत्सन्निधानमकिञ्चित्करमेवेति स्वहेतुतः समर्थघटस्यैव पूर्ववदुत्पत्तिः स्यान्नासमर्थघटस्येति समाधत्ते नेति । तत्सन्निधीनि मुद्गरादिसन्निधीत्यर्थः । न च इत्यस्य वाच्यम्' इत्यनेन सम्बन्धः । म्वहेतुसन्निधीतिमुद्गरादिहेतुसन्निधीत्यर्थः । तत्समवहितत्वस्य मुगरादिसमवहितत्वस्य । एवं सति अकिञ्चित्करमुद्गरादिसमवधानस्य स्वहेतुबलायातत्वाभ्यु पगमे सति, मुद्गरादिकं यदि न तत्र किञ्चित् करोति तदा तदुदासीनमेवेति तत्समवधानस्य विलक्षणक्षणान्तरोत्पादे ऽप्रयोजकत्वेन केवलस्यैव मुद्गरादिसमवहित्व विशेषणविकलस्यैव विलक्षणं यत् कपालकदम्बादिलक्षणं क्षणान्तरं तस्योत्पादकत्वप्रसङ्गात् एवं च मुद्गरादिसमवधानाभावेऽपि समानघटसन्तयुच्छेदप्रसङ्ग इति भावः । यदि मुद्गरादिसमवधानं तत्राकिञ्चित्करं तदा घटादिविलक्षणकपालसन्तत्युत्पादे समानघटसन्तानोच्छेदे वा मुद्गरादेरन्व-व्यतिरेकावन्यथासिद्धावेवेति मुद्गगरादिव्यापारानन्तरमपि घटसन्ततेरविच्छिन्नतया पूर्ववद् घटोपलब्धिप्रसङ्ग इत्याहक्रिश्चेति । ' मुद्गरादेरन्वयस्य व्यतिरेकान्यथासिद्धेः इति स्थाने 'मुद्गरादे
;
चटक्षणस्य
6
-
Page #182
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १२१ न्यथासिद्धेस्तयापारानन्तरमपि घटादेरनुपलब्धिर्न भवेत् । तदा तस्य न स्वरूपप्रच्युतिरुत्पद्यते किन्तु तस्यैकक्षणावस्थायित्वेन तदाऽभवनमिति नोपालम्भ इति चेत् ? न-यतः वरूपादप्रच्युतस्य नाऽभवनं नाम किश्चित् , अन्यथा तस्य सत्त्वान्तरमभ्युपगतं स्यात् । अथ स एव न भवति न तु तस्यापरसत्त्वम् , ननु तदेवेदं पुना रूपाभवनमभिधीयते, तत्र च तदेवोत्तरम् , तस्माद् विनाशहेतुव्यापारानन्तरं पदार्थस्याऽसद्व्यवहारं विदधता तद्व्यतिरिक्तानन्तरग्रहणमभ्युपगन्तव्यम्, न तु तदग्रहणमात्रम्, अन्यथा तस्यारन्वय-व्यतिरेकान्यथासिद्धेः' इति पाठो युक्तः । बौद्धो मुद्गरादिव्यापारानन्तरं घटानुपलम्भे घटस्य तदाऽभवनमेव हेतुमाशङ्कतेतदेति-मुद्गगरादिव्यापारानन्तरमित्यर्थः । तस्य घटस्य, एवमग्रेऽपि । यदि स्वरूपान्न परिभ्रष्टस्तदानीं घटः, एवं तर्हि तस्य सत्त्वमेव तदानीं स्यान्नाऽभवनम् , एवमप्यभवनाभ्युपगमेऽभवनशब्देन तस्य सत्त्वान्तरमेवाभ्युपगतं. स्यादिति समाधत्ते-नेति । अन्यथा स्वरूपादप्रच्युतस्थाऽप्यभवनाभ्युपगमे । तस्य घटस्य । सत्त्वान्तरं पूर्वमुपलम्भप्रयोजकं यादृशं सत्त्वं ततो विलक्षणं सत्त्वम् । बौद्ध आह–अथेति । स एव घट एव । तस्य घटस्य । सिद्धान्ती आहनन्विति-यदेव पूर्वमभवनमुक्तं तदेवेदानीमप्यभिधीयते भवता, तथा च पूर्व यत् 'तत्र तस्य सत्त्वान्तरमभ्युपगतं स्याद्' इति प्रतिविधानमभिहितं तदेव प्रतिविधानं स्यादित्यर्थः । उपसंहरतितस्मादिति । विदधता कुर्वता बौद्धेन । तद्व्यतिरिक्तेति-विनश्यमानपदार्थव्यतिरिक्तो यस्तदनन्तरोत्पन्नः कश्चित् तस्य ग्रहणमवश्यं स्वी कर्तव्यमित्यर्थः । न तु तदग्रहणमात्रं समानसन्ततिपतितपदार्थाऽग्रहणमात्रम् । अन्यथा तद्ग्रहणमात्रस्याभ्युपगमे । तस्य तदग्रहणस्य । अभावेति-तदभावेत्यर्थः । एवं सति कल्पादिव्यवहितोऽपि पदार्थः
Page #183
--------------------------------------------------------------------------
________________
१२२ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् भावाऽनिश्चयात् कल्पादिव्यवहितस्यापि सयवहारनिषेध एव स्थानाऽसयवहारप्रवृत्तिः। न चार्थान्तरनाशानभ्युपगमे शत्रुमित्रक्षयजन्यसुख-दुःखाद्यनुभवोऽपि सङ्गच्छते, न चाऽभावस्य भवितृत्वे भावरूपता, भवितृत्वाऽविशेषेऽपि घट-पटयोरिव विलक्षणप्रत्ययविषयत्वेन भावाऽभावयोर्भेदसिद्धेः। अथ कपालोत्पत्तिकाले घटविनाशानभ्युपगमे स्वभावत एवाविनश्वरस्य घटस्य
स्वाग्रहणतः 'सन्' इति व्यवहर्तुं न शक्य इति तस्य 'सन्' इति व्यवहारस्याभाव एव भवेत् , न तु 'सोऽसन्' इति व्यवहारप्रवृत्तिः, व्यवहारे व्यवहर्तव्यज्ञानस्य कारणत्वेन भावस्यासद्रूपो यस्तदनन्तरोत्पन्नस्तदात्मकव्यवहर्तव्यज्ञानाभावादित्याह-कल्पादिव्यवहितस्यापीति । अतिरिक्तनाशानभ्युपगमे शत्रुनाशस्याभावे शत्रुनाशजन्यसुखानुभवस्य मित्रनाशजन्यदुःखानुभवस्य चाभावः प्रसज्यत इत्याह-न चेति-अस्य 'सङ्गच्छते' इत्यनेनान्वयः । ननु यो भवति स भाव इत्यभिधीयत इति ध्वंसो यदि भवेत् सोऽपि भावः स्यात्, नाभावः, भवितृत्वाविशेषे एकस्य भावत्वमन्यस्याभावत्वमिति विनिगन्तुमशक्यमित्याशङ्कय प्रतिक्षिपति-न चेति । नहि भवतीत्येव भावोऽस्माभिरभ्युपगम्यते, अनुत्पत्तिस्वभावानां नित्यानामपि भावत्वस्य स्वीकारात्, भवतीति भाव इति तु व्युत्पत्तिमात्रम्, न तु भावशब्दप्रवृत्तिनिमित्तमुत्पत्तिमत्त्वम्, किन्तु निषेधानात्मनापि प्रतीयमानत्वं भावत्वम् , निषेधात्मनैव प्रतीयमानत्वमभावत्वम् , एवं च भवितृत्वाविशेषेऽपि 'अयं घटः, अयं पटः' इत्येवं विलक्षणप्रत्ययविषयत्वेन यथा घटपटयोर्भेदस्तथैव विधिमुखप्रत्ययनिषेधमुखप्रत्ययात्मकविलक्षणप्रत्ययविषयत्वेन भावाऽभावयोरपि भेद इति निषेधहेतुमुपदर्शयति-भवितृत्वाविशेषेऽपीति । बौद्धः शङ्कते-अथेति । कपालोत्पत्तितस्तदनन्तरं घटो
Page #184
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १२३ परतोऽपि नाशाऽसम्भवात् कपालोत्पत्तिप्राक्क्षणपर्यन्तस्थायित्वस्वभावकल्पने तस्य नाशकसन्निधावप्यनुवृत्तेः कौटस्थ्यप्रसङ्गात् तद्धाधे क्षणिकत्वमेव युक्तमिति चेत् ? न-एकक्षणस्थायित्वखभावस्येवानेकक्षणस्थायित्वस्वभावस्यापि विवक्षितकालान्तरमनुवृत्त्य. विनश्यतीत्यतः कपालोत्पत्तिकाले न घटविनाश इति पराकूतमवलम्ब्योक्तम्-कपालोत्पत्तिकाले घटविनाशानभ्युपगम इति । यदि स्वभावतो विनश्वरो घट भवेत् कपालोत्पत्तिकालेऽपि नश्येत्, न च तदानीं नश्यतीत्यतः स्वभावतोऽविनश्वर एव इत्यभिप्रायेणोक्तम्खभावत एवाऽविनश्वरस्येति । यश्च स्वभावतोऽविनाशी न स कदापि नश्यतीति परतोऽपि नाशासम्भवात् कपालोत्पत्त्यनन्तरमपि नाशासम्भवात् । न स्वभावतोऽविनश्वरस्वभावो घटः किन्तु कपालोत्पत्तिप्राक्क्षणपर्यन्तस्थायित्वस्वभावः, अतो न पूर्व नश्यतीत्येवमभ्युपगमे त्वाह - कपालोत्पत्तीति-कपालोत्पत्त्यनन्तरं नश्यतीति कपालोत्पत्तिक्षणे विनश्यत्स्वभावोऽसौ, न तु स्थायिस्वभाव इत्यतः 'कपालोत्पत्तिपर्यन्त' इत्यनुक्त्वा 'कपालोत्पत्तिप्राक्क्षणपर्यन्त' इत्युक्तम्, अथवा कपालोत्पत्तिरूपो यो विनाशस्य प्राक्क्षणस्तत्पर्यन्तेत्यर्थः। तस्य कपालोत्पत्तिप्राक्क्षणपर्यन्तस्थायित्वस्वभावस्य, नाशकसन्निधावप्युनुवृत्तेः मुद्गरादिसन्निधानेऽपि भावान्नहि कस्यचित् स्वभावस्य परावृत्तिर्भवति, तथा च तादृशखभावानुवृत्तेर्न मुद्गरादिनाऽपि घटो नश्येदिति तस्य सर्वदास्थायित्वलक्षणकौटस्थ्यप्रसङ्गात् , तस्य कौटस्थ्यप्रसङ्गस्याऽनिष्टत्वेनाभ्युपगन्तुमशक्यत्वेन ततस्तद्बाधे कपालोत्पत्तिप्राक्क्षणपर्यन्तस्थायित्वस्वभावबाधे, स स्वभावबाधितत्वान्नास्त्येव घटस्येत्येवं व्यवस्थितौ सत्यां स्थायित्वस्वभावविरोधि क्षणिकत्वमेव युक्तमित्यर्थः । यथा च भवन्मते एकक्षणस्थायत्वस्वभावो भावो द्वितीयक्षणे नश्यति, एवमपि स स्वभावस्तस्य कालान्तरेऽप्यनुवर्तत एव, नहि रामो विनष्ट इत्ये
Page #185
--------------------------------------------------------------------------
________________
१२४ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् भ्युपगमे बाधकाऽभावात् , अन्यथैकैकक्षणस्थायित्वस्वभावानुवृच्यापि परस्य कल्पान्तरस्थायितापत्तेर्वज्रलेपत्वात् । विनाशहेतुपक्षनिक्षिप्तश्च विकल्पो भावोत्पत्तावपि समानः, तथा हि-उत्पत्तिहेतुः स्वभावत एवोत्पित्सुं भावमुत्पादयति, उताऽनुत्पित्सुम् ? प्रथमे विफलता तद्धेतोः, द्वितीये तु वियत्कुसुमादेरप्युत्पादनप्रसङ्गः।
तावता तस्य दशरथपुत्रत्वस्वभावानुवृत्तिः, तथा सति तत्पुत्रलव-कुशादौ दशरथपौत्रत्वस्वभावो न भवेत् , पुत्रस्य पुत्रः पौत्रो भवति; पुत्रत्वस्वभावापगमे तु दशरथपुत्रपुत्रत्वाभावाद् दशरथपौत्रत्वं न स्यात्, एवमन्यस्वभावेऽपीति यः स्वभावो यस्यास्ति स तस्य सर्वदाऽप्यनुवर्तत एव, नहि क्षणिको विनष्टो न क्षणिकस्वभाव इति, एवं कपालोत्पत्तिप्राक्क्षणपर्यन्तस्थायित्वस्वभावोऽपि कालान्तरेऽनुवर्तत एवेति समाधत्ते-नेति । अन्यथा स्वभाववतः सत्त्वे सत्येव स्वभावानुवृत्तिरिति विवक्षितकालादन्यकाले उक्तस्वभावानुवृत्तिस्तदैव भवेद् यदि भावस्तदाऽपि वर्ततेत्येवमभ्युपगमे । परस्य बौद्धस्य, मते इति शेषः । येन च विकल्पेन विनाशहेतुर्दूषितस्तादृशविकल्पेन भावोप्तत्तिहेतुरपि कवलित एव भवतीति यदि निर्हेतुको विनाशो भावोत्पत्तिरपि निर्हेतुका प्रसज्यत इत्याह-विनाशहेतुपक्षेति-विनाशस्य सद्धेतुकत्वपक्षे निक्षिप्तः स्थापितो विकल्पो भावोत्पत्तेः सहेतुकत्वपक्षेऽपि समान इत्यर्थः । भावोत्पत्तिहेतौ विकल्पं भावयति-तथाहीति । उताऽनुत्पित्सुमितिउत्पत्तिहेतुः स्वभावतोऽनुत्पित्सुं भावमुत्पादयतीति द्वितीयविकल्पार्थः । यदि भावः स्वत एवोत्पित्सुस्वभावस्तर्हि हेतुं विनापि यस्मिन् काले उत्पित्सुस्वभावता भावस्य तस्मिन् काले उत्पत्स्यत एवेति प्रथमविकल्प उत्पत्तिहेतोविफलतेत्याह-प्रथम इति। तद्धेतोः उत्पत्तिहेतोः । स्वभावतोऽनुत्पत्तिस्वभावोऽपि भावो यद्युत्पत्ति
Page #186
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १२५ खहेतुसन्निधेरेवोत्पित्सोरुत्पादनाभ्युपगमे विनाशहेतुसन्निधाने विनश्वरस्वभावं तद्धेतुर्विनाशयतीत्यपि तुल्यन्यायात् किं नाभ्युपगम्यते? स्वयमेव विनश्वरस्य विनाशिहेतुकृतोपकाराऽभावेन तजन्यनाशव्यपदेशाऽभावो हि स्वयमेवोत्पित्सोरुत्पत्तिहेतुकृतोपकाराऽभावेन तजन्योत्पत्तिव्यपदेशाऽभावतुल्ययोगक्षेमः । स्वकारणादुत्पत्तिरात्मलाभो यस्य स स्वोत्पत्तिधर्मा, तं यदि खहेतुर्नोत्पादयेत् तदा विरुद्धमभिधानं स्यादित्यपि विनाशकारणाद् विनाश आत्मप्रच्युतिहेतुत उत्पद्येत गगनकुसुमादेरप्युत्पत्तिः स्याद् , अतो द्वितीयविकल्पोऽपि न समीचीन इत्याह-द्वितीये विति । यदि च स्वभावत उत्पित्सुस्वभावस्यापि भावस्य स्वहेतुसन्निधित एवोत्पत्तिरित्यपेयते तर्हि स्वभावतो विनश्वरस्वभावस्यापि भावस्य विनाशहेतुसन्निधान एव विनाश इति तं विनाशहेतुर्विनाशयतीत्यपि तुल्ययुक्त्या किं न कल्प्यत इत्याह-स्वहेतुसन्निधेरेवेति । तद्धेतुः विनाशहेतुः, विनाशहेतुकृतोपकाराभावेन तजन्यनाशव्यपदेशो यदि स्वयमेव विनश्वरस्य नोपेयेत तथा सति तुल्ययुक्त्योत्पत्तिहेतुकृतोपकाराऽभावेन तजन्योत्पत्तिव्यपदेशोऽपि न स्यादेव स्वयमेवोत्पत्तिस्वभावस्य, तुल्ययोग-क्षेमत्वादित्याह – स्वयमेव विनश्वरस्यति । तजन्येतिविनाशहेतुजन्येत्यर्थः। तजन्येति-उत्पत्तिहेतुजन्येत्यर्थः। यथा स्वोत्पत्तिधर्मा स एव भवति यस्य स्वकारणादात्मलाभलक्षणोत्पत्तिर्भवति, स यदि स्वहेतुतो नोत्पद्येत स्वोत्पत्तिधर्मैव न स्यात्, तथा च खोत्पत्तिधर्माणं स्वहेतुर्नोत्पादयतीति विरुद्धमभिधानं परीक्षकैर्वक्तुमनर्ह तथा विनाशकारणादात्मप्रच्युतिलक्षणो विनाशो यस्य स विनाशधर्मोच्यते, ततो विनाशहेतुतो यदि विनाशो न भवेन्न भवेत् तदा भावो विनाशधर्मा, एवं च विनाशधर्मा भावः, तं विनाशहेतुर्न विनाशयतीत्यपि विरुद्धमभिधानं स्यादिति तुल्यमित्याह-स्वकारणादुत्पत्तिरिति । तं स्वोत्पत्तिधर्माणम् । तं विनाशधर्मा
Page #187
--------------------------------------------------------------------------
________________
१२६ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् लक्षणो धर्मो यस्य तं यदि विनाशहेतुर्न विनाशयेत् तदा विरुद्धममिधानमित्यनेन समानम् , येषां च न घटनिवृत्तिः कपालस्वरूपादन्या, तेषां कथं न कपालहेतुर्घटध्वंसहेतुर्भवेत् ? अथ कथं कपाललक्षणस्य वस्त्वन्तरस्य प्रादुर्भावे घटो विनष्ट इति व्यपदिश्यते ? मुद्गरादिहेतुसन्निधिमहिम्ना घटस्यैव कपालभावात् । कथं घटो विनष्टः स एवान्यथा भवतीति चेत् ? नन्वसत् कथं भवतीति
णम् । यन्मते च घटध्वंसः कपालस्वरूपस्तन्मते कपालस्य कपालहेतुजन्यत्वे कपालस्वरूपस्य घटध्वंसस्यापि कपालहेतुजन्यत्वमिति कथं न सहेतुकत्वं ध्वंसस्येत्याह-येषां चेति-मते इति शेषः, एवं तेषामित्यत्रापि । ननु यदि कपालस्वरूपैव घटनिवृत्तिस्तदा वस्त्वन्तरस्य कपालस्य प्रादुर्भावे घटस्य न किञ्चिजातं, तथापि घटो विनष्ट इति यदि व्यपदेशस्तर्हि पटादिप्रादुर्भावेऽपि घटो विनष्ट इति व्यपदेशः स्यात्, यथा च पटादिप्रादुर्भावे न भवति घटो विनष्ट इति व्यपदेशस्तथैव कथं कपालप्रादुभावे घटो विनष्ट इति व्यपदेश इति शङ्कते-अथेति । पटादिप्रादुर्भावे न घटस्य पटादिभाव इति न ततो घटो विनष्ट इति व्यपदेशः, मुद्रादिहेतुसन्निधिमहिम्ना कपालोत्पत्तौ तु घटस्यैव कपालभावादित्यतो भवति घटो विनष्ट इति व्यपदेश इति समाधत्ते-मुद्गरादिहेतुसन्निधिमहिनेतिमुद्रादियों घटविनाशहेतुस्तत्सामर्थ्यबलादित्यर्थः । ननु कपालोत्पत्तिसमये घटो विनष्टत्वान्नास्त्येवेति कथं तस्य कपालादिभाव इत्याशङ्कते-कथमिति । उत्पत्तितः प्रार घटोऽसन्नेवेति कथमुत्पत्तिलक्षणं भवनमस्य, यदि च पूर्वमसत्त्वेऽपि तदानीं घटभावादुत्पत्तिरविरुद्धा तर्हि घटस्यापि विनाशदशायां घटात्मना विनष्टत्वेऽपि कपालात्मना न विनष्टत्वमिति कपालादिभावस्तस्य स्यादिति समाधत्ते-नन्वसदिति । प्रागसतः पश्चात् सत्त्वं न विरुद्धामत
Page #188
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[१२७ समानम् । अथ प्राग् घटादिकमसत् सद्भवत्युत्पत्तिसमय इत्यविरुद्धम् । ननु प्राग् घटः सन् विनाशहेतुसन्निधौ कपालीभवतीत्यविरुद्धमेव, कथं तस्यैव तदन्यत्वमिति चेत् ? यथा संवेदनस्य नीलाद्याकारभेदस्तथा स्वरूपेणानेकमनेकं भवन विरोत्स्यते । इत्थं च निवृत्तिः कारणस्य कार्यात्मना परिणतिरेवाभिधीयते, तथा च घटप्रच्युतेः कपालस्वरूपत्वे कुतः क्षणिकत्वमिति संक्षेपः॥
अयं चर्जुसूत्रनयः पर्यायनयतरोर्मूलम् , शब्दादीनामेतच्छाखारूपत्वात् , तदुक्तं सम्मतौउत्पत्तिरस्य घटत इति शङ्कते-अथेति । विनाशात् प्राग् घटः सन् विनाशसमये च कपालीभवतीत्यप्यविरुद्ध मिति समाधत्तेननु प्राग् घटः सन्निति । ननु घटो घट एव, कथं तस्य घटान्यत्वं येन कपालभाव इति शङ्कते-कथं तस्यैवेति । एकमपि स्वरूपेण संवेदनं नीलाद्याकारभेदादनेकं भवति तथा स्वरूपेणैकस्यापि घटस्य कपालादिभावेऽनेकत्वं न विरुद्ध मिति समाधत्ते-यथा संवेदनस्येति । ‘स्वरूपेणाऽनेकमनेकम्' इति स्थाने 'स्वरूपेणैकमनेकम्' इति पाठो युक्तः । इत्थं च घट-कपालभावस्याविरुद्धत्वे च, कारणस्य निवृत्तिः कार्यात्मना कारणस्य परिणतिरेवेत्येवं 'कारणस्य' इत्यस्य निवृत्तौ परिणतौ चान्वयः । उपसंहरति-तथा चेतिकार्यरूपेण परिणतिरेव कारणस्य निवृत्तिरिति व्यवस्थितौ चेत्यर्थः। कुतः क्षणिकत्वमिति-घटकाले घटोऽस्तीति निर्विवादम्, घटप्रच्युतेः कपालस्वरूपत्वे घट एव कपालात्मना परिणत इति कपालात्मकघटप्रच्युतिकालेऽपि कपालात्मना घटोऽस्तीति द्रव्यार्थिकनयादेशाद् ध्रौव्यमेव घटस्यायातीत्येकान्तक्षणिकत्वमृजुसूत्रनयप्रवृत्तबौद्धमतसिद्धं न सिद्धिप्रासादमारोहति, कथंचित् क्षणिकत्वं च स्याद्वादराद्धान्तितमेवेत्याशयः।
Page #189
--------------------------------------------------------------------------
________________
१२८ ]
[ तत्त्वबोधिनीविवृतिविभूषितम्
" मूलनिम्माणं पञ्जवणयस्य उज्जुसुअवयणविच्छेदो | तस्स उ सद्दाईया साह पसाहा
सुहुमभेया " ॥
[ काण्ड - १, गाथा - ५ ] अस्यार्थः - मूलनिर्माण - मूलाधारः, पर्यायनयस्य ऋजु
सूत्रवचनविच्छेदः - लक्षणया प्रतिक्षणविवेचनेन विच्छिद्यमानवचनफलीभूतऋजुसूत्राख्यो नयबोधः, तस्य - ऋजुसूत्रतरोः, तुरवधारणार्थः, तेन तस्यैव न द्रव्यार्थिकस्य, शब्दादयः शब्दप्राधान्ये
"
शाखा '
पर्यायनयेषु ऋजुसूत्र - शब्द- समभिरूढैवम्भूतेषु ऋजुसूत्रस्य प्राधान्यमुपदर्शयति- अयं चेति । पर्यायनयतरोर्मूलं पर्यायनय एव तरुवृक्षस्तस्य मूलम्, मूले नष्टे नापि शाखा नापि पत्रमिति वृक्षस्वरूपे मूलस्यैव प्राधान्यमतः पर्यायनयवृक्ष ऋजुसूत्रनय इत्यर्थः वृक्षेण सह साधारणधर्मबलात् तादात्म्यलक्षणरूपकमत्र तदा भवेद् यदि वृक्षस्य शाखाप्रशाखादिर्यथा तथाऽस्यापि शाखाप्रशाखादिः : स्यादत आह— शब्दादीनामिति - आदिपदात् समभिरूढैवम्भूतयोर्ग्रहणम् । एतच्छाखारूपत्वात् ऋजु सूत्रनयशाखारूपत्वात् इत्युपलक्षणं प्रशाखा - प्रतिशाखयोः, एतच्चाग्रे व्यक्तम् । उक्तार्थे सम्मतिसम्म तिमुपदर्शयति तदुक्तमिति । मूलनिम्माणं इतिमूल निर्माण पर्यवनयस्य ऋजुसूत्रवचनविच्छेदः । तस्य तु शब्दादिकाः शाखा प्रशाखाः सूक्ष्मभेदा " ॥ इति संस्कृतम् । अस्य 'मूलनिम्माणं ' इति सम्मतिवचनस्य । अर्थः विवरणम्, अनन्तरमुपदर्श्यते 'मूलनिर्माणम्' इत्यादिना । 'ऋजु सूत्रवचनविच्छेदः ' इत्यस्य यथाश्रुतार्थ ऋजुसूत्रवचनसमाप्तिलक्षणो नाऽत्र सङ्गतिमङ्गतीत्यत आह- लक्षणयेति - लक्षणावृत्याश्रयणेनेत्यर्थः । प्रतिक्षणविवेचनेन प्रतिक्षणं वस्तूनां भेद इति प्रथमक्षणात्मकवस्तुतो द्वितीयक्षणात्मकवस्तु भिन्नमित्येवंस्वरूपेण, विच्छिद्यमानं यद् वचनं
66
"
Page #190
--------------------------------------------------------------------------
________________
भनेकान्तव्यवस्थाप्रकरणम् ]
[१२९ नार्थोपसर्जनत्वेन प्रतीतिजनकाः शब्द-समभिरूद्वैवम्भूताख्यास्त्रयो नयाः, शाखा-प्रशाखा इव स्थूल-सूक्ष्मतरदर्शित्वात् सूक्ष्मो भेदो येषां ते तथा, यथा हि तरोः स्थूलाः शाखाः सूक्ष्मास्तत्प्रशाखा, अतिसूक्ष्मसूक्ष्मतरास्तत्प्रतिशाखाः, एवम् ऋजुसूत्रतरोः स्थूल-सूक्ष्मसूक्ष्मतरशाखा-प्रशाखा-प्रतिशाखारूपा अशुद्ध-शुद्ध-शुद्धतराः शब्दसमभिरूढैवम्भूताख्यास्त्रयो नया द्रष्टव्याः, तथाहि-ऋजुसूत्राभ्युपगतं प्रथमक्षणार्थबोधकमन्यत्, तदन्यच्च द्वितीयक्षणार्थवोधकम् , एवं तृतीयक्षणाद्यर्थबोधकम् , इत्येवं वचनं तस्य फलीभूत ऋजुसूत्रनामा नयबोधः शब्दार्थयोरिव बोधस्यापि नयत्वात् तस्य तु ' इत्यत्र 'तुशब्दोऽवधारणार्थक इत्याह-तुरिति । तेन तुशब्दस्यावधारणार्थकत्वेन । तस्यैव ऋजुमूत्रनयात्मकपर्यायनयस्यैव। व्यवच्छेद्यार्थ स्पष्टयति-न 'द्रव्यार्थिकस्येति । के ते शब्दादय इत्यपेक्षायां ये प्राधान्येन शब्दप्रतीति “जनयन्ति उपसर्जनत्वेनार्थप्रतीतिमुपजनयन्ति ते शब्द-समभिरूडैवम्भूताः 'शब्दाश्यः' इत्यनेनाभिमता इत्याह-शब्दप्राधान्येनेति । शाखा हि स्थूला दूरादपि वृक्षरूपमर्थ व्यञ्जयन्ति, प्रशाखास्तु ततः सूक्ष्मा नैकटये सति वृक्षं व्यञ्जयन्ति, प्रतिशाखास्तु ततोऽपि सूक्ष्मा अतिसान्निध्ये सति वृक्षं गमयन्ति, एतादृशस्वभावाः शब्दाइयोऽपीति शाखा-प्रशाखादिसाधयेण शाखा-प्रशाखादिसशास्तत्त्वेनात्रोदृङ्किता इत्याशयेनाह-शाखा-प्रशाखा इवेति-इदं प्रतिशाखानामुपलक्षणम् , “स्थूलसूक्ष्मतरदर्शित्वात्" इत्यस्य स्थाने " स्थूल-सूक्ष्मदर्शित्वाद्" इति पाउ: समीचीनः, इदं सूक्ष्मतरदर्शित्वादित्यस्योपलक्षणम् ! सूक्ष्मः लघुताकृतः, मेदः विशेषः । दर्शिताभिप्रायमुद्धाटयति-यथा हीति- “अतिसूक्ष्मसूक्ष्मतरा" इति स्थाने "सक्ष्मतरा" इति पाठः समीचीनः । उपमाने तरौ शाखा-प्रशाखादिभेदस्वरूपमुपपाद्योपमेये ऋजुसूत्रे तदुपपा. दयति-एवमिति। ऋजुसूत्रादिमन्तव्योपदर्शनेन शाखा-प्रशाखादिसाहश्यं भावयति-तथाहीत्यादिना । शब्द इत्यस्य 'सूक्ष्ममभिमन्यते,
Page #191
--------------------------------------------------------------------------
________________
१३० ]
[ तत्त्वबोधिनीविवृतिविभूषितम् क्षणमात्रावस्थिति वस्तु लिङ्गादिभेदाद् भिन्नं शब्दो वृक्षाच्छाखामिव सूक्ष्ममभिमन्यते, सम्मभिरूढः शब्दाभिमतं वस्तु सञ्ज्ञाभेदादपि भिद्यमानं शाखातः प्रशाखामिव सूक्ष्मतरमध्यवस्यति, तदेव समभिरूढाभिमतं वस्तु एवम्भूतः क्रियाभेदाद् भिन्नं प्रशाखातः प्रतिशाखामिव सूक्ष्मतममधिगच्छतीति । एतच्च ऋजुसूत्रपदव्युत्पत्तिनिमित्तं प्रत्युत्पन्नग्राहित्वं पर्यायनयत्वमात्रपर्यवसनमभिप्रेत्य इत्यनेन सम्बन्धः, समभिरूढ इत्यस्य ‘सूक्ष्मतरमध्यवस्यति' इत्यत्रान्वयः, सूक्ष्मम् इत्यस्य 'लिङ्गादिभेदाद् भिन्नम्' इति विशेषणम् , सूक्ष्मतरम् इत्यस्य 'संज्ञाभेदादपि भिद्यमानम्' इति विशेषणम् , हेतुभूत चैतादर्श विशेषणम् , तेन यतो लिङ्गादिभेदाद् भिन्नमत: सूक्ष्मम् , यतः संज्ञाभेदादपि भिद्यमानमतः सूक्ष्मतरमिति, एवमग्रेऽपि, एवम्भूतः इत्यस्य 'सूक्ष्मतममधिगच्छति' इत्यनेनान्वयः। क्रियाभेदाद् भिन्नमिति 'सूक्ष्मतमम्' इत्यस्य विशेषणम् । ननु पूर्व सम्मतिगाथार्थकरणे शाखा-प्रशाखा-प्रतिशाखानां क्रमशो स्थूल-सूक्ष्म सूक्ष्मतरभेदोपवर्णनेन सादृश्यं शब्द-समभिरूढवम्भूतेषूपदर्शितम् अधुना तेष्वेव सूक्ष्म-सूक्ष्मतर-सूक्ष्मतमभेदोपवर्णनं पूर्वापरविरोधाघ्रात मिति चेत् ? न-पूर्व प्रथमावधित्वेन शब्दनयः समुपात इति तस्य स्थूलतया वर्णनात् तदुत्तरयोः सूक्ष्म-सूक्ष्मतरभेदेनोपवर्णनम् , अधुना पुनः प्रथमावधित्वेन ऋजुसूत्रनयः समुपात्त इति तस्य स्थूलतया वर्णनात् तदुत्तराणां सूक्ष्म-सूक्ष्मतर सूक्ष्मतमभेदेनापवर्णनमिति विरोधाभावात्। ऋजुसूत्रस्य स्वभिन्ननयमात्रतो व्यावर्तकं यल्लक्षणं तन्न शब्दादिषु त्रिषु नयेष्वतस्तादृशलक्षणाश्रयणे न शब्दादिनयेषु ऋजुसूत्रशाखाप्रशाखादित्वसम्भवोऽत आह - एतच्चेति-शब्दादिनयेषु ऋजुसूत्रशाखा. प्रशाखादिस्वरूपोपवर्ण चेत्यर्थः। ऋजुसूति-ऋजु-अतीतात्वा-नागतत्वलक्षणकौटिल्यपरिहारेण प्रत्युत्पनं वस्तु सरलम् , तत् सूत्रयति
Page #192
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[१३१ द्रष्टव्यम् , यद्वा विशेषणभेदाप्रयुक्तऋजुसूत्रविषयप्रतियोगिकभेदानाधारप्रतीतिविषयकत्वमिह शब्दादीनामृजुमूत्रभेदत्वं परिभाप्यते, नद्येवं व्यवहारस्य संग्रहभेदत्वं प्रसज्यते, विशेषणभेदाप्रयुक्तसामान्य लक्षणसंग्रहविषयप्रतियोगिकमेदाधारविशेष विषयत्वात् तस्य । -बोधयतीत्येवमृजुसूत्रपदव्युत्पत्तर्निमित्तं यत् प्रत्युत्पन्नग्राहित्वंवतमानकक्षणग्राहित्वं तद् ऋजुसूत्रादिपर्यायनयचतुष्टयव्यापित्वात् पर्याय. नयत्वमात्रस्वरूपमभिप्रेत्य ज्ञेयमित्यर्थः । शब्दादीनामृजुसूत्रविशेषत्वस्थ तच्छाखा-प्रशाखादिरूपत्वसमर्थनाय कल्पान्तरमाह- यद्वेति । विशेषणभेदाप्रयुक्तेति-प्रत्युत्पन्नं वस्तु चतुर्विधस्यापि पर्यायनयस्य विषया, किन्तु लिङ्गभेदादिप्रयुक्तऋजुसूत्रविषयप्रतियोगिकभेदः शब्दनयविषये, पर्यायभेदप्रयुक्तः स समभिरूढनयविषये, व्युत्पत्तिनिमित्तक्रियाभेदप्रयुक्तः स एवम्भूतनयविषये, इत्येवं विशेषणभेदप्रयुक्तस्यैव ऋजु. सूत्रनयविषयप्रतियोगिक भेदस्याधारः शब्दादिनयविषयः, विशेषणभेदाप्रयुक्तस्य तु ऋजुसूत्रनयविषयभेदस्यानाधारः शब्दादिनयविष. योऽपि, तद्विषयकप्रतीतिविषयत्वं तादृशप्रतीतिविषयविषयकत्वपर्यवसितमृजुसूत्रादिनयवतुष्टयसमनुगतमिह शाखा-प्रशाखादिरूपतया शब्दादिनयप्ररूपणायामृजुसूत्रभेदत्वं परिभाष्यते-आधुनिकसडेतविषयः क्रियते तेन वास्तविकस्य ऋजुसूत्रभेदत्वस्याभावेऽपि न क्षतिरित्यर्थः। नन्वेवं पारिभाषिकं सहभेदत्वं व्यवहारनयस्यापि किं न प्रसज्यत इत्यत आह- नहीति- अस्य 'प्रसज्यते' इत्यनेनान्वयः। निषेधहेतुमाह- विशेषणेति- विशेषणभेदाप्रयुक्तो यः सामान्यलक्षणस्य सामान्यस्वरूपस्य संग्रहविषयस्य भेदः स विशेषणभेदाप्रयुक्तसामान्यलक्षणसंग्रहविषयप्रतियोगिकभेदस्तदाधारो विशेषः, तद्विषयत्वात् तद्विषयकत्वाद तस्य-व्यवहारनयस्येत्यर्थः। मनु ऋजुसूत्रपदप्रवृत्तिनिमित्तं प्रत्युत्पन्नग्राहित्वं पारिभाषिकं वा विशेषणभेदाप्रयुक्तर्जुसूत्रविषयप्रतियोगिकभेदानाधारप्रतीतिविषयकत्वमृजुसूत्रभेदत्वमभिप्रेत्य
Page #193
--------------------------------------------------------------------------
________________
१३२]
[ तत्त्वबोधिनीविवृतिविभूषितम् शब्दभिन्नत्वे सति प्रत्युत्पन्नग्राहित्वं लक्षणमभिप्रेत्य तु न शब्दादीनामृजुमूत्रभेदत्वम् , अन्यथा नयविभाजकोपाधिव्याप्यविभाजकोपाधिमत्त्वेन नयप्रभेदत्वापत्तेः “सत्त मूलणया पणत्ता' [अनुयोगद्वारे] इति सूत्रव्याकोपप्रसङ्गात् , न चान्यथाऽपि नयविभाजकोपाधिरूपद्रव्यार्थिकत्व-पर्यायार्थिकत्वव्याप्यसङ्ग्रहत्व ऋजुसूत्रत्वादिकमादाय शब्दादीनां शाखा-प्रशाखादित्वनिर्वचनमुपपाद्यते यदि नयान्तर व्यावृत्तर्जुसूत्रत्वस्य सूत्रमात्रवृत्तित्वेन तेन रूपेणर्जुसूत्रशाखाप्रशाखादित्वस्य शब्दादावसम्भवात् , तदा शब्दभिन्नत्वे सति प्रत्युत्पन्नग्राहित्वं समभिरूढभिन्नत्वे सति प्रत्युत्पन्नग्राहित्वमेवम्भूतभिन्नत्वे सति प्रत्युत्पन्नग्राहित्यं वा ऋजुसूत्रत्वं पारिभाषिकमभिप्रेत्य शब्दादीनां शाखा-प्रशाखादिस्वरूपता किमिति न व्यवस्थाप्यते, यद्यपि शब्दभिन्नत्वे सतीत्यादिस्वरूपं तन्न शब्दगतं तथापि समभिरूढवम्भूतगतं तद् भविष्यति तावताऽपि समभिरूढेवम्भूतयोः शाखा प्रशाखाव. संगमनं सुकरम् , सम्मतिगाथाशं शाखा-प्रशाखयोरेवाभिधानात्, प्रतिशाखायास्तत्रानुपादानात् , एवं साम्प्रतभिन्नत्वे सतीत्यादिनिर्वचनेऽपीत्यत आह - शब्दभिन्नत्वे सतीति- एतच्च ‘समभिरूढभिन्नत्वे सति वा, एवम्भृतभिन्नत्वे सति वा' इत्यनयोरुपलक्षणम् , “शब्दसमभिरूलैवम्भूताः शब्दनयाः [ ] इति शब्दत्वमुक्तनयत्रयसाधारणम् . तदवच्छिनप्रतियोगिताकभेदवत्त्वे सतीत्येवं शब्दभिन्नत्त्रे सतीत्यर्थविवक्षायां शब्दभिन्नत्वे सति प्रत्युत्पन्नग्राहित्यमृजुसूत्रमात्रवृत्तीति तद्वत ऋजुसूत्रस्य तद्धर्मानाश्रयशनयादेस्तद्विशेषस्वाभावाच्छ.खा-प्रशाखात्यानापत्तेरिति विचारणीयं सुधीभिः। अन्यथा-शब्दभिन्नत्वे सतीत्यादि ऋजुसूत्रलक्षणमभिप्रेत्यापि शब्दादीनामृजुसूत्रनयविशेषत्वाभ्युपगमे । नयविभाजकोपाधीति-नयविभाजकोपाधिः शभिन्नत्वे सति प्रत्युत्पन्न ग्राहित्वलक्षणमृजुसूत्रत्वं साम्प्रतभिन्नत्वे सति प्रत्युत्पन्नग्राहित्वलक्षणमृजुसूत्रत्वमेवम्भूतभिन्नत्वे सति प्रत्यु.
Page #194
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १३३ सङ्घहर्जुसूत्रादीनां नयप्रभेदत्वं दुर्निवारम् , द्रव्यार्थिकत्वपर्यायार्थिकत्वयोः प्रकृतविभागप्रयोजकविभाजकोपाधित्वाभावेन तददोषादिति स्मर्तव्यम् , अत एव नव नया द्रव्याथिकः पर्यायार्थिको नैगमः सङ्ग्रहो व्यवहारे ऋजुसूत्रः शब्दः समभिरूढ एवम्भूतश्वत्येकत्पन्नग्राहित्वलक्षणमृजुसूत्रत्वम् , तद्वयाप्यविभाजकोपाधिश्च ऋजुसूत्रस्वादिस्तद्वत्त्वेन ऋजुसूत्रादीनां नयप्रभेदत्वप्रसङ्गात् , नयविशेषो नयमेदस्तद्विशेषो नयप्रभेद इति, एवं सति "सत्त मूलणया पन्नत्ता" [अनुयोगद्वारे] इति सूत्रविरोधापत्तरित्यर्थः। शब्दभिन्नत्वे सतीत्यादिलक्षणमनभिप्रेत्यापि शाखा-प्रशाखात्वाद्युपपादने उक्तसूत्रविरोधः स्यादेव, यतो नयविभाजकोपाधिव्यार्थिकत्वं पर्यायार्थिकत्वं च, तत्र द्रव्याथिकत्वस्य नयविभाजकस्य व्याप्यो विभाजकोपाधिः सङ्गहत्वादिः, पर्यायार्थिकत्वस्य नयविभाजकोपाधेाप्यो विभाजकोपाधिर्ऋजुत्रत्वादिस्तद्वत्त्वेन सङ्ग्रहादेनयविशेषविशेषत्वेन नयप्रभेदत्वमित्याशङ्कय प्रतिक्षिपति-न चेति। अन्यथाऽपि शब्दभिन्नत्वे सतीत्यादिऋजुलत्रलक्षणानाश्रयणेऽपि । उक्तसूत्रस्वारस्यान्नयविभागप्रयोजकोपाचित्वेन सम्मताः सङ्गहत्वादय एव नयविभाजकोपाधयः, न तु तथा द्रव्यार्थिकत्व-पर्यायाथिकत्वे इति नयविभाजकोपाधय एव सङ्घहत्वादयः, नतु नविभाजकोपाधिव्याप्यविभाजकोपाधय इति नोक्तदिशा सङ्कहादीनां नयप्रभेदत्वप्रसङ्ग इति निषेधहेतुमुपदर्शयति- द्रव्यार्थिकत्व-पर्यायार्थिकत्वयोरिति । अत एव इत्यस्य 'अपास्तम्' इत्यनेनान्वयः, अत एव द्रव्यार्थिकत्व-पर्यायार्थिकत्वयोरुक्तसूत्रस्वारस्यान्नयविभाजकत्वाभावादेव फिमपास्तमित्यपेक्षायामाह- नव नया इति-द्रव्याथिक इत्यादि नवनयपरिगणनम् । इति एवंस्वरूपो य एकविभागस्तत्करणे लम्पटः समर्थों यो दिक्पटो दिगम्बरस्तस्य यत् कपटम् , नयो द्रव्यार्थिक-पर्यायार्थिकमेदाद् द्विविध इत्येको विभागः, तदनन्तरं द्रव्यार्थिकस्त्रिधा-नैगमसङ्गाह-व्यवहारमेदात्, पर्यायाथिकश्चतुर्धा- ऋजुसूत्र-शब्द-समभि
Page #195
--------------------------------------------------------------------------
________________
१३४ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् विभागकरणलम्पटदिक्पटकपटमपास्तमापभ्रांशिकप्रबन्धेऽस्माभिः । एवं हि द्रव्यार्थिकत्व-पर्यायार्थिकत्वाभ्यां सामान्यतो नयविभाग कृत्वा संग्रहर्जुसूत्रादीनां द्रव्यार्थिक-पर्यायार्थिकभेदानामेवानुपदमुपदर्शनेन विभक्तविभागः कृतः स्यात् , न त्वेकविभागः, संग्रहर्जुसूत्राधन्तर्भावशीलयोर्द्रव्यार्थिक-पर्यायार्थिकयोः पृथग्विभागस्य कर्तुमशक्यत्वात् , अन्यथाऽर्पिताऽनर्पितभेदद्वयाधिक्येनैकादशधाऽपि किं रूद्वैवम्भृतभेदादिति विभक्तस्य विभागलक्षणो द्वितीयो विभाग, तौ परित्यज्य नवधैकविभागकरणं तत् कपटमपास्तमित्यर्थः । कुत्र कैरपास्तमित्यपेक्षायामाह- आपभ्रंशिकप्रबन्धेऽस्माभिरिति। तत् कपट दिगम्बरस्य स्पष्टमेव, यतो द्रशार्थिकः पर्यायार्थिक इति पूर्वोपदर्शनेनैको विभागः प्राथमिकः, तदनन्तरं नैगमः सङहो व्यवहार इत्येवं द्रव्यार्थिकमेदानाम् , ऋजुसूत्रः शब्दः समभिरूढ एवम्भूत इत्येवं पर्यायार्थिकभेदानामुपददर्शनेन विभक्तविभाग एव कृतो भवेत्, नत्वेकविभाग इत्याह- एवं हीति । सङ्ग्रहादिनयेष्वेव द्रव्यार्थिक-पर्याया र्थिकयोरन्तर्भावात् पृथग्भावाऽभावेन पृथग्विभागस्य कर्तुमशक्यत्वेन तावुपादाय नयानां नवसङ्ख्यापरिकल्पनमयुक्तमेव दिक्पटानामित्याहसङ्ग्रहेति- आदिपदान्नैगम-व्यवहारयोः शब्द-समभिरूद्वैवम्भूतानां चोपग्रहः, तथा च सङ्ग्रहादिषु द्रव्यार्थिकस्य ऋजुसूत्रादिषु चतुर्यु पर्यायार्थिकस्यान्तर्भाव इति । अन्यथा सङ्गाहर्जुसूत्राद्यन्तर्भावशीलयोरपि द्रव्यार्थिक-पर्यायार्थिकयोः पृथग्विभजने। अर्पिता निर्पितनययोरपि पृथग्विभागस्य सम्भवेन तावुपादायैकदशधाऽपि नयविभागो दिक्पटस्याभिमतः स्यात्, न चैकादशधा नयविभजनं कृतमिति तदनिष्टं प्रसज्येतेत्याह- अर्पितेति- अनन्तधर्मात्मके वस्तुनि यो धर्मो यत्र साक्षाद् वचनेनोपात्तः स धर्मो यन्नयगोचरः सोऽर्पितनयः, यश्च धर्मोऽर्थाद गम्यते, न तु साक्षाद वचनेनोपन्यस्तः स धर्मो यन्नय
Page #196
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १३५ ननयविभागो देवानांप्रियस्याभिमतः स्यात् ?, न च पञ्च नया इत्येक आदेशः सप्तेत्यन्य इतिवत् सप्त नया इत्येक आदेशो नवेत्यन्य इत्य. स्मदभिप्रेतमिति साम्प्रतम् , भिन्नविषयाणां शब्दादीनां त्रयाणां शब्दत्वेनैक्यं स्वातन्त्र्यं चाभिप्रेत्य पञ्च-सप्तादेशभेदद्वयसम्मवेऽपि प्रकृते विषयभेदाभावेन तदसम्भवात् , न च सप्तधा नवधा च तत्व विभागगोचरः स नयस्तदानीमनपित इति, अत एव “ अर्पितव्यावहारिक'मनर्पितव्यावहारिकं च” इति भाष्यम् "अर्पितानर्पितसिद्धेः"
तत्त्वार्थ० अ० ५, सू० ] इति सूत्रे, तथा च सङ्घहन्यवहारादिध्वन्तर्भावादेव नाऽर्पिता-ऽनर्पितनययोः पृथग्विभागः, एवमेव द्रव्यथिक-पर्यायार्थिकयोः सङ्गहर्जुसूत्रादिष्वन्तर्भावात् पृथग्विभागो न युक्त इति । दिगम्बराभिप्रेतमाशङ्कय प्रतिक्षिपति-न चेति-अस्य 'साम्प्रतम्' इत्यनेनान्वयः, समभिरूढैवम्भूतनययोः शब्देऽन्तर्भावमाश्रित्य 'पञ्च नयाः' इत्येवं विभागे सत्यपि समभिरूढैवम्भूतयोः पृथग्भावमुत्प्रक्ष्य यथा 'सप्त नयाः' इत्येवं सप्तया नयविभजनम् , तथा द्रव्यार्थिकपर्यायार्थिकयोः सङ्गाहर्जुसूत्रादिष्वन्तर्भावे सम्भवत्यपि पृथग्भावमभिप्रेत्य तावुभावुपादाय नवधा विभजनमित्येवमादेशान्तरं सम्भवतीत्यर्थः। अस्मदभिप्रेतं दिगम्बरसम्मतम् । लिङ्गादिभेदेन भिन्नत्वम् , पर्यायभेदेन भिन्नत्वम् , व्युत्पत्तिनिमित्तक्रियाभेदेन भिन्नत्वं प्रत्युत्पन्नवस्तुन इत्येवं भिन्नविषयाणां शब्दादीनां शब्दत्वेनैक्यमाश्रित्य 'पञ्च नयाः' इत्येक आदेशः, शब्दादीनां त्रयाणां स्वस्वविषये स्वातन्त्र्यं चाश्रित्य 'सप्त नयाः' इत्यन्य आदेश इति पञ्चधा-सप्तधाविभजनयोः सम्भवेऽपि द्रव्यार्थिक-पर्यायार्थिकयोः सङ्गहर्जुस्त्रादितो विषयभेदाभावेन नवधा विभजनस्यायुक्तत्वादिति निषेधहेतुमुपदर्शयति- भिन्नविषयाणामिति । प्रकृते द्रव्यार्थिक-पर्यायार्थिकयोः सङ्गहर्जुसूत्रादितः पार्थक्याऽपार्थक्यचिन्तायाम् । तदसम्भवात् आदेशभेदासम्भवात्। ननु 'जीवा-ऽजीवा-ऽऽस्रव-बन्ध-संवर-निर्जरा-मोक्षास्तत्त्वम्' इत्येवं सप्तधा
Page #197
--------------------------------------------------------------------------
________________
२३६ ]
[ तत्त्ववोधिनीविवृतिविभूषितम् वनयविभागोऽपि तथा नानुपपन्न इति वक्तुं युक्तम् , तत्र केवलनिःश्रेयसोपयोग्यभ्युदयसंवलिततदुपयोगिबोधलक्षणप्रयोजनभेदेन विभागद्वैविध्यसम्भवेऽपि प्रकृते प्रयोजनभेदाभावेनानुयोगद्वार स्थानाङ्गतवार्थमहाशास्त्राभिहितं सप्तधा नयविभागमुल्लङ्घ्य नवधा तन्करणस्य सूत्राशातनाकलङ्कितत्वादिति दिक् । अयं च सर्वोऽपि ऋजुसूत्रवचन विस्तारो बाह्यार्थाभ्युपगमपरो द्रष्टव्यः। यद्वा ऋजु-बाह्यापेक्षया ग्राहक संवित्तिभेदविकलमविभाग बुद्धिस्वरूपमकुटिलम् , तत्त्व विभागः क्वचित , क्वचित पुनः पुण्य-पापयोरपि तत्त्वान्तरतया परिगणनेन नवधा तत्त्व विभागः, तद्वन्नयविभागोऽपि सप्तघा नवधा च सम्भवतीत्याशङ्कय प्रतिक्षिपति-न चेति अस्य ‘युक्तम्' इत्यनेनान्वयः। निषेधे हेतुमाह- तत्रेति-तत्त्वस्वरूपनिरूपण इत्यर्थः । केवलेति- केवलनिश्रेयसोपयोगितत्त्वबोधलक्षणप्रयोजनेन सप्तधा तत्त्वविभजनम् , अभ्युदयसंवलितनिःश्रेयसोपयोगितत्त्ववोधलक्षणप्रयोजनेन नवधा तत्त्वविभजनमित्येवं प्रयोजनभेदेन तत्त्वविभागद्वैविध्यस्य सम्भवेऽपि नयस्य सप्तधा विभजनं नवधा विभजनमित्येवं विभागद्वैविध्यस्य प्रयोजनभेदाभावेनाऽनुयोगद्वारादिग्रन्थप्रवरसम्मतं सप्तधा नयविभागं परित्यज्य नवधा नयवि मजनकरणं दिगम्बरस्य सूत्रा शासनाकलङ्कितत्वादुपेक्ष्यमेवेत्यर्थः।
उक्तप्रकारेण यद् ऋजुसूत्रवचनविस्तारावेदनं तद् बाह्यार्थाभ्युपगमप्रवणमित्याह- आं चेति। प्रकारान्तरेण ऋजुसूत्रादिस्वरूगमुपदर्शयति- यद्वेति । स्वसंवेदनरूपत्वेन स्वापेक्षया ग्राहकसंवित्तिरूपं भवत्येव बुद्धिस्वरूपमत उक्तम्- बाह्यापेक्षयेति- बाह्यं न गृह्णाति बुद्धिरतो बाह्यापेक्षया ग्राहकसंवित्तिभेदविकलमिति । अविभागम् 'अयमत्र ग्राहाः, अयं च ग्राहकांशः' इत्येवं यो विभागस्तद्रहितम् , बाह्यस्य बहिरङ्गत्वात् तदपेक्षया ग्राहकसंवित्तिरूपत्वमेव कौटिल्यमस्याऽत
Page #198
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १३७. सूत्रयतीति ऋजुसूत्रः शुद्धपयार्यास्तिकः, यद्वा सर्वधर्म विरहशून्यतेत्यः भ्युपगमपरः शुद्धतरपर्यायास्तिकावलम्बी ऋजुसूत्रो व्यवस्थिता, अथवा सौत्रान्तिक-वैभाषिको बाह्यार्थमाश्रितौ यथाक्रममृजुसूत्रशब्दौ, वैभाषिकेण नित्यानित्यशब्दवाच्यस्य पुद्गलस्याभ्युपगमाच्छब्द नये. तस्यानुप्रवेशः । बाह्यार्थप्रतिक्षेपेण विज्ञानमात्राभ्युपगमपरः समभिस्तद्रहितमकुटिलं बुद्धिस्वरूपम् , तत् सूत्रयति ज्ञापयतीति ऋजुसूत्रः, स च बाह्यार्थत्यागलक्षणशुद्धत्वयोगाच्छुद्धपर्यायाथिक इत्यर्थः । ऋजुसूत्रस्वरूपावेदने कल्पान्तरमाह-यद्वेति-शून्यमेव तत्वम् , तत्र शून्यता सर्वधर्मराहित्यमित्यभ्युपगमपर ऋजुसूत्रःशुद्धतरपर्यायास्तिकावलम्बीत्यर्थः, 'सर्वधर्मविरहः शून्यता इति पाठो युक्तः, ऋजुसूत्रः सौत्रान्तिकः, शब्दनयो वैभाषिकः, समभिरुढो योगाचारः, एवम्भूतो माध्यमिक इत्येवं पर्यायास्तिकनयावलम्बी बौद्धश्चतुर्धा व्यवस्थित इति कल्पान्तरमाह- अथवेति। क्षणिकबाह्यार्थभ्युपगमप्रवणत्वेन सौत्रान्तिकस्यर्जुसूत्रत्वेऽपि वैभाषिकस्य कथं शब्दनयत्वमित्यपेक्षायामाहवैभाषिकेणेति- अर्थप्राधान्ये क्षणिकवस्त्वभ्युपगत्रा वैभाषिकेण न नित्योऽर्थोऽभ्युपगत इति नित्यार्थाभावान्न नित्यशब्दप्रयोगोऽसर्थङ्गतो भवेत , शब्दप्राधान्ये तु प्रयुज्यते स पुद्गले इति नित्याऽनित्यशब्दवाच्यस्य पुद्गलस्याभ्युपगमाच्छन्दनये वैभाषिकस्य प्रवेशः, सौत्रान्तिकस्तु शब्दार्थयोस्तादात्म्य-तदुत्पत्तिलक्षणसम्बन्धस्याभावात् सङ्के. तस्य सम्बन्धत्वे पुरुषेच्छारूपस्य तम्याथै शब्दस्येव शब्देऽर्थस्याफि सम्भावितत्वादर्थोऽपि वाचकः स्याच्छब्दोऽपि वाच्यो भवेदितिः नास्त्येवशब्दस्यार्थेन सम्बन्ध इति शब्दो नार्थतत्त्वं ब्रवीतीति न शब्दस्य प्राधान्यमिति न सौत्रान्तिकस्य शब्दनयत्वमित्याशयः । योगाचारस्य समभिरूढत्वं समर्थयति- बाह्यार्थप्रतिक्षेपेणेति । शून्यमेव तत्त्वमित्यभ्युपगच्छतो माध्यमिकस्यैवम्भूतत्वमुपपादयति- एकानेकेति।
Page #199
--------------------------------------------------------------------------
________________
१३८ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् रूढो योगाचारः । एकाऽनेकधर्मविकलतया विज्ञानमात्रस्याप्यभाव इत्येवमभ्युपगमपर एवम्भूतो माध्यमिक इति सम्मतिवृत्तौ व्यवस्थितम्, तत्पूर्वपक्षसमाधानादिकमपि तत एवावसेयम् , विस्तरभयान्नेह विलिख्यते, नवीनतर्कस्पृहयालुभिश्चात्राथै मत्कृतस्याद्वादकल्पलता परिशीलनीया ॥ ऋजुसूत्रनयविचारः सम्पूर्णः॥
दर्शितेयं यथाशास्त्रमृजुसूत्रनयस्य दिक् । बौद्धसिद्धान्तहेतुः श्रीयशोविजयवाचकैः ॥१॥
एवं चतुर्णा बौद्धानामृजुसूत्रादिपर्यायनयचतुष्टयान्यतमरूपत्वमुक्तदिशा यदुपदर्शितं तन्न स्वकपोलकल्पितं किन्तु सम्मतिवृत्तावित्थमुपदर्शितमिति नाबानास्था विधेया नयविद्भिरित्यावेदनायाह- इति सम्मतिवृत्तौ व्यवस्थितमिति। परमतखण्डनपूर्वकस्वमतव्यवस्थापनलक्षणा व्यवस्था पूर्वपक्षसमाधानादिकमन्तरेण न सम्भवतीत्यत आह- तत्पूर्वपक्षेति । तत एव सम्मतिवृतित एव । यथा च सौत्रान्तिकादीनां सम्मतिवृत्यु. दृङ्कितमेवर्जुसूत्रत्वादिकमत्रोपदर्शितं तथा तदुपदर्शितमेव पूर्वपक्ष. समाधानादिकं किमिति नात्रोल्लिख्यत इत्यत आह-विस्तरभयादिति । किं प्राचीनोक्तिश्रद्धामात्रेणैव तथाभ्युपेयम् ? उत नवीनतर्कोपोलितत्वमप्येतस्यार्थस्य ? तथा चेत् ? प्रदर्शनीयो भवतैव स तर्कः, अन्यथा नवीनतर्कस्पृश्यालूनां शङ्कासमुद्धरणमशक्यमित्यत आहनवीनतर्कस्पृहयालुभिश्चेति । ऋजुसूत्रनयविचारपरिसमाप्ति पद्यनैवाऽऽवेदयति-दर्शितेयमिति-बौद्धसिद्धान्तहेतुरियमृजुसूत्रनयस्य दिक् यशोविजयवाचकैर्यथाशास्त्रं दर्शितेति सम्बन्धः, अर्थस्तु व्यक्त इति ॥ . स्वाध्यायायासशीलेन श्रीमल्लावण्यसूरिणा।। ऋजुसूत्रनयाकूतव्याख्यासम्यनिवेदिता ॥१॥
इति ऋजुसूत्रनिरूपणव्याख्यानम् ।
Page #200
--------------------------------------------------------------------------
________________
अथ शब्दनयनिरूपणम् ।। 'शप आक्रोशे' शपनम्-आह्वानमिति शब्दः, शपति आह्वयतीति वा शब्दः, शप्यते वा-आहूयते वस्त्वनेनेति शब्दः । तस्य शब्दस्य यो वाच्योऽर्थस्तत्प्रधानत्वान्नयोऽपि शब्दः, उपचारात्, यथा- 'कृतकत्वाद्' इत्यादिकः पञ्चम्यन्तशब्दोऽपि हेतुः, अर्थरूपं हि कृतकत्वमनित्यत्वगमकत्वान्मुख्यतया हेतुरुच्यते, उपचारात् तु
अथ शब्दनयनिरूपणव्याख्याशब्दनये निरूपयितव्ये विविधव्युत्पत्तिलभ्य शब्दस्वरूपमुपदर्य प्रधानीभूतशब्दार्थविषयकज्ञानरूपस्य नयस्योपचाराच्छब्दरूपतामावेदयति- " शप् आक्रोशे" इति । शपनम् आह्वानमिति शब्द इति भावव्युत्पत्तिमाश्रित्य शब्दस्वरूपमुपदर्शितम् । शपति-आह्वयतीति वा शब्द इति कर्तृव्युत्पत्तिमुपादाय शब्दस्वरूपप्ररूपणम् । शप्यते वा- आहूयते वस्त्वनेनेति शब्द इति करणव्युत्पत्तिसमाश्रयणेन शब्दस्वरूपकथनम्। तस्य आह्वानस्वरूपस्याह्वानकर्तस्वरूपस्याह्वानकरणस्वरूपस्य वा। तत्प्रधान. त्वात् प्राधान्येन शब्दवाच्यार्थविषयकत्वात् । ननु शब्दोऽज्ञानरूपोऽपि तदर्थविषयकज्ञानस्य नयत्वे तस्याप्युपचारान्नयत्वं यदुत्प्रेक्षितमेतादृशोपचरितव्यवहरणं नान्यत्र दृष्टमित्याशङ्काशकुसमुद्धरणायाहयथेति- 'शब्दोऽनित्यः कृतकत्वाद्' इत्यत्र शब्दरूपपक्षेऽनित्यत्वलक्षणसाध्यस्यानुमितेर्जनकत्वेन कृतकत्वलक्षणोऽर्थो मुख्यतया हेतुः, तद्वाचकत्वात् कृतकत्वादिकः पञ्चम्यन्तशब्दोऽप्युपचाराद् यथा हेतुस्तथा शब्दवाच्यार्थविषयकज्ञानं वस्त्वेकदेशविषयकत्वान्मुख्यतया नयः, तद्विषयार्थवावकत्वाच्छब्दोऽप्युपचारानय इत्यर्थः। उक्तमर्थ प्रपञ्चत उपदर्शयति- अर्थरूपं हीति-लिङ्गज्ञानमनुमितिजनकं न तु लिङ्गात्मकोऽर्थस्तथेति यद्यपि, तथाऽपि शायमानलिङ्गस्यानुमितिकरणत्वपक्षेऽर्थरूपलिङ्गस्यानुमितिहेतुत्वं मुख्यमेवेति बोध्यम् । शब्द
Page #201
--------------------------------------------------------------------------
________________
१४० ]
[ तत्त्वबोधिनीविवृतिविभूषितम् तद्वाचकः शब्दः, तद्वदिवापि द्रष्टव्यम् , उक्तं च महाभाष्यकृता
" सवणं सपइ स तेणं व सप्पए वत्थु जं तओ सदो। तस्सत्थपरिग्गहओ नओ वि सद्दो त्ति हेउ छ" ॥
[विशेषावश्यके गाथा-२२२७] शब्दवाच्यार्थपरिग्रहप्राधान्यम् । “ इच्छइ विसेसियतरं पच्चुप्पन्नो नओ सद्दो" ।। [विशेषावश्यके गाथा-२१८४ ] त्ति नियुक्तिदलम् , तत्र भाष्यम्
"तं चिय रिउसुत्तमयं पच्चुप्पन्नं विसेसिययरं सो। इच्छइ भावघडं चिय जं न उ नामादिए तिनि" ॥
[विशेषावश्यके गाथा-२२२८ ] चाव्यार्थविषयकत्वेन नयस्य शब्दत्वे उपदर्शितविविधशब्दव्युत्पत्ती च महाभाष्यसम्मतिमुपदर्शयति- उक्तं च महाभाष्यकृतेति । 'सवणं० ' इति- “शपनं शपति स तेन वा शप्यते वस्तु यत् ततः शब्दः। तस्यार्थपरिग्रहतो नयोऽपि शब्द इति हेतुरिव" ॥ इति संस्कृतम् ।
तस्यार्थपरिग्रहतः' इत्यस्य गाथागतस्थायमर्थ:- तस्य शब्दस्य यो वाच्योऽर्थस्तत्परिग्रहात्तत्प्रधानत्वादिति, पतदेवाह-शब्दवाच्यार्थपरिग्रहप्राधान्यमिति- अस्य स्थाने 'शब्दवाच्यार्थस्य परिग्रहःप्राधान्यम्' इति पाठः सम्यगाभाति । शब्दवाच्यार्थपरिग्रहप्राधान्ये शब्दनये ऋजु. सूत्राद विशेषिततरप्रत्युत्पन्नग्राहित्वे नियुक्तिववनं तत्स्पष्टीकरणप्रवणं भाष्यवचनं चोपदर्शयति- 'इच्छइ' इति- “इच्छति विशेषिततरं प्रत्युत्पन्नो नयः शब्दः" इति संस्कृतम्। तत्र नियुक्तिववनव्याख्याने। तं चिय० इति- “तदेव ऋजुसूत्रमतं प्रत्युत्पन्नं विशेषिततरं सः। इच्छति भावघटमेव यद् न तु नामादिकांस्त्रीन्" इति संस्कृतम् । भाष्यवचनं
Page #202
--------------------------------------------------------------------------
________________
भनेकान्तव्यवस्थाप्रकरणम् ]
[१४१ तदेव ऋजुसूत्रनयमतम्-ऋजुसूत्रनयाभ्युपगतम् , प्रत्युत्पन्नंवर्तमानं वस्तु इच्छति, असौश-दनयः, कीदृशम् ? विशेषिततरम्, कुत इदं ज्ञायते ? यद् यस्मात् , पृथुबुध्नोदराद्याकारकलितं मृन्मयं जलाहरणादिक्रियाक्षमं प्रसिद्धघटरूपं भावघटमेवेच्छत्यसौ, न तु शेषानाम-स्थापना-द्रव्यरूपांत्रीन घटानिति, शब्दार्थप्रधानो शेष नयः, शब्दार्थश्च प्रकृते 'घट चेष्टायाम् ' इति धात्वर्थलक्षणो भावघट एव युज्यते, न नामादिष्विति निक्षेपचतुष्टयाभ्युपगमपराद् ऋजुसूत्राद्-विशेषिततरं वस्त्विच्छत्यसौ, एकस्यैव भावघटस्यानेनोपगमात् ।।
नामादिघटनिराकरणे प्रमाणमाह" नामादओ न कुम्भा तकजाऽकरणओ पडाइच । पञ्चक्खविरोहाओ तल्लिंगाभावओ वा वि" ।।
[विशेषावश्यके गाथा-२२२९] विवृणोति- तदेवेति । 'कीदृशम्' इति कीदृशं वर्तमानं वस्त्वभ्युपगच्छत्यसावित्याकाङ्क्षानिवृत्तये। इदं विशेषिततरं वर्तमानं वस्त्वभ्युपगच्छती. त्येतत्। 'पृथुबुनोदराद्याकारकलितम्' इत्यादिभावघटस्वरूपोपवर्णनम् इच्छत्यसौ अभ्युपगच्छति शब्दनयः। अस्य नयस्य शब्दार्थप्राधान्याद् भावघटस्यैव शब्दव्युत्पत्तिलभ्यत्वेन वाच्यार्थत्वान्न नाम-स्थापना-द्रव्य रूपाणां घटाना तथात्वमिति न नामादीनां त्रयाणामेतनयाभ्युपगमविपयत्वमित्याह- शब्दाथप्रधानो ह्येष नय इति । किमत्र ऋजुसूत्राद् विशेषित. तराभ्युपगन्तृत्वमित्यपेक्षायामाह-निक्षेपचतुष्टयेति-नाम-स्थापना द्रव्यभावेति निक्षेपचतुष्टयेत्यर्थः । अनेन शब्दनयेन। 'नामादि इत्यादिपदात् स्थापना-द्रव्ययो परिग्रहः।।
नामा दओ० इति- "नामादयो न कुम्भाः तत्कार्याऽकरणतः पटा
Page #203
--------------------------------------------------------------------------
________________
१४२ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् नाम-स्थापना-द्रव्यरूपाः कुम्भा न भवन्ति, जलाहरणादितत्कार्याऽकरणात् , पटादिवत्, तथा प्रत्यक्षविरोधात् घटलिङ्गादर्शनाच, अघटरूपास्ते प्रत्यक्षेणैव दृश्यन्त इति प्रत्यक्षविरोधः, जलाहरणादिघटलिङ्गं च तेषु न दृश्यते ततोऽनुमानविरोधोऽपीति कथं ते नामादिघटा घटव्यपदेशभाजो भवेयुः ? । घटपदान्नामादिघटोपस्थितेरस्खलिताया दर्शनात् तत्र तत्पदशक्तेरव्याहतत्वात स्वारसिकघटपदप्रयोगलक्षणो व्यपदेशस्तेषु न विरुध्यत इति चेत् ? न- अन्तरङ्गप्रत्यासच्या भावघट एव घटपदशक्तेरभ्युपगमात् , नामादिषु तत्पदप्रयोगस्याऽस्वारसिकत्वादिति दिग् ॥ दिवत् । प्रत्यक्षविरोधात् तल्लिङ्गाभावतो वाऽपि" ॥ इति संस्कृतम् । विवृणोति-नाम-स्थापना-द्रव्यरूपा इति । तत्कार्येति-घटकार्येत्यर्थः। प्रत्यक्षविरोधमेव स्पष्टपति- अघटरूपास्त इति। ते नाम-स्थापना-द्रव्यरूपाः, तेषु नाम-स्थापना-द्रव्येषु, 'नामादयः कुम्भा न भवन्ति, कुम्भकार्यजलाहरणादिकारित्वाभावात् पटादिवद्' इत्यनुमानमत्र बोध्यम्।
ननु घटपदाद् यथा भावघटोपस्थितिर्भवति तथा नामघटायुपस्थितिरपि भवतीति नामघटाद्युपस्थित्यर्थ घटपदस्य नामघटा. दिष्वपि शक्तिरबाधितप्रसरैवेति नामादिष्वपि स्वारसिकपटपदप्रयोगलक्षणव्यपदेशोऽविरुद्ध एवेति शङ्कते- घटपदादिति । तत्र नाम: घटादौ । तत्पदशक्तेः घटपदशक्तेः। तेषु नाम घटादिषु । समाधत्ते- नेतिजलाहरणादिघटकार्यकारित्वाद् भावघट एवाऽन्तरङ्गा, बहिरङ्गश्च नामघटादिरित्यन्तरङ्गप्रत्यासत्या भावघट एव घटपदशक्तः शब्दनयेनाऽभ्युपगमान्नामघटादिषु घटपदप्रयोगस्याऽस्वारसिकत्वात् , स्वार सिकघट पदप्रयोगलक्षणव्यपदेशो नामादिषु त्रिषु न सम्भवतीत्यर्थः।
ऋजुसूत्रनयशिक्षणप्रवणं भाष्यवचनमवतार्योल्लिखति- ऋजुपूत्रति । जइ० इति- “यदि विगताऽनुत्पन्नाः प्रयोजनाऽभावंतो न ते कुम्भाः ।
Page #204
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १४३ ऋजुसूत्रशिक्षणार्थमाह" जइ विगया-ऽणुप्पना पओअणाऽभावओ न ते कुम्भा। नामादओ किमिट्ठा पओअणाऽभावो कुम्भा ?" ||
[विशेषावश्यकभाष्यगाथा-२२३०] यदि विगता अनुत्पन्नाश्च तव हे ऋजुसूत्र ! कुम्भा नेष्टाः, प्रयोजनाऽभावात् , तर्हि नामादयोऽपि कुम्भाः किमिष्टाः ? प्रयोजनाभावस्य समानत्वात् , न खलु तैरपि कुम्भप्रयोजनं किमपि विधीयते, वासनाविशेषोत्थापितप्रतीत्यादिप्रयोजनं तु शशविषाणादेरिव न सत्त्वसाधकमिति भावः। तदेवमृजुसूत्राच्छन्दनयस्य विशेषिततरत्वमुक्तम् ॥ नामादयः किमिष्टाः प्रयोजनाभावतः कुम्भाः ?' ॥ इति संस्कृतम् । विवृणोति-यदि विगता अनुत्पन्नाश्चेति। नामादिषु प्रयोजनाऽभावस्यासिद्धत्वं निराकरोति-न खल्विति- नमो 'विधीयते' इत्यनेनान्वयः। तैरपि नामादिभिरपि । ननु नामघटादिकं दृष्ट्वा 'अयं घटः' इति प्रतीतिरुपजायते, नामघटादयोऽपि स्वस्वनिष्पाद्यं यत्किञ्चित् कार्य कुर्वन्त्येव, भवत्येव च पूर्वानुभूतस्य नामघटादितः स्मृतिपथमागतस्य यथावासनमाहादिकमित्यत आह- वासनाविशेषोत्थापितेति-पृथुबुध्नाद्याकारविकले गोपालदारकादौ घटपदसङ्केतप्रभवघटविकल्पोपजातवासनाविशेषतः प्रतीत्यादिकं यद्यपि प्रभवति, नैतावता तस्य सत्त्वम् , तथा सति शशशृङ्गादिशब्दसङ्केतकरणोपजातविकल्पसमुत्थवासनाविशेषप्रभवप्रतीत्यादिमात्रेण शशविषाणादेरपिसत्त्वं स्यात्, यदि च तत्र प्रतीतिमात्रमेव वासनाविशेषतो न तु प्रतीतिविषयस्तत्र किमप्यस्ति शशविषाणादिवाच्यं तदेतत् प्रकृतेऽपि समानमिति भावः। एतावता ऋजुसूत्राद् विशेषिततरत्वं शब्दनयस्योपदर्शितमुपसंहरति- तदेवमिति।
Page #205
--------------------------------------------------------------------------
________________
१४४ ]
[ तत्त्वबोधिनोविवृतिविभूषितम्
अथ प्रकारान्तरेण तदाह
46
अहवा पच्चुप्पन्नो रिउ सुत्तस्साऽविसेसिओ चैव । कुम्भो विसेमिययरो सम्भावाईहिं सदस्स || सम्भावाऽसम्भावोभयप्पिओ स परपज्जओभओ । कुम्भाऽ-कुम्भा-ऽवत्तव्त्रोभयरूवाइभेओ सो " |
[ विशेषावश्यकभाष्यगाथे- २२३१, २२३२ ] अथवा प्रत्युत्पन्न ऋजुसूत्र स्याविशेषित एव सामान्येन कुम्भोऽभिप्रेतः, शब्दनयस्य तु स एव सद्भावादिभिर्विशेषिततरोऽभिमत इत्येवमनयोर्भेदः ||
तथाहि - स्वपर्यायैः परपर्यायैरुभय पर्यायैर्वाऽर्पितः - विशेषितः, कुम्भाऽकुम्भाऽवक्तव्योभयरूपादिभेदो भवति, सप्तभङ्गीं प्रतिपद्यत
प्रकारान्तरेण विशेषिततरत्वमृजुसूत्राच्छब्दस्य भाष्योपदर्शितं 'तद्भाष्यमवतार्थोल्लिख्याऽऽवेदयति- अथेति । ' अहवा इति- अथवा 'प्रत्युत्पन्न ऋजुसूत्रस्याऽविशेषित एव कुम्भो विशेषिततरः सद्भावादिभिः शब्दस्य । सद्भावा ऽसद्भावोभयार्पितः स्व-परपर्यवोभयतः । 'कुम्भा कुम्भाऽवक्तव्योभयरूपादिभेदः सः " ॥ इति संस्कृतम् । क्रमेतद्भाष्यगाथाद्वयं विवृणोति- अथवेति । 'ऋजुसूत्रस्थ इत्यस्य 'अभिनेतः' इत्यनेनान्वयः । 'शब्दनयस्य' इत्यस्यापि 'अभिमतः ' इत्यनेनान्वयः । स एव प्रत्युत्पन्नघट एव । अनयोः ऋजुसूत्र · शब्दनययोः । 'पतावता प्रथमगाथार्थो व्यावर्णितः ॥
6
,
सद्भावादिभिर्विशेषिततरत्वं कुम्भस्य यच्छन्दयाभिप्रतं तद्भा'बनप्रत्यलद्वितीयगाथार्थभावनां करोति तथाहीत्यादिना । स्वपर्यायैरितिस्वगतपर्यायैरपितो घटः सद्भावेनाऽर्पित सन् 'कुम्भः' इति भण्यते, " स्यादर्श कुम्भ एव इति तद्वचनम्, सप्तभङ्गया महावाक्यरूपाया
Page #206
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ] "
[ १६१ इत्यर्थः, तद्यथा-ऊर्ध्वग्रीवा-कपाल-कुक्षि-बुध्नादिभिः स्वपर्यायैः सद्भावेनार्पिता- विशेषितः कुम्भः 'कुम्भः' भण्यते, 'सन् घटः' इति प्रथमभङ्गो भवतीत्यर्थः १; तथा पटादिगतैस्त्वक्त्राणादिभिः परपर्यायैरसद्भावेनाऽर्पितः- विशेषितः 'अकुम्भः' भवति, सर्वस्यापि घटस्य परपर्यायैरसचविवक्षायाम् 'असन् घटः' इति द्वितीयो भङ्गो भवतीत्यर्थः २; सर्वोऽपि घटः स्व-परोभयपर्यायैः सद्भावाऽसद्भावाभ्यामर्पितः 'अवक्तव्यः' भवति, स्व-परपर्यायसच्चाऽसत्वाभ्यामेकेन केनाप्यसाङ्केतिकेन शब्देन सर्वस्यापि तस्य अयं प्रथमो भङ्गः, परपर्यायैरर्पितः-विशेषितो घटोऽसद्भावेनार्पितः सन् 'अकुम्भः' इति भण्यते, 'स्यादकुम्भ एवाऽयम्' इति तद्वचनम्, सप्तभङ्गया द्वितीयोऽयं भङ्गः, स्व-परपर्यायोभयाभ्यां युगपत्प्राधान्येन विवक्षिताभ्यामपित:-विशेषितो घटो युगपत्प्रधानभावाऽऽकलितसद्भावा-ऽसद्भावोभयाभ्यामर्पितस्तथा वक्तुमशक्यत्वेन 'स्यादवक्तव्य एवायम्' इति तद्वचनम् , सप्तभङ्गया अयं तृतीयो भङ्गः; क्रमेण प्राधान्येन विवक्षिताभ्यां स्व-परपर्यायाभ्यामर्पितः- विशेषितःसद्भावाऽसद्भावाभ्यां विशेषितः सन् 'स्यात् कुम्भ एवायं स्यादकुम्भ एवायम्' इत्येवं वक्तव्यं भवति, तद्वचनं सप्तभनयास्तुरीयो भङ्गा एवं स्वपर्यायेण सद्भावेनापितः, स्व-परपर्यायाभ्यां युगपत्प्राधान्येन विवक्षिताभ्यां सद्भावा-ऽसद्भावाभ्यामर्पितः स्यात् कुम्भ एव स्यादवक्तव्य एवायम् ' इत्येवं प्रतिपाद्यं, भवति, तद्वचनं च सप्तभङ्गयाः पञ्चमो भङ्गः, एवं परपर्यायेणासद्भावेनार्पितः प्राधान्येन युगपद्विवक्षितसद्भावा-ऽसद्भावाभ्यां युगपद्वक्तुमशक्य इति, तथा चाऽर्पितः सन् 'स्यादकुम्भ एवायं स्यादवक्तव्य एवायम्' इतिवचनप्रतिपाद्या भवति, तञ्च वचनं सप्तभङ्गयाः षष्टी भङ्गः, स्वपर्यायेण सद्भावेनाऽर्पितः, परपर्यायेणाऽसद्भावेनापितः, प्राधान्येन युगपद्विवक्षिताभ्यां सद्भावा-ऽसद्भावाभ्यां तथावक्तुमशक्यत्वेनार्पितः सन्
११
Page #207
--------------------------------------------------------------------------
________________
१६२ ]
[ तत्त्वबोधिनी विवृतिविभूषितम् युगपद्वक्तुमशक्यत्वात् , इति तृतीयो भङ्गः ३ । एते त्रयः सकलादेशाः । अथ चत्वारो विकलादेशाः प्रोच्यन्ते- तत्रैकस्मिन् देशे स्वपर्यायसत्त्वेनान्यत्र तु देशे परपर्यायाऽसत्वेन विवक्षितो घटः 'संश्वासंश्च' भवति, घटोऽघटश्च भवतीत्यर्थः, इति चतुर्थो भङ्गः ४% तथैकस्मिन् देशे स्वपर्यायैः सद्भावेनार्पितोऽन्यत्र तु देशे स्व-परोभयपर्यायैः सद्भावा-सद्भावाभ्यां युगपदसाङ्केतिकेनैकेन शब्देन 'स्यात् कुम्भ एव स्थादकुम्भ एव स्यादवक्तव्य एवायम्' इति वचनस्य गोचरो भवति. तद्वचनं च सप्तमङ्गया सप्तमो भलो भवति इत्थं विचारपदवीमानीतोऽर्थ एतन्नये विशेषिततरः सप्तमी प्रतिपद्यत इत्येवं द्वितीयगाथार्थ इत्यर्थः। इत्थं भाविता एव सप्ताऽपि भङ्गा भाव्यन्ते-तद्यथेत्यादिना । तस्य घटस्य, अन्यत् स्पष्टम् । एते त्रयः सकलादेशाः 'स्थात् सन्नेव घटः १, स्यादसन्नेव घटः २, स्यादवक्तव्य एव घट: ३' इत्येवमनन्तरनिरूपितास्त्रयो भङ्गाः सकलादेशा अखण्डवस्तुस्वरूपं सकलमादिशन्ति प्रतिपादयन्तीति कृत्वा, सप्तभङ्गयामाद्यास्त्रयः सकलादेशा अन्त्याश्चत्वारो विकलादेशा इति मतमाश्रित्येदम् ; देवसूरिप्रभृतयस्त्वावार्याः “सप्तापि भङ्गास्तत्तद्भगा. भिहितस्य सत्वायेकेकधर्मस्य वस्तुगताखिल वः समं कालादिभिरष्टभिर्द्रव्यार्थिकनयादेशादभेदप्राधान्यात् पर्यायार्थिकनयादमेदोपचाराद्वा एकवर्मप्रतिपादनमुखेनाशेषधर्मप्रतिपादकत्वतोऽनन्तधर्मात्मकवस्तुप्रतिपादकत्वात् सकलादेशाः, यदा त्वेकस्य धर्मस्थान्यैर्धमः समं द्रव्यार्थिकनयादेशात् कालादिभिरष्टभिर्भेदोपचारः, पर्यायार्थिकनयादेशाद् भेदवृत्तिप्राधान्यं तदैककधर्मप्रतिपादकत्वाद विकलादेशास्ते सर्वे" इत्यामनन्तीति बोध्यम् । अन्त्याश्चत्वारो विकलादेशा यथा व्यवस्थिता भवन्ति तथा प्ररूपयति- अथेति- अनन्तधर्मात्मकैक. वस्तुन एकवर्माऽऽकलितो भागस्तस्य देश इत्युच्यते, तत्रैकस्मिन् देशे स्वपर्यायसत्वेन विवक्षितो घटः, अपरस्मिश्च तथाभूते देशे
Page #208
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १६३
'
वक्तुमिष्टः कुम्भः 'संश्चाऽवक्तव्यश्च भवति, घटोsवक्तव्यश्च मत्रतीत्यर्थः, देशे तस्य घटत्वाद् देशे चाऽवक्तव्यत्वात् इति पञ्चमो भङ्गः ५ तथैकदेशे परपर्यायैरसद्भावेनाऽर्पितोऽन्यस्मिंस्तु देशे स्व-परपर्यायैः सद्भावा- सद्भावाभ्यां युगपदसाङ्केति केनैकेन शब्देन वक्तुमिष्टः कुम्भः 'असंश्चाऽवक्तव्यश्च' भवति, अघटोs - वक्तव्यश्च भवतीत्यर्थः, देशे तस्याघटत्वाद् देशे चावक्तव्यत्वात्, इति षष्ठो भङ्ग ६; तथैकस्मिन् देशे स्वपर्यायैः सद्भावेनान्यस्मिंस्तु परपर्यायैरसद्भावेनान्यस्मिंस्तु स्व- परोभयपर्यायैः सद्भावासद्भावाभ्यां युगपदेकेनाऽसाङ्केतिकेन शब्देन वक्तुमिष्टः कुम्भः ' संश्चासंथावक्तव्यश्च भवति, घटोऽघटोऽवक्तव्यश्च भवतीत्यर्थः, इति सप्तमो भङ्गः ७ । इह च " कुम्भा कुम्भ ०" इत्यादिना गाथार्धेन षड् भङ्गाः साक्षादुपात्ताः सप्तमस्त्वादिशब्दात्, तद्यथा - 'कुम्भः '
,
परपर्याया सत्त्वेन विवक्षितः स एव घटः सन्नसंश्च भवति, अर्थाद् घटोsघटश्च भवति, एवं च स्यात् सन्नेव स्यादसन्नेव घटः, सत्त्वमत्र घटस्य घटत्वम्, असत्त्वं च अघटत्वमिति ' स्याद् कुम्भ एव स्यादकुम्भ एव चायम्' इति तुरीयो भङ्ग इत्यर्थः । पञ्चमं भङ्ग भावयति - तथेति । तस्य कुम्भस्य, एवं च ' स्यात् कुम्भ एव स्यादवक्तव्य एव चायम्' इति पञ्चमो भङ्ग इत्यर्थः । षष्ठं भङ्गं भावयाततथैकदेश इति । तस्य घटस्य, इत्थं च ' स्थादकुम्भ एव स्यादवक्तव्य एव चाऽयम्' इति षष्ठो भङ्ग इत्यर्थः । सप्तमं भङ्गं प्ररूपयतितथेति - ' स्यात् कुम्भ एव स्याइकुम्भ एव स्यादवक्तव्य एव चाऽयम् ' इति सप्तमो भङ्ग इत्यर्थः । कथं सप्तापि भङ्गा निरुक्तगाथात उपदर्शिता भवन्तीत्यपेक्षायामाह - इह चेति । निरुक्तगाथार्द्धेन यथा सप्तभङ्गोपदर्शनं तथा भावयति - तद्यथेति । 'कुम्भाऽकुम्भं ' इत्यादिगाथार्द्ध उभयपदमेकमेव श्रूयते यद्यपि, तथापि कुम्भाकुम्भो भयं
Page #209
--------------------------------------------------------------------------
________________
१६४ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् १, 'अकुम्भः' २, 'अवक्तव्यः' ३, उभयत्ति- 'संश्चाऽसंश्च' इत्युभयम् ४, 'सन्नवक्तव्यः' इत्युभयम् ५, तथा 'असन्नवक्तव्यः' इत्युभयम् ६, आदिशब्दसगृहीतस्तु सप्तमः ‘सन्नसन्नवक्तव्यः' इति ७. अत्रोभयपदस्य समभिव्याहृतपदार्थैकत्वद्वयप्रकारकबुद्धिविषये शक्तावपि समभिव्याहारत्रैविध्यात् त्रिरावृत्त्या त्रिविधोभयबोध इति न्यायमार्गः । तदेवं स्याद्वाददृष्टं सप्तभेदं घटादिकमर्थं यथाविवक्षमेकेन केनापि भङ्गकेन विशेषिततरमसौ शब्दनयः प्रतिपद्यते, पर्यायनय
कुम्भावक्तव्योभयमकुम्भावक्तव्योभयमित्येवं समभिव्याहारत्रैविध्या'दुभयपदस्य त्रिरावृत्त्या त्रिविधोमयबोध इत्युपदर्शयति- अत्रोभयपदस्यनि- यद्यप्युभयपदमुभयत्वविशिष्ट शक्तं तथापि समभिव्याहृतपदार्थस्यैकत्वे सति तत्रोभयत्वासम्भवेनोभयत्वविशिष्टान्वयासम्मवादुमयप्रकारकबुद्धिविषये शक्त्योभयप्रकारकबुद्धिविषयस्याभेदेनैकस्मिन्नन्वयसम्भवेऽपि त्रिधावृत्तिमन्तरेण न त्रिविधोभयबोधः ‘सकदुचरितःशब्दः सकृदेवार्थ गमयति' इत्यत उभयपदत्रिरावृत्तितस्त्रिविधो. भयबोधकल्पनं न्यायानुगतमित्यर्थः। शब्दनयविचारे प्रस्तुते सप्तभङ्ग्युपदशेनस्य क उपयोग इत्यत आह- तदेवमिति । विशेषिततरं कथम प्रतिपद्यत इत्यपेक्षायामाह- पर्यायनयत्वादिति- अनेन पर्यायनयविषयाणां पर्यायाणामानन्न्यादेकपर्यायनयाविषयस्याऽपि पर्यायस्याऽन्यायनयविषयत्वसम्मेवेनर्जुसूत्र-शब्दनययोःपर्यायनयत्वसाम्येऽपि ऋजुसूत्रनयाविषयपर्यायविषयत्वतो विशेषिततरवस्तुग्राहित्वं शब्दनये सम् ग्वतीत्यावे दिनं भवतीति । एवमपि कुण्ठमतीनां पर्यायनयत्व. साम् पश्यतां यदि न भवेत तयो.लक्षण्याध्यवसायस्तदा तत्स्पष्टप्रति नये त्वाह- विशेषिततरवस्तुमाहित्याच्चेति । एकेनापि भङ्गकेन विशेपिरतिपत्तिकत्वे शमनयस्य न सम्पूर्णसप्तभङ्गयात्मकमहावाक्याभ्युपान्तृत्वम, म्याद्वादिनन्तु सम्पूर्णवस्तुविषयकप्रमाणाभ्युपगन्तुः सम्ल तमङ्गयात्म महागा गाभ्युपगन्तृत्वेन शब्दनयाद् विशेष
Page #210
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १६५ स्वादजुत्राद् विशेपिततरवस्तुग्राहित्वाच, स्याद्वादिनस्तु सम्पूर्णसप्तभङ्ग्यात्मकमपि प्रतिपद्यन्त इति विशेषावश्यकवृत्तावुक्तम् ॥ .
तत्रेदं विचार्यते ननु किमियं सप्तभङ्गी अर्थनयाश्रिता, उत शब्दनयाश्रिता? आये तदेकतरभङ्गविशेषणेन कथनमृजुसूत्राच्छब्दस्य विशेषिततरत्वम् ? अर्थनयाश्रितभङ्गस्य शब्दनयाविशेषत्वात् , उभयेषां विषयविभागस्य दूरान्तरत्वात् , तथाहि- एतदर्थनयमतम्इत्याह- स्याद्वादिनस्त्विति । उक्तार्थस्य स्वोत्प्रेक्षितत्वनिरासायाह- विशेषावश्यकवृत्तावुक्तमिति ।।
प्रसङ्गात् सप्तभङ्गों विचारकोटिमानयति- तत्रेदं विचार्यत इति । विचारस्वरूपमाविस्करोति-नन्वित्यादिना। सप्तमङ्गया अर्थनयाश्रितत्वे तदवयवभुतस्य भङ्गमात्रस्य प्रत्येकमर्थनयाश्रितत्वेन तस्य शब्दनयविशेषत्वाभावात् , अर्थनय-शब्दनयविषययोरत्यन्तं वैलक्षण्यादित्याहआये इति-सप्तमङ्गया अर्थनयाश्रितत्वपक्ष इत्यर्थः। तदेकतरभङ्गविशेषणेन अर्थनयाश्रितसतभङ्गयवयवभूतकतरभङ्गात्मकविशेषणेन। उभयेषाम् अर्थ नयशब्दनयोभयेषाम्। उभयनयविषयविभागस्य दूरान्तरत्वमेव भावयति-तथाहीति। तत्र तावदर्थनयमतमाविष्करोति-एतदर्थनयमतमिति। एतत् अनन्तरमेवाभिधीयमानम् । अर्थनयमते यथा सामान्यतोऽर्थोंऽस्ति तथा सामान्यतः शब्दोऽप्यस्ति, किन्तु प्रमाणे स्वाकारार्पकोऽर्थ एव, तेनार्थाकारानुविधायिनी संविद् , अर्थाध्यवसायेनार्थ एवाऽवि. संवादादर्थ एत्र प्रमाणम् , अर्थ सत्येवार्थाकारा संवित् , अर्थाभावे तु न तदाकारा सेति साक्षात् परम्परया वाऽर्थेन सहैव नियतान्वयव्यतिरेको संविदो न तु शब्देनेति प्रमेयत्वमर्थस्यैव न शब्दस्येत्युपदर्शयति- यद्यपीति । तथापि सामान्येन शब्दाऽर्थयोः सत्त्वेऽपि । तदाकारानुविधायिनी संवित् तदध्यवसायेन तत्राविसंवादात प्रमाणत्वेन गीयत इति सम्बन्धः, शब्दाकारानुविधायिनी यदि सविद् भवेत् तदा तस्यास्तद्ध्यवसायेन शब्देऽविसंवादात् नात्र
Page #211
--------------------------------------------------------------------------
________________
१६६ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् यद्यपि शब्दाऽौँ सामान्येन स्तः, तथाऽपि तदाकारानुविधायिनी तदध्यवसायेन तत्राऽविसंवादात् संवित् प्रमाणत्वेन गीयते, प्रमाणे स्वाकारार्पकश्चार्थ एव, साक्षात् परम्परया वा नियतान्वय-व्यतिरेकशालित्वात् , न तु शब्दोऽतथात्वादिति तस्य न प्रमेयत्वम् , न चाध्यक्षसंविदि कदापि शब्दसंसृष्टोऽर्थः प्रतिभासते, तथाऽननुभवात् , यदि च वस्तुसन्निधावपि तन्नामानुस्मृतिं विनार्थस्यानुपलब्धिरिष्यते, तदार्थसन्निधेरभिधानस्य स्मृतावेवोपक्षीणशक्तिकत्वात् कदापीन्द्रियबुद्धिजनकत्वं न स्यात् , यदि च स्वाभिधानविशेषणाप्रामाण्यमपि सम्भवेत् , न चैवमित्याह- प्रमाण इति । तथा चार्थस्य प्रमाणे स्वाकारार्पकत्वादाकारानुविधायिन्येव संविदिति, कथमर्थस्यैव प्रमाणे स्वाकारार्पकत्वं विज्ञायत इत्यपेक्षायामाह- साक्षादितिएतच्च प्रत्यक्षप्रमाणमाश्रित्य, प्रत्यक्षे साक्षादेवार्थस्य नियतान्वयव्यतिरेकशालित्वात् । परम्परयेति- अनुमानप्रमाणमाश्रित्य, तत्र व्याप्तिशानादिद्वाराऽर्थस्य नियतान्वय-व्यतिरेकशालित्वात् । न तु शब्दः शब्दो न प्रमाणे स्वाकारार्पकः । अतथात्वाद् प्रमाणेन सह साक्षात् परम्परया वा नियतान्वयव्यतिरेकशालित्वाभावात्। इति एतस्माद्धतोः । तस्य शब्दस्य । न प्रमेयत्वं न प्रमाणविषयत्वम् । ननु प्रत्ययमात्रे शब्दसंस्पृष्टोऽर्थः प्रतिभालत इति शब्दस्यापि प्रमाणे नियतान्वयव्यतिरेकित्वेन स्वाकारसमर्पकत्वमस्त्येव प्रमाण इति तस्यापि प्रमेयत्वमित्यत आह-न चेति- अस्य 'प्रतिभासते' इत्यनेन सम्बन्धः। तथाऽननुभवात् शब्दसंस्पृष्टार्थविषयकत्वेन प्रत्यक्षस्यानुभवाविषयत्वात्। वस्तुसन्निधानेऽपि यावन्न तन्नामानुस्मृतिस्तावन्न तत्प्रत्यक्षमित्युपगमे तु वस्तुसन्निधानाच्छब्दानुस्मरणं ततः शब्दसंस्पृष्टार्थस्योपलब्धिरिति स्यात् , एवं च वस्तुसन्निधानं शब्दस्मरण एवीपक्षीणमिति वस्तुन इन्द्रिजन्यज्ञानं प्रति कारणत्वमपि न भवेदित्याह- यदि चेति । तन्नामानुस्मृति विना अर्थाभिधानस्मरणमन्तरेण । अभिधानस्य स्मृतावेव
Page #212
--------------------------------------------------------------------------
________________
बनेकान्तव्यवस्थाप्रकरणम् ]
[ १६७ पेक्षमेव चक्षुरादिप्रतिपत्तिः स्वार्थमवगमयतीति परस्य निबन्धः, तदाऽस्तं गतेयमिन्द्रियप्रभवाऽर्थाधिगतिः, तन्नामस्मृत्यादेरसम्भवाद, तथाहि- यत्रार्थे प्राक् शब्दप्रतिपत्तिरभूत् पुनस्तदर्थवीक्षणे तत्सङ्के. तितशब्दस्मृतिर्भवेदिति वक्तुं युक्तम् , अन्यथातिप्रसङ्गात् , न चानभिलापार्थाऽप्रतिपत्तौ पूर्वप्रतिपन्नमभिलापमपि स्मरेत् , अर्थदर्शनस्ववाचकशब्दस्मरण एव । इन्द्रियबुद्धीति- इन्द्रियजन्यबुद्धोत्यर्थः । चक्षुरादिजन्यज्ञानं वस्त्वभिधानात्मकविशेषणापेक्षमेव स्वविषयमवभासयतीति यदीष्यते तदा विशेषणानस्य विशिष्टबुद्धि प्रति कारणत्वेन शब्दरूपविशेषणज्ञाने स्मृत्यात्मके सत्येव शब्दविशिष्टार्थस्य ग्रहणमिति शब्दस्मरणाद्यसम्भवे इन्द्रियजार्थज्ञानस्यानुदय एव प्रसज्यत इत्याह- यदि चेति । परस्य शब्दनयवादिनः । तन्नामस्मृत्याद्य. सम्भवमुपपादयति- तथाहोति । शब्दप्रतिपत्तिरभूत् वावकत्वेन शब्दस्यानुभवो जातः स्मृति प्रत्यनुभवस्य कारणत्वात् प्रागनुभवस्यावश्यकत्वम् , यत्र सङ्केतितया शब्दस्यानुभवः, तदर्थस्य सङ्केतलक्षणसम्बन्धेन शब्दस्य सम्बन्धितया एकसम्बन्धिज्ञानमपरसम्बन्धिनं स्मारयति, यथा- हस्तिपकस्य ज्ञानं हस्तिनं स्मारयतीति तद्ग्रहणे सति तत्सङ्केतितशब्दस्मरणं युज्यत इत्याह- पुनस्तदर्थवीक्षण इति । अन्यथा प्राक् शब्दप्रतिपत्त्याद्यभावेऽपि तत्स्मरणाद्युपगमे । अतिप्रसङ्गात् यस्य कस्यचिद् ग्रहणेऽप्यननुभूतस्यापि तत्सम्बन्धितया स्मृत्यापत्तेः। एवं च शब्दस्मरणार्थमुद्बोधकतयार्थग्रहणस्यावश्यकत्वे चार्थग्रहणे सत्येक शब्दस्मरणमित्यायातम् , अर्थग्रहणं च शब्दसंसृष्टतयैवार्थस्य ग्रहणरूपमिष्यते भवतेत्यर्थग्रहणात् पूर्व शब्दस्यास्मरणे न शब्दसंस्पृष्टार्थग्रहणम्, शब्दासंस्पृष्टार्थग्रहणं चानभ्युपगमादेव नास्तीत्यभिलाप. विनिर्मुक्तार्थप्रतिपत्त्यभावाच्छन्दस्य स्मरणमेव न भवेदित्याह- न चेति- अस्य ‘स्मरेद्' इत्यनेनान्वयः। शब्दास्मरणे हेतुमुपदर्शयतिअर्थदर्शनरूपेति- अर्थदर्शनरूपं यच्छन्दविषयकसंस्कारस्योद्बोधक
Page #213
--------------------------------------------------------------------------
________________
१६८ ]
[ तत्त्वबोधिनीविवृतिविभूषितम्
रूपसंस्कारोद्बोधकाभावात्, अस्मरंश्च शब्दविशेषं न वाच्यवाचकभावसम्बन्धेनार्थे योजयेत् अयोजयंश्च न तेन विशिष्टमर्थमवगच्छेदित्यायातमान्ध्यमशेषस्य जगतः तस्मात् स्वाभिधानस्मृतिनिरपेक्षस्यार्थस्य स्वत एव चक्षुरादिप्रत्ययं प्रत्युपयोगित्वमेष्टव्यमित्यर्थ एव तवमिति ।
"
!
शब्दनयास्तु सङ्गिरन्ते - कारणस्यापि विषयस्यावगाहनेनोपलम्भमाना प्रतिपत्तिर्न तावत् प्रमाणं यावदध्यवसायो न भवेत्, स चाध्यवसाय विकल्पात्मा तदभिधानस्मृतिं विना नोत्पद्यत इति सर्वव्यवहारेषु शब्दसम्बन्धः प्रधाननिबन्धनम्, प्रत्यक्षस्यापि तज्जन्माध्यवसायविकल्पविकलस्य बहिरन्तर्वा प्रतिक्षणपरिणामप्रति
तस्याभावादित्यर्थः । यदा चार्थग्रहणलक्षणोदबोधकाभावान्न शब्दस्मरणं तदा शब्दलक्षणविशेषणज्ञानाभावाद् वाच्यवाचकभावसम्बन्धेन शब्द विशिष्टस्यार्थस्य ग्रहणमपि न सम्भवति, शब्दरूपविशेषणविनिर्मुक्तस्यार्थस्य ग्रहणं च नेष्यते भवतेत्यर्थग्रहणस्य सर्वथाऽभावादान्ध्यमशेषस्य जगतः प्रसज्यत इत्याह- अस्मरंश्चेति । अयोजयंच अर्थे वाच्यवाचकभावसम्बन्धेन शब्दविशेषमयोजयंश्च । तेन शब्देन, विशिष्टमर्थ नावगच्छेत् न जानीयात् । इति पत्र प्रकारेण कस्याप्यर्थस्य ज्ञानाभावात् । अर्थनयवादी स्वाभिमतमुप पंहरति- तस्मादिति ।
शब्दनयवादिमतमुपदर्शयति शब्दनयस्त्विति । कारणस्यापि प्रतिपत्तिकारणस्यापि । यदा चाध्यवसाये सत्येव प्रत्ययस्य प्रामाण्यं तदाऽध्यवसायस्य विकल्परूपस्य शब्दसंसृष्टार्थविषयकत्वाच्छन्दस्मरणमन्तरेण नोपजायत इति सर्वव्यवहारस्य प्रधानकारणं शब्दसम्बन्ध इत्याह- स चाध्यवसाय इति । प्रत्यक्षपरिणामावगाहिप्रत्यक्षं भवत् तत्र प्रमाणं स्यादिति प्रत्यक्षेऽपि विकल्पव्यापारके शब्द -
Page #214
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ] पत्ताविव प्रमाणतानुपपत्तेः, अविसंवादलक्षणत्वात् , प्रमाणानाम् , प्रतिक्षणपरिणामांशेऽप्यध्यक्षप्रामाण्याभ्युपगमे च प्रमाणान्तरदर्शने यत्नान्तरकरणं ग्रान्थिकानामपार्थकं स्यात्, प्रमाणव्यवस्थानिबन्धनं तन्नामस्मृतिव्यवसाययोजनमर्थप्राधान्यमपहस्तयतीति शब्द एव सर्वत्र प्रमाणादिव्यवहारे प्रधान कारणमिति । द्वितीयविकल्पे च
सम्बन्धस्यापेक्षाऽऽस्त्येवेत्याह-प्रत्यक्षस्याऽपीति।तजन्मेति-प्रत्यक्षजन्या. ध्यवसायात्मकविकल्परहितस्य बहिरन्तर्वा प्रतिक्षणपरिणामग्रहणेऽपि यथा न तत्र प्रामाण्यं तथाऽन्यत्रापि विषये प्रमाणतानुपपत्तरित्यर्थः । संवादे सति प्रामाण्यं न तु विसंवादे, यावच्च नाध्यवसायस्तावन्न प्रामाण्यमित्यतोऽध्यवसायस्य विकल्परूपस्यावश्यकतेत्याशयेनाहअविसवादेति-विगतः संवादो विसंवादः संवादाभावः, न विसंवादोऽविप्तवाद इति संवाद एव पर्यवस्यति, तल्लक्षणत्वात् तेन लक्षणेन ज्ञायते इदं प्रमागमिति । वस्तुतः प्रतिक्षणपरिणामग्राहिप्रत्यक्षस्य तथाभूताध्यवसायविकलस्यापि प्रतिक्षणपरिणामांशे प्रामाण्याभ्युपगमे तु तत्र विप्रतिपत्तौ प्रमाणान्तरोपदर्शनं यद् ग्रन्थकारैः क्रियते तदपार्थकमेवापद्येत, प्रमाणान्तरोपदर्शनमन्तरेणाऽपि प्रत्यक्षप्रमाणत एव तत्प्रसिद्धरित्याह- प्रतिक्षणपरिणामांशेऽपीति । शब्दनयाः स्वाभिमतमुपसंहरन्ति- तत इति । तथाच व्यवस्थितमिदम्- अर्थनय-शब्दनययोविषयविभागस्य दुरान्तरत्वात् सप्तभङ्गया अर्थनयाश्रित्वे तदेकतरभङ्गस्याप्यर्थनयाश्रिततया न शब्दनयविशेषकत्वमिति न तत ऋजुसूत्राच्छब्दनस्य विशेषिततरत्वम्। सप्तभङ्गी शब्दनयाश्रितेति द्वितीयकल्पेऽपि ऋजुसूत्राभिमतो योऽर्थपर्यायो न स शब्दनयाश्रितसप्तभङ्गयकतरभङ्गविषय इति ऋजुसूत्राविषयविषयकस्य शब्दनयस्य न ततो विशेषिततरत्वं सप्तमङ्गयेकतरभङ्गलक्षणविशेषणेन सिद्धय तीत्याह- द्वितीयविकल्पे चेति । तस्मात् ऋजुसूत्रात् ।
Page #215
--------------------------------------------------------------------------
________________
[ तत्वबोधिनी विवृतिविभूषितम्
१७० ] ऋजुसूत्राभिमतार्थ पर्यायाविषयत्वेनाशुद्धव्यञ्जनपर्यायग्राहिणः कुतः शब्दस्य तस्माद् विशेषिततरार्थत्वम् ? नहि तदविषयविषयकत्वं विशेषिततरशब्दार्थः, किन्तु शुद्धतरतद्विषयविषयकत्वमिति ।
न च ऋजुसूत्राभिमतं सत्त्वमुपमृद्याऽसत्त्वाख्यद्वितीयभङ्गार्थीपग्रहाच्छब्दस्यर्जुसूत्राद् विशेषिततरत्वं वक्तुं युक्तम्, इत्थमृजुसूत्राभिमतं सच्चमुपमृद्याऽसच्चग्रहणव्यापृतस्य व्यवहारस्यापि ततो विशेषिततरार्थत्वापत्तेर्विशेषकभङ्गा निर्धारकवचनानुपपत्तेश्चेति चेत् ? अत्रेदमाभाति, यद्यपि सम्मतौ
एवं सत्तविअप्पो वयण हो होइ अत्थपजाए । वंजणपजाओ पुण सवियप्पो णिव्वियप्पो य" |
[ काण्ड० १, गाथा - ४१ ]त्ति । गाथार्थ पर्यायाश्रिता सप्तभङ्गी सङ्ग्रह - व्यवहारजुर्मूत्रैर्व्यञ्जन
प्रकारान्तरेणर्जुसूत्राच्छादनयस्य विशेषिततरत्वमाशङ्कय प्रतिक्षिपति - न चेति यस्य ' युक्तम्' इत्यनेनान्वयः । सत्त्वम् अर्थक्रियाकारित्वलक्षणमाद्यभङ्गप्रतिपाद्यम् । निषेधहेतुमाह- इत्थमिति उक्त रीत्या विशेषिततरत्व समर्थन इत्यर्थः । ततः ऋजुसूत्रात् । किञ्च, द्वितायभङ्गस्य शब्दनये विशेषिततरत्व प्रयोजके द्वितीयभङ्ग पव केवलः शब्दनये प्रयोक्तव्या नान्यवचनमित्याह - विशेषकेति । उक्ताशङ्कायां ग्रन्थकारः स्वःभिप्रेतं समाधानमुपदर्शयति- अत्रेदमाभातीति - उक्ताशङ्कायामिदमनन्तरवक्ष्यमाणसमाधानमस्माकं प्रतिभासत इत्यर्थः । एवं० इति - " एवं सप्तविकल्पो वचनपथो भवति अर्थपर्याये । व्यञ्जनपर्यायः पुनः सविकल्पो निर्विकल्पश्च " ॥ इति संस्कृतम । 'गाथया' इत्यस्य सूचिता' इत्यनेनाऽन्वयः, सङ्ग्रहव्यवहारर्जुसू त्रैरर्थ पर्यायाश्रिता सप्तभङ्गो, च पुनः शब्द- समभिरूदैवम्भूतैः शब्दनयाश्रिता सप्तभङ्गी सूचितेत्यन्वयः, सङ्ग्रहेण सवग्राहिणा 'स्यादस्त्येव घटः '
6
-
Page #216
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १७९. पर्यायाश्रिता च शब्द-समभिरूंढेवभूतैः सूचिता, तथाप्येतत्प्रकारद्वयामिधानमर्थ व्यञ्जनसाधारणपर्यायसामान्याश्रितसप्तभङ्ग्या अप्युपलक्षणम् , सा च स्व-परपर्यायाणां क्रम-युगपद्विवक्षावशालयद्वयेनाऽशुद्ध-शुद्ध-शुद्धतरपर्यायविवक्षया च नयत्रयेणाऽपि सम्भवतीति ऋजुसूत्र-शब्दप्रयुक्तसप्तभङ्गया द्वितीयादिना व्यवहारजुसूत्र-शब्दप्रयुक्तायां च तस्यां तृतीयादिना भङ्गेनर्जुसूत्राच्छब्दस्य विशेषितइति प्रथमो भङ्गः, व्यवहारेणासत्त्वग्राहिणा' स्यानास्त्येव घटः' इति द्वितीयो भङ्गा, सत्त्वाऽसत्त्वोभयत्रोदासीनेनर्जुसूत्रेण 'स्यादवक्तव्य एव घटः' इति तृतीयो भङ्गः, सहव्यवहाराभ्यां 'स्यादस्त्येव स्यान्नास्त्येव च घटः' इति तुरीयो भङ्गः, सङ्कहर्जुसूत्राभ्यां 'स्थादस्त्येव स्यादवक्तव्य एव च घटः' इति पञ्चमो भङ्गा, व्यवहारर्जुसूत्राभ्यां 'स्यान्नास्त्येव स्यादवक्तव्य एव च घटः' इति षष्ठो भङ्गः, सङ्गहव्यवहारर्जुसूत्रः 'स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्य एव च घटः' इत्येवमर्थपर्यायाश्रिता सप्तभङ्गी समुल्लसति, इत्थमेव शब्दसमभिरूढेवम्भूतैः शब्दनयाश्रिता सप्तभङ्गी समवसेया। तथाऽपि निरुक्तसप्तभङ्गीद्वयसूचनेऽपि । एतत्प्रकारद्वयाभिधानम् अर्थपर्यायसमाश्रितसप्तसङ्गी-व्यञ्जनपर्यायाश्रितसप्तभङ्गीद्वयाभिधानम्, अस्य 'उपलक्षणम्' इत्यनेनान्वयः, उपलक्षणमित्यस्य उपलक्षकमित्यर्थः। सा च अर्थ व्यञ्जनसाधारणपर्यायसमाश्रितसप्तभङ्गी पुनः, अस्य 'सम्भवति' इत्यनेनान्वयः। यदा नयद्वयसमुद्भूता साऽभिलषिता तदा ऋजुसूत्रशब्दप्रयुक्तसप्तभङ्गयाः ऋजुसूत्र-शब्दनयद्वयसमुदभूतायाः सप्तभङ्गया। द्वितीयादिना द्वितीयभङ्गादिना, आदिपदात् तृतीयभङ्गादेग्रहणम् , तेष्वपि शब्दाद्यभिमतपर्यायस्य विषयीकरणं समस्त्येव । यदा नयत्रयसमुदभूता सप्तभङ्गी समादृता भवति तदा व्यवहारर्जुसूत्र शब्दप्रयुक्तायां तस्यां सप्तभङ्गयाम, तृतीयादिना तृतीयभङ्गेन, अत्र तृतीयभङ्गाथस्य पञ्चमभङ्गादौ विषयीकरणतस्तेषामादिपदाद् ग्रहणम्।।
ननु ऋजुसूत्रो यादशं सत्त्वमभ्युपगच्छति व्यवहारस्तादृशं
Page #217
--------------------------------------------------------------------------
________________
१७२ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् तरार्थत्वं युक्तम्, न चैवं ऋजुमूत्रकृतसत्तापेक्षयाऽसत्ताग्राहिणो व्यवहारस्याऽपि ततो विशेषिततरार्थत्वप्रसङ्गदूषणानुद्धारः, सम्प्रदायाऽविरुद्धभङ्गविषयीभूतेनाथन विशेषिततरत्वस्याभिधित्सितत्वात् , सम्प्रदायश्चोत्तरोत्तरभङ्गप्रवृत्तावुत्तरोत्तरनयावलम्बनेनैव दृष्टो नाऽन्यथेति न कश्चिद् दोष इति विभावनीयं सुधीभिः ॥ ___ अथवा लिङ्ग-वचने समाश्रित्य विशेषिततरं वस्त्विच्छति शब्दनय इति दर्शयन्नाह भाष्यकृत्
"वत्धुमविसेसओ वा जं भिन्नाभिन्नलिंग-वयणपि । इच्छइ रिउसुत्तनओ विसेसियतरं तयं सद्दो" ।
[विशेषावश्यकभाष्यगाथा-२२३३ ] सत्वं न स्त्रीकरोतीत्येतावता विपरीतमसत्त्वमेवोररीकरोत्येवम्भू. तासत्त्वग्राहिणो व्यवहारस्य सूत्राद् विशेषिततरत्वप्रसङ्गः संलग्न एवेत्याशङ्कय प्रतिक्षिपति- न चवमिति । एवं केनविद् भङ्गन विशेषिततरत्वाभ्युपगमे ततः ऋजुसूत्रात्। निषेधे हेतुमाह-सम्प्रदायाविरुद्धेतिप्रथमभङ्गो यन्नयापेक्षया द्वितीयभङ्गस्तदुत्तरनयापेक्षयैव सम्प्रदायसिद्धः, व्यवहारस्तु ऋजुसूबात् पूर्वनय एव नोत्तरनय इति ऋजुसूत्रस्वीकृतसत्ताग्राहकप्रथमभङ्गक्लप्तौ द्वितीयभङ्गोऽसत्वग्राहकस्तदु. त्तरनयेनैव सम्प्रदायाविरुद्ध इति न व्यवहारसमाश्रितद्वितीयभङ्गार्थाऽसत्त्वमुपादाय व्यवहारस्य ऋजुसूत्राद विशेषिततरार्थत्वप्रसङ्ग इत्यर्थः, अस्यार्थस्य सूक्ष्मेक्षिकामात्रगम्यत्वान्नापाततो विचाराकुशलानां बुद्धिगम्यत्वमत आह- इति विभावनीयं सुधीभिरिति ।
प्रकारान्तरेण ऋजुसूत्राद विशेषिततरार्थत्वं शदनयस्योपदर्शयति-अथवेति। लिङ्गेति-लिङ्गं च वचनं च लिङ्गवचने, ते समाश्रित्य ऋजुसूत्राद् विशेषिततरं वस्स्वभ्युपगच्छति शब्दनय इति यावत् , ऋजुसूत्रस्तु लिङ्गवचनभेदेऽप्यभिन्नमेव प्रत्युत्पन्नं वस्त्वभ्युप
Page #218
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १७३
व्याख्या वा इति अथवा, भिन्नाऽभिन्नलिङ्ग-वचनमध्य विशेषतो यद् वस्त्विच्छति ऋजुमूत्रनयस्तद् विशेषिततरमिच्छति शब्दनयः ॥ कुत: : इत्याह
" धणिमेयाओ भेओ त्थी-पुंलिंगाभिहाणवच्चाणं । पड-कुंभाणं व जओ तेणाऽभिन्नत्थमिङ्कं तं 11 [विशेषावश्यकभाष्यगाथा - २२३४ ]
"
यतो यस्मात् कारणात्, स्त्री-पुं-नपुंसकलिङ्गाभिधानवाच्यानामर्थानां तटादीनां भेद एव, न पुनरेकत्वम्, 'तटी' इत्यभिधानस्य भिन्नोऽर्थो वाच्यः, ' तटः ' इत्याभिधानस्य त्वन्यः, 'तटम् ' इत्यभिधानस्य चाऽपरः, कुतः ?, ध्वनिभेदात्, तथा, 'गुरुर्गुरवः '
"
29
गच्छतीति ऋजुसूत्राद् विशेषिततरवस्तुविषयत्वं शब्दनयस्येति । इतीति- पतदर्थमुपदर्शयन् भाष्यकृदाहेत्यर्थः । वत्थु ० इति वस्त्वविशेषतो वा यद् भिन्नाऽभिन्नलिङ्ग-वचनमपि । इच्छति ऋजुसूत्रनयो विशेषिततरं तत् शब्दः ॥ इति संस्कृतम् । विवृणोति वा इतिअथवेति वा इत्यस्याऽथ त्रेत्यर्थः । भिन्नाऽभिन्नेत्यादि स्पष्टम् ॥ कथमित्थमवधार्यत इत्यपेक्षानिवर्तकमुत्तरभाष्यवचनमवतार्यो - लिखति - कुतः ? इत्याहेति । घणि० इति - "ध्वनिभेदाद भेदः स्त्री-पुलिङ्गाभिधानवाच्यानाम् । पट- कुम्भयोरिव यतस्तेनाभिन्नार्थमिष्टं तत् " ॥ इति संस्कृतम् एतद् व्याकरोति- यत इति - ' तटी, तटः, तटम् इत्येवं स्त्री-पुं-नपुंसकलिङ्गाभिधानवाच्यानामर्थानां तटादीनां भेद एव, तटीशब्दवाच्यो यस्तटरूपार्थस्तस्माद भिन्न एव 'तटः ' इति - पुल्लिङ्गशब्दवाच्यस्तटरूपार्थः, ताभ्यामपि भिन्न एव तटरूपार्थः
तटम्' इति नपुंसकशब्दवाच्य इत्यर्थः । एवकारव्यवच्छेद्यमाह - न पुनरेकत्वमिति स्त्री-पुं- नपुंसकलिङ्गाभिधानवाच्यानामर्थानामेकत्वमभेदो नेत्यर्थः । एतदेव स्पष्टयति ' तटी' इत्यभिधानस्येति । इत्थं भेदः कस्मा
.
1
-
Page #219
--------------------------------------------------------------------------
________________
१७४ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् इत्यायेकवचनबहुववनादिवाच्यानामर्थानां धनिगेदादेव भेदः, केषामिव? इत्याह-पट-कुम्भादिध्वनिभेदात् , पट-कुम्भाधानामिव, तेन- तस्मात् कारणात्, तत्-लिङ्गं वचनं वाऽभिन्नार्थमेवेष्टम् , यादृशो ध्वनिस्तादृश एवार्थो द्रष्टव्य(ऽस्येष्ट) इत्यर्थः, अन्यलिङ्गवृत्तेस्तु शब्दस्य नाऽन्यलिङ्गवाच्यमिच्छत्यसौ, नाऽप्यन्यवचनवृत्तेः शब्दस्याऽन्यवचनवाच्यं वस्त्वभिधेयमिच्छत्येष इति भावः ।। उक्तमेवार्थमुपसंहृत्य दर्शयति---
"तो भावो चिय वत्थं विसेसियमभिन्नलिंग-वयणं च । बहुपजायं पि मयं सदत्थवसेण सदस्स" ॥
[विशेषावश्यकभाष्यगाथा-२२३५] ततः- तस्मात् कारणात् , नामादिनिक्षेपेषु भाव एव वस्त्वित्यसाविच्छति, तदपि प्रागुक्तरीत्या सद्भावादिभिर्विशेषितमभिन्नलिङ्गदिति पृच्छति- कुतः ? इति। उत्तरयति- ध्वनिमेदादिति। यथा च विभिन्नलिङ्गानां शब्दानां भेदात् तद्वाच्यार्थभेदव्यवस्थितिस्तथैक. वचन-बहुवचनान्तानां शब्दानां भेदात् तदर्थानामपि भेद इत्याहतथेति। अत्र दृष्टान्तवचनमवतारयति- केषामिव ? इत्याहेति। 'तेन' इत्यस्य 'तस्माद् कारणाद्' इति व्याख्यानम् । अस्य शब्दनयस्य, इष्टः अभ्युपगमविषयः। एवं सति पुल्लिङ्गशब्दस्य स्त्रीलिङ्गशब्दवाच्योऽर्थो न भवतीत्यर्थादायातमित्याह -अन्यलिङ्गवृत्तेस्त्विति-अन्यलिङ्गे वर्तमानस्य पुनरित्यर्थः। एवमन्यवचनकस्य शब्दस्य तदन्यवचनशब्दवाच्योऽर्थो न भवतीत्याह- नाऽपीति- अस्य ‘इच्छति' इत्य. नेनान्वयः । एषः शब्दनयः॥ ____एतदुपसंहारभाष्यमवताॉलिखति- उक्तमेवार्थमिति । तो भावो. इति-“ततो भाव एव वस्तु विशेषितमभिन्नलिङ्ग-वचनं च। बहु. पर्यायमपि मतं शब्दार्थवशेन शब्दस्य" ॥ इति संस्कृतम् । एतद्वि.
Page #220
--------------------------------------------------------------------------
________________
भनेकान्तव्यवस्थाप्रकरणम् ]
[ १७५ वचनं चाभ्युपैति, स्त्रावाचकध्वनिनानीनाम)भिन्ने लिङ्ग-वचने यस्य समानाधिकरणध्वनेः, अर्शाद्यचा वाच्य-वाचकभावसम्बन्धेन तनिरूपिततादात्म्येन वा तद्वदित्यर्थः । समभिरूढेन सहास्य मतभेदं वरणमादर्शयति-तत इति । असौः शब्दनयः । इच्छति अभ्युपगच्छति । तदपि भावात्मकवस्त्वापे। सद्भावादिभिः सत्त्वादिभिः, आदिपदाद् असद्भावाऽवक्तव्यत्वादेरुपग्रहः । 'अभिन्नलिङ्ग-वचनम्' इति समास. वाक्यस्य विग्रहोपवर्णनेनार्थमावेदयति- स्ववाचकध्वनीनामिति । लिङ्ग वचनयोर्ध्वनिगतयोरर्थेऽभावादर्थवावकध्वनिनाऽभिन्नयोलिङ्ग-वचनयोस्तादात्म्यं वस्तुनि न सम्भवतीति कथमभिन्नलिङ्गवचनं वस्त्विति सामानाधिकरण्यमत आह- समानाधिकरणध्वनेरेित्यादि । 'अर्शाद्यचा' इति स्थाने 'अर्श आद्यचा' इति पाठः समुचितः " अर्श आदिभ्योऽन्" [पा० ५. २. १२७.] इतिसूत्रण योऽचू प्रत्ययो विधीयते तेन, अस्य "तद्वदित्यर्थः' इत्यनेनान्वयः। तद्वदित्यर्थ इति- 'वाच्यवाचकभावसम्बन्धेन तन्निरूपिततादात्म्यसम्बन्धेन वा अभिन्नलिङ्गवचनकध्वनिवद् वस्तु इति 'अभिन्नलिङ्गवचनम् ' इत्यस्पार्थः। अर्शस् गुदरोगविशेषे वर्तते, अर्शीस्थस्य सन्ति अर्शसो देवात्तः, अत्र यथा अर्शस्. शब्दो रोगविशेषे वर्तमानोऽपि मत्वर्थीयेनाऽचा 'अर्शस 'स्वरूपमापन्नो रोगविशेषवन्तं देवदत्तमाह तथा प्रकृते ' अभिन्नलिङ्गवचन'शब्दो ध्वनिविशेषे वर्तमानोऽपि मत्वर्थीयेनाऽचा पूर्वाऽकारलोपेन 'अभिन्नलिङ्गवचन' इति प्राक्तनरूपमेवावस्थितः सन् वाच्यवाचकभावसम्बन्धेन तन्निरूपिततादात्म्यसम्बन्धेन वा अभिन्नलिङ्गवचनकशब्दवद् वस्तु प्रतिपादयतीति लिङ्ग-वचनयोः शब्दगतत्वेऽनि न क्षतिरिति भावार्थः। 'अभिन्नलिङ्ग-वचनम् ' इत्यनेन ऋजुसूत्राच्छब्दनयस्य मेदो दर्शितः, अथ समभिरूढाच्छब्दनयस्य भेदोपदर्शनाय बहु पर्यायमपि' इति वस्तुविशेषणमित्यावेदयतुमाह- समभिरूढेन सहेति । अस्य शब्दनयस्य। पर्यायश्चात्रैकशब्दस्य समानार्थकं शब्दान्तरम् ,
Page #221
--------------------------------------------------------------------------
________________
दशयति- बहुप्यानन्द्रादिकं वस्तू, शम्, इन्दन-शक
१७६ ]
[ तत्त्वबोधिनीविविवृतिभूषितम् दशयति- बहुपर्यायमपि- ' इन्द्रः, शक्रः, पुरन्दरः' इत्यादिनानापर्यायवाच्यमप्येकमिन्द्रादिकं वस्तु, शब्दस्येन्द्रादेरिन्दनादिको योऽर्थस्तद्वशेन शब्दनयस्य, मतम् -अभिप्रेतम् , इन्दन-शकन पूरणादीनामर्थानामेकस्मिनिन्द्रादिके वस्तुनि समावेशसम्भवात् , समभिरूढस्तु नैवं मन्यत इति स्फुटीभविष्यतीत्ययमनयोर्भेदः। अत्र 'अभिनलिङ्ग-वचनम्' इति यदुक्तं तदभिन्नकारकाद्युपलक्षणम् , कारकादिभेदेनाप्यनेकार्थभेदाभ्युपगमात् , तथाहि-यथा ऋजुमूत्रनयमत एव 'अग्निष्टोमयाजी पुत्रोऽस्य जनिता' इत्ययुक्तम् , अतीता-ऽनागतयोः सम्बन्धाऽभावात् , तथा शब्दनयमतेऽन्यकारकयुक्तं यत् तदात्मकं वस्तु न भवति, किन्तु तद्वाच्यमित्यतस्तथैव तद् व्याख्यानयति- इन्द्र इत्यादि- 'वस्तु' इत्यन्तं तद्वयाख्यानम्। 'शब्दार्थवशेन' इत्यस्य विवृतिमाह- शब्दस्येति । इन्द्रादेरित्यादिपदाच्छक-पुरन्दराद्युपग्रहः । 'इन्दनादिकः' इत्यत्रादिपदाच्छकन-पूरणादेर्ग्रहणम् । 'शब्दस्य' इत्यस्य ‘शब्दनयस्य' इत्यर्थकथनम् । 'मतम् ' इत्यस्य 'अभिप्रेतम्' इति विवरणम् । शब्दनये एकस्मिन्निन्द्रादिके वस्तुनि इन्द्रन शकनपूर्दारणाद्यर्थानां समावेशस्य सम्भवेन बहुपर्यायवाच्यमेकं वस्त्वभिप्रेतं भवतीत्याह- इन्दनेति । समभिरूढनये यन्दनं तत्र न शकनं नवा पूर्दारणादिकमित्येकस्य वस्तुन एक एव शब्दो वाचक इति बहुपर्यायवाच्यमेकं वस्तु न तत्सम्मतमिति शब्द-समभिरूढयोर्भेद इत्याह- समभिरूढस्त्विति । नवं मन्यते यथा बहुपर्यायवाच्यमेकं वस्त्वभ्युपैति शब्दस्तथा नाभ्युपैति । अयम् अनन्तरोपवर्णितः। अनयोः शब्दसमभिरूढयोः । यथा लिङ्गभेदेन वचनभेदेन चार्थभेदमभ्युपगच्छति शब्दस्तथा कारक पुरुषोपग्रहभेदेनाऽर्थभेदमभ्युपगच्छति शब्द इति 'अभिन्नलिङ्ग-वचनम्' इत्यभिन्नकारकादेरप्युपलक्षकमित्याह- अत्राऽभिन्नलिङ्ग-वचनमितीति।कारकादिभेदेन यथाऽर्थभेदाभ्युपगमःशब्दस्य तथा दर्शयति- तथाहीति । अतीतेति- 'अग्निष्टोमयाजी' इत्येनेनाऽतीतकाल
Page #222
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १६१
तदेवापरकारकसम्बन्धं नानुभवतीत्यधिकरणं चेद्, ग्रामोऽधिकरणाभिधानविभक्तिवाच्य एव न कर्माभिधानविभक्त्यभिधेय इति ' ग्राममधिशेते ' इति प्रयोगोऽनुपपन्नः । तथा पुरुषभेदेऽपि नैकं वस्त्विति 'एहि ! मन्ये रथेन यास्यसि, नहि यास्यसि, यातस्ते पिता' इति च प्रयोगो न युक्तः, अपि तु 'एहि ! मन्यसे, यथाऽहं रथेन यास्यामि' इत्येवं परभावेनैतन्निर्देष्टव्यम् । एवमुपग्रहणभेदेऽपि
सम्बन्धः, ' जनिता' इत्यनेनाऽनागतकालसम्बन्धः, न च तावत्कालमेकं वस्त्ववतिष्ठते ऋजुसूत्रमत इत्येवमतीता - ऽनागतयोः सम्बन्धाभावादित्यर्थः । अन्यकार कयुक्तस्यापरकारकसम्बन्धो न भवतीत्येतदेब स्पष्टयति- अधिकरणं चेद् ग्राम इति । अधिकरणाभिधानविभक्तिवाच्य एवेति'ग्रामे अधिशेते ' इत्यत्राधिकरणवाचकविभक्तिः सप्तमीविभक्तिस्तद्वाच्योऽधिकरणकारकरूपो ग्राम पवेत्यर्थः । एवकारलभ्यमर्थमुपदर्शयति-न कर्माभिधानेति कर्मवाचकद्वितीयाविभक्त्यभिघेयोऽधिकरणीभूतग्रामो न भवतीत्यर्थः । एवं सति ग्रामस्याधिकरणत्वविवक्षाया ' ग्रामेऽधिशेते' इत्येव प्रयोगो न तु ' ग्राममधिशेते ' इत्याहप्राममधिशेते इतीति । पुरुषमेदे भिन्नमेव वस्त्वभ्युपैति शब्दो न त्वेकमित्युपदर्शयति - तथा पुरुषमेदेऽपीति । ' एवं मन्यसे यथाऽहं रथेन यास्यामि' इत्येतदर्थे ' मन्ये रथेन यास्यति' इर्शन प्रयोगो भवति तदेतन्मते व भवति यथा रथकरणगमनकर्तृत्वं स्वात्मन्यभिमन्यमानो ऽन्य पुरुषो न तुक्त प्रयोगकर्ता पुरुषः, स च तन्मननस्योपदेश कर्तुमुपदिशति न तु स्वगतमननकर्तृत्वमावेदयतीति ' मन्यसे ' इति प्रयोगः, परस्य मननं च स्वात्मगतरथकरणकगमन कतृत्व स्य, तत्प्रतिपादकश्च ' यास्यामि' इत्येत्र, अतस्तदंशे तथैव प्रयोग इत्येवं पुरुषभेदेनार्थमेदाभ्युपगम इत्याह- एहि मन्य इति । उपग्रहणमेदेनार्थ
अतस्तन्मनन
<
Page #223
--------------------------------------------------------------------------
________________
'१६२.]
[ तत्त्वबोधिनीविवृतिविभूषितम् "विरमति' इत्यादिन युक्तः, आत्मार्थतया हि 'विरमते ' इत्यस्यैव प्रयोगस्य सङ्गतेः, न चैवं लोक-शास्त्रविलोपः, सर्वत्रैव नयमते तद्विलोपस्य समानत्वादिति सम्मतिवृत्तौ व्यवस्थितम् । वस्तुतो 'ग्राममधिशेते' इत्यादी ग्रामोत्तरद्वितीयादिपदादधिकरणत्वादिप्रकारकप्रतीत्यर्थमधिकरणत्वादिविशिष्टे लक्षणैव स्वीकार्या, तन्निरूढत्वज्ञापनार्थमेव विशेषानुशासनमिति न कोऽपि दोषः । एतेन--
-मेवाभ्युपगन्तृत्वं शब्दस्योपदर्शयति- एवमुपग्रहणभेदेऽपीति-विस्वरूपोपसर्गसम्बन्धाभावे 'रमते' इति प्रयोगः, तत्सम्बन्धे च ‘विरमति' इति प्रयोगः। एतन्मते च यथा 'रमते' इति तथैव विरमते' इत्येव प्रयोगोऽर्थस्तु भिद्यत इवेत्याह- विरमतीत्यादिर्न युक्त इति । एवमुपगमे लोक-शास्त्रविरोधमाशङ्कयेष्टापत्त्या परिहरति-न चवमिति। तद्विलोपस्य लोकशास्त्रविलोपस्य, अनन्तधर्मात्मकवस्त्वभ्युपगमप्रवणस्थाद्वादप्रमाणराजमत एव लोकशास्त्रसुरक्षणस्य सम्भव इत्याशयः। पतदपि न स्वमनीषामात्रोपकल्पितं किन्तु सम्मतिवृत्तौ व्यवस्थित "मतो नाऽत्राऽनास्था विधेया नयविद्भिरित्याशयेनाह- इति सम्मतिवृत्तौ व्यवस्थितमिति । तत् किमधिकरणत्वविवक्षायां ‘ग्राममधिशेते ' इति प्रयोगः सर्वथाऽनुपपन्न एव, नैवम् द्वितीयाविभक्तेरधिकरणरूपार्थे लक्षणाश्रयणे तत्प्रयोगस्योपपन्नत्वादित्याह- वस्तुत इति। लक्षणा च 'द्विविधा- निरूढाऽऽधुनिकी च, तत्राऽऽनादितात्पर्यमूलिका निरूढा स्वारसिकी न प्रयोजनमपेक्षते, आधुनिकी च प्रयोजनवती, तस्याः प्रयोजने सत्येव समाश्रयणात् , प्रकृते त्वियं लक्षणा निरूढा, अस्या निरूढत्वज्ञापनार्थमेव सप्तमीविभक्तिस्थाने द्वितीयाविभक्त्यनुशासनं 'वैयाकरणानामित्याह- तनिरूढत्वेति । एतेन ' इत्यस्य 'व्याख्यातः'
Page #224
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[१६२ .... "विरोधिलिङ्ग-संख्यादिभेदाद् भिन्नस्वभावताम् ।
तस्यैव मन्यमानोऽयं शब्दः प्रत्यवतिष्ठते ॥" [ इत्यत्र लिङ्ग-संख्यादिशब्दार्थो व्याख्यातः ॥ इति शब्दनयः॥
अथ समभिरूढनयः। एकामेव संज्ञां समभिरोहतीति समभिरूढः, आह च भाष्यकृत"जं जं सणं भासइ तं तं चिय समभिरोहए जम्हा। सणंतरत्थविमुहो तओ ओ समभिरूढो त्ति" ॥
. [विशेषावश्यकभाष्यगाथा-२२३६ ] यां यां संज्ञां 'घटः' इत्यादिरूपां भाषते तां तामेव पुस्मात् संज्ञान्तरार्थविमुखः-कुट-कुम्भादिशब्दवाच्यार्थनिरपेक्षः हत्यनेम सम्बन्धः । विरोधीत्यादिकारिका व्यतार्था । तस्यैव अनुसूत्राभिमतप्रत्युत्पन्नवस्तुम एव ।
इति शब्दनयनिरूपणव्याख्या।
अथ समभिरूढनयनिरूपणव्याख्या। व्युत्पत्तिबललभ्यं समभिरूढस्वरूपमुपदर्शयति- एकामेवेति । उक्तव्युत्पत्तिलभ्यसमभिरूढस्वरूपे भाष्यसंवादमाह- आह च भाष्यकदिति । जं जं० इति- " यां यां संज्ञां भाष्यते तां तामेव-समभिरोहति यस्मात् । संझान्तरार्थविमुखस्ततो नयः समभिरूढ़ इति"॥ इति संस्कृतम् । विवृणोति- यां यामिति । फलितमयसम्वेवमति- यो सान्द
Page #225
--------------------------------------------------------------------------
________________
१६४ ]
[ तत्त्वबोधिनी विवृतिविभूषितम् समभिरोहति-तत्तद्वाच्यार्थविषयत्वेन प्रमाणीकरोति, ततः-तस्माभानार्थसमभिरोहणात् समभिरूढो नयः, यो घटशब्दवाच्योऽर्थस्तं कुट-कुम्भादिपर्यायशब्दवाच्यं नेच्छत्यसावित्यर्थः । "वत्थूओ संकमणं होइ, अवत्थू नए समभिरूढे"।
[विशेषावश्यकगाथा–२१८५ ] इति नियुक्तिदलम्, एतद् व्याचिख्यासुराह भाष्यकृत्
“दव्वं पजाओ वा वत्थु वयणंतराभिधेयं । न तदन्नवत्थुभावं सङ्कमए सङ्करो मा भू॥ णहि सदंतरवचं वत्थु सइतरत्थतामेइ। संसय-विवज-एगत्त-सङ्कराइप्पसङ्गाओ"॥
विशेषावश्यकभाष्यगाथे-२२३७, २२३८) द्रव्यं कुटादि, पर्यायस्तु तद्गतो वर्णादिस्तल्लक्षणं यत् कुटादिवचनान्तराभिधेयं वस्तु, न तदन्यवस्तुभावं-घटशब्दाभिधेयं वस्तुभावं सङ्क्रामति, कुतः ? इत्याह, वस्तुनो वस्त्वन्तरसङ्कामे मा भूत् सङ्करादिदोष इति ॥
वाच्योऽर्थ इति। तं घटशब्दवाच्यार्थम । असौ समभिरूढनयः।
नियुक्तिववनमुपन्यस्य तद्वाख्यापरतया भाष्यवयनमवतार्योल्लिखति- वत्थूओ० इति- “ वस्तुनः सङ्क्रमणं भवति अवस्तु नये समभिरूढे " इति संस्कृतम् । दध्वं० इति “द्रव्यं पर्यायो वा वस्तु वचनान्तराभिधेयं यत् । न तदन्यवस्तुभावं सकामति सङ्करो मा भूत् ॥ नहि शब्दान्तरवाच्यं वस्तु शब्दान्तरार्थतामेति । संशयविपर्ययेकत्व-सङ्कराऽतिप्रसङ्गात् " ॥ इति संस्कृतम्। गाथाद्वयं
Page #226
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १६५ . एतदेव भावयति- नहि शब्दान्तरवाच्यं वस्तु शब्दान्तरवाच्यार्थतामेति, संशय-विपर्ययैकत्व-सङ्कराऽतिप्रसङ्गेभ्यः, तथाहि- घटादौ पटाद्यर्थपङ्कमे किमयं घटः पटादिति संशयः स्याद् , विपर्ययो वा घटादावपि पटादिनिश्चयात्, पटादौ वा घटाद्यध्यवसायादेकत्वं वा घट-पटाद्यर्थानां प्राप्नुयात् , सङ्करः- सङ्कीर्णरूपगता वा मेचकमणिवत् , अतिप्रसङ्गो वा-पटाद्यर्थिनो घटादौ प्रवृत्तिलक्षणः स्यात् , एवं 'घट चेष्टायाम् ' घटनाद् घटः, 'कुट कौटिल्ये' कुटनात् कुटः, तथा 'उभ उम्भ पूरणे' कूम्भनात् कुस्थितिपूरणात् कुम्भ इति भिन्नाः सर्वेऽपि घट-कुटादिपदार्थाः, ततश्च घटाद्यर्थे कुटादिशब्दप्रयोगे वस्तुनो वस्त्वन्तरसङ्क्रान्तौ संशयादिदोषोपनिपात इति ॥ क्रमेण विवृणोति- द्रव्यमिति। तद्गतः कुटादिद्रव्यगतः। तल्लक्षम तदा. त्मकम् । नञः ‘सक्रामति' इत्यनेनान्वयः। प्रथमगाथार्थभावना. स्वरूपतया द्वितीयगाथामवतारयति- एतदेव भावयतीति। द्वितीयगाथां संस्कृतेनाऽनुवदति- नहीति। शब्दान्तरवाच्यस्य वस्तुनस्तदन्यशब्द. वाच्यत्वाभ्युपगमे यथा संशयादिदोषप्रसङ्गा उपतिष्ठन्ते तथा भाव. यति- तथाहीति। एकधामणि विरुद्धनानाधर्मप्रकारकं ज्ञानं संशय इति तस्याऽऽपादनमुपदर्शयति- किमयमिति । विपरीतकोटिनिष्टङ्कन विपर्यय इति तदापादनं दर्शयति- विपर्ययो वेति। एकत्वप्रसअनं प्रकटयति-पटादौ वेति सङ्करप्रसञ्जनं निगमयति- सङ्कर इति अन्यार्थिनस्तदन्यत्र प्रवृत्तिप्रसङ्गलक्षणमतिप्रसङ्ग सङ्गमयति-अतिप्रसङ्गो वेति। विशेषतो व्युत्पत्तिभेदोपदर्शनेन घटादिशब्दानां भिन्नार्थकत्वमावेदयति- एवमिति । संशयादिदोषप्रसञ्जनं शब्दान्तरवाच्यस्य तदन्यशब्दवाच्यत्वाभ्युपगमे यदुपदर्शितं तदुपसंहरति- ततश्चेति । बाधकप्रमाणं संशयादिप्रसङ्गमूलकविपर्ययानुमानलक्षणम् , तश्च यद्यपि साक्षान्न
Page #227
--------------------------------------------------------------------------
________________
१६६ ]
[ तत्त्वबोधिनीविवृत्तिविभूषितम्
घट - कुटादिपदार्थानामभेदे बाधकप्रमाणमुक्त्वा भेदसाधक
प्रमाणमाह
" घड-कुडसदत्थाणं जुत्तो भेओऽभिहाणभेआओ ।
घड पडसद्दत्थाण व तओ न पज्जायवयणं ति " ॥ [विशेषावश्यकभाष्यगाथा - २२३९ ]
"
घट- कुट-कुम्भादिशब्दवाच्यानामर्थानां भेद एव परस्वरं युक्तः ' प्रतिज्ञा, 'अभिधानभेदाद्-वाचकध्वनिभेदाद्' इति हेतु:, घट-पट-स्तम्भादिशब्दवाच्यानामिवाऽर्थानाम्' इति दृष्टान्तः, इत्थं च एतदभिप्रायेण घटादिपदस्य कुट-कुम्भकलशादिकं पर्यायवचनं नाऽस्त्येव एकत्राऽनेकशब्दप्रवृत्त्यनभ्युपगमादिति भावः ॥
9
शब्दनयशिक्षणार्थमाह
66 afra asणुमओ जइ लिङ्ग-वयणभिन्नाणं । घड पडवच्चाणं पिव घड - कुडवच्चाण किमणिट्ठो ? " ॥ [ विशेषावश्यकभाष्यगाथा - २२४० ]
पूर्वमुक्तं तथापि प्रसङ्गाभिधानेनार्थात् तदभिहितमेवेति बोध्यम् । घड- कुड ० इति - " घट-कुटशब्दार्थानां युक्तो मेदोऽभिधान मेदात् । घट-पटशब्दार्थानामिव ततो न पर्यायवचनमिति " ॥ इति संस्कृतम् । विवृणोति - घट - कुटेति । प्रतिज्ञायुपदर्शनं स्पष्टम्, निगमनमाहइति ।
शब्दन यशिक्षणरूपत्वेन भाष्यवचनमवतार्य पठति शब्दनयेति । णि इति - "ध्वनिमेदात् भेदोऽनुमतो यदि लिङ्गवचनभिन्नानाम् । पटवाच्यानामिव घट- कुटवाच्यानां किमनिष्टः ?” ॥ इति संस्कृतम् -
०
Page #228
--------------------------------------------------------------------------
________________
अनेकान्त व्यवस्थाप्रकरणम् ]
हन्त ! यदि लिङ्ग-वचनभिन्नानां घट-पटस्तम्भादिवाच्यानामिवार्थानां ध्वनिभेदाद् भेदस्तवाऽनुमतः, तर्हि घट कुट-कुम्भकलशादिशब्दवाच्यार्थानां किमिति भेदो नेष्टः १ ध्वनिभेदस्याऽत्रापि समानत्वात् ।।
[ १६७९
किञ्च, विभिन्नलिङ्ग-वचनादिशब्दवाच्यत्वमर्थभेदे न प्रयोजकं गौरवात्, किन्तु विभिन्नशब्दवाच्यत्वं लाघवात् । न च नानार्थकैकशब्दवाच्यानामप्यर्थानां यथा नाभेदस्तथा भिन्नशब्दवाच्यानामपि न भेदो भविष्यतीत्याशङ्कनीयम्, यतो विभिन्नशब्दवाच्यत्वस्यार्थ
विवृणोति - हन्तेति । तत्र शब्दनयवादिनः । अत्राऽपि घट-कुटादावपि । अपि च लिङ्गादिभेदतोऽर्थभेदमभ्युपगच्छता भवतेत्थमनुमानप्रयोगोअभिधातव्य:-' तट-तटीप्रभृतयोऽर्था भिन्ना विभिन्नलिङ्ग-वचनादिशब्दवाच्यत्वाद्' इति, तत्र विभिन्नलिङ्गवचनादिशब्दवाच्यत्वलक्षणस्य लिङ्गस्य भेदलक्षणसाध्यसाधकत्वं भेदप्रयो जकत्वमवलम्ब्यैव वाच्यम्, तच्च न युक्तम्, विभिन्नलिङ्ग-वचनादिशब्दवाच्यत्वस्यापेचया विभिन्न शब्दवाच्यत्वस्य लघुभूतस्यैव मेदसाधकत्वस्यौचित्यादित्याह किमति । ननु न शब्दभेदाभेदनिबन्धना नावर्थभेदाभेदौ, तथा सति शब्दभेदादर्थमेदे शब्दाभेदादर्थाऽभेदोऽपि भवेत्, न चैवमभ्युपगन्तुं शक्यम् हरिशब्दस्यैकस्यापि सूर्यसिंहेन्द्र विष्ण्वादिनानार्थकस्याभ्युपगमात्, अन्यथैक हरिशब्दवाच्यानां सूर्यादीनामैक्यं प्रसज्येतेत्याशङ्कय प्रतिक्षिपति - न चेति- अस्य ' आशङ्कनीयम्' इत्यनेनान्वयः विभिन्नशब्दवाच्यत्वस्यार्थमेदव्याप्यत्वा देवार्थमे दप्रयोजकत्वमुपगम्यते, त्वर्थमेव्यापकत्वात्, अर्थमेदव्यापकत्वाद् यदि तत्प्रयोजकत्वं स्वीक्रि: केत, स्यादपि व्यापकस्य विभिन्नशब्दवाच्यत्वस्याऽभावाद् व्याप्यस्या र्थमेदस्याऽभावः व्याप्यत्वात् प्रयोजकत्वे तु व्याप्याभावाद् व्यापक
Page #229
--------------------------------------------------------------------------
________________
१६८ ]
[ तत्त्वबोधिनी विवृतिविभूषितम् व्याप्याभावः आपादयितुं शक्यते, किन्तु तद्व्याप्यत्वम् , न च व्याप्याभावाद् व्यापकाभावः आपादयितुं शक्येत, तप्ताऽयोगोलके व्यभिचागत , तस्मान्नानार्थस्थले शब्दभेदाद् भेदाऽभावेऽपि लक्षणभेदप्रयोजकत्वं न तद्व्यापकत्वं, येन नानार्थस्थले व्यापकाऽभावाद् स्वरूपादिभेदाद् भेदोऽव्याहतः, नार्थभेदे एकमेव प्रतिनियतं
स्याऽभाव इत्यस्यानुपगमेन न विभिन्नशब्दवाच्यत्वाऽभावादेकशब्दवाच्यानां भेदाऽभावस्याऽऽसअनमिति प्रतिक्षेपहेतुमुपदर्शयति- यत इति । तद्वयापकत्वम् , अर्थमेदव्यापकत्वम् । तद्वयाप्यत्वम् अर्थमेदव्याप्यत्वम्। व्याप्याऽभावाद् व्यापकाभावस्यापादनं किं न स्यादिति नाशङ्कनीयम् , यतो यदेव यस्य व्याप्यं तेनैव तस्यापादनं भवति, व्याप्याभावश्च न व्यापकाभावस्य व्याप्यः, तप्ताऽयोगोलके व्याप्यस्य धूमस्याऽभावसत्त्वेऽपि व्यापकस्य वढेरभावस्याभावेन व्यभिचारा. दित्याह-नि चेति- अस्य शक्यते' इत्यनेनान्वयः। ननु नानार्थ स्थले अर्थमेदप्रयोजकस्य शब्दभेदस्याभावादर्थमेदोन भवेदेवेत्यत आह-तस्मादितियथा च शब्दभेदोऽर्थभेदस्य प्रयोजकस्तथा लक्षण-स्वरूपादिभेदोऽपि त्प्रयोजक इति शब्दभेदरूपप्रयोजकस्याभावेऽपि लक्षण-स्वरूपादिभेदरूपप्रयोजकस्य नानार्थस्थले भावात् तत एवार्थभेदो भविष्यतीत्यर्थः। यद्यपि नानार्थकहरिशब्दवाच्यानामपि सूर्यादीनां सूर्यादिशब्दा विभिन्नाः सत्येव वाचका इति शब्दभेदस्यापि प्रयोजकस्य तत्रास्त्येव सम्भवः, तथापि समभिरूढनयस्यायं विचारः प्रस्तुतः, समभिरूढनये च हरिशब्दवाच्यो यः सूर्यरूपोऽर्थः स हरिशब्दवाच्य एव, न सूर्यादिशब्दवाच्यः, एवं यो हरिशब्दवाच्यः सिंहः स हरिशब्दवाच्य एव, न सिंहादिशब्दवाच्य इति सर्वेषां सूर्यादीनां हरिशब्दवाच्यानां न तद्भिन्नशब्दवाच्यत्वमिति न शब्दभेदस्तत्र भेदप्रयोजकः समस्तीति बोध्यम् । यद्यर्थभेदे. एकमेव प्रयोजकं भवेत्
Page #230
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १६९ प्रयोजकम्', भिन्नशब्दवाच्यतया तु मिन्नकालवृत्तितयेवार्थमेदो ध्रुव इति बलादस्मत्पथवर्तित्वं भवतोऽप्यापतितम् ।। .. वसति-प्रस्थकादिविचारेऽप्यस्य पूर्वनयेभ्यो भेद इति दर्शयबाह... "आगासे वसइ त्ति य भणिए भणइ किह अन्नमन्नम्मि ।
मोत्तूणायसहावं वसेज वत्थु विहम्मम्मि ? ॥ . वत्थु वसइ सहावे सत्ताओ चेयणा व जीवंमि । नविलक्खणतणाओ भिने छायाऽऽतवे चेव"॥
[विशेषावश्यकभाष्यगाथे-२२४१, २२४२ ] - कासौ साध्वादिर्वसतीति पृष्टे 'लोक-ग्राम-नगर-वसत्यादौ तदा तदभावेऽर्थमेदो न भवेत् , न चेवमित्याह - नहीति । तर्हि भवता भिन्नशब्दवाच्यत्वमर्थभेदनिबन्धनं कुतः समाश्रितम् ? न त्वर्थभेदनिबन्धनं सदप्यन्यन्नाश्रितमित्यपेक्षायामाह- भिन्नशब्दवाच्यतया वितियथा भिन्नकालवृत्तितयाऽर्थभेदोऽवश्यं भवतीति ऋजुसूत्रेण भिन्नकालवृत्तित्वमर्थमेदनिबन्धनमुपासितं तथाऽस्माभिरपि भिन्नशब्दवाच्यतयाऽर्थभेदो ध्रव इति कृत्वा भिन्नशब्दवाच्यत्वमर्थभेदप्रयाजकमभ्युपगतम् , तदेतद् भिन्नलिङ्ग-वचनादिशब्दवाच्यत्वस्यार्थभेदप्रयोजकत्वकल्पनापेक्षया लाघवाच्छन्दनयपक्षवर्तिनोभवतोऽप्यभ्युपगन्तव्यमेवेत्यस्मत्पथवर्तित्वं भवतोऽप्यापतितमित्यर्थः।
प्रकारान्तरेणापि समभिरूढनयस्यान्यनयभेद इत्येतत्प्रतिपादकं भाष्यमवतार्य पठति-वसति-प्रस्थवादिविचारेऽपीति । अस्य समभिरूढनयस्य । आगासे० इति- “ आकाशे वसतीति च भणिते भणति कथमन्य. दन्यस्मिन् । मुत्वाऽऽत्मस्वभावं वसेत् वस्तु विधर्मणि? वस्तु बसति खभावे सत्त्वाच्चेतत इव जीवे न विलक्षणत्वाद मिचे छाया
Page #231
--------------------------------------------------------------------------
________________
१७ ]
[ तस्वबोधिनीविवृतिविभूषितम् वसति' इति नैगमादिनयवादिनो वदन्ति । ऋजुसूत्रनयवादी तु वदतियत्राचगाढस्तत्राकाशखण्डे वसति, ततश्च ऋजुसूत्रेणैवं भणिते भणति समभिरूढः- नन्वात्मस्वभावं मुक्त्वा कथमन्यद् वस्त्वन्यस्मिन् विधर्मके-आत्मविलक्षणे वसेत् ? न कथञ्चित, सम्बन्धाभावादसम्बद्धस्य चाधारत्वानुपपत्तेरित्यर्थः।।
तर्हि क वसतीत्याह-सर्वमेव वस्तु आत्मस्वभावे वसति,
ऽऽतपे इक" ॥ इति संस्कृतम् । विवृणोति- कासाविति- असो साध्वादिः क वसतीत्येवं पृष्टे सति ‘लोके वसति, ग्रामे वसति, नगरे वसति, वसतौ वसति, गृहे वसति, गृहकोणे वसति' इत्येवं विस्तृताधारदेशमारभ्योत्तरोत्तरसङ्कुचिताधारं यावन्नैगमादिनयवादिनो वदन्तीत्वर्थः। ‘नैगमादि ' इत्यादिपदा सङ्गह-व्यवहारयोर्ग्रहणम् । अतः परं गाथार्थमुपजीव्याऽऽह- ऋजुपूत्रनयवादी विति-यत्राकाशप्रदेशे साध्वादेरवगाढस्तत्राकाशखण्डे साध्वादिर्वसतीत्येवमृजुसूत्रवादी वदतीत्यर्थः। ततश्च तदनन्तरं पुनः ! ऋजुसूत्रेण ऋजुसूत्रनयवादिना । एवम् अनन्तरोक्त. प्रकारेण । भणिते उक्ते सति । भणति वदति । को वदतीत्यपेक्षायामाहसमभिरूढः । तद्वक्तव्यमुपदर्शयति- नन्विति-कोमलामन्त्रणे । 'विधमके' इत्यस्य ‘आत्मविलक्षणे' इत्यर्थकथनम् । कथमित्याक्षेपलभ्यमाह- न कथञ्चिदिति । स्वविलक्षगे न वसतीत्यत्र हेतुमाह - सम्बन्धाभावादिति । स्वभिन्ने खस सम्बन्धाभ्युपगमे भिन्नत्वाविशेषात् स वस्तु खातिरिक्ते सर्वत्र वर्ततेत्यतिप्रलगभयान स्वातिरि तेन सह सम्बन्धः, सम्बन्धा. भावाचावारत्वानुपपत्ते त्मविलागे कश्चित् वर्तन इत्यर्थः। यदि स्वविलक्षणे न वसति तर्हि व वसतीति पृच्छति-तीति। आह अत्रोत्तरं बूते। चेतनस्वभावे जोवे यथा चेतना वर्तते तथा सर्वमेव वस्तु आत्मस्त्रमावे स्वस्वरूपे, क्सति वर्तते, सत्त्वात् सर्वस्य स्वात्मप्रतिष्ठितत्वाद
Page #232
--------------------------------------------------------------------------
________________
अनेकान्त [वस्थाप्रकरणम् ]
[ १७१
नवसति, यथा - छायातपे । यद्यप्येष त्रयाणामपि शब्दनयानामविशेषेणाभिप्रायः सूत्रे व्यावर्णितः, तथा च सङ्गृह्याऽभ्यधीष्महि" गम-ववहाराणां वसही लोयाइणिलयकोणता । संथारा - Saगाहगणहप्पएसा ऽऽयगा तिन्हं " ॥ [
}
तिण्हंति - क्रमेण सङ्घहर्जुसूत्र - शब्दाख्यानां त्रयाणां नयानामित्यर्थः, तथापि शब्द-समभिरूढैवम्भूतेषु ज्ञानात्मप्रदेश- तदाकारसत्वात् जीवे चेतनावद्; भिन्ने-त्वात्मविलक्षणस्वरूपे वस्तुनि ज्ञान- निराकारज्ञान सामान्यभेदादात्मस्वभावभेदेन यदि विशेष उच्यते तदैवैतद्विषये मिथो विशेषो घटेतेति सूक्ष्ममीक्षणीयम् । अभेदे
<
यथा भिन्ने आतपे छाया नवर्तते तथा भिन्ने कचिदपि किमपि न वर्तत इत्याह- भिन्न इति - अस्यैवार्थकथनम्- 'आत्मविलक्षणस्वरूपे वस्तुनि' इति । अत्र ग्रन्थकारः स्वस्य सूक्ष्मेक्षिकामुपदर्शयितुमाह- यद्यपीति । एष सर्व वस्तु स्वात्मन्येव वर्तत इत्येवमनन्तरमभिहितः, अस्य ' अभिप्रायः' इत्यनेनान्वयः । गम० इति नैगम-व्यवहारयोर्वसति - लोकादिनिलय कोणान्ताः । संसारका - Sवगाहदन भः प्रदेशाSSत्मगा त्रयाणाम् ॥ इति संस्कृतम् । त्रयाणाम् ' इत्यनेन केषां त्रयाणां सङ्ग्रहणमित्यपेक्षायामाह - क्रमेणेति सङ्ग्रहस्थ संस्तारके वसतिः, ऋजुसूत्रस्यावगाहदनमः प्रदेशे वसतिः, शब्दस्य शब्दत्वेन सङ्गृहीतानां शब्द-समभिरू ठेवम्भूतानामात्मनि वनतिरित्यर्थः । तथापि त्रयाणामित्यमविशेषे सत्यपि । शब्देति शब्दनये ज्ञानात्मप्रदेश आत्म स्वभावः, समभिरूढे तदाकारज्ञानमात्मस्त्र नावः एवम्भूते निराकारशान सामान्यमात्मस्वभाव इत्येवमात्मस्वभावमेदेन त्रयाणामावारभेदो ययुच्यते तत्र वसतिविषये शब्दसमभिरुदेवम्भूतानां परस्परं विशेष घटत इति । सूक्ष्मं स्थूलबुद्धयगोचरम् । ईक्षणीयं विभावनीय
ܕ
८.
Page #233
--------------------------------------------------------------------------
________________
१७२ ]
[ तत्वबोधिनी विवृतिविभूषितम्
कथमाधाराधेयभावः ? भेद एव कुण्ड - बदरादीनां तद्दर्शनादिति तु न शङ्कनीयम्, अभेदेऽपि 'घटाभावे घटो नास्ति' इत्याद्याधाराधेयभावोल्लेखिप्रतीतिदर्शनात्, भेदे तत्प्रयोगस्तूपचारात् समथनीय इति दिक् ॥
प्रस्थक विचारमधिकृत्याह
" माणं पमाणमिङ्कं नाणसहावो स जीवओऽणनो । किह पत्थयाइभावं वएज मुत्ताहरूवं सो ? ||
मित्यर्थः । अभेदे आचाराधेयभावासम्भवात् कथमात्मस्वभावे वसतिः, प्रत्युत भेद पवाधाराधेयभावो दृश्यत इति नैगमादिसम्भवनैव लोकादी वसतिर्युकेत्याशङ्कां प्रतिक्षिपति - अभेद इति तद्दर्शनात् आधाराधेयभावदर्शनात् यथा भेदे कुण्डादौ बहरादेराधाराधेयभावो दृश्यते 'कुण्डे बदरम्' इत्यादिप्रतीतिसद्भावात्, तथाऽमेदेऽपि घटाभावादौ घटाभावादेराधाराधेयभावो दृश्यत एव भवति हि घटाभावे घटो नास्ति' इत्यादिप्रतीतिरिति निषेधहेतु मुपदर्शयति- अभेदेऽपीति । नन्वेवं भेदेऽभेदे चाssधाराधेयभावप्रतीतिसद्भावे यथा स्वात्मनि स्वस्य वसतिस्तथा स्वभिन्नेऽपि लोकादौ वसतिः किं नोपेयत इत्यत आह- भेद इति भेदे सम्बन्धाभावादाधाराधेयभावो नोपपद्यत इत्यनुपपन्नार्थावगाहिनी भेदे आधाराधेयभावप्रतीतिर्न प्रमाणम्, अथापि लोके ' कुण्डे बदरम्' इति प्रयोगो भवति, स तूपचारात् समर्थनीय इत्यर्थः ।
,
-
1
<
प्रस्थक विचारसमाश्रयणेन समभिरूढस्य पूर्वनयेभ्यो भेदस्योपदर्शकं भाष्यवचनमवतार्योट्टङ्कयति - प्रस्थकेति । माण० इति - " मानं प्रमाणमिष्टं ज्ञानस्वभावः स जीवतोऽनन्यः । कथं प्रस्थकादिभानं व्रजे मूर्तादिरूपं स ॥ न हि प्रस्थकादि प्रमाणं घट इव भुवि चेतन
Page #234
--------------------------------------------------------------------------
________________
भनेकान्तव्यबस्थाप्रकरणम् ]
[१७३ __ इह यद् मानं तत् प्रमाणमेवेष्टम् , प्रमीयते-परिच्छिद्यते वस्त्वनेनेति कृत्वा, प्रमाणं च परिच्छेदात्मकं जीवस्वभाव एव, सच जीवाइनन्य इति कथं मूर्त्तादिस्वभावम् , आदिशब्दादचेतनस्वभावं प्रस्थकादिस्वभावं व्रजेदमौ, येन नैगमादयः काष्ठमयं प्रस्थकादिक मान मिच्छन्तः शोमेरनिति॥
तर्हि शब्दनयानां किं प्रमाणं प्रस्थकादि किंवा न प्रमाणम् इत्याहणहि पत्थाइ पमाणं घडो व भुवि चेयणाइविरहाओ। केवलमिव तण्णाणं पमाणमिट्ठ परिच्छेओ"॥
[विशेषावश्यकभाष्यगाथे-२२४३, २२४४] नहि नव, काष्ठघटितं प्रस्थकादि प्रमाणम्, चेतनादिरहितत्वात, घट-पट-लोष्ठादिवत् , किन्तु तस्य प्रथकस्य ज्ञानं तदुपयोगस्तत्परिच्छेदः प्रमाण ज्ञानमिष्टम् , तेनैव तत्वतः प्रमीयमाणत्वात् । 'परिनादिविरहात् । केवलामव तज्ज्ञानं प्रमाणमिष्टं परिच्छेदः ॥” इति संस्कृतम् । क्रमेण प्रथम-द्वितीयगाथे विवृणोति. इहेति - मापनव्यवहार.इत्यर्थः। 'प्रमाणमेव मानम्' इत्यत्र युक्तिं दर्शयति-प्रमीयत इति पतावना यन् परिच्छेदस्वपावं तदेव प्रमाणम् , परिच्छेदश्च जीवस्वभाव एवेति जीवादभिन्नं मानं मूर्वादिस्वभावं न भवितु. महतीत्याह- प्रमाणं चेति। स च जीवम्वभावश्च 'मूर्ताद' इत्यादि. पदग्राह्यमुपदर्शयति- मादिशब्दादिति । असौ परिच्छेदः येन० मानस्याचेतनस्वभावत्वेन ॥
द्वितीयगाथामवनार्य विवृणोति- तीति चेतनादिरहितत्वात काष्ठघटितं प्रस्थकादिन प्रमाणं तर्हि किं प्रमाणमिति पृच्छतिकिन्विति । उत्तरयति- तस्येति। तदुपयोगः प्रस्थकोपयोगः । तत्परिच्छेदा
Page #235
--------------------------------------------------------------------------
________________
३१७४ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् उछेया' इति पाठान्तरं चा, तेनैव परिच्छेदात् , केवलज्ञानवत् , तस्मात् प्रस्थकज्ञानमेव प्रस्थक इति स्थितम् ॥
अत्र परमतमाशङ्कय परिहरमाह"पत्थादओ वि तत्कारण ति माणं मई न तं तेसु । जमसंतेसु वि बुद्धी कासइ संतेसु वि न बुद्धी । तक्कारणं ति वा जइ पमाणमिटुं तओ पमेयं पि। सर्व प्रमाणमेवं क्रिमप्पमाणं पमाणं वा ?" ॥
विशेषावश्यकभाष्यगाथे-२२४५, २२४६ ] "प्रस्थादयोऽपि मानम्' इति प्रतिज्ञा, तत्कारणत्वात्-प्रस्थकज्ञानकारणत्वात् , यथा- 'नड्वालोदकं पादरोगः' इत्यादि, इत्येवम्भूता परस्य मतिः स्यात् , तदेतन्न-यतस्तेषु प्रस्थकादिष्वमत्स्वपि कस्यापि धान्यराश्यवलोकनमात्रेणापि कलनशक्तिसम्पन्नस्याऽतिशयज्ञानिनो पतावन्मानमिदमित्येवं मेयविनिश्चयः। तेनैव ज्ञानेनैव । 'परिच्छेया' इति पाठान्तरप्रमाण्ये तु तदनुसारेण तदर्थमुपदर्शयति- “परिच्छेया' इतीति। एतावता यत्प्रस्थकस्वरूपं निर्णीनं, तदुपसंहरति- तस्मादिति ॥ . उक्तविचारे अन्याभिमतस्याशङ्कापुरस्सरं खण्डनपरं भाष्यवचनमवतार्योंल्लिखति- अत्रेति । पत्थादओ० इति- “प्रस्थादयोऽपि तत्का रणमिति मानं मतिर्न तत् तेषु यदसत्स्वपि बुद्धिः कस्यचित् सत्स्वपि न बुद्धिः॥ तत्कारणमिति वा यदि प्रमाण मिष्टं ततः प्रमेयमपि । सर्व प्रमाणमेवं किमप्रमाणं प्रमाणं वा?"॥ इति संस्कृतम्। गाथाद्वयं क्रमेण व्याख्यानयति- प्रस्थादयोऽपोति । कारणे कार्योपचारोऽपि भवतीत्यत्र दृष्टान्तमाह- यथेति। परस्य नैगमादिनयाभ्युपगन्तुः। लदेता सतत् परमननं न युक्तम् । 'असत्स्वपि' इत्यस्य 'प्रस्थकपरि
Page #236
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्याप्रकरणम् ]
। [१७५ "वा प्रस्थकपरिच्छेदबुद्धिरुपजायते, कस्यापि पुनर्नालिकेरद्वीपाद्यायातस्य सत्स्वपि तेषु प्रस्थकपरिच्छेदबुद्धिर्न सम्पद्यते, इत्यनेकान्तिका एव काष्ठमयप्रस्थकादयः प्रस्थकज्ञानजनने, इति कथं तत्कारणत्वात् ते प्रस्थकादिमानरूपा भवेयुः १ ॥ । यदि वा प्रस्थकज्ञानकारणतामात्रेणाऽपि काष्ठमयप्रस्थकादयः प्रमाणज्ञानकारणत्वात् प्रमाणमिष्टास्तदा दधिभक्षणादीनामपि परम्परया तत्कारणानां प्रमाणत्वं स्यादिति प्रमेय-प्रमाणसाङ्कर्यात् विशीर्णा प्रमाणाऽप्रमाणव्यवस्था॥
च्छेदबुद्धिः' इत्यनेनान्वयः, कस्याऽपि इत्यस्याऽपि तत्रैवान्वयः। “कस्याऽपि' इत्यनेन कस्योट्टङ्कनमित्यप्रेक्षायां 'धान्य' इत्याधुक्तम् प्रस्थकादिमापकवस्त्वभावेऽपि धान्यराशि या 'एतावान् प्रस्थकमित एष धान्यप्रचयः' इत्याकलनसामर्थ्यवतोऽतिशयबानिनो वा प्रमातुः प्रस्थकपरिच्छेदबुद्धिर्भवतीत्यर्थः। 'नारिकेलद्वीपाद्यायातस्य' इत्यनेनैतत् कथयति-यत्र देशे द्वीपे वा न प्रस्थकादिना मापनव्यवहारः प्रचलति तद्देशीयस्तदद्वीपवाली वा यत्र प्रस्थकादिता मानव्यवहारस्तत्रागतोऽपि प्रस्थकादिना धान्यमाननिर्णयो भवति' इत्येवमजानन् सत्स्वपि प्रस्थकादिकेषु मापकेषु मेयेषु च धान्यादिषु •नावधारयितुं शक्नोति 'एतावत्प्रमाणमिदम्' इति, तथा च व्यभिचारेण प्रस्थकशाने काष्ठमयप्रस्थकादीनां न कारणत्वमिति न प्रस्थकशानकारणत्वात् काष्ठमयप्रस्थकादीनां प्रमाणत्वमित्यर्थः॥
द्वितीयगाथार्थमाह- यदि वेति। परम्परयेति- दधिभक्षणादिभ्रिश्चक्षुरादीन्द्रियं निर्मलं स्वविषयग्रहणसामर्थ्यवद् भवति, ततो यथावत् प्रमाणशानं जनयतीत्येवं परम्परयेत्यर्थः। तत्कारणानां प्रमाणशामकार•णानाम् ।।
Page #237
--------------------------------------------------------------------------
________________
१७६ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् एतेन 'प्रस्थकत्वप्रकारकाऽलौकिकधान्यचाक्षुषे स्वावच्छिन्नचक्षुःसंयोगसम्बन्धेन प्रस्थकस्य हेतुत्वम् ' इति नव्यतर्कोऽप्यपास्तः, अनेनापि प्रकारेण प्रस्थकस्य प्रमाणत्वे प्रमाण-ऽप्रमेयसाङ्कर्यदोषानुद्धारात, ज्ञाने प्रस्थकत्वप्रकारकत्वस्य प्रस्थकाकारत्वपर्यवसन्नत्वेन तदिनप्रस्थके प्रमाणाभावश्च, प्रस्थकज्ञानात् पूर्व हि न प्रस्थकसिद्धिा, तज्ज्ञानकाले च तदेव प्रस्थकाकारत्वेनानुभूयत इति किमपरमप्रामाणिकं बाह्यं प्रस्थकादीति । यद्यप्यत्रापि प्रस्थकज्ञानमेव प्रस्थकप्रमाणमिति त्रयाणामपि शन्दनयानामविशिष्टमेव मतं गीयते, तथापि बाह्यप्रस्थकार्पितस्वाभाविकसत्यप्रस्थकाकारो।२-३)पप्लवोपस्था
एतेनेति-प्रमाणानकारणत्वात् प्रमाणत्वाङ्गीकारे प्रमाणा-ऽप्र. माणव्यवस्थोच्छेदेनेत्यर्थः, अस्य 'अपास्तः' इत्यनेनान्वयः। प्रस्थ. कमानमितत्वलक्षणं प्रस्थकत्वं न चक्षुरिन्द्रियग्रहणयोग्यमित्यतस्तप्रकारकं ज्ञानं चक्षुरिन्द्रियेण न लौकिकमतः 'अलौकिकं' इत्युक्तम्, स्वावच्छिन्नति-प्रस्थकावच्छिन्नेत्यर्थः। 'एतेन' इत्युपदिष्टमेव हेतुमुपदर्शयति- अनेनाऽपीति । तद्भिन्नेति-प्रस्थकाकारज्ञानभिन्नेत्यर्थः । 'प्रमाणाभावश्च' इति यदुक्तं तस्यैवोद्वलनायाह- प्रस्थकज्ञानादिति । तज्ज्ञानकाले च प्रस्थकमानकाले पुनः। तदेव प्रस्थकशानमेव । अपरं प्रस्थकाकार. शानाद् भिन्नम्। प्रयाणाममपि नयानां शब्दप्रभृतीनां बानमेव प्रस्थकमिति शानस्वरूपप्रस्थकाभ्युपगममात्रेण कथं समभिरूढस्य शब्दादितो मेद इत्यत आह - यद्यपीति । अत्रापि प्रस्थकेऽपि, भपिना यथा वसत्यभ्युपगमे स्वात्मनि वसत्यभ्युपगमत्रयाणामविशिष्ट इत्यर्थस्याम्रडमम् । तथापि शानं प्रस्थकप्रमाणमित्येतावन्मात्रेण त्रयाजामविशिष्टत्वेऽपि । बाह्येति-बाह्यो यः काष्ठनिर्मितप्रस्थकस्तेनाऽपितो यो शाने स्वाभाविकसत्यप्रस्थकाकारः, तथाभूतक्षानं शब्दनये प्रस्थक
Page #238
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम्
पितासत्यप्रस्थकाकार-ग्राह्यग्राहकताविनिर्मुक्तमध्यमसंवित्स्वरूपज्ञानभेदेनैषां विषयभेदः सूक्ष्ममीक्षणीयः । तथा पञ्चानां धर्मा-धर्माSSकाश - जीव-पुद्रलास्तिकायानां देश-प्रदेशकल्पनायामप्यस्य नयस्य मते षष्ठीसमासादि नेष्टम्, किं तर्हि ? देशी चासौ देशश्वेत्यादिकर्मधारय एवेति सयुक्तिकमाह
.
१७७
"देसी चैव य देसो, णो वत्थु वा न वत्थुणो मित्रो । भिन्नो व न तस्स तओ, तस्स व जइ तो न सो भिन्नो 11 तो चैव समाणाहिगरणया जुज्जए पयाणं पि । नीलुप्लाइयाणं, न रायपुरिसाइसंसग्गो | "
[ विशेषावश्यकभाष्यगाथे - २२४६, २२४८ ] व्याख्या-धर्मास्तिकायादिको देश्येव हि देशः, न पुनस्तस्माद् घटादिवाऽघरट्टोऽत्यन्तभिन्नं स्वतत्रं वस्तु देशः, अथ न खतन्त्रं वस्तु
प्रमाणम्, उपप्लवेन - भ्रान्ति जनकदोषेणोपस्थापितो न तु बाह्यव्यवस्थितो यो ज्ञानेऽसत्यप्रस्थकाकारस्तथाभूतं ज्ञानं समभिरूढे प्रस्थकप्रमाणम्, ग्राह्यग्राहकतातो विनिर्मुक्तं यन्मध्यमसंवित्स्वरूपं ज्ञानं तदेवैवम्भूतनये प्रस्थकप्रमाणमित्येवं शब्दादीनां त्रयाणां विषय मेदः अभ्युपगमविषयमेदः, स्थूलबुद्ध्यगम्यत्वात्, सूक्ष्मं यथा स्यात् तथा सूक्ष्मबुद्धिभिः, ईक्षणीयः अवलोकनीय इत्यर्थः ।
. देश-प्रदेश - विचारसमाश्रयणेन समभिरूढस्याऽन्यनयतो भेदोपदर्शकं भाष्यगाथाद्वयमवतार्य पठति - तथेति । अस्य नयस्य समभिरूढनयस्य । देसी चेव० इति - "देश्येव च देशो नो वस्तु वा न वस्तुना भिन्नः । भिन्नो वा न तस्य सकः तस्य वा यदि तर्हि न स भिन्नः ॥ एतस्मादेव समानाधिकरणता युज्यते प्रदानामपि । नीलोत्पलादिकानां न राजपुरुषादिसंसर्गः ॥” इति संस्कृतम् । विवृणोति - धर्मास्तिकायादिक इति । तस्मात् देशिनः । घटादिवेति-यथा घटाद् अरघट्टः - घटीयन्त्र विशेषो येन मरुस्थलादौ कूपान्तर्गतजलं बहिरानीयते; नात्यन्तभिन्नस्तथा देशिनो धर्मास्तिकायादितोऽत्यन्तभिन्नं स्वतन्त्रं वस्तु न देशः । अख
अ. व्य. १२
Page #239
--------------------------------------------------------------------------
________________
१७८ अनेकान्तव्यवस्थाप्रकरणम् । देशः, किन्तु तत्सम्बन्धित्वादस्वतन्त्रोऽपि देशिनो भिन्नो देश इति चेत् ? तत्राह न च (वा) देशिलक्षणाद् वस्तुनो भिन्नोऽसौ देशः, अथ भिन्नस्तस्मादिष्यतेऽसौ, तर्हि, अन्यस्याऽन्येन विन्ध्येन हिमवदादेरिव सम्बन्धायोगान तस्य देशिनस्तकोऽसौ देशः, यदि पुनस्तस्य देशिनः सम्बन्धी देशोऽभ्युपगम्यते तर्हि घटादेः स्वस्वरूपवद् न स देशस्तस्माद् देशिनो भिन्नः, किन्तु तदात्मक एवेति ॥ ___ अत एव विशेषण-विशेष्यभूतानां सर्वेषामपि पदानां समानाधिकरणता-कर्मधारय एव समासो युज्यत इत्यर्थः, यथा-नीलोत्पलादीनाम् , उपलक्षणं चेदम्- 'धव-खदिर-पलाशाः' इत्यादिर्द्वन्द्वोऽप्ये
तन्त्रोऽपि देशो न देशिना भिन्न इत्यावेदयितुमाह-अथेति । तत्सम्बन्धित्वात् देश्यात्मकवस्तुसम्बन्धित्वात् । देशस्य देशितो भिन्नत्वाभ्युपगमे यथा भिन्नेन विन्ध्येन हिमवतः सम्बन्धो न भवति तथैव देश-देशिनोः सम्बन्धो न भवेत् , इष्यते च तयोः सम्बन्धः, अतो न देशिनो देशो भिन्न इत्याह-अथेति-यदीत्यर्थः । तस्मात् देशिनः । असौ देशः । घटादेः स्वस्वरूपवदिति-घटादेः स्वस्वरूपं यथा घटसम्बन्धित्वान्न घटादितो भिन्नं तथा देशिनः सम्बन्धित्वाद् देशो न देशिनो भिन्न इत्यर्थः । यदि देशो न देशिनो भिन्नस्तर्हि किमात्मकोऽसाविति पृच्छतिकिन्त्विति । उत्तरयति-तदात्मक एवेति-देश्यात्मक एव देश इत्यर्थः ॥
द्वितीयगाथार्थमाह-अत एवेति-देशस्य देश्यात्मकत्वादेवेत्यर्थः । समानाधिकरणतेति-विभिन्नप्रवृत्तिनिमित्तकानां पदानामेकार्थवृत्तिः सामानाधिकरण्यम् , तच्च स्वप्रयोज्यविशेष्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्नप्रकारताप्रयोजकत्वम्, एतच्च विशेष्य-विशेषणपदयोः समानवचनकत्वे सति व्यासवाक्ये भवति, यथा-'नीलो घटः नीलमुत्पलम्' इत्यादौ, समासवाक्ये तु नीलं च तदुत्पलं च नीलोत्पलमिति, नीलश्चासौ घटश्च नीलघट इत्यादिकर्मधारयसमासे भवतीत्यतः समासेषु कर्मधारयसमास एव देशि-देशवाचकपदयोरेतन्मते युज्यत इत्याह-कर्मधारय एव समासो युज्यत इत्यर्थ इति । यथा च कर्मधारयसमासोऽस्याभिमतस्तथा द्वन्द्वसमासोऽपीत्याह-उपलक्षणं चेदमिति । एतन्मते समभिरूढनयमते । किंलक्षणको द्वन्द्व
Page #240
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् १७९ तन्मते नाऽनुपपन्नः, परस्परानन्वितनानापदार्थकसमासत्वस्यैव द्वन्द्वलक्षणत्वात् , अभेदेनान्वयस्य भेदेनान्वयस्य च तुल्ययोगक्षेमत्वात् , न तु राज्ञः पुरुषो राजपुरुष इति षष्ठ्यादिसमास एतन्मते युज्यते, यतो भिन्नानामन्योऽन्यं संसर्गः सम्बन्धो न घटते, तथाहि-सम्बद्धवस्तुद्वयात् सम्बन्धो भिन्नः ? अभिन्नो वा ? यदि भिन्नस्तर्हि सम्बद्धवस्तुद्वयाद् भिन्नं तृतीयमेव वस्तु तत् स्यात् , न तु सम्बन्ध इति कथं तद्वशात् षष्ठ्यादिविभक्तिः, नहि विन्ध्य-हिमवदादिभ्यो भिन्नो घटादिस्तत्सम्बन्धो भण्यते, नापि तद्वशात् तेषां षष्ठ्यादिविभक्तिः प्रवर्तते, अथ सम्बद्धवस्तुद्वयादभिन्नः सम्बन्धस्तर्हि नासौ षष्ठ्यादिप्रयोगहेतुः,
समासो यो नैतन्मतेऽनुपपन्न इत्यपेक्षायामाह-परस्परेति-धव-खदिरपलाशाः' इति द्वन्द्वसमासोऽयं परस्परानन्वितानामेव नानापदार्थानां धवखदिर-पलाशानां वाचकानां धवादिपदानाम् , इत्युक्तलक्षणं तत्र घटते । षष्ठीतत्पुरुषादिसमासस्तु नैतन्मते युज्यते, भेदे सम्बन्धाभावादित्याह-न विति-अस्य 'युज्यते' इत्यनेन सम्बन्धः। एतन्मते समभिरूढनयमते । षष्ठ्यादिसमासासम्भवे हेतुमाह-यत इति । भिन्नानामन्योऽन्यसम्बन्धासम्भवमेव भावयति-तथाहीति । यदि मिन्नः सम्बद्धवस्तुद्वयाद् यदि सम्बन्धो भिन्न इत्युपेयते । तर्हि तदा । सम्बन्धिद्वयाद् यद् मिन्नं तन्न सम्बन्धखरूपमिति, संसर्गतयाऽभिमतस्य सम्बन्धिद्वयाद् भिन्नत्वे तृतीयवस्तुस्वरूपतैव तस्य स्यान्न सम्बन्धरूपतेत्याह-सम्बद्धति । तत् सम्बन्धतयाऽभ्युपगतम् । तस्य सम्बन्धत्वाभावे च तद्वशात् षष्ठ्यादिविभक्तिरप्यनुपपन्नेत्याह-कथमिति-किमोऽत्राक्षेपार्थकत्वान्न कथञ्चिदित्यर्थः । सम्बन्धिद्वयाद् भिन्नः सम्बन्धो न भवतीत्येतदुपपादनाय-नहीति-अस्य 'भण्यते' इत्यनेन सम्बन्धः । तत्सम्बन्ध विन्ध्य-हिमवदादिसम्बन्धः । यतश्च घटादिर्न विन्ध्यादिसम्बन्धोऽतस्तबलाद् विन्ध्यस्य हिमवानित्यवं षष्ठ्यादिविभक्तिमुपादाय प्रयोगोऽपि न भवतीत्याह-नापीति-अस्य 'प्रवर्तते' इत्यनेन सम्बन्धः । तद्वशात् घटादिलक्षणभिन्नवस्तुबलात् । तेषां विन्ध्यहिमवदादीनाम् ॥ द्वितीयपक्षमधिकरोति-अथेति । सम्बद्धवस्तुद्वयादभिन्नस्य सम्बन्धस्य षष्ठ्यादिप्रयोगहेतुत्वं न सम्भवतीत्याह-तीति । असौ
Page #241
--------------------------------------------------------------------------
________________
१८०
अनेकान्तव्यवस्थाप्रकरणम् । सम्बद्धवस्तुद्वयादव्यतिरिक्तत्वात्, तत्स्वरूपवत् । ननु 'तत्स्वरूपम् इत्यत्रैवाभेदे षष्ठीप्रयोग इति विपरीताभिधानमिदमिति चेत् ? नात्र तत्पुरुषः, कर्मधारयस्यैवाश्रयणात् , 'तस्य स्वरूपम्' इति षष्ठीप्रयोगोऽप्यविभागेन दृश्यत इति चेत् ? न-'समभिरूढनयमतावलम्बिभिरस्य प्रयोगस्य विगीतत्वात् , भेदोपचारेण वाऽत्र षष्ठीसमर्थनात्, अत एवात्र भेदे कथं षष्ठी ?' इति बाधमपि प्रदर्शयन्ति सूक्ष्मेक्षिणः, इत्थं च द्वन्द्व-कर्मधारयातिरिक्तसमाससमर्थनमेतन्मत उपचारेणैवेति बोध्यम् ॥
सम्बद्धवस्तुद्वयादमिन्नः सम्बन्धः यो हि यतोऽव्यतिरिक्तः स तत्प्रतिपादकशब्दोत्तरषष्ठीप्रयोगहेतुर्न भवति, घटस्वरूपस्य घटप्रतिपादकघटपदोत्तरषष्ठ्यादिविभक्तिहेतुत्वं यथा नेत्याह-सम्बद्धवस्तुयेति । ननु तस्य स्वरूपं तत्स्वरूपमिति षष्ठीतत्पुरुषसमासे खरूपस्याभिन्नस्यापि षष्ठीप्रयोगहेतुत्वं दृश्यत एवेति 'तत्वरूपवद्' इति दृष्टान्तस्यैवायुक्तत्वमित्याशङ्कते-नन्विति । 'तत्स्वरूपम्' इत्यत्रैव 'तत्स्वरूपम्" इत्यत्र लुप्तषष्ठीविभक्तिस्मरणत एवान्वयबोध इति तत्र यथाऽभेदे षष्ठीप्रयोगस्तथाऽन्यत्रापीत्येवं वस्तुस्थितौ सत्यां तत्स्वरूपवद् इति दृष्टान्ताभिधानभेदे षष्ठीप्रयोगो न सम्भवतीत्यर्थोपपादनाय विपरीताभिधानमिति शङ्कार्थः । तस्य स्वरूपं तत्स्वरूपमिति. षष्ठीतत्पुरुषसमासो न, किन्तु तच्चादः स्वरूपं चेति कर्मधारयसमास एवेति न विरुद्धाभिधानमिति समाधत्ते-नात्र तत्पुरुष इति । अत्र 'तत्स्वरूपम्' इत्यस्मिन् ॥ समभिरूढनयमुपाश्रित्य समाधातुराशयमविद्वान् शङ्कते-तस्य स्वरूपमितीति। अविभागेन अविशेषेण । भवत्वन्यमतेऽयं प्रयोगः । समभिरूढनयमते तु विगीतत्वादयं प्रयोगो न भवत्येवेति । समाधत्ते-नेति । अस्य प्रयोगस्य तस्य स्वरूपमिति प्रयोगस्य । विगीतत्वात् निन्दितत्वात् , तथा च समभिरूढनयावलम्बिनोऽनिष्टसाधनत्वं प्रतिसन्धाय तथा न प्रयुञ्जत एवेत्याशयः, एवं तर्हि तथाप्रयोगस्यानुभूयमानस्य का गतिरित्यत आह-भेदोपचारेण वेति । अत एव भेदोपचारेणात्र षष्ठीप्रयोग एतस्मादेव कारणात् । भेदे उपचारेण भेदे स्वीकृते. सति । कथं षष्ठी? भेदे सम्बन्धाभावात् षष्ठी न सम्भवत्येवं स्वरूपं बाधमनि-सूक्ष्मक्षिणः सूक्ष्मेक्षिकया तत्त्वमवलोकयन्तः प्रमातारः, प्रदर्शयन्तीति, इत्थंच वस्तुगल्या कर्मधारय-द्वन्द्वसमासातिरिक्तसमासासम्भवव्यवस्थितौ च। एतन्मते समभिरूढनयमते॥
Page #242
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् १८१ अपरमपि समभिरूढनयामिप्रायभेदं दर्शयन्नाह"घडकारविवक्खाए, कत्तुरणत्यंतरं जओ किरिया । न तदत्यंतरभूए, समवाओ तो मओ तीसे ॥ कुंभंमि वत्थुपज्जायसंकराइप्पसंगदोसाओ। जो जेण जं च(व) कुरुए, तेण विभिन्नं तयं सव्वं ॥” ।
[विशेषावश्यकभाष्यगाथे-२२४९, २२५०] ___घटं करोतीति घटकार इत्यस्यां विवक्षायां प्ररूपणायाम् , यतःयस्मात् , तस्य घटकर्तुः, अनर्थान्तरम्-अव्यतिरिक्ता घटकरणक्रिया, कर्तर्येव घटकारे तस्याः समवायात्, तो त्ति-तस्मात्, न तदर्थान्तरभूते-कर्तृव्यतिरिक्ते, कुम्भे-घटे, तस्याः समवायः-संश्लेषो, मतः, कुतः ?, वस्तुपर्यायसङ्करादिदोषप्रसङ्गात्-कर्तृगतक्रियायाः कर्मण्यपि समवायाभ्युपगमे वस्तुपर्यायाणां विभिन्नवस्तुधर्माणां परस्परं सङ्करः सङ्कीर्णत्वमेकत्वं वा स्यादिति । ततश्च यः-कुम्भकारादिः, येन क्रियाविशेषण, यत्-कुम्भादिकं, कुरुते तेन क्रियाविशेषेण, तक्रियारूपतयेत्यर्थः, सर्व तत्-कर्तृकर्माद्यभिन्नं स्यात् , तस्मात् कर्तृगतक्रियाया न कर्मणि सङ्क्रमः, किन्तु कुर्वन् कारकः; कुम्भनादिभ्य एव कुम्भादय इति मन्यते समभिरूढः॥
__ नयान्तरतो भेदसिद्ध्यर्थं समभिरूढनयाकूतान्तरोपदशकं भाष्य-गाथायुगलमवतार्य पठति-अपरमपीति । घटकार इति-“घटकारविवक्षायां कर्तुरनर्थान्तरं यतः क्रिया। न तदर्थान्तरभूते समवायस्ततो मतस्तस्याः । कुम्भे वस्तुपर्यायसङ्करादिप्रसङ्गदोषात् । यो येन यद् वा कुरुते तेन विभिन्नं तत् सर्वम्" ॥ इति संस्कृतम्। विवृणोति-घटमिति । तस्याः घटकरणक्रियायाः, नो मत इत्यनेन सम्बन्धः । सङ्करादि० इत्यादिपदात् संशयविपर्ययैकत्वादेरुपग्रहः । तत्र सङ्करैकत्वप्रसङ्गावेव सङ्गमयति-कर्तृगतक्रियाया इति । उपसंहरति-तस्मादिति । अयं सममिरूढ
Page #243
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ।
अयमस्मिन् विषयेऽन्यकारकसम्बद्धे ऽन्यकारकानन्वयित्वाभ्युपगमपरं शब्दं प्रति प्रत्यवतिष्ठते— 'नन्वेवमन्यपदार्थे ऽन्यपदार्थानन्वयित्वमेव लाघवादभ्युपगम्यताम्' इति, नन्वेवं कुलाले 'घटकारः' इति प्रयोगोऽनुपपन्नः स्यादिति चेत् ? बाह्यघटाभिप्रायेणानुपपन्नः स्यादेव, भावघटाभिप्रायेण तु न स्यात्, घटपरिणामित्वान्मृदादिद्रव्यमेव हि घटकारशब्दार्थः, घटाऽऽकाराध्यवसायादिपरिणामित्वात्, कुलालादिस्तु तत्कार एव, आभिमानिकसम्बन्धेन केवलं बाह्यघटादिकारित्वं कुलालादावभ्युपयन्ति व्यवहारमूढाः, तदिदमभिप्रेत्यावोचाम
१८२
"मृदादिभावैः परिणामवद्भिः, कुम्भादिभावाञ्जनितानवेत्य । तेषामगृह्णन् परिणामिभावं बाह्यं करोमीत्यभिमन्यते कः ? ॥”
नयः, अस्य 'प्रत्यवतिष्ठते' इत्यनेनान्वयः । कीदृशं तस्य प्रत्यवस्थानमित्यपेक्षायामाहनन्विति - कोमलामन्त्रणे । एवमिति - अन्यकारकसम्बद्धेऽन्यकारकानन्वयित्वं यद्यभ्युपगम्यते ततो वरं लाघवादन्यपदार्थेऽनन्वयित्वमेवाभ्युपगम्यतामित्यर्थः । अत्र शब्दनयवादी शङ्कते - नन्वेवमिति । एवम् अन्यपदार्थेऽन्यपदार्थानन्वयित्वा - भ्युपगमे । कुलाले कुलालशब्दव्युत्पत्तिलभ्येऽर्थे । अष्टापत्तिमेव समाधानमाहबाह्येति । न स्यात् 'घटकार :' इति प्रयोगोऽनुपपन्नो न भवेत् । बाह्यघटाभिप्रायेणोक्तप्रयोगस्यानुपपन्नत्वं भावघटाभिप्रायेण तस्यानुपपन्नत्वभावं च भावयति'घटपरिणामित्वात् ' बाह्यघटरूपपरिणामशालित्वात् एवकारेण कुलालशब्दार्थत्वव्यवच्छेदः । घटकाराध्यवसायादिलक्षणभावघटाभिप्रायेण तु कुलालस्य 'घटकार' - शब्दात्वर्थमुपदर्शयति-घटाकारेति - घटाकाराध्यवसायादिलक्षणभावघटपरिणामशालित्वात् कुलालादिः पुनस्तथा भूतभावघटकार एवेत्यर्थः, तर्हि बाह्यघटादिकारित्वं कथं कुलालादावभ्युपगच्छन्ति लौकिका इत्यपेक्षायामाह - आभिमानिकसम्बन्धेनेति- - घटकारः कुलाल इत्यभिमानमेव लोकानां न तु वस्तुगत्या बाह्यघटकारित्वं कुलालस्येत्यभिसन्धिः ॥
उक्ताभिप्रायोपोद्बलकं ग्रन्थान्तरे स्वोक्तं वचनं संवादकतयोपदर्शयति - तदिदमिति - परिणामवद्भिर्मृदादिभावैर्जनितान् घटादिभावानवेल तेषां परिणामभावम
Page #244
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम्
अत एवैतन्नये परगतस्य दान- हरणादेर्नास्त्येव सद्भावः, स्वगतं तत्फलं तु स्वगतदान - हरणाद्यध्यवसाय विशेषादेवेति विवेचितमन्यत्र ॥ अयं पुनरिह शब्द - समभिरूढयोरवान्तरविशेषोऽनुसन्धेयः यदाद्येन बाह्यवस्तुसन्निधापितस्तदाकाराध्यवसायः फलक्षमोऽभ्युपेयः, द्वितीयेन तु वासनाविशेषमात्रोत्थापित इति ॥
इत्थमेव 'नैगमनये जीवाऽजीवयोर्हिसा, सङ्ग्रह-व्यवहारयोः षट्स्वेव कायेषु, ऋजुसूत्रे प्रतिजीवं भिन्नभिन्ना सा, शब्दनये तु स्वपरिणामविशेषरूपैव सा' इत्यादिनयविचारे शब्द - समभिरूढयोर्भाव
गृह्णन् को बाह्यं करोमीत्य मिमन्यत इति सम्बन्धः । अत एव कुलालादिर्बाह्यघटकारित्वाभावादेव । एतन्नये समभिरूढनये । यदि परगतदान - हरणादिकं नास्ति कथं तत्फलमनुभवति दानादिकर्तेत्यत आह- स्वगतमिति । तत्फलं तु दान-हरणादि फलं स्वर्गनरका दिकं पुनः । स्वगतेति यः स्वगतो दान - हरणाध्यवसायविशेषस्तस्मादेवेत्यर्थः ।
शब्द- समभिरूढयोरत्राऽपि विशेषमावेदयति - अयमिति - 'यदाद्येन' इत्यादिनाऽ - नन्तरमेवाभिधीयमानः, अस्य 'अवान्तर विशेषः' इत्यनेनान्वयः । आद्येन शब्दनयेन । बाह्यवस्तुसन्निधापितः बाह्यवस्तुसन्निधानेन जनितः, यदाकारकं बाह्यवस्तु चक्षुरादीन्द्रियसन्निकृष्टं भवति तदाकाराध्यवसायो भवति, स चाध्यवसायो घटादिबाह्यगोचरप्रवृत्तिनिवृत्त्यादिलक्षणव्यवहार स्वरूपफलजननायापकल्पते इत्यर्थः । द्वितीयेन तु समभिरूढनयेन पुनः | योगाचारमतपर्यवसायिना समभिरूढेन बाह्यवस्तुनोऽनभ्युपगमान्न तत्सन्निधानं सम्भवतीत्यतः 'पूर्वपूर्ववासनाजनितोत्तरोत्तरवासनाविशेषादिव तत्तदाकाराध्यवसायः संवृति - प्रवृत्ति - निवृत्त्यादिलक्षणव्यवहारनिर्वाहक इत्याह-वासनाविशेषमात्रोत्थापित इति ॥
नयानामन्योऽन्यभेदसाधकविशेषान्तरमावेदयति- इत्थमेवेति- अमुना प्रकारेण - वेत्यर्थः, अस्य ‘विषय मेदः सङ्गच्छते' इत्यनेनान्वयः । 'कार्येषु' इत्यनन्तरं 'हिंसा' इत्यस्यानुकर्षः । सा हिंसा एवमग्रेऽपि । नयान्तरत एवम्भूतनयस्य विशेषमाह -
Page #245
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् । हिंसाद्याश्रित्य विषयभेदः सङ्गच्छते, एवम्भूतस्तु क्रियाकालान्यकालस्पर्शिपदार्थप्रतिक्षेपादेव विशिष्यत इति न तत्र युक्त्यन्तरं मृग्यम् , युक्त्यन्तरान्वेषणे वा तस्य माध्यमिकमतपर्यवसानमपि न दुर्लभमिति सङ्केपः ॥
एवम्भूतनयः। पदार्थव्युत्पत्तिनिमित्तक्रियाकालव्यापकपदार्थसत्ताभ्युपगमपर एवम्भूतः, आह च भाष्यकारः
wwwww
एवम्भूतस्त्विति-अस्य 'विशिष्यते' इत्यनेन सम्बन्धः । क्रियेति-संज्ञाव्युत्पत्तिनिमित्तभूता या क्रिया तत्कालभिन्नकालस्पर्शिनस्तथाभूतकालवर्तिनः पदार्थस्य प्रतिक्षेपाद्-अनभ्युपगमादेव विशिष्यते-नयान्तरतो भिन्नो भवति । इति एतस्मात कारणात् । न नैव । तत्र एवम्भूतस्य नयान्तरतो विशेषे । युक्त्यन्तरं व्युत्पत्तिनिमित्तक्रियाकालमात्रस्पर्शित्वसाधकयुक्तिभिन्नयुक्तिः। मृग्यम् अन्वेषणीयम् , तत् किं युक्त्यन्तरस्याऽभावादेव नान्वेषणम् , उत एकेनैव प्रमाणेनाभिलषिते सिद्ध प्रयोजनान्तराभावादेव तदनन्वेषणमिति चेत् ? अस्त्येव । युक्त्यन्तरम् , शून्यवादपर्यवसानतो यथेष्टाचरणलक्षणफलान्तरमप्यस्ति, किन्तु ग्रन्थगौरवभयान्नेह तदुपन्यास इत्याशयेनाह-युक्त्यन्तरान्वेषणे वेति । तस्य एवम्भूतनयस्य । माध्यमिकमतेति-बौद्धविशेषाकलितशून्यवादमतेत्यर्थः ॥
॥ इति समभिरूढनयनिरूपणव्याख्या ॥
अथ एवम्भूतनयनिरूपणव्याख्याएवम्भूतनयं निरूपयति-पदार्थव्युत्पत्तीति-यद्यपि पदस्य निरुक्तिलक्षणा व्युत्पत्तिर्भवतीति ‘पदव्युत्पत्ति' इति पाठी भवितुमर्हति, तथाऽपि पदस्य याऽर्थप्रतिपादनप्रत्यक्षा व्युत्पत्तिरित्यर्थाश्रयणेन-‘पदार्थव्युत्पत्ति' इति पाठः सङ्गतिमङ्गतीति बोध्यम् , पदार्थव्युत्पत्तिनिमित्तया क्रिया, तस्या यः कालः, तद्व्यापिका-तन्मात्रवर्तिनी; या पदार्थस्य सत्ता-स्वरूपसत्त्वम् , तदभ्युपगमपरः-तत्वीक रप्रवणो नय एवम्भूत इत्यर्थः।
एवम्भूतनयस्य शब्दव्युत्पत्तिनिमित्तक्रियाकालमात्रवृत्तिपदार्थसत्ताऽभ्युपगमपरत्वे भाष्यसंवादमाह-आह चेति । एवं 'एवम्' इति 'भूत' इति चेखेवं पदद्वयम्,
Page #246
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् । "एवं जहं सहत्थो, संतो भूओ तह तयन्नहाऽभूओ। तेणेवंभूयणओ, सद्दत्थपरो विसेसेणं ॥",
[विशेषावश्यकभाष्यगाथा-२२५१] एवम् यथा 'घट चेष्टायाम्' इत्यादिरूपेण शब्दार्थो व्यवस्थितः, तह त्ति-तथैव यो वर्तते घटादिकोऽर्थः स एव सन् , भूतः-विद्यमानः, अथ यस्तु, अन्यथा-शब्दार्थोल्लङ्घनेन वर्तते स तत्त्वतो घटाद्यर्थोऽपि न भवति, किन्तु, अभूतः-अविद्यमानः, येनैवं मन्यते, तेन-कारणेन, शब्दनय-समभिरूढनयाभ्यां सकाशाद्, एवम्भूतनयो विशेषणशब्दार्थतत्परः । अयं हि योषिन्मस्तकारूढं जलाहरणादितस्यार्थप्रतिपादको गाथार्धभागः, तत्र — एवं यथा शब्दार्थः सन् भूतस्तथा तदन्यथाऽभूतः । तेनैवम्भूतनयः शब्दार्थपरो विशेषेण" ॥ इति संस्कृतम् । विवृणोतिएवमिति । नयनाम्नि ‘एवम्भूत' इत्येवंस्वरूपे जह• इति व्याख्येयम्, 'जह सद्दत्थो संतो' इति तस्य व्याख्यानम्, 'भूओ' इति प्राकृतम्, 'भूत' इति तस्य संस्कृतम् , तदपि व्याख्येयम् , 'तह तयहाऽभूओ' इति तस्य व्याख्यानम् । गाथोत्तरार्द्धं च पर्यवसितैवम्भूतखरूपकथनपरम्, तदेव स्पष्टयति-यथेत्यादिना । यथेत्यस्य "व्यवस्थितः' इत्यनेनान्वयः, 'भूतः' इत्यस्य 'विद्यमानः' इति विवरणम्, एवं च शब्दव्युत्पत्त्या योऽर्थो भवति तथैव विद्यमानोऽर्थ एवम्भूत इत्युच्यते, तदभ्युपगमप्रवणनेयोऽप्येवम्भूतशब्देन प्रतिपाद्यते । यदा चोक्तदिशैवम्भूत एवार्थ एतन्नये भवति तदा योऽर्थो नैवम्भूतनयाभ्युपगंभविषयस्तमुपदर्शयति-अथेति । 'अन्यथा' इत्यस्य 'शब्दार्थोल्लङ्घनेन वर्तते' इत्यर्थक्शनम् , तत्पर्यवसितार्थवचनम् ‘स तत्त्वतो घटाद्यर्थोऽपि न भवति' इति । तर्हि स किं भवतीति पृच्छति-किन्त्विति । उत्तरयति-अभूत इति । एतत्स्वरूपोपवर्णनम्-अविद्यमान इति । एतावता पूर्वार्धार्थो दर्शितः, अथोत्तरार्द्धार्थमाह-'येनैवं मन्यत' इति यत्तदोर्नित्यसम्बन्ध इत्यतः तेन इत्यर्थनिराकासप्रतिपत्तये 'येनैवं मन्यते' इति पूरणम् । विशेषस्तु अन्यतो भवतीत्यतः कस्माद् विशेषेणेत्याकालायाम्-शब्दनयसमभिरूढनयाभ्यां सकाशाद् इति पूरणम् एवम्भूतनयो विशेषणशब्दार्थतत्परः' इति यदुक्तं तस्यैव भावार्थमावेदयति-अयं हीति-एवम्भूतनयो यतः । 'अयम्' इत्यस्य 'मन्यते' इत्यनेनान्वयः ।
Page #247
--------------------------------------------------------------------------
________________
૨૨ે
अनेकान्तव्यवस्थाप्रकरणम् ।
क्रियानिमित्तं घटमानमेव [ चेष्टमानमेव ] घटं मन्यते, न तु स्वगृहकोणा दिव्यवस्थितम्, अचेष्टनाद्, इत्येवं विशेषतः शब्दार्थतत्परोऽयमिति भावः ॥
"वंजण - अत्थ - तदुभयं एवंभूओ विसेसेइ” ॥
[ विशेषावश्यके गाथा - २१८५ ]त्ति
निर्युक्तिदलं तद् व्याचष्टे भाष्यकृत्"वंजणमत्थेणत्थं च, वंजणेणोभयं विसेसेइ | जह घडसद्दं चेट्ठावया तहा तं पि तेणेव " ॥
[ विशेषावश्यकभाष्यगाथा - २२५२ ] व्यज्यतेऽर्थोऽनेनेति व्यञ्जनम् वाचकः शब्दो घटादिस्तम् चेष्टावतैतद्वाच्येनाऽर्थेन विशिनष्टि - ' स एव घटशब्दो यश्चेष्टावन्तमर्थं प्रतिपादयति, नान्यम्, इत्येवं शब्दमर्थेन नैयत्ये व्यवस्थापयतीत्यर्थः,
व्यवस्थितम् इत्यनन्तरं 'घटं मन्यते' इत्यस्यानुकर्षः, तत्र 'मन्यते' इत्यनेन 'न तु' इत्यस्यान्वयः । कथं न मन्यत इत्यपेक्षायामाह - अचेष्टनादिति - चेष्टालक्षणक्रियाकालमात्रवर्तित्वाद् घटपदार्थस्य, स्वगृह कोणादिवृत्तिकाले च व्युत्पत्तिनिमित्तचेष्टनक्रियाऽभावान्न घटपदार्थता । इत्येवम् उक्तप्रकारेण अयम् एवम्भूतनयः ॥
एवम्भूतनयखरूपोपदर्शकं निर्युक्तिवचनं तद्व्याख्यानप्रवणं भाष्यवचनं च क्रमेणोल्लिखति - वंजण० इति - " व्यञ्जनाऽर्थतदुभयमेवम्भूतो विशेषयति” ॥ इति संस्कृतम् | वंजण इति - " व्यञ्जनमर्थेनाऽर्थं च व्यञ्जनेनोभयं विशेषयति यथा घटशब्द चेष्टावतां तथा तमपि तेनेव " ॥ इति संस्कृतम् । निर्युक्तिवचनव्याख्यानरूपं भाष्यवचनं विवृणोति - व्यज्यत इति । तं घटादिशब्दम्, अस्य 'विशिनष्टि' इत्यनेनान्वयः । केन विशिनष्टीत्याकाङ्क्षायामाह - चेष्टावतेति । एतद्वाच्येन घटादिशब्दवाच्येन । तथा च यत् फलितं तदाह- स एवेति योऽर्थं चेष्टावन्तं प्रतिपादयति स शब्द एव घटशब्दो भवतीत्येवमर्थेन शब्दस्य विशेषितत्वम् । नान्यं यः शब्दश्वेष्टावद् भिन्नमर्थं प्रतिपादयति स घटशब्द एव न भवतीति । इत्येवम् अमुना
wwwww
Page #248
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम्
१८७
तथा; अर्थमप्युक्तलक्षणम् अभिहितरूपेण व्यञ्जनेन विशेषयति 'चेष्टाऽपि सैव या घटशब्दवाच्यत्वेन प्रसिद्धा योषिन्मस्तकारूढस्य घटस्य जलाहरणादिक्रियारूपा, न तु स्थान- भरणक्रियात्मिका' इत्येवमर्थं शब्देन नैयत्ये स्थापयतीत्यर्थः इत्येवमुभयं विशेषयति, [ शब्दमर्थेन, अर्थं तु शब्देन स्थापयतीत्यर्थः ] एतदेवाह - 'जह घडसद्दं' इत्यादि । इदमत्र हृदयम् - यदा योषिन्मस्तकारूढश्रेष्ठावानर्थो घटशब्देनोच्यते तदा स घटलक्षणोऽर्थः, स च तद्वाचको घटशब्दः, अन्यदा तु वस्त्वन्तरस्येव तचेष्टाऽभावादघटत्वम्, घटध्वनेश्वावा'चकत्वमिति ॥ एतदेव प्रमाणतः समर्थयन्नाह
“सद्दवसादभिधेयं, तप्पच्चयओ पईव - कुंभो व्व । संसय-विवज्जएगत्त-सङ्कराइप्पसङ्गओ” ॥
[ विशेषावश्यकभाष्यगाथा - २२५३ ]
प्रकारेण, अर्थेन चेष्टावता घटादिशब्दं नैयत्ये व्यवस्थापयत्येवम्भूतनय इत्यर्थः । तथा यथा शब्दमर्थेन नैयत्ये व्यवस्थापयति एवमेव । उक्तलक्षणं चेष्टावत्स्वरूपम् । अभिहितरूपेण अर्थवाचकरूपेण । 'व्यञ्जनेनाऽर्थं विशेषयति' इत्यस्यैव फलितमाह - चेष्टापीति । घटशब्दवाच्यत्वेन का चेष्टा प्रसिद्धेत्यपेक्षायामाह - योषिन्मस्तकारूढस्येति । तर्हि कीदृशी चेष्टा न घटशब्दवाच्येत्याकाङ्क्षायामाह-न त्विति । स्थानेति-घटादेर्यद् गृहकोणादिदेशेऽवस्थानम्, यच्च घृत- दुग्धादिना भरणं पूरणं तदात्मिका क्रिया घटशब्दवाच्यचेष्टा न भवतीत्यर्थः । इत्येवं अमुना प्रकारेण । अर्थं निरुक्तलक्षणं घटाद्यर्थम् । शब्देन घटादिशब्देन इत्येवमुभयं विशेषयति अमुना प्रकारेण शब्दाऽर्थोभयं विशिनष्टि । उक्तभाष्य- वचनाभिप्रायं दर्शयति-इदमिति-‘यदा' इत्यादिनाऽनन्तरमेवाभिधीयमानम् । अत्र एतद्भाष्यवचने हृदयम्-अभिप्रायः । अन्यदा तु घटस्य गृहकोणाद्यवस्थानादिकाले पुनः ॥ उक्तार्थस्य प्रमाणेन समर्थनप्रवणं भाष्यवचनमवतार्थोल्लिखति - एतदेवेति । सद्द० इति। “शब्दवशादभिधेयं तत्प्रत्ययतः प्रदीप कुम्भवत् । संशय- विपर्ययैकत्वसङ्क
I
www
~mm
Page #249
--------------------------------------------------------------------------
________________
૨૮૮
अनेकान्तव्यवस्थाप्रकरणम् । - 'यथाऽभिधायकः शब्दस्तथाभिधेयं प्रतिपत्तव्यम्' इति प्रतिज्ञा, "तत्प्रत्ययत एव-ततः प्रत्ययसम्भूतेः' इति हेतुः, 'प्रदीपवत्, कुम्भवद्' इति दृष्टान्तः, विपर्यये बाधकमाह-'संशय' इत्यादि, इदमुक्तं भवति-प्रदीपशब्देन प्रकाशवानेवार्थोऽभिधीयते, अन्यथा संशयादयः प्रसज्येरन् , तथाहि-यदि दीपनक्रियाविकलोऽपि दीपस्तर्हि दीपशब्देन प्रकाशवानर्थोऽभिहितः ? किं वाऽप्रकाशकोऽप्यन्धोपलादिः ? इति संशयः, अन्धोपलादिरेवानेनाऽभिहितो न दीप इति विपर्ययः; तथा, 'दीप' इत्युक्तेऽप्यन्धोपलादेः, अन्धोपलादावप्युक्ते दीपस्य च प्रत्ययात् पदार्थानामेकत्वं साङ्कयं वा स्यादेव प्रतिप्रसङ्गोऽपीति शब्दवशादेवाभिधेयम् , अभिधेयवशाच्च शब्द इति प्रतिपत्तव्यम् ।
समभिरूढनयं शिक्षयन्नाह"सहपरिणामओ जइ घड-कुडसहत्थभेयपडिवत्ती ॥ तो णिच्चेट्ठो वि कहं, घडसहत्थो घडोऽभिमओ ?”
[विशेषावश्यकभाष्यगाथा-२२५४] यदि शब्दपरिणामतः-शब्दभेदात्, घट-कुट-कुम्भादिपर्यायशब्दानामर्थभेदप्रतिपत्तिः, ततः-तर्हि, निश्चेष्टोऽपि घटशब्दाभिधेयोऽर्थः रातिप्रसङ्गात् ॥ इति संस्कृतम् । विवृणोति-यथेति । 'तत्प्रत्ययतः' इत्यस्य विवरणम्-ततः 'प्रत्ययसम्भूतेः' इति विपर्यये बाधकमाह प्रकृतसाध्याऽभाववति हेतुसत्त्वस्य बाधकं वक्ति । अन्यथा प्रदीपशब्देन प्रकाशवतोऽर्थस्यानभिधाने । संशयादिप्रसञ्जनमेव भावयति-तथाहीत्यादिना । दीपनक्रियाविकलोऽपि प्रकाशनक्रियारहितोऽपि । अनेन दीपशब्देन 'अन्धोपलादेः' इत्यस्य 'प्रत्ययाद्' इत्यनेनान्वयः ॥
समभिरूढं यथा शिक्षयत्येवम्भूतस्तथा तच्छिक्षोपदर्शकं भाष्यवचनमवतार्योल्लिखति-समभिरूढनयमिति । सद्द० इति-"शब्दपरिणामतो यदि घट-कुटशब्दार्थभेदप्रतिपत्तिः । तन्निश्चेष्टोऽपि कथं घट-शब्दार्थो घटोऽभिमतः ? ॥” इति
Page #250
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम्
कथं घटोऽभिमतः ? घटनाद् घट इति शब्दार्थाभावादिति ।। किचजइ वत्थुङ्कमो वाऽनिट्ठो चेट्ठावओ य सङ्कृती ॥
तो न हि निश्चितया जुत्ता हाणीव समयस्स ॥
[ विशेषावश्यकभाष्यगाथा - २२५५ ]
वा - अथवा युक्तयन्तरमुच्यते - हन्त ! यदि " वत्थूओ सङ्क्रमणं होइ अवत्थू”
[ विशेषावश्यकभाष्यगाथा - २१८५ ]
इत्यादिवचनात् तव वस्तुसङ्क्रमः, अनिष्टः - अनभिमत:; तर्हि, चेष्टावतोऽपि भाव घटस्य निश्चेष्टतयेति, कोऽर्थः ? चेष्टाविकले द्रव्यघटे घटशब्दप्रवृत्तितः, सङ्क्रमणम् सङ्क्रान्तिः न हि नैव युक्ता, अथ चेष्टावतोsपि निश्चेष्टेऽर्थे सङ्क्रान्तिरिष्यते, तर्हि समयहानिभवतः "वत्थूओ संकमणं” इत्यादिस्वप्रतिज्ञाक्षतिरित्यर्थः ॥
"
संस्कृतम् ॥ 'यदि' इत्याचेतद्वयाख्यानं सुगमम् । निश्चेष्टो घटो घटशब्दार्थो न भववीत्यत्र हेतुमाह - घटनाद् घट इति शब्दार्थाभावादिति ॥
जइ० इति—‘यदि वस्तुसङ्क्रमो वाऽनिष्टश्चेष्टावतश्च सङ्क्रान्तिः । ततो न हि निश्चेष्टतया युक्ता हानिर्वा समयस्य ॥' इति संस्कृतम् । विवृणोति - वेति । युक्तत्यन्तरमुच्यते निश्चेष्टस्य घटपदाभिधेयत्वाभावे युक्तयन्तरमभिधीयते " जइο" इत्यादिगाथायां । तव समभिरूढनयवादिनः अस्य 'वत्थुओ इत्यादिवचनाद् इत्यत्र 'अनिष्टः' इत्यत्र च ' देहलीदीप' न्यायेन सम्बन्धः । चेष्टावानेव भावघट इत्यभिसन्धानेन चेष्टावतोऽपि भावघटस्य इत्युक्तम्, अस्य 'सङ्क्रान्तिः' इत्यनेनान्वयः । निश्चेष्टतया इति हेतुवचनबलान्निश्चेष्टो द्रव्यघट एवेति तत्र सङ्क्रमणप्रतिषेधो लभ्यत इत्याह- निश्चेष्टतयेति कोऽर्थः ? इति 'निश्चेष्टतया' इत्यनेन किमुक्तं भवतीति । अत्राह - चेष्टाविकल इति । भवतः समभिरूढनयवादिनः ॥
Page #251
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् । अपरमप्यस्य मतभेदं दर्शयन्नाह"एवं जीवं जीवो, संसारी पाणधारणाणुभवो ॥ सिद्धो पुण अजीवो, जीवणपरिणामरहिओ ति" ॥
[विशेषावश्यकभाष्यगाथा-२२५६] .. जीवति-.
. 'पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छास-निःश्वासमथान्यदायुः ॥
प्राणा दशैते भगवद्भिरक्तास्तेषां वियोगीकरणं च हिंसा" ॥ " इत्यादिवचनप्रसिद्धान् दशविधप्राणान् धरतीति शब्दार्थवशाज्जीवनेव-दशविधप्राणधारणं कुर्वन्नेवास्य नयस्य मतेन जीव उच्यते, स च नारकादिः संसार्येव भवति, सिद्धस्त्वेतन्नयमतेन 'जीवोऽसुमान प्राणी' इत्यादिशब्दैन व्यपदेश्यः, जीवनादिपरिणामरहित इति कृत्वा
समभिरूढनयादित एवम्भूतनयस्य भेदान्तरोपदर्शकं भाष्यवचनमवतार्योल्लिखति-अपरमपीति। अस्य एवम्भूतनयस्य। एवं० इति “एवं जीवन् जीवः संसारी प्राणधारणानुभवः । सिद्धः पुनरजीवो जीवनपरिणामरहित इति" ॥ इति संस्कृतम् । विवृणोति-जीवतीति । जीवति-प्राणान् धरतीति व्युत्पत्त्या जीवन्-प्राणधारणं कुर्वन्नेव एवम्भूतनये जीवो भवति संसार्येव, न तु मुक्तः, स प्राणधारणाऽभावाद जीवशब्दव्यपदेशो न तु जीवादिशब्दव्यपदेश्य इत्येतावन्मात्रमत्र वक्तव्यं परिष्कृत्य दर्शयति-जीवतीति । प्राणानां दशविधत्वम्, अतोऽस्य 'दशविधप्राणान् धरति' इत्येवमर्थ कर्तुकामः प्राणानां दशविधत्वोपदर्शकं वचनं मध्य एव पठित्वा तत्प्रसिद्धत्वेन प्राणानां दशविधत्वमावेदयन्नाह-पञ्चन्द्रियाणीति । तेषां दशविधप्राणानाम्। शब्दार्थवशात् जीवशब्दव्युत्पत्तिलभ्यार्थवशात् । अस्य एवम्भूतस्य । स च जीवशब्दव्युत्पत्तिलभ्यार्थस्वरूपो जीवश्च । सिद्धस्तु मुक्तात्मा पुनः, अस्य 'न व्यपदेश्यः' इत्यनेनान्वयः, एतन्नयमतेन एवम्भूतनयमतेन । कथं न सिद्धो जीवादिशब्दैर्व्यपदेश्यः ? इत्यपेक्षायां तत्र हेतुमुपदर्शयति-जीवनादीति । शब्दार्थाभावात् जीवशब्दव्युत्पत्तिलभ्यप्राणधारणलक्षणार्थाभावात् । एवं सति सिद्धः केन
Page #252
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् शब्दार्थाभावात् , किं तर्हि ? 'सत्तायोगात् सत्त्वः, अतति-तांस्तान् ज्ञानदर्शनसुखादिपर्यायान् गच्छतीत्यात्मा' इत्यादिभिरेव शब्दैर्व्यपदेश्य इति ॥
इत्थं च यदुच्यते बोटिकवृद्धेन- "तिकाले चदु पाणा इंदिय-बलमाउ आणपाणो य ॥ ववहारा सो जीवो णिच्छयदो दु चेदणा जस्स ॥".
[ द्रव्यसङ्ग्रहगाथा-३] त्ति । तन्निजकपोलतल्पशयालुविरुद्धकल्पनया शिष्यव्यामोहनमात्रमशुद्धनयविवेचनम् , शुद्धनयस्याप्यय॑माणस्य प्रसिद्धार्थपुरस्कारेणोल्लेखस्यैव साम्प्रदायिकत्वात् , एवम्भूतनयमते 'जीव प्राणधारणे' इति धात्वर्था
शब्देन व्यपदेश्यः ? इति पृच्छति-किं तहीति । उत्तरयति-सत्तायोगादितिखरूपसत्तासम्बन्धादित्यर्थः, सत्तासम्बन्धश्चात्र तादात्म्यमेव, सम्बन्धान्तरेण सत्तासम्बन्धित्वे तु सत्त्वशब्दस्य व्यपदेश्यो न भवेत् , किन्तु सच्छब्दव्यपदेश्यः स्यादिति बोध्यम् ॥
इत्थं च एवम्भूतनये सिद्धस्य न जीवादिशब्दव्यपदेश्यत्वं किन्तु सत्त्वा-ऽऽत्मादिशब्दव्यपदेश्यत्वमेवेति व्यवस्थितौ च । तिकाले० इति- “त्रिकाले चत्वारः प्राणाः इन्द्रिय-बलमायुः प्राणापानश्च । व्यवहारात् स जीवो निश्चयतो द्वे चेतने [तु चेतना] यस्य" ॥ इति संस्कृतम् । तत् (बोटिकवृद्ध )वृद्धदिगम्बरवचनम् । निजेतिवकपोलात्मकशय्यायामन्याऽनिरीक्षिततया शयनशीलया विरुद्धकल्पनया, शिष्यभ्रान्तिनिमित्तत्वाच्छिष्यस्य व्यामोहमात्रम् , अत एवाशुद्धनयविवेचनमेवेदम्, यतः शुद्धनयस्यापि, अय॑माणस्य किञ्चिद्वस्तुसाधनपरतया विवक्षितस्य, प्रसिद्धार्थपुरस्कारेणैव यो धातुर्यदर्थतया शब्दानुशासने पठितस्तदर्थावलम्बनेनैव, साम्प्रदायिकत्वात् सम्प्रदायसिद्धत्वात् । तथा च यदायातं तद् दर्शयति-पवम्भूतनयमत इति । धात्वर्थायोगेन प्राणधारणलक्षणजीवधात्वर्थस्य सिद्धेऽभावेन । यदि द्विचेतनावान् भावजीव इति भावविशेषसमाश्रयणेन जीवधात्वर्थो द्विचेत
Page #253
--------------------------------------------------------------------------
________________
१९२
अनेकान्त यवस्था प्रकरणम् । ऽयोगेन शुद्धचेतनाद्वयवतोऽपि सिद्धस्य जीवपदार्थतया वक्तुमशक्यत्वात् , धात्वर्थ एव भावनिःक्षेपोपग्रहे च योषिन्मस्तकारूढो जलाहरणादिक्रियां कुर्वन्नपि घटो घटपदार्थो न स्यात् , किन्तु भावघटनयानुपयोगे इत्येवम्भूतस्य प्रसिद्धोदाहरणमपि विलूनशीणं स्यात् । अथ शब्दाऽर्थोभयविशेषणप्रधानत्वादेवम्भूतस्य व्यावहारिकशब्दाऽर्थोपग्रहेणैव प्रसिद्धोदाहरणव्याघातः, नैश्चयिकतदुपग्रहे च तव्याघातो न दोषाय, नयान्तरार्थव्याघातपुरःसरमेव नयान्तरप्रवृत्तेः, इति
नावानेव स्वीक्रियत इत्यतः सिद्धस्य जीवपदव्यपदेश्यत्वमुपपद्यते, तर्हि घटपदार्थोऽपि भावनिक्षेपसमाश्रयणेन घटोपयोगलक्षण गवघट एव घटपदव्यपदेश्यो भवेत् , एवं सति योषिन्मस्तकारूढस्य जलाहादिक्रियां कुर्वतोऽपि द्रव्यघटस्यैवम्भूतनये यद् घटपदाभिधेयतया प्रसिद्धमुदादरणम् , तत् परित्यक्तमेव भवेदित्याह-धात्वर्थ एवेति । योषिन्मस्तकारूढस्य जलाहर दिक्रियां कुर्वतो घटस्य घटपदाभिधेयत्वं कदा भवतीति पृच्छति-किन्त्विति । उत्तरयति-भावघटनयानुपयोग इतिधात्वर्थे भावघटाभ्युपगन्तृनयोत्थभावनिक्षेपानाश्रयण इत्यर्थः । इति एतस्मात् कारणात् , धातोः प्रसिद्धार्थापुरस्कारे एवम्भूतनयस्य यत् प्रसिद्धोदाहरणं 'योषिन्मस्तकारूढो जलाहरणादिक्रियां कुर्वन घट घटपदाभिधेयः' इत्येवंलक्षणं तदपि विलूनशीर्ण स्यादित्यर्थः दिगम्बर एतद्दोषपरिकाराय स्वाभिप्रेतमाशङ्कते-अथेति।शब्दाथाभयविशेषणप्रधानत्वात् एतन्न · शब्दोऽर्थ विशिनष्टि, अर्थः शब्दं विशिनष्टीत्येवं शब्दा-ऽर्थोभयविशेषणप्रधानत्वात् । 'व्यावहारिकशब्दार्थोपग्रहे जैव' इति स्थाने 'व्यावहारिकशब्दाथापनहे नैव' इति पाठो युक्तः, तथा चैवम्भूतस्य व्यावहारिको यः शब्दः, यश्च व्या हारेिकार्थस्तदुभयोपग्रहे-तदुभयाश्रयणे कृते प्रसिद्धोदाहरणस्योपपन्नत्वात् तस्य या तो नैव भवति, नैश्चयिकं यच्छब्दार्थोभयखरूपं तदुपग्रहे-तदाश्रयणे, च-म, तद्व्याघातः-प्रसिद्धोदाहरणव्याघातो यो भवताऽऽपादितः स दोषाय न भवति । कुत इत्यपेक्षायामाह-नयान्तरेति-यथा प्रकृत एव नयान्तरस्य-व्यवहार नवग्या याऽर्थः 'योषिन्मस्तकारूढो जलाहरणाद्यर्थक्रियां कुर्वन् घटो घटपदाभिधेयः' इत्येवंरूपः, तद्व्याघातपुरस्सरमेव-तव्याघाते
Page #254
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् १९३ निश्चयोपजीविनिश्चयेन सिद्धस्यैव जीवत्वम्, न संसारिण इत्यस्मन्मतमदुष्टमिति चेत् ? न-तथापि व्यवहारोपजीविनिश्चयेन शब्दार्थोपदर्शनं विना निश्चयोपजीविनिश्चयेन शब्दार्थोपदर्शनस्य क्रमभङ्गदोषावहत्वात् । अथ 'विचित्रा सूत्राणां कृतिराचार्यस्य' इति निश्चयोपजीविनिश्चयप्रदर्शनेच्छयैवास्मद्ग्रन्थकारप्रवृत्तेरयमदोष इति चेत् ? न ग्रन्थकर्तुरिच्छावैचित्र्यस्यापि सम्प्रदायानतिवर्तित्वात् , सम्प्रदायश्च,
सत्येव, नयान्तरस्य-निश्चयनयस्य, प्रवृत्तिः । इति एतस्मात् कारणात् । निश्चयोपजीविनिश्चयेन निश्चयनयमाश्रित्य प्रवृत्तेनैवम्भूतस्वरूपनिश्चयेन । अस्मन्मतं वृद्धबोटिकमतम् । समाधत्ते-नेति । तथापि उक्तरीत्या निश्चयोपजीविनिश्चयेन सिद्धस्य जीवत्वसम्भवेऽपि क्रमभङ्गेति-पूर्व व्यवहारोपजीव्येवम्भूतात्मकनिश्चयेन शब्दार्थोपदर्शनम्, तदनन्तरं निश्चयोपजीविनिश्चयेन शब्दार्थोपदर्शनमित्येवं यः क्रमस्तस्य भङ्गलक्षणो दोषस्तदावहत्वाद् बोटिकमतं दुष्टमेवेत्यर्थः । पुनर्बोटिकानुयायी शङ्कते-अथेति 'इच्छयैव' इत्यनेन निश्चयसामान्योपदर्शनेच्छाया व्यवच्छेदः । अयं क्रममङ्गः, यदि निश्चयसामान्योपदर्शनेच्छयाऽस्मद्रन्थकर्तुः प्रवृत्तिः स्यात् तदा निश्चयसामान्यान्तर्गतो यथा निश्चयोपजीविनिश्चयस्तथा व्यवहारोपजीविनिश्चयोऽपि एवं च तदुभयोपदर्शनकरणप्राप्तौ पूर्व व्यवहारोपजीविनिश्चयोपदर्शनं कर्तव्यम्, ततो निश्चयोपजीविनिश्चयप्रदर्शनं करणीयमित्येवं क्रमो न्याय्य इति तत्र यदि निश्चयोपजीविनिश्चयस्यैव प्रदर्शनं क्रियेत भवेदेव क्रमभङ्गः, अस्मद्रन्थकृता तु निश्चयोपजीविनिश्चयलक्षणनिश्चयविशेषोपदर्शनेच्छयैव निश्चयोपजीविनिश्चयप्रदर्शनं कृतमिति तत्र क्रमेण प्राप्तेरेवाभावान्न क्रमभङ्ग इत्याशयः । समाधत्ते-नेति । भवदन्थकर्ता यदि सम्प्रदायानुसारिप्रवृत्तिकस्तदा तस्योक्तेच्छैव न सम्भवतीति न तथेच्छयोक्तोपदर्शनं न्याय्यमित्याशयेनाह-ग्रन्थकतुरिति । सम्प्रदायानतिवर्तित्वात् ग्रन्थकाराणां यद्यपीच्छावैचित्र्यं समस्ति, तथापि सम्प्रदायं नाऽतिकामति तद्, अतः सम्प्रदायानतिवर्तित्वाद् भवद्रन्थकारस्यापीच्छा प्रथमं व्यवहारोपजीविनिश्चयोपदर्शनविषयिण्येवोदियात्, ततो निश्चयोपजीविनिश्चयविषयिणीत्येवं सति प्रथमत एव निश्चयोपजीविनिश्चयार्थोपदर्शने क्रमभङ्गदोषः स्यादेवेति भावः। सम्प्रदायोऽत्रार्थे, कीदृशः?
अ. व्य. १३
Page #255
--------------------------------------------------------------------------
________________
१९४
अनेकान्तव्यवस्थाप्रकरणम् ।
आदौ व्यवहारस्यैव तदनन्तरं नयपरिकर्मितमतेः कस्यचिद् बुद्धिविस्फारणार्थं व्यवहारोपजीविनिश्चयस्य, तदनन्तरमेव च भृशतरं नयविस्तरावगाहनावदातमतिं शिष्यं प्रति निश्चयोपजीविनिश्चयस्य प्रद र्शनं प्रसिद्धम् इति किमादावेव देवानांप्रियस्य ' सूचीमुखे मुसलप्रवेशनकल्पेन' निश्चयोपजीविनिश्चयप्रदर्शनव्यापारेण ? सिद्धान्ते ह्यादिदेशना व्यवहाराश्रितैव प्रत्यपादि, तस्या एव कर्म-कर्मफलकर्तृ-भोक्त्रादिव्यवस्थोपपादकत्वेन सम्यग्दर्शनमूलत्वात् न तु
"
"
इत्यपेक्षायामाह-सम्प्रदायश्चेति । 'व्यवहारस्यैव' इत्यस्य 'प्रदर्शनं प्रसिद्धम्' इत्यनेनान्वयः । तदनन्तरं व्यवहारप्रदर्शनानन्तरम् । नयपरिकर्मितमतेः नयपरिनिष्ठितबुद्धेः । व्यवहारोपदर्शने कृतेऽपि अतिस्थूलबुद्धेः शिष्यस्य नयपरिनिष्ठितबुद्धिता ज्ञानावरणप्राबल्यान्न भवेदपीत्यतः 'कस्यचिद्' इत्युक्तम्। बुद्धिविस्फारणार्थ बुद्धिविकासार्थम्, स्थूलमात्रावगाहनप्रवृत्ताया बुद्धेः सूक्ष्मविषयावगाहनसामर्थ्यसम्पादनार्थमिति यावत् । व्यवहारोपजीविनिश्चयस्येति - अस्यापि 'प्रदर्शनं प्रसिद्धम्' इत्यनेनान्वयः । तदनन्तरमेव च व्यवहारोपजीविनिश्चयोपदर्शनानन्तरमेव पुनः । इति एतस्मात् कारणात्, देवानांप्रियस्य एतच्च याज्ञिकप्रसिद्धिमवलम्ब्य, यज्ञे देवतोद्देशेन पशुहिंसा याज्ञिकैः क्रियते, ततश्च देवानां पशवः प्रिया इति तेषामभिमानोऽवगम्यते, ज्ञानविशेषराहित्येन पशुसदृशत्वान्मूर्खोऽपि पशुरेवेत्युपचर्यत इति कृत्वा मूर्खस्य बोटिकवृद्धस्य । सूचीमुख इति यथा अतिसूक्ष्मे सूचीमुखे तदपेक्षया अतिस्थूलस्य मुसलस्य प्रवेशनमसम्भवीति तदर्थं जडमतेः कस्यचित् तत्र व्यापारणं निष्फलत्वाद् हास्यास्पदं तथा निष्फलत्वात् तत्कल्पेन, आदावेव प्रथमत एव, निश्चयोपजीविनिश्चयप्रदर्शनव्यापारेण, किम् न किञ्चिदित्यर्थः । कथमित्थमुपदर्शितक्रम एव सम्प्रदायो नान्यथेत्यत आह- सिद्धान्ते हीति । यतः, सिद्धान्ते जैनागमे । आदिदेशना प्रथमत उपदेशः । न हि यथाकथञ्चिद् व्यवहाराश्रितदेशनायाः प्राथम्यम्, किन्तु सम्यग्दर्शनमूलत्वात् तस्याः प्राथम्यमित्याह- तस्या एवेति-व्यवहाराश्रितदेशनाया एवेत्यर्थः । न त्विति - सिद्धान्ते निश्चयाश्रितदेशना न प्रथमतः प्रत्यपादीत्यर्थः । कथं न सा प्रथमतः प्रतिपादितेत्या
wwwwvv
Page #256
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम्
"
निश्चयदेशना, तस्या एतद्वैपरीत्येन मुग्धजनहृदये नास्तिक्यवासनाधानद्वारा मिथ्यादर्शनमूलत्वात् प्रतिपादितं चैतद् व्यवहारभाष्ये, समर्थितं च गुरुतत्त्वविनिश्चयं स्वोपज्ञं विवृण्वद्भिरस्माभिः अत एव सिद्धान्ते लोकोपकाराय कचित् कचिदाद्यनयत्रयदेशनैवोपनिबद्धा, न तूत्तरनयचतुष्टयप्ररूपणा, तस्या अपरिणत्यतिपरिणत्याधायकतया प्राच्यदशायामहितत्वात्, अङ्गोपाङ्गादिपारदृश्वनां परिणतजिनप्रवचनोपनिषदां दृष्टिवादाध्ययने तु सर्वनयानुयोगो विहित एव तान् प्रति तस्य हितकारणत्वात्, तदाह श्रुतकेवली
www ল
१९५
"एएहिं दिट्ठिवाए, परूवणा सुत्त - अत्थकहणा य । इह पुण अणब्भुवगमो, अहिगारो तीहि ओसण्णं ।” [ विशेषावश्यक निर्युक्तिगाथा - २२७५ ]ति ।
काङ्क्षायामाह-तस्या इति - निश्चयाश्रितदेशनाया इत्यर्थः । एतद्वैपरीत्येन व्यवहाराश्रितदेशनावैपरीत्येन, कर्म-कर्म फल - कर्तृ - भोकादिव्यवस्थोपपादकत्वाऽभावेनेति यावत्एतन्न स्वकपोलकल्पनामात्रम्, किन्तु व्यवहारभाष्ये प्रतिपादितमेतदित्याह-प्रतिपादितं चेति । ननु व्यवहारभाष्ये प्रतिपादितमपि निर्युक्तिकत्वाच्छ्रद्वापरायणैकमान्यमेवैतत्, न तु परीक्षाविदग्धजनहृदयानन्दकारीत्यत आह- समर्थितं चेति । युक्तिकदम्बकोपदर्शनेनोपपादितमित्यर्थः । अस्माभिः यशोविजयोपाध्यायैः । अत एव प्रथमं व्यवहाराश्रितदेशनायाः सम्यग्दर्शनमूलत्वाद्धितावहत्वादेव । आद्यनयत्रयेति-नैगम-सङ्ग्रह-व्यवहारात्मकनयत्रयेत्यर्थः । न त्विति - ऋजुसूत्र - शब्द- समभिरूढैवम्भूतात्मकनयचतुष्टयप्ररूपणा सिद्धान्ते क्वचित् क्वचिन्नोपनिबद्धेत्यर्थः । क्वचित् पुनः सप्तानामपि नयानां प्ररूपणा हितकारित्वादुपनिबद्धाऽपीत्याह-अङ्गोपाङ्गादीति - अङ्गानि आचाराङ्गादीनि, उपाङ्गानि औत्पातिकादीनि आदिपदान्महानिशीथप्रभृतीनि, तेषां पारं दृष्टवतामिति । तान् प्रति अङ्गोपाङ्गादिपारद्रष्टृन् परिणतजिनवचनोपनिषदः प्रमातॄन् प्रति । तस्य सर्वनयानुयोगस्य ।
wwwwwww
Page #257
--------------------------------------------------------------------------
________________
wwwmre
१९६ अनेकान्तव्यवस्थाप्रकरणम्।
अथ 'कालत्रये प्राणचतुष्टयधारी यः स व्यवहारतो जीवः' इति व्युत्पाद्य 'यस्य द्वे चेतने स निश्चयतो जीवः' इति वाग्भङ्गया कर्मोपाधिनिरपेक्षशुद्धद्रव्यार्थिकलक्षणनिश्चयेन सिद्ध-संसारिणामविशेषेण जीवत्वव्युत्पादने न क्रमभङ्गादिदोषलेशोऽपीति चेत् ? न तेन सर्वेषां सामान्यतो जीवत्वे सिद्धे 'यस्य' इति विशेषोपग्रहानुपपत्तः, नहि शुद्धनयमते एकः शुद्ध एकश्वाशुद्धोऽस्ति, अत एव
"मग्गणगुणठाणेहि य, चउदसहिं हवंति तह असुद्धणया । विण्णेया संसारी, सव्वे सुद्धा हु सुद्धणया ॥”
[द्रव्यसङ्ग्रहगाथा-१३] इति परेणैवाग्रे प्रतिपादितम् , अस्मत्प्रावचनिका अपि च सामायिकनयविचारे स्वजात्या शुद्धस्य सर्वस्यैवात्मनः सामायिकरूपतां सङ्ग्रहनयापेक्षया प्रतिपादयन्तीत्यन्यत्र विस्तरः ।
अत्रार्थे श्रुतकेवलिनो भगवतो भद्रबाहुखामिनो वचनं संवादकतया दर्शयतितदाहेति। एएहिं० इति-“एभिदृष्टिवादे प्ररूपणा सूत्रार्थकथना च इह पुनरनभ्युपगमोऽधिकारस्त्रिभिरुत्सन्नम् ॥” इति संस्कृतम् । एभिः नैगमादिभिर्नयैः सप्रमेदैः, दृष्टिवादे सर्ववस्तुप्ररूपणा सूत्रार्थकथना च, क्रियत इति शेषः। इह पुनः कालिकश्रुते, अनभ्युपगमः नावश्यं नयैर्व्याख्या कार्या । यदि च श्रोत्रपेक्षया नयविचारः क्रियते तदा त्रिभिराद्यैः, उत्सन्नं प्रायेण, अत्राधिकारः, इति गाथार्थः ॥
पुनर्बोटिकमतानुयायी शङ्कते-अथेति । शुद्धद्रव्यार्थिकेति-सङ्ग्रहेत्यर्थः । समाधत्ते नेति । तेन शुद्धद्रव्यार्थिकलक्षणनिश्चयेन । सर्वेषां संसारि-मुक्तानाम् । यस्येतीति-'यस्य द्वे चेतने' इत्यत्र 'यस्य, इत्यनेनात्मविशेषग्रहणानुपपत्तेरित्यर्थः । अत एव निश्चयनये सर्वेषां जीवानां शुद्धत्वादेव, अस्य 'प्रतिपादितम्' इत्यनेनान्वयः । मग्गण० इति-"मार्गणा-गुणस्थानैश्च चतुर्दशभिर्भवन्ति तथा अशुद्धनयात् । विज्ञेया संसारिणः सर्वे शुद्धाः खलु शुद्धनयात्" ॥ इति संस्कृतम् । परेणैव वृद्धबोटिकेनैव । अग्रे द्रव्यसङ्ग्रहाख्यग्रन्थे-“तिकाले चदु पाणा०" इत्यादि प्रतिपादितं पूर्वम् , तत्पश्चात् । अस्मत्प्रापचनिका अपि श्वेताम्बरप्रावचनिका अपि । स्वजात्या स्वभावतः ।
wwwww
Ww
Page #258
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् यदपि देश-देशिनोरेकत्वं समर्थयता 'देशी चासौ देशश्च' इत्याद्युक्तं समभिरूढेन, तदपि समभिरूढनयमते न युक्तमिति दर्शयन्नाह -
"जइ देसि चिय देसो, पत्ता पज्जायवयणपडिवत्ती।" पुणरुत्तमाणस्थयं, वत्थुसंकमो वा ण चेहँ ते ॥
[विशेषावश्यकभाष्यगाथा-२२५७ ] यदि देश्येव देशः, देशो वा देशी तदाऽनयोः 'वृक्षः पादपः' इत्यादीनामिव पर्यायवचनतैव प्राप्ता, ततश्च यथा 'वृक्षः पादपः' इत्येकार्थशब्दप्रयोगे पौनरुक्त्यं तथा देशि-देशशब्दप्रयोगेऽपि स्यात् , तथा, एकेनापि द्वितीयशब्दार्थस्य प्रतिपादितत्वाद् द्वितीयशब्दप्रयोगस्यानर्थक्यं च स्यात् , तथा, देशस्य देशिनि, देशिनश्च देशे तिरोधानाद् वस्तुसङ्कमोऽपि भवेत् , न चेदं तवेष्टम् , तस्मान्न देश-देशिनोरेकत्वमिति । भेदपक्षस्तु तयोस्त्वयापि निराकृत एव ।।
अथाभेदपक्षोक्तदूषणभिया पुनस्तमङ्गीकरिष्यसि, तत्राह"अह भिन्नो तस्स तओ, ण होइ ण य वत्थुसंकमभयाओ। देसी चेव य देसो, नवा पएसी पएसो त्ति ॥"
[विशेषावश्यकभाष्यगाथा-२२५८ ] अन्यदपि समभिरूढाभिमतमेवम्भूतनयेनाऽयुक्तमित्युपदर्शकं भाष्यवचनमवतार्योल्लिखति-यदपीति । जइ० इति-“यदि देश्येव देशः प्राप्ता पर्यायवचनप्रतिपत्तिः । पुनरुक्तमानर्थ्य वस्तुसङ्कमो वा न चेष्टन्ते" ॥ इति संस्कृतम् । विवृणोति-यदीति । अनयोः देशि-देशपदयोः, । ततश्च पर्यायवचनताप्राप्तितश्च । देश-देशिनोरैक्ये क्रमेण पौनरुक्त्या-ऽनर्थक्य-वस्तुसङ्क्रमदोषान् सङ्गमयति-यथेत्यादिना । देशस्येतिदेशस्य देशिनि तिरोधानादित्यन्वयः । न चेदं तवेष्टं पौनरुक्त्यानर्थक्यवस्तुसङ्क्रमलक्षणदोषत्रयं समभिरूढनयवादिनो न चेष्टम् , तथा च तादृशदोषप्रसञ्जनस्येष्टापत्तित्वाभ्युपगमेन परिहारो न सम्भवतीति भावः । उपसंहरति-तस्मादिति । नन्वेवं देश-देशिनोरेकत्वं मा नाम स्यात् , भेद एवानयोर्भविष्यतीत्यत आह-भेदपक्षस्त्विति । तयोः देश-देशिनोः । त्वयापि समभिरूढवादिनाऽपि । ननु तयो
Page #259
--------------------------------------------------------------------------
________________
१९८
अनेकान्तव्यवस्थाप्रकरणम् । ___ अथ भिन्नो देशिनो देशः, तर्हि प्राक् त्वदुक्तयुक्तेरेव, तस्य-देशिनः तकः-असौ देशो न भवतीति स्मर्यतामिदम् ; न च वस्तुसङ्क्रमादिदोषभयाद् देश्येव देशोऽभ्युपगन्तव्य इत्यनन्तरमेवोक्तम् , एवं प्रदेशी प्रदेश इत्यपि नैष्टव्यम् , समानदोषत्वात् , तस्मान्न देशिमात्र देशमात्रं वा, किन्त्वखण्डं वस्त्वभ्युपगन्तव्यं, न तु देश-प्रदेशकल्पना कार्या, तयो|देऽभेदे च यथोक्तदोषसम्भवात् , अत एतन्मते कर्मधारयोऽपि पदानां न भवति, सर्वस्यापि वस्तुनः प्रत्येकमखण्डरूपत्वात् ॥
अथ देशप्रतिपादनार्थं 'नो देशी' इति प्रयोगः क्रियते, एकदेशआंदो यद्यपि पूर्वं मया निराकृतः, परमिदानीममेदे दोषभयाद् भेदमेव तयोरङ्गीकरोमीत्यत आह-अथेति। तं देश-देशिनोभैंदम् । तत्र देश-देशिनोर्मेदाङ्गीकारे। आह भाष्यकारो ब्रूते। अह० इति-"अथ भिन्नस्तस्य सको न भवति न च वस्तुसङ्क्रमभयात् । देश्येव च देशो नवा प्रदेशी प्रदेश इति ॥” इति संस्कृतम् । विवृणोतिअथेति । त्वदुक्तयुक्तरेव भेदे सम्बन्धाभावात् । तदर्थकषष्ठीविभक्तिर्न भवति, तेन देशि-देशपदयोर्न षष्ठीतत्पुरुषसमासः, किन्तु कर्मधारय एवेति। समभिरूढनयवाद्युक्तयुक्तेरेव । एवं च देशि-देशयोर्भेदो न संभवतीति स्थितम् , अभेदोऽपि च वस्तुसंकरादिदोषप्रसङ्गभयतो न सम्भवतीतीदानीमेवोक्तम्, अतो नाऽभेदोऽपीत्याह-न चेति-अस्य 'अभ्युपगन्तव्यः' इत्यनेनान्वयः । वस्तुसंकरदोषादिप्रसङ्गतः पर्यायवचनताप्राप्ति-पौनरुक्त्या-ऽऽनर्थक्यादिदोषतश्च प्रदेश्येव प्रदेश इत्यपि नाभ्युपगन्तुं शक्यमित्याह-एवमिति । एवं च यत् सिद्धं तदेवम्भूतनयवादी आह-तस्मादिति। 'न तु' इत्यस्य 'कार्या' इत्यनेनान्वयः । तयोः प्रदेशि-प्रदेशयोः। अत उक्तदोषप्रसङ्गभयात् । एतन्मते एवम्भूतनयमते ।' कर्मधारयोऽपि' इत्यपिना षष्ठीतत्पुरुषादिपरिग्रहः, भेदे सम्बन्धाभावाद् यथा समभिरूढमते षष्ठीतत्पुरुषादिस्तथा एवम्भूतनये देशि-देशलक्षणपदार्थयोस्तादात्म्यस्याप्यभावात् कर्मधारयोऽपि पदानां न सम्भवतीत्यर्थः ॥
'नो देशी' इति प्रयोगोऽपि देशप्रतिपादकतयैतन्नये न सम्भवत्येतदुपदर्शक भाष्यवचनमवतार्योपन्यस्यति-अथेति। 'नो देशी' इति शब्देन देशप्रतिपादनं कथं भव
Page #260
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम्
वचनश्च नोशब्द:, 'देशिन एकदेशभूत एव देशो न पुनस्तद्व्यतिरिक्तः' इत्यर्थप्रतिपादक इति चेत् ? तदप्ययुक्तमित्याह
१९९
"नोसो विसमत्तं, देसं व भणिज्ज जइ समत्तं तो । तस्स पओगोऽणत्थो, अह देसो तो ण सो वत्थं ॥” [ विशेषावश्यकभाष्यगाथा - २२५९ ] नो देशी इति प्रयोगे योऽयं नोशब्दः स किं समस्तं देशिलक्षणं वस्तु वदेत् ? अथवा तद्देशमेव ब्रूयात् ?, यद्याद्यः पक्षः, तदा नोशब्दस्य प्रयोगोऽनर्थकः केवलाद् देशिशब्दादेव समस्तवस्तुप्रतीतेः, अथ देशो नोशब्देनोच्यते, ततो नासौ वस्तु, देशिनो भेदाभेदाभ्यामनुपपत्तेरुक्तत्वात् ॥
नीलोत्पलादिसमासश्च द्वयोः पदयोरेकाधिकरणतायां भवति, द्वयोश्चैकमधिकरणं नास्ति, अनन्तरमेव निषिद्धत्वादिति कर्मधारयसमासोऽपि न युक्त इति दर्शयन्नाह -
तीत्यपेक्षायामाह - एकदेशवचनं चेति । तद्व्यतिरिक्तः देशिव्यतिरिक्तः । नो सद्दो० इति - "नोशब्दोऽपि समस्तं देशं वा भणेद् यदि समस्तं ततः । तस्य प्रयोगोऽनर्थोऽथ देशस्ततो न स वस्तु" ॥ इति संस्कृतम्, विवृणोति - नो देशी' इति प्रयोग इति । तद्देशमेव देशिनो देशमेव । यद्याद्यः पक्ष इति-'नो देशी' इत्यत्र नोशब्दः समस्तं देशिलक्षणं वस्तु ब्रवीतीति पक्ष इत्यर्थः । नोशब्दोऽपि समस्त - देशिस्वरूपवाचक एव देशिशब्दोऽपि तथेत्येकेनैव देशिशब्देन समस्तदेशिस्वरूपप्रतिपादनसम्भवान्नोशब्दस्यानर्थक्यमित्याह - तदा नोशब्दस्येति । तद्देशमेव नोशब्दो ब्रूयादिति द्वितीयपक्षमधिकरोति - अथेति । असौ देशः । कुतो न वस्त्वित्यपेक्षायामाह - भेदेति ।
कर्मधारयसमासोऽप्येतन्मते न सम्भवतीत्येतत्प्रतिपादकं भाष्यवचनमवतार्यो - लिखति- नीलोत्पलादिसमासश्चेति- - अस्य 'भवति' इत्यनेन सम्बन्धः, एकाधिक
wwww
Page #261
--------------------------------------------------------------------------
________________
२००
अनेकान्तव्यवस्थाप्रकरणम् । "नीलुप्पलाइसद्दाऽहिमरणमेगं च जं मयं तत्थ । नणु पुणरुत्ता-ऽणत्थय-समयविघाया पुहुत्तं वा ॥"
. [विशेषावश्यकभाष्यगाथा-२२६० ] नीलोत्पलादिशब्दानां यदेकमधिकरणमतिक्रान्तनयस्य सम्मतम् , तत्र ननु पौनरुक्त्या-ऽऽनर्थक्य-समयविघातलक्षणा दोषा उक्ता एवेति न कर्मधारयः, अथ पौनरुक्त्यादिदोषा नेष्यन्ते, तर्हि नीलोत्पलादिशब्दाभिधेयस्यार्थस्य पृथक्त्वं भेदः प्राप्नोतीत्यतोऽपि तुल्याधिकरणताऽभावान्न कर्मधारयः ॥ तस्मात् किं स्थितमित्याह
"तो वत्थुसंकराइप्पसंगओ सव्वमेव पडिपुन्नं । वत्थु सेसमवत्थु, विलक्खणं खरविसाणं व ॥"
[विशेषावश्यकभाष्यगाथा-२२६१] तस्माद् वस्तुसाङ्कर्यादिदोषप्रसङ्गतः, सर्व-धर्मास्तिकायादिकम् , सम्पूर्णं-देश-देशिकल्पनारहितमखण्डम् , वस्तु, एतस्मात् तु विलक्षणं-देश-देशिकल्पनान्वितम् , अवस्तु, युक्तिविकलत्वात् , खरविषाणवदिति ॥
रणता च प्रकृतेऽभेदेनान्वितपदार्थप्रतिपादकत्वम् । नीलुप्पला० इति- “नीलोत्पलादिशब्दाधिकरणमेकं च यन्मतं तत्र । ननु पुनरुक्ता-ऽनर्थक-समयविधाताः पृथक्त्वं वा" ॥ इति संस्कृतम् । विवृणोति-नीलोत्पलादिशब्दानामिति । अतिक्रान्तनयस्य समभिरूढनयस्य । समयविधातेति- वस्तुनः सङ्क्रमणं न भवतीति समभिरूढसिद्धान्तविघातेत्यर्थः । अथेति- पौनरुक्त्यादिदोषास्तदैव न सम्भवेयुर्यदि नीलोत्पलादिशब्दयोरैक्यं नाभ्युपगम्यते, एवं सति यत् स्यात् तदाह- तीति ॥
एवम्भूतनयतत्त्वोपसंहरणपरं भाष्यवचनमवतार्योल्लिखति- तस्मादिति । तो वत्थु० इति-"तस्माद् वस्तुसंकरादिप्रसङ्गतः सर्वमेव परिपूर्णम् । वस्तुशेषमवस्तु विलक्षणं खरविषाणमिव" ॥ इति संस्कृतम् । विवृणोति-तस्मादिति । एतस्मात् तु
Page #262
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम्
२०१ नन्वेवं 'नीलघटः' इत्यादिसमासाद् 'नीलो घटः' इत्यादिवाक्याच्च शाब्दबोधो न स्यादिति चेत् ? गृहीतैवम्भूतनयव्युत्पत्तीनां न स्यादेव, अन्येषां तु भवन्नयं भ्रमरूपतां नातिक्रामतीति गृहाण । समभिरूढेन ह्येकपदार्थे भेदसम्बन्धेनेतरपदार्थान्वयाऽभावव्याप्यत्वं स्वीक्रियते, मया तु सम्बन्धमात्रेणेतरपदार्थान्वयाऽभावव्याप्यत्वमिति लाघवम् , तस्मान्नीलघट इत्यादौ 'नीलीभवनान्नीलः' 'घटनाद् घटः' इत्यादिक्रियाद्वयाऽसमावेशादनन्वय एव, गुणादिवाचिनः शब्दास्त्वेतन्नये न सन्येव, सर्वेषामेव व्युत्पत्त्यर्थपर्यालोचनायां क्रियाशब्दत्वात् , क्रियाशब्दयोरपि च भिन्नयोः परस्परमनन्वय एव, नीलघटादिविशृङ्खल
अखण्डवस्तुनः पुनः। नन्वतन्मते पदार्थयोरैक्याभावे कर्मधारयसमासाभावे च समानवचनकविशेष्यविशेषणवाचकपदद्वयसमभिव्याहारलक्षणव्यासवाक्यात् कर्मधारयाच शाब्दबोध एतन्मते न स्यादिति शङ्कते-नन्वेवमिति । इष्टापत्तिरेवाऽत्र समाधानमित्याह-गृहीतैवम्भूतेति । अन्येषां तु एवम्भूतनयव्युत्पत्तिग्रहणविकलानां पुनः। भवनयं शाब्दबोधो नीलघट इत्यादिसमासादितो भवन् । एवम्भूतनयवादी समभिरूढनयवादकल्पनापेक्षया स्वकल्पनायां लाघवमुपदर्शयति-समभिरूढेनेति-अस्य 'स्वीक्रियते' इत्यनेनान्वयः। यत्र तादात्म्येनैकपदार्थस्तत्र मेदसम्बन्धेनेतरपदार्थान्वयाभाव इत्येवं व्याप्यव्यापकभावः समभिरूढनये ज्ञेयः । मया तु एवम्भूतनयवादिना पुनः, अत्र 'सम्बन्धमात्रेण' इत्युक्तिः पदार्थान्वयो नियमेन केनापि सम्बन्धेनेत्यभिसन्धानेन वस्तुतो व्याप्तौ तु 'सम्बन्धमात्रेण इति नोपादेयमेव, किन्तु यत्र तादात्म्येनैकपदार्थस्तत्रेतरपदार्थान्वयाभाव इत्येवं व्याप्यव्यापकभाव एवम्भूतनये इति 'भेदसम्बन्धेन' इत्यस्याऽनुपादानालाघवं स्फुटमेवेति । खमतरहस्यं प्रकटयति-तस्मादिति । 'नीलघटः इत्यादौ' इत्यस्य 'अनन्वय एवं' इत्यनेन सम्बन्धः। अनन्वय इत्यत्र हेतुमाह- नीलीभवनादिति । ननु नीलशब्दो नीलगुणवाची, घटशब्दस्तु द्रव्यवाचीति नात्र क्रियाद्वयमत्र यदसमावेशादनन्वयः स्यादित्यत आह-गुणादिवाचिन इतिआदिपदाद् द्रव्य-जात्यादिवाचकशब्दपरिग्रहः । एतन्नये एवम्भूतनये। यदि तत्र शब्दबोधो न भवति तर्हि तत्रानुभूयमानो बोधः किंखरूप इत्याकाङ्क्षायामाह-नील
Page #263
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ।
पदोपस्थित्यनन्तरं तत्संसर्गबोधश्च मानसोत्प्रेक्षामात्रम्, तथैव च सर्वो व्यवहारः, यदि च 'नीलो घट:' इत्यादेरखण्डनीलघटादिवाक्यार्थबोधः शाब्द एवानुभवसिद्धस्तदा वाक्यार्थस्याखण्डत्वादखण्डवस्तुबोधाय वाक्ये लक्षणैव स्वीकर्तव्या, यथा वेदान्तिनां 'सोऽयं देवदत्त' इत्यादौ 'तत्त्वमसि' इत्यादौ च सा च न शक्यसम्बन्धरूपा पदद्वयात्मक वाक्यशक्ययोः सम्बन्धानभ्युपगमात् किन्तु तात्पर्यानुपपत्ति
२०२
"
घटादीति । तत्संसर्गबोधश्च नीलघटादिसंसर्गबोधश्च । तयैव च मानसोत्प्रेक्षयैव पुनः । यदि पदार्थद्वयान्वयबोधो न शाब्दबोधः, किन्त्वखण्डवाक्यार्थबोधस्वरूपः शाब्दबोधो वाक्यार्थस्य नीलघटादिरूपस्याखण्डस्य स्वीकारात् तर्हि तादृशशाब्दबोध एवम्भूतनयानुमत एवेत्याह-यदि चेति । इत्यादेः इत्यादिवाक्यात् । अखण्डेति - अखण्डो यो नीलघटादिर्न तु नीलाऽभिन्नघटादिरित्येवं सखण्डः स एव वाक्यार्थस्तस्य बोध इत्यर्थः । नीलपदस्य नीले घटपदस्य घटे च शक्तिः, नीलघटादिलक्षणार्थे तु न कस्यापि शक्तिरतस्तस्य कथं बोध: ? इत्यपेक्षायामाह — वाक्यार्थस्येति । वाक्यस्य लक्षणा न कुत्रापि दृष्टेत्यदृष्टचरीयं कल्पनेत्यत आह-यथा वेदान्तिनामिति - 'सोऽयं देवदत्तः' इति वाक्यस्याखण्डदेवदत्तव्यक्तौ लक्षणेति ततोऽखण्डदेवदत्तव्यक्तिबोधः, पूर्वकालवृत्तित्वविशिष्टस्यैतत्कालवृत्तित्वविशिष्टेन सह तादात्म्यान्वयाऽसम्भवादित्थं तत्र कल्पना, 'तत् त्वमसि' इत्यत्र मायावच्छिन्नचैतन्यलक्षणतत्पदार्थस्याऽन्तःकरणावच्छिन्नचैतन्यलक्षणत्वं पदार्थस्य चाभेदान्वयाऽसम्भवात् ‘तत् त्वमसि' इति वाक्यस्यैव शुद्धचैतन्यलक्षणब्रह्मणि लक्षणा, तया च शुद्धचैतन्यरूपाऽखण्डवाक्यार्थबोध इति । लक्षणा च शक्यसम्बन्धरूपा नैयायिकादिभिरुपगता, सा च तन्मते वाक्यस्य शक्तेरभावान्न भवति, वेदान्तिमते तु सा किंवरूपोपेयेत्यपेक्षायामाह-सा चेति - लक्षणा पुनरित्यर्थः । पदद्वयेति-तत्-त्वम्पदद्वयात्मकवाक्यशक्ययोर्मायावच्छिन्न चैतन्याऽन्तःकरणावच्छिन्न चैतन्ययोर्लक्ष्यतयाsभिमतेन शुद्धचैतन्यात्मकब्रह्मणा समं सम्बन्धानभ्युपगमात्, तस्य सर्वाऽसङ्गतयैव स्वीकारात् । तर्हि किंस्वरूपा सेति पृच्छति - किन्त्विति । उत्तरयति - तात्पर्येति । यैश्च वर्णस्फोट - पदस्फोट - वाक्यस्फोटभेदेन स्फोटस्य त्रैविध्यमुररीक्रियते तन्मते पदद्वयात्मकवाक्यतो वाक्यस्फोटोऽभिव्यज्यते, तस्याऽखण्डस्याऽखण्डे ब्रह्मणि शक्तेः
Page #264
--------------------------------------------------------------------------
________________
२०३
तत्त्वबोधिनीविवृतिविभूषितम् सध्रीचीनाऽखण्डवस्तुविषयकशाब्दबोधजनकशक्तिविशेषस्वभावा, वाक्यस्फोटाभ्युपगमे तु तत एवाभिव्यक्ताऽखण्डादखण्डवस्तुबोधो नानुपपन्न इति रहस्यम् ॥
अनेकान्ततत्त्वव्यवस्थायां सप्तनयविचारः सम्पूर्णः । समर्थिता इति श्रीमद्यशोविजयवाचकैः ॥ श्रीसिद्धान्तानुसारेण नयाः शब्दादयस्त्रयः ॥ १॥
एते च नयाः प्रत्यक्षादिस्थलेऽजहद् वृत्त्यैकोपयोगरूपतया सापेक्षाः प्रमाणतामास्कन्दन्ति, शब्दस्थले च साकाङ्कखण्डवाक्यजसप्तभङ्गयात्मकमहावाक्यरूपाः प्रमाणम् , न निरपेक्षाः, तदुक्तं सम्मतौ
www
सम्भवेनाऽखण्डस्वरूपाद् वाक्यस्फोटाच्छक्तिसहकृतादखण्डबोधो वेदान्तिनामिवैवम्भूतनयवादिनोऽपि नाऽनुपपन्न इत्याह-वाक्यस्फोटाभ्युपगमे त्विति ॥
लावण्यसूरिणा सप्तनयानां तु विचारणे ।
व्याख्या पल्लविता भूयादानन्दाय सुमेधसाम् ॥ १॥ इत्थं शब्दसमभिरूदैवम्भूतनयत्रयसमर्थनं पद्येनोपसंहरति-समर्थितेति-श्रीमद्यशोविजयवाचकैः श्रीसिद्धान्तानुसारेण शब्दादयस्त्रयो नया इति समर्थिता इत्यन्वयः । अत्र इतिशब्द एवमित्यर्थे । एवम्भूतविचारव्याख्यासमाप्तौ सप्तनयनविचारव्याख्या समाप्ता ॥
अथ नयस्य नयान्तरसापेक्षत्वे प्रमाणतासमर्थनव्याख्या-सापेक्षाणां नयानां प्रमाणतां समर्थयति-एते चेति-अनन्तरगुणदर्शिताश्चेत्यर्थः । 'प्रत्यक्षादि' इत्यादिपदादनुमानाद्युपग्रहः, । साकाङ्केति—साकाङ्क्षाणि यानि खण्डवाक्यानि प्रत्येकभङ्गस्वरूपाणि तद्धटितत्वात् तजन्या या सप्तभङ्गी तदात्मकं यन्महावाक्यं तद्रूपास्तदात्मकाः सन्तो नयाः प्रमाणं भवन्तीत्यर्थः, नयात्मकज्ञानजनकत्वाद् वाक्यस्य नयत्वोपचारः। न निरपेक्षा प्रत्यक्षादिस्थले शब्दस्थले च परस्परनिरपेक्षा नया न प्रमाणमित्यर्थः।
Page #265
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ।
"जे वयणिज्जवियप्पा, संजुज्जंतेसु होंति एएसु । सा ससमयपण्णवणा तित्थयराssसायणा अण्णा ।। " [ सम्मतितर्फे का० १, गाथा - ५३ ]
ये वचनीयस्य अभिधेयस्य विकल्पाः तत्प्रतिपादका अभिधानभेदाः, संयुज्यमानयोः - अन्योऽन्यसम्बद्धयोर्भवन्ति, अनयोः - द्रव्यास्तिक-पर्यायास्तिकनयवाक्ययोः, ते च 'कथञ्चिन्नित्य आत्मा, कथचिदनित्य' इत्येवमादयः, सा - एषा, स्वसमयस्य - तत्त्वार्थस्य, प्रज्ञापना - निदर्शना, अन्या - निरपेक्षनयप्ररूपणा, तीर्थकरस्य; आशातना - अधिक्षेपः, तत्प्ररूपणोत्तीर्णत्वात्, उत्सर्गतः स्याद्वाददेशनाया एव तीर्थकरेण विहितत्वाद् "विभज्जवायं च वियागरिज्जा" इत्याद्यागमवचनोपलम्भात् ॥
www
२०४
www
पुरुषविशेषमपेक्ष्यापवादतस्त्वेकनयदेशनायामपि न दोषः, तदाह
सम्मतौ
wwwwww
" पुरिसज्जायं तु पडुच्च, जाणओ पन्नवेज्ज अन्नयरं ॥ परिकम्मणाणिमित्तं, ठाएहि सो विसेसं पि ॥
[ सम्मतितर्क का० १, गाथा - ५४ ]
उक्तार्थे सम्मतिसंवादमाह - तदुक्तमिति । जे वयणिज्ज० इति - "ये वचनीयविकल्पाः संयुज्यमानयोर्भवन्त्यनयोः । सा स्वसमयप्रज्ञापना तीर्थकरासातनाऽन्या ॥ इति संस्कृतम् । विवृणोति - य इति । कीदृशास्ते अभिधेयप्रतिपादका अभिधानमेदा इत्यपेक्षायामाह - ते चेति - विकल्पाश्चेत्यर्थः, तत्प्ररूपणोत्तीर्णत्वात् तीर्थकरकर्तृकतत्त्वप्ररूपणा बहिर्भूतत्वात् । स्याद्वाददेशनाया एवोसर्गतस्तीर्थ करविहितत्वे आगमवचनं प्रमाणयति विभजवायं च० इति - 'विभज्यवादं च व्याकुर्याद् इति संस्कृतम्। ‘उत्सर्गतः' इत्युक्त्या अपवादतः पुरुषविशेषमुद्दिश्यैकन यदेशनाऽपि न दोषावहेति सूचितम्, तत् स्पष्टयति - पुरुषविशेषमपेक्ष्येति ॥
Page #266
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम्
२०५
पुरुषजातम् - प्रतिपन्नद्रव्य - पर्यायान्यतरस्वरूपं श्रोतारम्, प्रतीत्यआश्रित्य, ज्ञकः - स्याद्वादविद्, प्रज्ञापयेत्, अन्यतरत् - अज्ञातम्, परिकर्मनिमित्तम् अज्ञातांशसंस्कारपाटवार्थम्, ततः परिकर्मितमतये स्थापयिष्यत्यसौ स्याद्वादविशेषमपि परस्पराऽविनिर्भागरूपम्, ततश्चेयमेकनयदेशनाऽपि भावतः स्याद्वाददेशनैवेति फलितम् ॥
अतः स्याद्वाददेशनाया एव परिणतजिनप्रवचनानामभ्यर्हितत्वात्
www.
अत्रापि सम्मतिसंवादमाह तदाहेति । पुरिस० इति – “पुरुषजातं तु प्रतीत्य ज्ञायकः प्रज्ञापयेदन्यतरत् । परिकर्मणानिमित्तं स्थापयिष्यति स विशेषमपि” इति संस्कृतम्। विवृणोति–पुरुषजातमिति । प्रतिपन्नेति - ज्ञातेत्यर्थः । अन्यतरत्अज्ञातमिति - यः पुरुषो द्रव्यखरूपं जानाति न पर्यायस्वरूपं तं प्रति स्याद्वादज्ञः पर्यायखरूपं प्रतिपादयेत्, यश्च पुरुषः पर्यायस्वरूपं जानाति द्रव्यस्वरूपं नावगच्छति तं प्रति स्याद्वादशः द्रव्यस्वरूपं प्रज्ञापयेदित्यर्थः । किमर्थमन्यतरदेव प्रज्ञापयेदित्याकाङ्क्षोपशान्तये त्वाह- परिकर्मनिमित्तमिति - एतद्विवरणम् - अज्ञातांशसंस्कारपाटवार्थमिति - वस्तुनो द्रव्य-पर्यायोभयात्मकत्वेन द्रव्यं पर्यायश्च प्रत्येकं तदंशो भवति, तत्र द्रव्यमेव यो जानाति तं प्रत्यज्ञातोंऽशः पर्याय एव यश्व पर्यायमेव जानाति तं प्रत्यज्ञातो वस्त्वंशो द्रव्यमेव, ततश्चाज्ञातस्य पर्यायांशस्य संस्कारपाटवार्थम्, एवमज्ञातस्य द्रव्यांशस्य संस्कारपाटवार्थमित्यर्थः । इत्थं च प्रज्ञाप्यः श्रोता यदांशद्वयज्ञाता सम्पन्नस्तदा तं प्रति स्याद्वादविशेषमपि स्थापयितुं प्रभुः स्याद्वादज्ञ इत्याशयेनाह - तत इति - तदनन्तरमित्यर्थः । असौ स्याद्वादज्ञः । स्याद्वादविशेषः खरूपोपदर्शनायाह- परस्पराऽविनिर्भागरूपमिति - द्रव्यांशाविभक्तं पर्यायस्वरूपं पर्यायांशाविभक्तं द्रव्यस्वरूपमित्यर्थः । एवं सति यत् फलितं तद् दर्शयतिततश्चेति । भावत इति - यद्यप्येकनयदेशनात एकनयविषयीभूतार्थस्यैवामुखे प्रतीतिः तथापि वान्यनय- विषयीकृतार्थेन सह स्वविषयीकृतार्थस्याविभागवर्तित्वलक्षणान्योऽन्यसम्मिश्रणतोऽनेकान्तात्मकस्याद्वादार्थावगतिरुपजायत इत्येवं भावत इत्यर्थः ।
अत इति-यत एकनयदेशनाऽपि स्याद्वाददेशना स्वरूपैव परिकर्मितमतिं प्रति एतस्मादेव कारणादित्यर्थः । परिणतेति - स्वाभिप्रेतानेकान्तवस्तुतत्त्वावबोधकत्वेन,
Page #267
--------------------------------------------------------------------------
________________
२०६ अनेकान्तव्यवस्थाप्रकरणम् । तद्वाक्यं सप्तभङ्ग्यात्मकमुपदर्यते-स्यादस्त्येव घटः १, स्यान्नास्त्येव २, स्यादवक्तव्य एव ३, स्यादस्त्येव स्यान्नास्त्येव ४, स्यादस्त्येव स्यादवक्तव्य एव ५, स्यान्नास्त्येव स्यादवक्तव्य एव ६, स्यादस्येव स्यानास्त्येव स्यादवक्तव्य एव ७ चेति । तत्राऽसत्त्वोपसर्जनसत्त्वविवक्षायां प्रथमो भङ्गः १, सत्त्वोपसर्जनाऽसत्त्वविवक्षायां द्वितीयः २, युगपदुभयविवक्षायां तृतीयः ३, द्वयोर्धर्मयोः प्राधान्येन गुणभावेन वा प्रतिपादने कस्यापि वचसः सामर्थ्याभावात् , तथाहि-न
परिनिष्ठां गतं जिनप्रवचनं येषु ते परिणतजिनप्रवचनास्तेषां परिणतजिनप्रवचनानाम् , परिकर्मितमतीनां श्रोतृणां स्याद्वाददेशनाया एव स्वाभिमतानेकान्ततत्त्वावबोधसाधनत्वेन, अभ्यर्हितत्वाद् उपादेयत्वात्, तद्वाक्यं स्याद्वाददेशनात्मकं वाक्यं सप्तभङ्ग्यात्मकम् , उपदर्यते प्रतिपाद्यत इत्यर्थः । स्यादस्त्येव घट इतिकथञ्चिदस्तित्वप्रकारकघटविशेष्यकबोधजनकः प्रथमो भङ्ग इत्यर्थः। 'स्यान्नास्त्येव' इत्यत्राऽपि विशेष्यवाचकं घटपदमनुवर्तते, एवमग्रिमभङ्गेष्वपि, तथा च कथञ्चिन्नास्तित्वप्रकारकघटविशेष्यकबोधजनको द्वितीयो भङ्गः, एवं तृतीयादिभङ्गेष्वपि बोधप्रकाराः समवसेयाः । तत्र तेषु सप्तसु भङ्गेषु मध्ये। असत्त्वेति-असत्त्वमुपसर्जनीकृत्य प्राधान्येन सत्त्वविवक्षायां 'स्यादस्त्येव घटः' इति प्रथमो भङ्ग उपतिष्ठत इत्यर्थः । सत्त्वेति- सत्त्वमुपसर्जनीकृत्य प्राधान्येनाऽसत्त्वविवक्षायां 'स्यान्नास्त्येव घटः' इति द्वितीयो भङ्गः प्रवर्तत इत्यर्थः । युगपदिति- योगपद्येन सत्त्वा-ऽसत्त्वोभयविवक्षायां विवक्षितोभयधर्मप्रतिपादकस्य कस्यचिदपि समासवाक्यस्य व्यासवाक्यस्य वाऽभावात् 'स्यादवक्तव्य एव घटः' इति तृतीयभङ्गोऽवतरतीत्यर्थः । तृतीयभङ्गस्यैवोपपादनायाह-द्वयोरिति । युगपद्विवक्षितसत्त्वा-ऽसत्त्वोभयधर्मप्रतिपादने न कस्यापि वचनस्य सामर्थ्यमित्येव भावयति-तथाहीति । तत्र समासवचनस्योभयधर्मप्रतिपादनसाम
•भावमावेदयति-न तावदिति। तत्प्रतिपादकं युगपत्सत्त्वा-ऽसत्त्वोभयधर्मप्रतिपादकम् । प्रत्येकं सर्वसमासानां तत्प्रतिपादकत्वाभावे सिद्धे सति समाससामान्यस्यापि तत्प्रतिपादकत्वाऽभावोऽर्थात् सिद्ध्यत्येव, यावद्विशेषातिरिक्तसामान्याभावादिति यावन्तः समासविशेषास्तेषां प्रत्येकं युगपद्विवक्षितसत्त्वा-ऽसत्त्वोभयप्रतिपादकत्वाऽभावोपपादनादृतप्रयत्नो ग्रन्थकार आदौ बहुव्रीहेरन्यपदार्थप्रधानत्वेन युगपद्विवक्षितो
Page #268
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् २०७ तावत् समासवचनं तत्प्रतिपादक, समासषट्के बहुव्रीहेरन्यपदार्थप्रधानत्वात् , प्रकृते चोभयप्राधान्यविवक्षणात् , अव्ययीभावस्य चात्रार्थेऽप्रवृत्तेः, द्वन्द्वस्य चोभयपदप्राधान्येऽपि द्रव्यवृत्तेः प्रकृतार्थाऽप्रतिपादकत्वाद् , गुणवृत्तेरपि द्रव्याश्रितगुणप्रतिपादकत्वात् , द्रव्यमन्तरेण गुणानां तिष्ठतीत्यादिक्रियाधारत्वासम्भवात् , तस्या द्रव्याश्रितत्वाद्, एवं च प्रधानभूतयोर्गुणयोरप्रतिपत्तेः, तत्पुरुषस्याप्युत्तरपदार्थप्रधान
भयधर्मप्रतिपादकत्वाभावमावेदयति-समासषव इति, प्रकृतेच सत्त्वा-ऽसत्त्वोभयप्रतिपादकतृतीयभङ्गे च । अव्ययीभावसमासस्त्वव्ययेनैव समं पदान्तरस्य भवति, तस्य नैतादृशार्थप्रतिपादकत्वमित्येतावतैव नोक्तोभयप्रतिपादकोऽव्ययीभाव इत्याहअव्ययीभावस्य चेति । द्वन्द्वसमासस्यापि न युगपद्विवक्षितोभयधर्मप्रतिपादकत्वमित्याह-द्वन्द्वस्य चेति । द्रव्यवृत्तेः द्रव्यप्रतिपादकस्य तस्य। प्रकृतेति-प्रकृतोऽर्थः सत्त्वादिर्गुणरूपः, न द्रव्यरूपः, तस्याप्रतिपादकत्वादित्यर्थः । ननु गुणवृत्तिरपि द्वन्द्वसमासो भवति, स एव गुणस्वरूपस्य सत्त्वा-ऽसत्त्वोभयस्य प्रतिपादको भविष्यतीत्यत आह-गुणवृत्तेरपीति-द्रव्याश्रितगुणप्रतिपादने च द्रव्यस्य प्राधान्यं न गुणस्य, प्रकृते तु गुणस्य प्राधान्येन प्रतिपादनमभिलषितमतो न गुणवृत्तेवृत्तेरपि द्वन्द्वस्य युगपत्सत्त्वा-ऽसत्त्वोभयप्रतिपादकत्वमित्याशयः । गुणवृत्तिद्वन्द्वस्य कथं द्रव्याश्रितगुणप्रतिपादकत्वमेवेत्यपेक्षायामाह-द्रव्यमन्तरेणेति-क्रियान्वयमन्तरेणैव गुणप्रतिपादको द्वन्द्वो युगपत्तदुभयप्रतिपादको भविष्यतीति तु न शङ्कयं 'सर्वं हि वा वाक्यं क्रियायां परिसमाप्यते' इति वचनाद् वाक्यमात्रस्य क्रियावाचकपदघटिततयाँ क्रियान्वयस्यावश्यकत्वात् । ननु गुणानामपि द्रव्यमन्तरेणापि क्रियाधारत्वमस्त्वित्यत आह-तस्या इति-क्रियाया इत्यर्थः । तथा च द्वन्द्वेन प्रधानभूतसत्त्वाऽसत्त्वात्मकगुणद्वयप्रतिपत्तिर्न सम्भवतीति न द्वन्द्वस्य तत्प्रतिपादकत्वसम्भव इत्युपसंहरति-एवं चेति । प्रकृते उभयस्य प्राधान्यं विवक्षितं तत्पुरुष तूत्तरपदार्थस्यैव प्राधान्यमतो न तत्पुरुषोऽपि युगपत्सत्त्वाऽ-सत्त्वोभयप्रतिपादक इत्याह-तत्पुरुषस्याऽपीति । द्विगोरपि नोक्तप्रतिपादकत्वमित्याह-द्विगोरिति । गुणाधारद्रव्यविषयत्वेन पदार्थद्वयाभेदबोधकस्य कर्मधारयस्यापि न युगपत्सत्त्वा-ऽसत्त्वोभयप्रतिपादकत्वमित्याह
Page #269
--------------------------------------------------------------------------
________________
२०८
अनेकान्तव्यवस्थाप्रकरणम् ।
त्वाद् द्विगोः संख्याकाचिपूर्वपदत्वात् , कर्मधारयस्यापि गुणाधारद्रव्यविषयत्वात्, न च समासान्तरसद्भावः, येन युगपद् गुणद्वयं प्रधानभावेन समासपदवाच्यं स्यात् । अथ द्रव्यान्वयव्यवधानेन क्रियान्वयित्वरूपप्राधान्यं प्रथम-द्वितीयभङ्योरतिप्रसक्तम् , उत्कटताऽपर्यविषयत्वरूपप्राधान्यग्रहणे च प्रकृते द्वन्द्व-कर्मधारययोरपि प्राधान्येन गुणद्वयवाचकतायां न क्षतिरिति चेत् ? न-द्वन्द्वे द्विवचनाद् भेदोपस्थितौ निरवयवप्रतीतिव्याघातः, कर्मधारये च विशेष्यतयाऽभ्यर्हि
कर्मधारयस्याऽपीति । ननूक्तसमासादन्य एव कश्चित् समास एतदुभयप्रतिपादक भविष्यतीत्यत आह-न चेति-उक्तषधिसमासाद् भिन्नः समासो नास्त्येवेत्यर्थः । येन समासान्तरवाच्यत्वेन । अथेति-ननु सत्त्वा-ऽसत्त्वयोः प्राधान्यं किमत्राऽभिमतमायुष्मतः? यदि द्रव्यान्वयव्यवधानेन क्रियान्वयित्वं तदा प्रथम-द्वितीयभङ्गयोरपि द्रव्यान्वयव्यवधानेन क्रियान्वयित्वस्य सत्त्वा-ऽसत्त्वयोः सत्त्वात् तावुभौ प्राधान्येन तदुभयप्रतिपादको स्यातामित्यतिप्रसङ्गः यद्यपि प्रथमभङ्गे सत्त्वस्यैवोल्लेखस्तथाऽप्युपसर्जनतयाऽसत्त्वस्यापि द्रव्ये प्रतिभासनं समस्तीति द्रव्यद्वाराऽसत्त्वस्यापि क्रियान्वयित्वम्, न च प्रथमभङ्गेऽसत्त्वस्य प्राधान्यमभिप्रेतमित्यतिप्रसङ्गः, एवमेव द्वितीयभङ्गेऽपि द्रव्ये सत्त्वस्याप्युपसर्जनभावेन प्रतिभासनमिति द्रव्यान्वयव्यवधानेन क्रियान्वयित्वं तस्यापीत्येवमतिप्रसङ्गो ज्ञेयः उत्कटतात्पर्यविषयत्वलक्षणं यदि प्राधान्यं तदाऽस्तित्वनास्तित्ववाचकपदद्वयद्वन्द्वसमासे कर्मधारये चाऽस्तित्व-नास्तित्वगुणविशिष्टद्रव्यवाचकपदद्वयस्य कृते उत्कटतात्पर्यविषयत्वमस्त्येवास्तित्व-नास्तित्वयोरिति प्राधान्येनास्तित्व-नास्तित्वबोधकद्वन्द्व-कर्मधारयसमासवक्तव्यत्वमेव युगपदस्तित्व-नास्तित्वयोरिति न तृतीयभङ्गसम्भव इत्याह-उत्कटतात्पयविषयत्वरूपप्राधान्यग्रहण इति। द्वन्द्वसमासश्च द्विवचनान्तो भवति, द्विवचनोपस्थितद्वित्वं च पदार्थयोरन्वेतीति ततः पदार्थद्वयभेदप्रतीतेरवश्यम्भावेन न निरवयवप्रतीतिसम्भवः, विवक्षितयुगपदस्तित्व-नास्तित्वोभयं चाखण्डमेवाभिमतमित्यभिमतप्रतीतेरभावन्न द्वन्द्वसमासोऽभिमतविवक्षितगुणद्वयवाचकः, उत्कटतात्पर्यविषयत्वमेव प्राधान्यमनुमतम् , कर्मधारये च द्रव्यस्यैव विशेष्यतयाऽभ्यर्हितत्वे नोत्कटतात्पर्यविषयत्वम् , न तु गुणस्येति नाभिमतप्राधान्ययोगिगुणद्वयवाचकत्वं कर्मधारयस्येति समाधत्ते-नेति । एतावता समासषट्कस्य न युगपदस्तित्व-नास्ति
Page #270
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम्
२०९
तत्वेन द्रव्य एवोत्कटतात्पर्यमित्याशयात् । अत एव न वाक्यमपि तथाभूतगुणद्वयप्रतिपादकं सम्भवति, तस्य वृत्त्यसम्भन्नार्थत्वात्, न च केवलं पदं वाक्यं वा लोकप्रसिद्धम्, तस्यापि परस्परापेक्षद्रव्यादिविषयतया तथाभूतार्थप्रतिपादकत्वायोगात् न च ' तौ सत्' इति शतृशानश्वयोरिव साङ्केतिकपदवाच्यत्वम्, विकल्पप्रभवशब्दवाच्यत्वप्रसक्तेः, विकल्पानां च युगपदप्रवृत्तेर्नैकदा तयोस्तद्वाच्यतासम्भवः,
"
त्वोभयवाचकत्वमिति व्यवस्थितम्, व्यासवाक्यस्यापि समासासम्भिन्नार्थकत्वेन समासस्य युगपदस्तित्वनास्तित्वोभयावाचकत्वे तस्यापि तदवाचकत्वमेवेत्याह-अत एवेति । समासस्य युगपदस्तित्व - नास्तित्वोभयावाचकत्वादेवेत्यर्थः । तथाभूतेतियुगपद्विवक्षितेत्यर्थः । तस्य वाक्यस्य वृत्त्यसम्भिन्नार्थत्वात् । समाससमानार्थकत्वात्, समासस्य तथाभूतगुणद्वयप्रतिपादकत्वाभावे व्यासवाक्यस्यापि तत्समानार्थकस्य तथाभूतगुणद्वयप्रतिपादकत्वाभावादिति यावत् । न च इत्यस्य 'लोकप्रसिद्धम्' इत्यनेनान्वयः । तस्यापि केवलपदस्य केवलवाक्यस्यापि च । तथाभूतार्थेतियुगपद्विवक्षितास्तित्व-नास्तित्वोभयार्थेत्यर्थः । ननु शतृशानचोः सङ्कोतितेन सत्पदेन शतृशान चोरुभयोरपि यथा प्रतीतिः, तथाऽस्तित्व - नास्तित्वयोरपि एकं सत्पदं सङ्केतितम्, सङ्केतोऽपि तस्य 'तौ सत्' इत्येवंरूपः तथा च सङ्केतिकस्य सत्पदस्या - न्यपदस्य नोभयत्र सङ्केतितस्य तदुभयवाचकत्वं स्यादित्याशङ्क्य प्रतिक्षिपति न चेति । लोके शास्त्रं चाऽस्तित्व - नास्तित्वोभयस्मिन्न वृद्धपरम्परासङ्केतितः प्रवर्तमानः कोऽपि शब्दः समस्ति, किन्तु विकल्पत एव कश्चिच्छब्दस्तत्र परिभाषितः स्यात् तथा च सति विकल्पशब्दवाच्यत्वं तदुभयस्य कल्प्येत, न चेयं कल्पना सम्भवदर्थिका, यतो विकल्पस्य यद्विषयकत्वं तत्प्रभवशब्दस्य तद्वाचकत्वमेव, विकल्पस्य चैकैकस्य प्राधान्येनैकैकास्तित्वादिविषयकत्वमेवेत्यतस्तत्प्रभवशब्दस्याप्येकैकस्यैवा स्तित्वादेः प्राधान्येन वाचकत्वमिति न साङ्केतिकपदवाच्यत्वमपि युगपदस्तित्वना स्तित्वोभयस्येति निषेधहेतुमुपदर्शयति-विकल्पप्रभवेति । युगपदप्रवृत्तेः, युगपदस्तित्व-नास्तित्वोभयविषयकत्वेनाप्रवृत्तेः । तयोः अस्तित्व - नास्तित्वयोः । तद्वाच्यतासम्भवः साङ्केतिकपदवाच्यतासम्भवः । नन्वस्तित्व - नास्तित्वोभयविषयकोऽपि समूहालम्बनात्मक एको विकल्पः समस्त्येवेति तत्प्रभवशब्दस्य तदुभयवाचकस्य सम्भवतस्तद्वाअ. व्य. १४
Page #271
--------------------------------------------------------------------------
________________
२१०
अनेकान्तव्यवस्थाप्रकरणम् । न च समूहालम्बनविकल्पमादाय नायं दोषः, तादृशविकल्पप्रभवपदानां बुद्धिविशेषविषयतावच्छेदकत्वोपलक्षितनानाशक्यतावच्छेदकत्वेन परमार्थतो नानार्थस्थानीयत्वात् , तेभ्यः प्रकरणादिनियन्त्रितप्रतिनियतैकार्थबोधस्यैवैकदा सम्भवात् । न च, येषां वैकल्पिकपदानां मिलितोभयबोधकस्वाभाव्यं तान्यादाय नावाच्यत्वमिति वाच्यम् , सदसदुभयसाङ्केतिकपदस्य पुष्पदन्तादिवद् द्वित्वविश्रान्तत्वेनैकत्वावच्छिन्ने द्वित्वावच्छिन्नान्वयस्य निराकाङ्क्षत्वादेवावाच्यत्वसिद्धेः, अत एव वस्त्वादिपदानि जैनैः सदसदुभयात्मकैकजात्यन्तरे सङ्केत्यन्ते, न तु
च्यत्वं तदुभयस्य स्यादित्याशङ्कां प्रतिक्षिपति-न चेति । 'नानाशक्यतावच्छेदक' इत्यत्र बहुव्रीहिः यथा नानार्थकतत्पदादितो न युगपदेव नानार्थस्य बोधः, किन्तु यस्यार्थस्य प्रतिनियतार्थबोधकप्रकरणादिकं तस्यैव बोधः, तथा प्रकृतेऽपि अस्तित्वादेर्यस्यैव प्रकरणादिकं तस्यैव बोध एकदा भवेदित्याह-तेभ्य इति-नानार्थस्थानीयपदेभ्य इत्यर्थः । 'न च' इत्यस्य 'वाच्यम्' इत्यनेनान्वयः, । तान्यादाय मिलितो. भयबोधकस्वभाववैकल्पिकपदान्यादाय । 'नावाच्यत्वम्' इत्यत्र निषेधद्वयाद् वाच्यत्वमिवेत्यर्थः, यथा पुष्पदन्तपदम् “एकयोक्त्या पुष्पदन्तौ दिवाकर निशाकरौं" इति वचनाचन्द्र-सूर्योभयत्वावच्छिन्नस्यैव वाचकमिति तदर्थस्य चन्द्र-सूर्यगतद्वित्वावच्छिन्नस्य न प्रत्येकमेकत्वावच्छिन्ने चन्द्रे सूर्ये चान्वयः, तथैव सदसदुभयसाङ्केतिकपदवाच्यस्य सदसदुभयत्वावच्छिन्नस्य न कस्मिंश्चिदेकत्वावच्छिन्ने निराकाङ्क्षत्वादन्वयः, तथोच्यमानमपि न केनचिंदन्वेतीत्यपार्थकमेव तद्वचनम् , शाब्दबोधार्थमेव तत्तदर्थवाचकपदस्याश्रयणात् प्रकृतेऽन्वयबोधलक्षणशाब्दबोधाभावेन फलाभावान वाच्यत्वं कस्यचिदपीत्यर्थः, यत एव द्वित्वावच्छिन्नस्य निराकाङ्क्षत्वान्न कस्मिंश्चिदप्येकत्वावच्छिन्नेऽन्वयस्तत एव सदसदुभयात्मकत्वेन जात्यन्तरमेकमेव वस्तु शब्दवाच्यमभ्युपगच्छन्ति जैनाः, तस्य पदार्थान्तरान्वयसम्भवेन साकाङ्क्षतयाऽन्वयबोधविषयत्वतस्तद्वाचकशब्दस्य शाब्दबोधार्थमुपादानसम्भवादित्याह-अत एवेति । 'न तु सदसतोः' इत्यत्रानुकर्षेण 'वस्त्वादिपदानि सङ्केत्यन्ते' इत्यस्य सम्बन्धः । यादृशमवक्तव्यत्वमस्मदभिमतं तादृशस्य तस्य सत्त्वासत्त्वोभयस्मिन् कस्यचित् साङ्के
Page #272
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् २११ सदसतोरित्यवधेयम् । वस्तुत एकपदजनितप्रातिखिकधर्मद्वयावच्छिन्नविशेष्यताकशाब्दबोधाविषयत्वेनावक्तव्यत्वं प्रकृतेऽव्याहतम्, अत एव कर्मधारयाख्यं सामासिकमेकपदमादायापि न दोषः, तज्जम्यबोधे उभयनिरूपितैकविशेष्यताभ्युपगमेन यथोक्ताऽवाच्यत्वाक्षतेरिति दिक् ।
ननु च घटशब्दप्रवृत्तिनिमित्ते विधिरूपेऽसम्बद्ध एव तत्र पटा
तितपदस्य वाच्यत्वेऽपि सम्भवोऽस्त्येवेत्याह-वस्तुत इति-सदसदुभयत्वावच्छिन्ने कस्यचित् पदस्य सङ्केतकरणे तद्रूपेणैव तस्य बोधो न प्रत्येकरूपेणेत्येकपदजनितप्रातिस्विकधर्मद्वयावच्छिन्नविशेष्यताकबोधो न ततो भवेत् किन्तूभयत्वेनैव रूपेणोक्तधर्मद्वयस्यावच्छेदकत्वं समाश्रित्य तदवच्छिन्नविशेष्यताकबोध इति प्रत्येकधर्मद्वयावच्छिन्नविशेष्यताकशाब्दबोधाविषयत्वेनावक्तव्यत्वं स्यादेवेत्यर्थः । अत एवेति-यत एवोक्तदिशाऽवक्तव्यत्वमव्याहतमेतस्मादेव हेतोरित्यर्थः । कर्मधारयाख्यमिति-यद्यपि कर्मधारयसमासघटकक्लप्तशक्तिकपदद्वयादेवाऽऽकालाबलात् पदार्थद्वयाऽमेदान्वयविषयकशाब्दबोधस्योपपन्नत्वेन समासस्य शक्त्यभ्युपगमे मानाऽभावाच्छक्तत्वलक्षणपदत्वं न कर्मधारय इति, तथाऽपि समासस्य वृत्तिमत्व एवार्थवत्त्वेन प्रातिपदिकत्वसंज्ञकत्वेन विभक्तिप्रकृतित्वमिति भवति कर्मधारयाख्यं सामासिकमेकपदमित्यभिसन्धिः । न दोषः तद्वाच्यत्वेन वक्तव्यत्वतोऽवक्तव्यत्वक्षतिलक्षणो दोषो न । तत्र हेतुमाहतजन्यबोध इति-कर्मधारयाख्यसामासिकैकपदजन्ये तदर्थान्विताऽन्यार्थबोधे । उभयेति-कर्मधारयसमासलक्षणपदवाच्येन निरुक्तोभयेन प्रकारीभूतेन निरूपिताया पदान्तरैकार्थनिष्ठविशेष्यता तस्या अभ्युपगमेन, यथोक्तस्य-एकपदजनितप्रातिखिकधर्मद्वयावच्छिन्नविशेष्यताकशाब्दबोधाऽविषयत्वलक्षणस्य, अवक्तव्यत्वस्य, अक्षतेःक्षत्यभावादित्यर्थः । ___ घटे पटाद्यर्थान्तरप्रतिषेध एव नास्तीति तद्रूपस्यासत्त्वस्य घटेऽन्वयस्यासम्भवान द्वितीयभङ्गसम्भव इति शङ्कते-नन्विति । घटशब्दप्रवृत्तिनिमित्त इति-वाच्यत्वे सति वाच्यवृत्तित्वे सति वाच्योपस्थितिप्रकारत्वं प्रवृत्तिनिमित्तत्वम् , तच्च घटशब्दस्य घटत्वं विधिरूपं भवति, यतस्तद् घटपदस्य वाच्यमिति प्रथमसत्यन्तं तत्र विद्यते, घटशब्दवाच्यायां घटव्यक्तौ तस्य वृत्तित्वाद् द्वितीयसत्यन्तमपि तत्र समस्ति, घटशब्देन घटत्वप्रकारकव्यक्तिविशेष्यकोपस्थितिरुपजायते, तत्र घटत्वं प्रकार इति
Page #273
--------------------------------------------------------------------------
________________
२१२ अनेकान्तव्यवस्थाप्रकरणम् । द्यर्थान्तरप्रतिषेध इति चेत् ? न-पटादेतत्राभावाभावे घटशब्दप्रवृत्तिनिमित्तस्य घटत्वस्यैवासिद्धेः, शब्दानां चार्थज्ञापकत्वं न कारकत्वमिति तथाभूतार्थप्रकाशनं तथाभूतेनैव शब्देन विधेयमिति नासम्बद्धस्तत्र पटाद्यर्थप्रतिषेधः, तथापि 'स्वद्रव्यादिना सन्नेव' इत्यत एव
वाच्योपस्थितिप्रकारत्वमपि तत्र समस्ति, न च पटनिषेधरूपस्यासत्त्वस्य प्रवेश इति घटशब्दप्रवृत्तिनिमित्ते विधिरूपे घटत्वेऽसम्बद्ध एव पटाद्यर्थान्तरप्रतिषेध इति तत्प्रतिपादकद्वितीयभङ्गाऽसम्भव इति शङ्कार्थः । घटो यदि पटाद्यात्मना सङ्कीर्णः स्यात् तदा पटाद्यवर्तिनो घटत्वस्य न तत्र वृत्तित्वं भवेत् , अन्यथा पटत्वादेरपि तत्र वृत्तित्वं स्यादिति घटे परादेरभावस्याभावे घटत्वस्य घटपदप्रवृत्तिनिमित्तत्वमेव न स्यात् तादृशघटलक्षणवाच्यवृत्तित्वाभावाद्, अतस्तत्र पटादिनिषेधलक्षणासत्त्वमभ्युपेयमिति 'स्यान्नास्त्येव घटः' इति द्वितीयभङ्गः स्यादेवेति समाधत्ते-नेति । 'पटादेः' इत्यस्य 'अभावाभावे' इत्यत्र प्रथमाभावेऽन्वयः, सप्रतियोगिकाभावप्रतिपादकाभावपदस्य समासाऽघटकीभूतपटादेरित्यान्वितार्थप्रतिपादकत्वेऽपि नित्यसाकाङ्क्षत्वेन न सामर्थ्यहानिः 'सापेक्षमसमर्थवद् भवति' इत्यत्र नित्यसापेक्षभिन्नसापेक्षस्यैवासामऑतिदेशात् , अत एव
"प्रतियोगिपदादन्यद्, यदन्यत् कारकादपि ।
वृत्तिशब्दैकदेशार्थे न तस्यान्वय इष्यते ॥[ ] इति वचनात् प्रतियोगिपदादिभिन्नपदार्थस्यैव समासघटकीभूतपदार्थान्वयप्रतिषेध इति सङ्गच्छते । तत्र घटे । यदा च पटादिनिषेधसंवलित एव घटो विधिरूपः, तदा तत्र विधिविधायकशब्दप्रवृत्तिवद् निषेधविधायकशब्दस्यापि प्रवृत्तिः स्यादेव तत एव विधि-निषेधात्मकार्थावगतिः, यादृशोऽर्थः प्रतिपाद्यस्तस्य तथाभूतार्थप्रतिपादकशब्देनैव प्रकाशनमुचितमिति द्वितीयभङ्गस्य विधिसम्बद्धनिषेधरूपार्थप्रतिपादकस्य युक्तत्वमेवेत्याशयेनाह-शब्दानामिति । तथाभूतेति-विधि-निषेधात्मकेत्यर्थः, एवमग्रेऽपि । यदा यस्यार्थस्य खद्रव्यादिना सत्त्वमवगम्यते येन वाक्येन तजन्यप्रतिबोध एव तदानीं तदन्यरूपेणाऽसत्त्वमपीति प्रतिभासत एव, स्वद्रव्यादिना सत्त्वस्यापरद्रव्यादिनाऽसत्त्वस्य समानसंविसंवेद्यत्वाद् द्वितीयभङ्गार्थस्य प्रथमभङ्गत एवावगमात् तद्भङ्गो न प्रयोक्तव्य एवाऽनर्थकत्वादिति शङ्कते-तथाऽपीति-निषेधस्य सम्भवे
Page #274
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम्
२१३ समानसंवित्संवेद्यतया परद्रव्यादिनाऽसत्त्वलाभसम्भवात् तद्बोधनाय द्वितीयभङ्गप्रयोगोऽनर्थक इति चेत् ? न-समानसंविसंवेद्यताया मानसबोध एव तन्त्रत्वात् , 'शाब्दी ह्याकाङ्क्षा शब्देनैव पूर्यते' इति न्यायात् परद्रव्यादिनाऽसत्त्वं शब्देन बोधयितुं द्वितीयभङ्गोपन्याससार्थक्यात् ॥
अथवा 'सर्व सर्वात्मकम्' इति सांख्यमतव्यवच्छेदार्थमर्थान्तरप्रतिषेधो विधीयते, तत्र तस्य प्रतीत्यभावात् ॥ १ ॥ ऽपीत्यर्थः । तद्वोधनाय परद्रव्यादिनाऽसत्त्वबोधनाय । शाब्दस्य शब्दनियन्त्रितार्थकत्वेन यच्छब्दस्य योऽर्थः स एव तत्र भासते, न तु तत्समानसंवित्संवेद्योऽप्यन्यः, मानसबोध एव च समानसंवित्संवेद्यस्यापि भानम् , मानसबोध एव च समानसंवित्तिसंवेद्यताया अर्थान्तरभाने प्रयोजकत्वमिति समाधत्ते-नेति । तत्रत्वात् प्रयोजकत्वात् शाब्दे शब्दोपस्थितार्थस्यैव भानमित्यत्र न्यायमेव मानतयोपदर्शयति-शाब्दीति हि यतः । शाब्दी शब्दसमुत्थिता । आकाङ्क्षा जिज्ञासा यथा 'द्वारम्' इति कर्मबोधकद्वितीयाविभक्त्यन्तद्वारपदाद् द्वारकर्मत्वबोधे जाते क्रियाकाङ्क्षा-उद्घाटन-पिधानादिक्रियाकाङ्क्षा, शब्देनैव क्रियाबोधकपदेनैव, ‘उद्घाटय, पिधेहि' इत्यादिपदेनैव, पूर्यते जिज्ञासितविषयावबोधनेन निवर्तते, अत एव न तत्र मानान्तरत उपस्थितोद्घाटनादिक्रियान्वयेनाऽर्थाध्याहारावलम्बिप्रभाकरानुयायिसम्मतेन तदाकाङ्क्षानिवृत्तिः, किन्तु पदाध्याहारवादिभट्ट-नैयायिकादिसम्मतपिधेहीत्यादिक्रियापदज्ञान-पुरस्सरतजन्योपस्थितिविषयपिधानाद्यर्थान्वयबोधत एव तदाकाङ्क्षानिवृत्तिः, इत्थं च 'स्यादस्त्येव घटः' इत्याद्यभङ्गेन वद्रव्यादिना घटस्यास्तित्वे बोधिते परद्रव्यादिना घटस्य किमसत्त्वमित्याकाङ्क्षाया समुद्भवति तन्निवृत्तये परद्रव्यादिनाऽसत्त्वबोधकस्य 'स्यान्नास्त्येव घटः' इति द्वितीयभङ्गस्य प्रयोग आवश्यक इत्याह-परद्रव्यादिनेति ।
साङ्ख्यमतखण्डनपरतया द्वितीयभङ्गोपन्यासस्य सार्थक्यं दर्शयति-अथवेति । यद्यपि कण्ठतः 'सर्वं सर्वात्मकम्' इति न साङ्ख्यरुपदर्शितम् , तथापि ‘सत्त्व-रजस्तमसां साम्यावस्था प्रकृतिः' इत्युक्तत्रिगुणात्मकं प्रधानम् , ततः साक्षात् परम्परया प्रभवमात्मभिन्नं सर्वम् , कार्यकारणयोरभेदाच्च सर्व कार्यजातं प्रकृत्यात्मकम् , ततश्च
Page #275
--------------------------------------------------------------------------
________________
२१४
अनेकान्तव्यवस्थाप्रकरणम् ।
यद्वा, नाम-स्थापना-द्रव्य-भावभिन्नेषु विधित्सिता-ऽविधित्सितप्रकारेण प्रथम-द्वितीयौ भङ्गौ।
तत्प्रकाराभ्यां युगपदवाच्यः, तथाभिधेयपरिणामरहितत्वात् तस्य, यतो यद्यविधित्सितरूपेणापि घटः स्यात् प्रतिनियतनामादिभेद
तदभिन्नामिन्नस्य तदमिन्नत्वम्' इति न्यायेनैककार्या-भिन्नप्रकृत्यभिन्नत्वात् कार्यान्तरस्य तत्कार्याभिन्नत्वमित्येवं दिशा सर्वमात्मभिन्नमात्मभिन्नसर्वात्मकमिति भवति सायमतम् , तझ्यवच्छेदार्थ प्रथमभङ्गेनाऽस्तित्वेनावबोधिते घटे द्वितीयभङ्गेन पटाद्यर्थान्तरप्रतिषेधो विधीयत इत्याह-सर्वमिति । तत्र घटे । तस्य पटाद्यर्थान्तरप्रतिषेधस्य । प्रतीत्यभावात् प्रथमभङ्गेन ज्ञानाभावात् ।
प्रकारान्तरेण प्रथम-द्वितीयभङ्गौ समर्थयति-यद्वेति । विधित्सितेति-नामघटरूपतया यदा विधातुमिच्छितो घटस्तदा नामघटात्मना 'घटोऽस्त्येवं इति प्रथमो भङ्गः, तदानीं स्थापनाघटाद्यात्मना स न विधातुमिच्छित इत्यविधित्सितेन स्थापनाघटाद्यात्मना प्रतिषेद्धुमेवेष्टो भवतीति तदवगतये स्थापनाद्यात्मना 'घटो नास्त्येव' इत्येवं प्रथम-द्वितीयभङ्गावित्यर्थः । _ 'स्यादवक्तव्य एव घटः' इति तृतीयभङ्गं प्रकृते सङ्गमयति-तत्प्रकाराभ्यामिति-नामात्मना यद् अस्तित्वम्, स्थापनाद्यात्मना यद् नास्तित्वम् , तल्लक्षणप्रकाराभ्यामित्यर्थः । कथं तत्प्रकाराभ्यां युगपदवाच्यः ? इत्यपेक्षायां हेतुमुपदर्शयति तथेति । तस्य अर्थस्य, विधित्सितरूपावच्छिन्नसत्त्वा-ऽविधित्सितरूपावच्छिन्नाऽसत्त्वोभयरूपेण युगपद्वाच्यपरिणामरहितत्वादित्यर्थः । यदि विधित्सिता-ऽविधित्सितोभयरूपेणाऽभिधेयपरिणामवानर्थोऽभ्युपेयेत, तर्हि घट इत्येवं वाच्यः स स्यात् ? अघट इत्येवं वाच्यः ?, आये य एव नामघटः स एव स्थापनाघटादिरपि स्यात् , तथा च 'अयं नामघटः, अयं च स्थापनाघटः, अयं पुनर्द्रव्यघटः, अयं तु भाव घटः' इत्येवं प्रतिनियतनामादिभेदव्यवहारस्याभावः प्रसज्येत, व्यवहारतश्च प्रतिनियतव्यवह्रियमाणवस्तुस्वरूपस्य व्यवस्था भवति, व्यवहाराभावे च सापि न स्यादिति विधित्सितनामघटोऽपि न व्यवतिष्ठतेति सर्वाभावप्रसङ्गः, द्वितीये अविधित्सितरूपेणेव विधित्सितरूपेणाप्यघटत्वे घटस्याभावे घटनिबन्धनव्यवहारस्योच्छेदः स्यात् तथैकस्य घटस्यैवाघटस्यैव वाभ्युपगमे विधेरेव भावे निषेधस्याभावानिषेधसापक्षविधेरप्यभावः,
Page #276
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम्
२१५
व्यवहाराऽभावप्रसक्तिः, तथा च विधित्सितस्याऽपि नात्मलाभ इति सर्वाऽभाव एव भवेत्, तथा यदि विधित्सितप्रकारेणाप्यघटः स्यात् तदा तन्निबन्धनव्यबहारोच्छेदप्रसक्तिरेव, एकपक्षाभ्युपगमेऽपि तदितराऽभावे तस्याप्यभाव इत्यवाच्यः । रूपान्तरेण विधित्सा रूपान्तरावच्छिन्नसत्तां न विरुणद्धि रूपवत्त्वेन घटविधित्सायामपि रसवत्त्वेन तत्सत्ताया अनपायादिति चेत् ? न - गुणात्मकसत्ताया गुणरूपत्वेऽपि व्यावहारिक्यास्तस्यास्तदभिधेयपरिणाम पर्यवसितत्वेन विधित्सानुसारित्वात्, एवमग्रेऽप्याक्षेप - परिहारौ द्रष्टव्यौ ॥ २॥
अथवा, स्वीकृत प्रतिनियतप्रकारे तत्रैव नामादिके यः संस्थानादिस्तत्स्वरूपेण घटः, इतरेण चाघट इति प्रथम - द्वितीयौ, ताभ्यां युग
एवं निषेधस्यैव भावे विधेरभावात् तत्सापेक्षनिषेधस्याप्यभाव इत्येवं विधित्सिताविधित्सितोभयरूपेण घट इत्येवं वक्तुं न शक्यते, अघट इत्येवमपि न वक्तुं शक्यत इत्यवाच्य एव घट इत्येवमुपपाद्य दर्शयति-यत इति । तथा च प्रतिनियतनामादिभेदव्यवहाराभावप्रसक्तौ च । तन्निबन्धनेति - घट निबन्धनेत्यर्थः । शङ्कते - रूपान्तरेणेति - नामरूपेण यदा घटस्य विधित्सा तदानीं स्थापनादिरूपेण विधित्सैव तस्य न स्यात्, स्थापनादिरूपेण सत्त्वं तु कुतो न तस्य भवेत् ? अनेकधर्मवत्सु वस्तुषु एकधर्मविधित्सायां नान्यधर्मवत्ता ततोऽपक्रामति, रूप-रसाद्यनेकधर्मवतो घटस्य रूपवत्त्वेन विधित्सायामपि रसवत्त्वेन गन्धवत्त्वादिना च तस्य सत्ताया भावादेवेति शङ्कार्थः । गुणात्मकसत्ता गुणरूपेत्येकगुणवत्वेन विधित्सायामप्यन्यगुणस्य भावेन तदात्मकसत्तायास्तत्र भावेऽपि व्यावहारिकी सत्ता व्यवहारानुसारिणी, यद्रूपेण यस्य यदा विधित्सा तद्रूपेणैव स तदानीं व्यवह्रियते तथैव च सोऽभिधीयत इति व्यावहारिकी सत्ताऽभिधेयपरिणामपर्यवसिता विधित्सानुसारिण्येवेत्यबिधित्सितरूपेणासत्त्वमेवेति समाधत्ते-नेति । तस्याः सत्तायाः । प्रकारान्तरेण प्रथम - द्वितीय-तृतीयभङ्गान् व्यवस्थापयति- अथवेति । स्वीकृतेति - नाम - स्थापना - द्रव्य-भावेषु मध्यात् स्वीकृतैकनामाद्यन्यतरप्रकारे । यः संस्थानादिः नामघटस्याश्रयणे घकारोत्तराsकारोत्तरटकारोत्तराsकाररूपं तत्संस्थानम्, एवमन्यत्रापि । तत्स्वरूपेण निरुक्त
Page #277
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ।
पदभिधातुमशक्तेरवाच्यः, विवक्षितसंस्थानादिनेव यदीतरेणापि घटः स्यात् तदैकस्य सर्वघटात्मकत्वप्रसक्तिः, अथ विवक्षितेनाप्यघटः, पटादाविव घटार्थिनस्तत्राप्यप्रवृत्तिप्रसक्तिः, एकान्ताभ्युपगमेऽपि तथाभूतस्य प्रमाणाऽविषयत्वतोऽसत्त्वादवाच्यः ॥ ३ ॥
यदि वा, स्वीकृतप्रतिनियतसंस्थानादौ मध्यावस्था निजं रूपम्, कुशूल - कपालादिलक्षणे पूर्वोत्तरावस्थे अर्थान्तररूपम्, ताभ्यां सद्सत्त्वात् प्रथम-द्वितीयौ, युगपत् ताभ्यामभिधातुमसामर्थ्यादवाच्यलक्षणस्तृतीयो भङ्गः, तथाहि - मध्यावस्थावदितरावस्थाभ्यामपि यदि घटः स्यात् तदा तस्याऽनाद्यनन्तत्वप्रसक्तिः, अथ मध्यावस्थारूपेणा
२१६
संस्थानरूपेण । इतरेण अविवक्षितरूपेण । ताभ्यां विवक्षिताऽविवक्षिताभ्याम् । अवाच्यत्वमेव भावयति-विवक्षितसंस्थानादि वेत्यादिना - सङ्गमना पूर्ववैद् विधेया एकान्ताभ्युपगमेऽपि एकपक्षाभ्युपगमेऽपि ।
उक्तभङ्गत्रयोपपादने तुरीयप्रकारमाह-यदि वेति । स्वीकृतेति - अत्र भावघटस्य जलाहरणादिक्रियाकारिणः स्वीकृतकम्बुग्रीवाद्यवयवसंनिवेशलक्षणसंस्थाने निष्पन्नतादृशसंस्थान वर्तमानावस्था मध्यावस्था घटरूपतया विवक्षितत्वाद् निजं रूपम्, तस्यैव घटस्य या पूर्वावस्था कुशूलादिलक्षणा या च कपालादिलक्षणोत्तरावस्था, ते द्वे अर्थान्तररूपमिति मध्यावस्थारूपेण सत्त्वमाश्रित्य 'स्यादस्त्येव घटः' इति प्रथमो भङ्गः कुशूलकपालादिलक्षणपूवात्तरावस्थानात्मकपररूपेणासत्त्वमुपादाय 'स्यान्नास्त्येव घट:' इति द्वितीयो भङ्गः, युगपत् प्राधान्येन विवक्षिताभ्यां ताभ्यामभिधातुमशक्यत्वादवक्तव्यत्वं समाश्रित्य ' स्यादवक्तव्य एव घटः' इति तृतीयो भङ्ग इत्यर्थः । अत्र तृतीयभङ्गमुपपादयति- तथाहीति । मध्यावस्थालक्षणनिजरूप-पूर्वरूपोत्तरावस्थालक्षणपररूपाभ्यां युगपद्विवक्षितोऽर्थः 'घटः' इत्येवं वक्तव्यः ? 'अघटः' इत्येवं वा वक्तव्यः ? तत्राद्ये आह- मध्यावस्थावदिति । तस्य घटस्य । अवस्थात्रयेऽपि घट. इत्येवमभिधेयपरिणतेस्तस्य सद्भावात् त्रिकालवृत्त्याऽनाद्यनन्तत्वप्रसङ्ग इत्यर्थः । द्वितीये त्वाह-अथेति- पूर्वोत्तरावस्थायामघट इत्येवं परिणतिः, मध्यावस्थायाम तथेत्यघटस्य घटाभावस्यैव सर्वदा प्रसक्त्या घटः कदापि न स्यादित्यर्थः । अनयोरेका
Page #278
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् २१७ प्यघटः, सर्वदा घटाऽभावप्रसक्तिः, एकान्तरूपत्वेऽप्ययमेव प्रसङ्ग इत्यसत्त्वादेवावाच्यः ॥ ४ ॥
अथवा, तस्मिन्नेव मध्यावस्थास्वरूपे वर्तमानाऽवर्तमानक्षणरूपतया सदसत्त्वात् प्रथम-द्वितीयभङ्गौ, ताभ्यां युगपदभिधातुमशक्तेरवाच्यलक्षणस्तृतीयः, तथाहि-यदि वर्तमानक्षणवत् पूर्वोत्तरक्षणयोरपि घटः स्यात् तर्हि वर्तमानक्षणमात्रमेवासौ स्यात् , पूर्वोत्तरयोर्वर्तमानताप्राप्तेः, न च वर्तमानक्षणमात्रमपि, पूर्वोत्तरापेक्षस्य तदभावेऽभावात् , अथातीता-ऽनागतक्षणवद् वर्तमानक्षणरूपतयाप्यघटः, एवं सति सर्वदा तस्याभावप्रसक्तिः, एकान्तपक्षेऽप्ययमेव दोष इत्यभावादेवावाच्यः॥५॥ न्तकस्वरूपत्वोपगमेऽपि परस्परसापेक्षमनेकान्तरूपमेव, न त्वेकान्तं घटस्वरूपमघटस्वरूपं वा समस्तीत्यतो घटस्याभावप्रसङ्ग एवेति कृत्वाऽवक्तव्य एवेत्याह-एकान्तरूपत्वेऽपीति । ___ उक्तभङ्गत्रयसमर्थनाय पञ्चमप्रकारमुपदर्शयति-अथवेति । कम्बुग्रीवाद्यवयवसन्निवेशवत्तयोत्पद्य यावत् तथाऽवतिष्ठते घटस्तावत्कालस्थायिनि मध्यावस्थास्वरूपे घट एव प्रयोगकालात्मकक्षणलक्षणवर्तमानरूपतया सत्त्वमुपादाय ‘स्यादस्त्येव घटः' इति प्रथमो भङ्गः, अतीतक्षणा-ऽनागतक्षणस्वरूपं तस्य पररूपमवर्तमानस्वभावम् , तद्रूपतयाऽसत्त्वमुररीकृत्य 'स्यान्नास्त्येव घटः' इति द्वितीयो भङ्गः, ताभ्यां सदसत्त्वाभ्यां युगपद्विवक्षिताभ्यामभिधातुमशक्यत्वादवक्तव्यत्वं समाश्रित्य 'स्यादवक्तव्य एव घटः' इति तृतीयो भङ्ग इत्याह-तस्मिन्नेवेति । अत्रोपदर्शिततृतीयभङ्गं भावयति तथाहीति । युगपद्विवक्षितोभयरूपेणार्थो घट इत्येवमभिधातुमशक्य इत्याह-यदि वर्तमानक्षणवदिति-वर्तमानक्षणरूपघटस्तदैव पूर्वोत्तरक्षणयोरपि भवेद् यदि पूर्वोत्तरक्षणौ वर्तमानौ स्यातामित्यभिसन्धिः । अपि चाऽतीता-ऽनागतक्षणापेक्षया हि वर्तमानक्षणरूपता भवति, अतीता-ऽनागतक्षणयोरवधिभूतयोरभावे तदवधिकं वर्तमानक्षणरूपत्वमपि न सम्भवतीत्याह-न च वर्तमानक्षणमात्रमपीति । 'पूर्वोत्तरापेक्षस्य' इत्यनन्तरं 'तस्य' इति दृश्यम्, वर्तमानक्षणस्येति तदर्थः । तदभावे पूर्वोत्तरक्षणयोरभावे । युगपद्विवक्षिताभ्यामर्थोऽघट इत्येवमभिधातव्य इत्येवमभ्युपगमे त्वाह-अतीतेति। एवं सति वर्तमानक्षणरूपतयाऽप्यघटत्वे सति। तस्य घटस्य । अभावादेव तथाविधाभिधेयपरिणत्यभावादेव।
Page #279
--------------------------------------------------------------------------
________________
२१८
अनेकान्तव्यवस्थाप्रकरणम् । यद्वा क्षणपरिणतिरूपे घटे लोचनजप्रतिपत्तिविषयत्वा-ऽविषयत्वाभ्यां सदसत्त्वात् प्रथम-द्वितीयौ भङ्गो, ताभ्यां युगपदादिष्टोऽवाच्यः, तथाहि-लोचनजन्यप्रतिपत्तिविषयत्वेनेव यदीन्द्रियान्तरजप्रतिपत्तिविषयत्वेनापि घटः स्यात् तर्हि, इन्द्रियान्तरकल्पनावैयर्थ्यप्रसक्तिः, इन्द्रियसङ्करप्रसक्तिश्च, अथेन्द्रियान्तरजप्रतिपत्तिविषयत्वेनेव चक्षुर्जप्रतिपत्तिविषयत्वेनाऽपि न घटस्तर्हि तस्याऽरूपत्वप्रसक्तिः, एकान्तवादेऽपि तदितराऽभावे तस्याप्यभावादवाच्य एव ॥ ६ ॥
अथवा, लोचनजप्रतिपत्तिविषये तस्मिन्नेव घटशब्दवाच्यता निजं रूपम् , कुटशब्दाभिधेयत्वमर्थान्तरभूतं रूपम् , ताभ्यां सदसत्त्वात् प्रथम-द्वितीयौ, युगपत् ताभ्यामभिधातुमिष्टोऽवाच्यः, यदि घटशब्द
उक्तभङ्गत्रयसमर्थक षष्ठं प्रकारं दर्शयति-यद्वेति । लोचनजप्रतिपत्तिविषयत्वं क्षणपरिणतिरूपस्य घटस्य निजं रूपम् , तेन रूपेण सत्त्वमुपादाय 'स्यादस्त्येव घटः' इति प्रथमो भङ्गः,लोचनजप्रतिपत्त्यविषयत्वमत्र लोचनमिन्नेन्द्रियजप्रतिपत्तिविषयत्वम् , तच्च पररूपम् , तेनासत्त्वमाश्रित्य 'स्यान्नास्त्येव घटः' इति द्वितीयो भङ्गः, लोचमजप्रतिपत्तिविषयत्वापेक्षसत्त्व-लोचनभिन्नेन्द्रियजप्रतिपत्तिविषयत्वापेक्षाऽसत्त्वाभ्यां युगपदादिष्टो घटस्तथाऽभिधातुमशक्य इत्यवक्तव्यत्वमवलम्ब्य 'स्यादवक्तव्य एव घटः' इति तृतीयो भङ्ग इत्याह-क्षणपरिणतिरूप इति । अवाच्यत्वमेवोपपादयति-तथाहीति । तत्र तथाविवक्षायां घट इत्येवं वक्तुमशक्य इति समर्थयतिलोचनजन्येति । अघट इत्येवं वक्तुं न पार्यत इति समर्थयितुमाह-अथेति-अन्यत् स्पष्टम् ।
उक्तभङ्गत्रयसमर्थकं सप्तमप्रकारमुपदर्शयति-अथवेति । निजरूपेण घटशब्दवाच्यत्वेन सत्त्वमुपादाय 'स्यादस्त्येव घटः' इति प्रथमो भङ्गः, अर्थान्तरभूतेन कुटशब्दवाच्यत्वेनाऽसत्त्वमुपादाय 'स्यान्नास्त्येव घटः' इति द्वितीयो भङ्गः, युगपत् ताभ्यामादिष्टो घटो न केनाऽपि शब्देन वाच्य इत्यवक्तव्यत्वमङ्गीकृत्य 'स्यादवक्तव्य एव घटः' इति तृतीयो भङ्ग इत्याह-लोचनजप्रतिपत्तिविषय इति । अवाच्यत्वं भावयितुमाह-यदि घटशब्दवाच्यत्वेनेवेति-अनेन घट इत्येवं वक्तुमशक्य
Page #280
--------------------------------------------------------------------------
________________
२१९
तत्त्वबोधिनीविवृतिविभूषितम् वाच्यत्वेनेब कुटशब्दवाच्यत्वेनापि घटस्तर्हि त्रिजगत एकशब्दवाच्यताप्रसक्तिः, घटस्य वाऽशेषपटादिशब्दवाच्यत्वप्रसक्तिरिति घटशब्दवाच्यत्वप्रतिपत्तौ समस्ततद्वाचकशब्दप्रतिपत्तिप्रसङ्गश्च, अर्थे वाच्यतायाः शब्दे वाचकतायाश्च समानसंविसंवेद्यत्वात् , तथा घटशब्देनापि यद्यवाच्यः स्यात् तर्हि घटशब्दोच्चारणवैयर्थ्यप्रसक्तिः, एकान्ताभ्युपगमेऽपि घटस्यैवाऽसत्त्वात् सङ्केतद्वारेणापि न तद्वाचकः कश्चिच्छब्द इत्यवाच्य एव ॥ ७ ॥
अथवा, घटशब्दाभिधेये तत्रैव घटे हेयोपादेयाऽन्तरङ्गबहिरङ्गोपयोगाऽनुपयोगरूपतया सदसत्त्वात् प्रथम-द्वितीयौ ताभ्यां युगपदादिष्टोऽवाच्यः, यदि हि हेयबहिरङ्गानर्थक्रियाकार्यऽसन्निहितरूपेणाप्यर्थ
इत्यस्य समर्थनम् , घटशब्दवाच्यत्वप्रतिपत्तौ समस्ततद्वाचकशब्दप्रतिपत्तिप्रसङ्गः कुतः ? इत्यपेक्षायामाह-अर्थे वाच्यताया इति । कुटशब्दवाच्यत्वेनाऽघट इति वद् घटशब्दवाच्यत्वेनाप्यघटत्वेऽघट इत्येवं वाच्य इत्यपि न सम्भवतीत्युपदर्शयतितथेति। 'घटशब्देनापि यद्यवाच्यः स्याद' इत्यस्य 'घटशब्दवाच्यत्वेनाऽप्यघट इति स्याद् एवमर्थो व्याख्येयः, तथैव प्रक्रमसङ्गतेरिति बोध्यम् , घटरूपार्थगतये हि घटशब्दोच्चारणं क्रियते, घटशब्दवाच्यत्वेनाप्यघटत्वे घटशब्दवाच्यस्य न घटत्वमिति न घटशब्दतो घटरूपार्थप्रतीतिरिति तदर्थं तदुच्चारण न स्यादेवेत्यर्थः । एकान्तात्मकं वस्तु नास्त्येवेति न तद्वाचकः कश्चिच्छब्दोऽपीत्येकान्तसमाश्रयणेऽप्यवाच्यत्वं सुव्यवस्थितमित्याह-एकान्ताभ्युपगमेऽपीति । __अष्टमं प्रकारमुक्तभङ्गत्रयसमर्थकमुपदिशति-अथवेति । अत्र उपादेयाऽन्तरगोपयोगरूपत्वं घटस्य निजं रूपम् , तेन घटस्य सत्त्वविवक्षया 'स्यादस्त्येव घटः' इति प्रथमो भङ्गः, हेय-बहिरङ्गा-ऽनुपयोगरूपत्वमर्थान्तरम् , तेनासत्त्वविवक्षया 'स्यान्नास्त्येव घटः' इति द्वितीयो भङ्गः, ताभ्यां युगपदादिष्टो घटो वक्तुमशक्य इति 'स्यादवक्तव्य एव घटः' इति तृतीयो भङ्ग इत्याह-घटशब्दाभिधेय इति । निरुक्तरूपाभ्यां युगपदादिष्टो न घट इत्येवं वाच्य इत्याह-यदि हीति । हेयेति-हेयं बहिरङ्गं चार्थक्रियायामनुपयुक्तत्वादनर्थक्रियाकार्यसनिहितरूपम् , तद्रूपेणापि घट
Page #281
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ।
क्रियाक्षमादिरूपेणेव घटः स्यात् तर्हि पटादीनामपि घटत्वप्रसक्तिः, तद्वद् यद्युपादेयादिरूपेणाप्यघटः स्यात्, तदाऽन्तरङ्गस्य वक्तृश्रोतृगतहेतुफलभूतघटा कारावबोधकविकल्पोपयोगस्याप्यभावे घटस्याप्यभावप्रसङ्ग इत्यवाच्यः, एकान्ताभ्युपगमेऽयमेव प्रसङ्ग इत्यवाच्यः ।। ८ ।।
२२०
अथवा, तत्रैवोपयोगेऽभिमतार्थावबोधकत्वानभिमतार्थानवबोधकत्वतः सदसत्त्वात् प्रथम- द्वितीयौ, ताभ्यां युगपदादिष्टोऽवाच्यो, विवक्षितार्थप्रतिपादकत्वेनेवेतरेणाऽपि यदि घटः स्यात् तर्हि प्रतिनियतोपयोगाभावः, तथाऽभ्युपगमे विविक्तरूपोयोगप्रतिपत्तिर्न भवेत्, तदुपयोगरूपेणाऽपि यद्यघटो भवेत् तदा सर्वाभावोऽविशेषप्रसङ्गो वा, न चैवम्, तथाऽप्रतीतेः, एकान्तपक्षेऽप्ययमेव प्रसङ्ग इत्यवाच्यः ।। ९ ।।
इत्येवं वाच्यः स्याद् यथोपादेया - ऽन्तरङ्गा -ऽर्थक्रियाक्ष्मादिरूपेग तथा तर्हि पटादीनामपि हेयादिरूपसमाकलितानां घटत्वप्रसङ्ग इत्यर्थः । तथादिष्टोऽघट इत्येवमपि न वाच्य इत्याह- तद्वदिति - - यथा हेय - बहिरङ्गाऽनर्थक्रियाकारिरूपेणा घटस्तथेत्यर्थः । तथाऽघटत्वे यदनिष्टं तदुपदर्शयति-तदान्तरङ्गस्येति ।
उक्तभङ्गत्रयसमर्थकं नवमं प्रकारमुपदर्शयति - अथवेति । तत्रैवोपयोगे घटएवोपयोगरूपतयाऽभिमते । अभिमतेति-अभिमतार्थावबोधकत्वेनोपयोगलक्षणघटस् सत्त्वमुपादाय 'स्यादस्त्येव घट:' इति प्रथमो भङ्गः, अभिमतार्थानवबोधकत्वमर्थान्तरम्, तद्रूपेणासत्त्वं समाश्रित्य 'स्यान्नास्त्येव घटः' इति द्वितीयो भङ्गः, ताभ्यां युगपदादिष्टः केनापि शब्देन वक्तुमशक्य इति 'स्यादवक्तव्य एव घटः' इति तृतीयो भङ्ग इत्यर्थः । ताभ्यां युगपदादिष्टस्य घट इत्येवं वक्तव्यत्वं न भवतीत्युपपादयतिविवक्षितार्थेति-विवक्षितार्थावबोधकत्वेन यथा घट इत्येवं वक्तव्यस्तथाऽविवक्षितार्थानवबोधकत्वेनापि यदि घट इत्येवं वक्तव्यः स्यात् तदा प्रतिनियतोपयोगो न भवेत्, एवं च प्रतिनियतोपयोगप्रतिपत्तिर्न स्यादित्यर्थः । एवं तथाऽऽदिष्ट उपयोगात्मको घटो नाऽघट इत्येवं वक्तव्य इत्याहह - तदुपयोगरूपेणापीति । न चैवं सर्वाभावोऽविशेषश्च न । तथाप्रतीतेः सर्वशून्यतयाऽविशिष्टतया च प्रातीत्यभावात् ।
Page #282
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् अथवा, सत्त्वमर्थान्तरभूतं साधारणत्वात् , निजं घटत्वमसाधारणत्वात् , ताभ्यां प्रथम-द्वितीयौ, अभेदेन ताभ्यां निर्दिष्टो घटोsवक्तव्यो भवति, तथाहि-यदि सत्त्वमनूद्य घटत्वं विधीयते तदा सत्त्वस्य घटत्वेन व्याप्तेर्घटस्य सर्वगतत्वप्रसङ्गः, तथाऽभ्युपगमे प्रतिभासबाधा व्यवहारविलोपश्च, तथाऽसत्त्वमप्यनूद्य यदि घटत्वं विधीयते तदा प्रागभावादिचतुष्कस्य घटत्वेन व्याप्तेर्घटत्वप्रसङ्गः, अथ घटत्वमनूद्य सदसत्त्वे विधीयेते तदा घटत्वं यत् तदेव सदसत्त्वे इति घटमात्रं ते प्रसज्येयाताम् , तथा च पटादीनां प्रागभावादीनां
दशमं प्रकारमुक्तभङ्गत्रयसमर्थकं दर्शयति-अथवेति । ताभ्यां घटत्वसत्त्वाभ्याम् , घटत्वेनाऽस्तित्वमुपादाय 'स्यादस्त्येव घटः' इति प्रथमो भङ्गः, सत्त्वेनासत्त्वं समाश्रित्य 'स्यान्नास्त्यव घटः' इति द्वितीयो भङ्गः । ताभ्यां घटत्वसत्त्वाभ्याम् , घटत्वापेक्ष्यसत्त्व-सत्त्वापेक्ष्याऽसत्त्वाभ्यां युगपदादिष्टस्य केनापि शब्देन न वक्तव्यत्वमिति ‘स्यादवक्तव्य एव घटः' इति तृतीयो भङ्ग इत्यर्थः । तृतीयभङ्गमेवोपपादयतितथाहीति । सत्त्वमनूद्येति-यः सन् स घट इत्येवं विधाने सत्त्वस्य व्याप्यत्वं घटत्वस्य च व्यापकत्वं प्रतीयते, तथा च सति यत्र यत्र सन् तत्र तत्र घट इति सतः सर्वगतत्वे घटस्यापि सर्वगतत्वप्रसङ्ग इत्यर्थः । भवतु घटस्य सर्वगतत्वं का नो हानिरित्यत आह-तथाभ्युपगम इति । घटस्य सर्वगतत्वाभ्युपगम इत्यर्थः । प्रतिभासबाधा यः कुत्रचिदघटप्रतिभासः स न स्यात् । व्यवहारविलोपश्च कस्यचिद् ‘घटः' इत्येवं व्यवहारः, कस्यचित् तु न 'घटः' इति व्यवहारः, किन्तु "पटो मठः' इत्यादिव्यवहारः, इत्थं विभिन्नस्य व्यवहारस्य विलोपश्च । तथेति-एवमसत्त्वमप्यनूद्य यदि घटत्वं विधीयते, योऽसन् स घट इत्येवं विधानम् , तदाऽसत्त्वस्य व्याप्यत्वं घटत्वस्य च व्यापकत्वं स्यात् , तत्त्वे च असत्त्ववति प्रागभावादिचतुष्के प्रागभाव-ध्वंसाऽत्यन्ताभावा-ऽन्योन्याभावखरूपे घटत्वस्य विधानतस्तादृशचतुष्कस्य घटत्वप्रसङ्ग इत्यर्थः । घटत्वमनूधेति-यो घटः स सन् असंश्चेत्येवं यदि विधीयते तदा य एव घटः स एव सन् असंश्चेति सदसती घटमात्रं प्रसज्येयातामिति घटभिन्नं पटादिकं प्रागभावादिकं च न स्यात् , तथा च सति घट एव सन्मात्र
Page #283
--------------------------------------------------------------------------
________________
२२२ अनेकान्तव्यवस्थाप्रकरणम् । चाभावप्रसक्तिरिति प्राक्तनन्यायेन विशेषणविशेष्यलोपात् ‘सन् घटः' इत्येवमप्यवक्तव्यः 'असन् घटः' इत्येवमप्यवक्तव्यः, न चैतत् , तातोऽवाच्यः, अनेकान्तपक्षे तु कथञ्चिदवाच्यः, न तु सर्वथा, अभेदवादकृततदोषस्य भेदवादेन परिहारादिति न कश्चिद् दोषः, न चाभेदैकान्तेऽपि घटत्वमनूद्य सत्त्वासत्त्वयोः समवाय-विशेषणताभ्यां विधानानायं दोष इति वाच्यम् , अतिरिक्तसमवाय-विशेषणतयोर्मानाभावेन भेदैकान्तस्यैवाऽवाच्यत्वादिति दिग् ॥ १० ॥
यद्वा, व्यञ्जनपर्यायोऽर्थान्तरभूतस्तदतद्विषयत्वात् तस्य, घटार्थपर्यायस्त्वन्यत्राऽवृत्तेर्निजः, ताभ्यां प्रथम-द्वितीयौ, अभेदेन ताभ्यां
मेव, असदेव घटमात्रमेवेत्यादिप्रसङ्गे भेदे विशेष्यविशेषणभावो नामेद इत्यतः सन् घट इत्येवमपि वक्तव्यं न भवति, असन् घट इत्येवमपि वक्तव्यं न भवति, न चेत्थमुररीक्रियत इत्यतस्तथाविवक्षायामवाच्य एव घटः, अनेकान्तपक्षे तु सद्घटयोरसद्-घटयोश्चाऽमेदवद् मेदोऽपीति कथञ्चिदवाच्यः, न तु सर्वथाऽवाच्यः । अभेदवादकृतदोषो यदि सर्वथा सलग्न एव स्यात् तदा वाच्यत्वं न भवेदपि, न चैवम् , तस्य भेदवादेन परिहारसम्भवादित्यर्थः । 'न च' इत्यस्य ‘वाच्यम्' इत्यनेनान्वयः । 'न चाभेदैकान्तेऽपीति' इति स्थाने 'न च भेदैकान्तेऽपि' इति पाठो युक्तः । अन्यद् व्यक्तम् ।
उक्तभङ्गत्रयोपपादकमेकादशप्रकारमाह-यद्वेति । व्यञ्जनपर्यायः शब्दप्रवृत्तिनिमित्तघटत्वसामान्यात्मा पर्यायः । तदतद्विषयत्वात् प्रकृतार्थ-तदन्योभयविषयत्वात् । तस्य व्यञ्जनपर्यायस्य । घटार्थपर्यायस्तु कम्वुग्रीवात्मकघटरूपार्थपर्यायः पुनः । अन्यत्र तत्तद्धटात्मकार्थातिरिक्ते । अवृत्तेः असद्भावात् । ताभ्यां व्यञ्जनपर्याया-ऽर्थपर्यायाभ्याम् । प्रथम-द्वितीयौ अर्थपर्यायात्मना सत्त्वमुपादाय 'स्यादस्त्येव घटः' इति प्रथमो भङ्गः, व्यञ्जनपर्यायात्मनाऽसत्त्वमङ्गीकृत्य 'स्यान्नास्त्येव घटः' इति द्वितीयो भङ्ग इत्यर्थः । अमेदेनेति-अर्थ-व्यञ्जनपर्यायाभ्यामभेदेन निर्देशे सति तथानिर्दिष्टस्य वस्तुनो न कस्यापि पदस्य वाच्यत्वं सम्भवतीति ‘स्यादवक्तव्य एव घटः' इति तृतीयो भङ्ग इत्यर्थः । तृतीयभङ्गोपपादनाय हेतुमुपदर्शयति
Page #284
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् २२३ निर्देशेऽवक्तव्यः, यतोऽत्रापि यदि व्यञ्जनमनूद्य घटार्थपर्यायविधिस्तदा तस्याऽशेषघटात्मकताप्रसक्तिरिति भेदनिबन्धनतद्व्यवहारविलोपः, अथार्थपर्यायमनूद्य व्यञ्जनपर्यायविधिस्तदा प्रसिद्धविशेषानुवादेन घटत्वसामान्यविधानात् तस्याकार्यत्वम् , एवं च घटस्याभावादवाच्यः, अनेकान्तपक्षे तु युगपदभिधातुमशक्यत्वात् कथञ्चिदवाच्यः ॥११॥
यद्वा, सत्त्वमर्थान्तरभूतम् , तस्य विशेषवदेकत्वादनन्वयिरूपता,
यत इति । अत्रापि अर्थ-व्यञ्जनपर्यायाभ्यां मेदेन वस्तुनो निर्देशेऽपि । व्यञ्जनमनूोति-यो व्यञ्जनपर्यायः सोऽर्थपर्याय इत्येव विधानमित्यर्थः । तस्य व्यञ्जनपर्यायस्य । मेदेति-व्यञ्जनपर्याय एव घटार्थपर्याया न, अन्यो घटादिपर्याय इति व्यञ्जनपर्यायतो यो घटाद्यर्थपर्यायस्य भेदस्तन्निबन्धनो यस्तद्व्यवहारो घटार्थपर्यायव्यवहारः 'नीलो घटः, रक्तो घटः, कम्बुग्रीवादिमान् घटः' इत्यादिरूपस्तस्य विलोप उच्छेदप्रसङ्ग इत्यर्थः । अथ यदि । अथैति-योऽर्थपर्यायः स व्यञ्जनपर्याय इत्येवं विधिरित्यर्थः । तदा तथाविधाने । प्रसिद्धति-प्रसिद्धा ये तत्तद्घटादिव्यक्तिलक्षणा विशेषास्तेषामनुवादेन, घटत्वसामान्यात्मकव्यञ्जनपर्यायस्य विधानात् , सर्वे घटादिव्यक्तिलक्षणविशेषास्तदानीं घटत्वसामान्यस्वरूपव्यञ्जनपर्यायस्वरूप एव प्रविष्टा इति घटत्वसामान्यस्य नित्यत्वात् , तस्य अर्थपर्यायस्य, अकार्यत्वं कार्यत्वं न स्यात्, एवं च अर्थपर्यायस्य व्यञ्जनपर्यायात्मनोऽकार्यत्वव्यवस्थितौ च । घटस्याभावात् दण्डादिना समुत्पद्यमानस्यैव घटस्य घट इति व्यपदेश इति तस्य घटस्याभावादवाच्य इत्यर्थः । अनेकान्तपक्षे तु नित्याऽनित्यस्वरूपस्य घटस्य सामान्यात्मना नित्यस्य व्यक्त्यात्मनाऽनित्यस्य कार्यत्वं सम्भवतीति नाभावादवाच्यत्वम् , किन्तु युगपदभिधातुमशक्यत्वात् कथञ्चिदवाच्यत्वमित्याह-अनेकान्तपक्षे विति-सर्वथाऽवाच्यत्वे त्ववक्तव्यशब्देनापि व्यपदेशो न भवेत् , भवति च तथाव्यपदेश इत्यतः कथञ्चिदवाच्य इत्याशयः।
तृतीयभङ्गसमर्थकं द्वादशप्रकारमुपदर्शयति-यद्वेति । तस्य सत्त्वस्य । विशेषपदिति-विशेषा यद्यप्यनन्तास्तथापि प्रत्येकं विशेषस्तु एक एव, तथा च प्रत्येक विशेषो यथैकत्वादेकव्यक्तिमतत्वेनान्यव्यक्त्यनन्वयिरूपस्तथा स्वरूपसत्त्वमपि प्रत्येक
Page #285
--------------------------------------------------------------------------
________________
२२४
अनेकान्तव्यवस्थाप्रकरणम् । अत एव न तद्वाच्यमन्त्यविशेषवत् , अन्यविशेषस्तु निजः, सोऽप्यवाच्योऽनन्वयात् , प्रत्येकाऽवक्तव्याभ्यां ताभ्यामादिष्टो घटोऽवक्तव्यः, अनेकान्तपक्षे तु कथञ्चिदवक्तव्यः ॥ १२ ॥
अथवाऽसन्द्रुतरूपाः सत्त्वादयो घटः सन्द्रुतं रूपम् , प्रतिनियतार्थक्रियाकारितावच्छेदिका ऐक्यपरिणतिरित्यत्र दर्शनेऽर्थान्तरभूताः सत्त्वादयो, निजं सन्द्रुतरूपम् , ताभ्यामादिष्टो घटोऽवक्तव्यः, यतः सन्द्रुतरूपस्य सत्त्व-रजस्तमस्सु सत्त्वे सत्त्व-रजस्तमसामभावप्रसक्तिः, तेषां परस्परवैलक्षण्येनैव सत्त्वादित्वात् , सन्द्रुतरूपत्वे च वैलक्षण्या
तत्तद्व्यक्तिगतमेकम् , एकत्वादेव चान्यत्रान्वयाभावादनन्वयिरूपतेत्यर्थः । अत एव अनन्वयिरूपत्वादेव । तत् स्वरूपसत्त्वात्मकं सत्त्वम् न वाच्यं यथाऽन्त्यविशेष इत्यर्थः । सोऽपि अन्यविशेषोऽपि, इत्थं च प्रत्येकमवक्तव्याभ्यां सत्त्वविशेषाभ्यामादिष्टो घटोऽवक्तव्य इत्यर्थः । स्वरूपसत्त्वमिन्नमपि यदि सत्त्वमेतद्वन्थविषयस्तदाप्येकं तदनेकत्र न सम्बद्धुमर्हति, यतस्तस्यैकदेशाभावात् पर्यायैकत्र वर्तमानस्य सतस्तस्यान्यत्र वृत्त्यसम्भवादनन्वयिरूपतेति बोध्यम् ।
तृतीयभङ्गोपपादकं त्रयोदशप्रकारमुपदर्शयति-अथवेति-अत्र 'अथवाऽसन्द्रुतरूपाः' इत्यकारप्रश्लेषः । असन्द्रतरूपाः परस्परविविक्तस्वरूपाः । सत्त्वादयः सत्त्व-रजस्तमोऽभिधाना गुणाः । घटः सन्द्रतं रूपं 'घटः' इत्येवमेकतया यद् निर्दिश्यते तत् स्वरूपं सन्द्रुतरूपम् । परस्परविविक्ताः सन्तः सत्त्वादयो न प्रतिनियतजलाहरणाद्यर्थक्रियाकारिण इति तेषां या घटस्वरूपेणैक्यपरिणतिः सैव प्रतिनियतार्थक्रियाकारिता या घटनिष्ठा तस्या अवच्छेदिका, ऐक्यपरिणतिरेव च सन्द्रुतं रूपम् । इत्यत्र दर्शने एवंप्रकाराभ्युपगन्तृकपिलानुयायिदर्शने । अर्थान्तरभूताः सत्त्वादयः असन्दुतरूपाः सत्त्वादयोऽर्थान्तरभूताः घटात्मकवस्तुतो मिन्नस्वरूपाः, तेषां यदैक्यपरिणतिलक्षणं सन्द्रुतरूपं तद् घटस्य निजं रूपम् । ताभ्यां सन्द्रुता-ऽसन्द्रुतरूपाभ्याम् । आदिष्टो घटो न केनाऽपि शब्देनाऽभिलाप्य इत्यवक्तव्य इत्यर्थः । इत्थमवक्तव्यत्वे हेतुमुपदर्शयति-यत इति । सन्द्रतरूपस्य परस्पराऽविविक्ततालक्षणैक्यपरिणतिरूपस्य । तेषां सत्त्व-रजस्तमसाम् , सत्त्व-रजस्तमसां सन्द्रुतरूपत्वं
Page #286
--------------------------------------------------------------------------
________________
२२५
तत्त्वबोधिनीविवृतिविभूषितम् भावादभाव इति विशेष्याभावादवाच्यः, असत्त्वे त्वसत्कार्योत्पादप्रसङ्गः, न चैवमभ्युपगम्यते, अभ्युपगमेऽपि विशेषणाभावादवाच्यः, तत्काले सन्द्रुतरूपत्वान्न विशेषणाभाव इति चेत् ? कालभेदेनापि सदसद्रूपसमावेशेऽनेकान्तप्रवेशात् , प्राक् शक्त्यैव सन्दुतरूपमस्ति, न च तथा तत् सत्त्वादिवैलक्षण्यव्याहन्तु, व्यक्त्या तु घटसामग्रीत एव तत् स्यादिति न दोष इति चेत् ? न-व्यक्तेरपि सदसद्विकल्प
विशेषणम् , विशेष्यीभूताः सत्त्वादय इति सन्द्रुतरूपस्य तेषु सत्त्वे तेषामभावो विशेष्याभाव इति ततोऽवाच्य इत्यर्थः । असत्त्वे तु सन्द्रुतरूपस्य घटात्मकैक्यपरिगतिलक्षणस्य सत्त्व-रजस्तमस्सु असत्त्वे च । न चैवमभ्युपगम्यते कपिलानुयायिभिरसत्कार्योत्पादो न चाऽभ्युपगम्यते । अभ्युपगमेऽपि, असत्कार्योत्पादस्याभ्युपगमेऽपि । विशेषणाभावात् सन्द्रुतरूपत्वलक्षणविशेषणाभावात् । अवाच्यः निजं यत् सन्द्रुतरूपं तद्विशिष्टो घटोऽवाच्यः । तत्काल इति-घटोत्पत्तितः प्राकाले सत्त्व-रजस्तमसां सन्द्रुतरूपत्वाभावेऽपि घटोत्पत्तिकाले सन्द्रुतरूपत्वान्न विशेषणाभाव इत्यर्थः । एवं सति सत्त्वादयः सन्द्रुता-ऽसन्द्रुतरूपइत्यनेकान्तवादप्रवेशापत्तेरुक्ताभ्युपगमो नैकान्तवादिनो युक्त इत्याह-कालभेदेनाऽपीति । अत्र अथवा सन्द्रुतरूपाः सत्त्वादयो घटः । इत्यकारप्रश्लेषकमन्तरेणैव पाठो युक्तः, यतः साङ्ख्यदर्शनस्वरूपकीर्तनमिदम् । तत्रैक्यपरिणतिप्राप्ताः सत्त्वादयो घट इत्यर्थः, यदा सन्द्रुतरूपाः सत्त्वादयो घट इति तदा ‘अर्थान्तरभूताः सत्त्वादयः' इत्युक्त्यैव सन्द्रुतरूपत्वविशेषणविकलानां तेषां प्रदर्शनमायातमेवेत्यसन्द्रुतरूपत्वमर्थतः प्राप्तं नोपादेयमेव, यत एव च सन्द्रुतरूपत्वमेव सत्त्वादीनां विशेषणतयाऽभिहितमस्ति विशेष्यतया च सत्त्वादीनामभिधानमस्ति, तत एव चाग्रे 'विशेषणाभावाद्' इत्यनेन 'सन्द्रुतरूपत्वाभावाद् इत्यस्य विशेष्याभावाद्' इत्यनेन 'सत्त्वादीनामभावाद्' इत्यस्यावबोध इति बोध्यम् । परः शङ्कते-प्रागिति-घटोत्पत्तितः प्राक्काले सत्त्वादिषु शक्त्यैव सन्द्रुतरूपं विद्यत इत्यर्थः । न चेति-तथा शक्तिरूपेण प्राकाले विद्यमानम्, तत् सन्द्रुतरूपम् , सत्त्वादिवलक्षण्याघातकं न चेत्यर्थः, व्यत्तया तु आविर्भूतरूपेण पुनः । घटसामग्रीतः एव घटोत्पादकदण्डचक्रसलिल सूत्रादिकारणसमूहत्त एव । तत् स्यात् सन्तृतरूपं स्यात् । प्रतिक्षिपति-नेति । व्यक्तेरपीति-घटस्थावि
अ. व्य. १५
Page #287
--------------------------------------------------------------------------
________________
२२६ अनेकान्तव्यवस्थाप्रकरणम् । प्रासात् , अथ नैयायिकादीनां यथा घटसत्त्वे भूतले सतोऽपि घटाभावस्य न सम्बन्धः, किन्तु तदपसारणदशायामेव तत्कालावच्छिन्नस्वरूपात्मा सः, तथा ममापि सन्द्रुतरूपस्य प्राक् सत्त्वेऽपि तत्कालावच्छिन्नस्वरूपात्मा न सम्बन्धः, घटसामग्रीसम्पत्तौ च सम्बन्धलाभाद् व्यवहारसिद्धिरिति चेत् ? न-उभयोरपि वादिनोर्यथोक्तसम्बन्धस्याऽनेकान्तं विनाऽवाच्यत्वादिति दिक् ॥ १३ ॥
अथवा, रूपादयो ह्यर्थान्तरभूताः, असंहृतरूपत्वं सामूहिकप्रत्ययग्राह्यं निजम् , ताभ्यामादिष्टोऽवक्तव्यः, यथा हि-अरूपादिव्यावृत्त
र्भावोऽपि घटोत्पत्तितः प्राक् सत्त्वादिषु सन् ? असन् वा ?, आधे-आविर्भूतरूपेणापि सन्द्रुतरूपस्य प्राक् सत्त्वात् सत्त्वादीनां वैलक्षण्यं न स्यात् , द्वितीये-पूर्वमसत एवाविर्भावस्योत्तरकाले भावादसत्कार्योत्पादप्रसङ्ग इति दोषस्तदवस्थ इत्यर्थः। पुनः परः शङ्कतेअथेति। सतोऽपि नित्यत्वात् सतोऽपि, तदानीं घटाभावस्याभावे तस्यानित्यत्वमनुषज्यतेत्याशयः। न सम्बन्धः सम्बन्धाभावः, घटाभावस्येव तत्सम्बन्धस्यापि भावे घटसत्त्वदशायां घटाभावबुद्धिस्तत्र प्रसज्यत इत्यतस्तस्य तदानी सम्बन्धस्तत्र नास्तीत्यवश्यमभ्युपेयमिति । तदपसारणदशायामेव भूतलाद् घटापसारणदशायामेव । तत्कालेति-घटापसारणकालावच्छिन्नभूतलस्वरूपात्मा घटाभावस्य सम्बन्ध इत्यर्थः । ममापि कपिलानुयायिनोऽपि । तत्कालेति-घटोत्पत्तिपूर्वकालावच्छिन्नसत्त्वादिस्वरूपात्मा न सम्बन्ध इत्यर्थः। सामग्रीसम्पत्तौ चेति-घटोत्पादकसामग्रीसम्पत्ती तदनन्तरकालावच्छिन्नखरूपसम्बन्धस्य लाभात् सन्द्रुतरूपघटव्यवहारसिद्धिरित्यर्थः । प्रतिक्षिपति-नेति । भूतलस्वरूपस्य कदाचिद् घटाभावसम्बन्धत्वं कदाचिन्न तत्सम्बन्धत्वम् , सत्त्वादिस्वरूपस्य कदाचित् सन्द्रुतरूपसम्बन्धत्वं कदाचिन्न तसम्बन्धत्वमित्यनेकान्तं विना नोकोपपत्तिरित्याह-उभयोरपीति-नैयायिक-कपिलानुयायिनोरपीत्यर्थः । . तृतीयभङ्गोपपादकं, चतुर्दशप्रकारमुपदर्शयति-अथ वेति । एतदन्तरम् 'असंहृतरूपादयो घट इत्यत्र दर्शने' इति दृश्यम् । ताभ्यां रूपादित्वाऽसंहृतरूपत्वाभ्याम् । अवक्तव्यतामेव भावयति-यथा हीति । एवं चेति-तथेत्यर्थे । 'नहि' इत्यस्य प्रति
Page #288
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् २२७ रूपादयस्ते, एवं च रूपादीनां घटताऽवाच्याऽरूपत्वादित्वाद् घटस्य, नहि परस्परविलक्षणबुद्धिग्राह्या रूपादयः एकानेकात्मकप्रत्ययग्राह्याऽरूपादिरूपघटतां प्रतिपद्यन्ते, विशेष्यलोपादवाच्यः, अथाप्यरूपा रूपादयः, नन्वेवमपि रूपादय एव न भवन्तीति तेषामभावे केऽसंहृतरूपतया विशेष्याः ? येनाऽसंहृतरूपा रूपादयो घटो भवेदित्येवमप्यवाच्यः अनेकान्तवादे च कथञ्चिदवाच्यः ॥ १४ ॥
यदि वा, रूपादयोऽर्थान्तरभूताः, मतुबर्थो निजः, ताभ्यामादिष्टो घटोऽवक्तव्यः, रूपाद्यात्मकैकाकारावभासप्रत्ययविषयव्यतिरेकेणापररूपसम्बन्धानवगतेर्विशेष्याभावाद् 'रूपादिमान् घटः' इत्यवाच्यः, न चैकाकारप्रतिभासग्राह्यव्यतिरेकेणापररूपादिप्रतिभास इति विशेषणाभावादप्यवाच्यः, अनेकान्ते तु कथञ्चिदवाच्यः ॥ १५ ॥
अथवा, बाह्योऽर्थान्तरभूतः, उपयोगस्तु निजः, ताभ्यामादिष्टोऽ
पद्यन्ते' इत्यनेनान्वयः । विशेष्यलोपादिति-'असंहृतरूपा रूपादयो घटः' इत्यत्र 'असंहृतरूपाः' इति विशेषणम् 'रूपादयः' इति ‘विशेष्यम्' अरूपादिव्यावृत्तत्वे सत्येव रूपादित्वं रूपादीनां च घटनाविवक्षायामरूपादिता हि घटता, तस्यां चारूपादिव्यावृत्तरूपताया अभावाद् रूपादिलक्षणविशेष्यलोपादवाच्य इत्यर्थः । अथापि घटरूपतायामपि । नन्वेवमपि रूपादीनामरूपत्वेऽपि, येऽरूपास्ते रूपादयो न भवन्तीति नियमादरूपत्वे रूपादित्वं न स्यादिति ते रूपादय एव न भवन्तीत्यतो रूपादीनामभावे सति विशेष्याभावात् केऽसंहृतरूपतया विशेष्याः ? न केऽपीत्यतोऽसंहृतरूपा रूपादयो घट इत्येवं वक्तुं न शक्यत इत्यवाच्य इत्यर्थः । यद्यपेक्षाभेदेन रूपादित्वमरूपादित्वं चैकत्रोपेयते तदाऽनेकान्तवादे सति कथञ्चिदवाच्य इत्याह-अनेकान्तवादे चेति ।
तृतीयभङ्गोपपादकं पञ्चदशप्रकारमुपदर्शयति-यदि वेति । ताभ्यां रूपादिमतुबाभ्याम् । अत्र क्रमेण विशेष्याभावाद् विशेषणाभावाच रूपादिमान् घट इति वक्तुं न शक्यत इत्यवाच्यत्वं प्रतिपादयति-रूपादीति-व्यक्तमदः । ........
तृतीयभङ्गोपपादकमन्तिमप्रकारमावेदयति अथ वेति । ताभ्यां बाह्योप
Page #289
--------------------------------------------------------------------------
________________
२२८ अनेकान्तव्यवस्थाप्रकरणम् । वक्तव्यः, तथा हि-य उपयोगः स घट इति यदुच्येत तर्दुपयोगमात्रकमेव घट इति सर्वोपयोगस्य घटत्वप्रसक्तिरिति प्रतिनियतस्वरूपाभावादवाच्यः, अथ यो घटः स उपयोग इत्युच्येत तथाप्युपयोगस्यार्थत्वप्रसक्तिरित्युपयोगाभावे घटस्याप्यभावः, ततश्च कथं नाऽवाच्यः ? ॥ १६ ॥ . तदिदमभिप्रेत्योक्तं सम्मतौ
"अत्यंतरभूएहि य णियएहि य दोहि समयमाईहिं । . वयणविसेसाईअं दव्वमव्वत्तव्वयं पडइ" ॥
- [सम्मतितकें, का० १, गा० ३६] अस्यार्थः-अर्थान्तरभूतैर्निजकैश्च पर्यायैः, क्रमेण 'स्यात् सन् , स्यादसन्' इति द्वौ भङ्गौ भवत इति शेषः । द्वाभ्यां चाऽऽदिभ्याम्प्रागुक्ताभ्यां प्रकाराभ्याम्, समकम्-युगपद्, विवक्षितमिति शेषः, द्रव्यम् , वचनविशेषातीतं सत्-तथाविधवचनवाच्यताऽनापन्नं सद्, अवक्तव्यकं पतति-तृतीयभङ्गविषयतामास्कन्दतीति ॥ योगाभ्याम् । तथोपदिष्टत्वे यथाऽवक्तव्यत्वं तथा भावयति-तथा हीति-भावनेयं व्यक्तार्था। . भङ्गत्रयसमर्थने सम्मतिसम्मतिमुपदर्शयति तदिदमभिप्रेत्योक्तं सम्मताविति । अत्थंतर इति-"अर्थान्तरभूतैश्च निजकैश्च द्वाभ्यां समकमादिभ्याम् । वचनविशेषातीतं द्रव्यमवक्तव्यकं पतति" ॥ इति संस्कृतम् । अस्यार्थः एतदननन्तरोक्तसम्मतिवचनस्यार्थः । 'अर्थान्तरभूतैर्निजकैश्च' इत्येतावन्मात्रोक्तो कैः किं भवतीत्याकासासद्भावाद् निराकाङ्क्षप्रतिपत्तिर्न भवेदित्यत आह-पर्यायैः क्रमेण 'स्यात् सन्', 'स्यादसन्' इति द्वौ भङ्गो भवत इति शेष इति । 'समकम्' इत्यस्य 'युगपद' इत्यर्थोपवर्णनम् । अत्रापि निराकाङ्क्षप्रतिपत्तये आहविवक्षितमिति शेष इति । 'वचनविशेषाऽतीतं सद्' इत्यस्याऽर्थव्यावर्णनम्-तथाविधवचनवाच्यताऽनापन्नं :सद् इति । अवक्तव्यकं पतति इत्यस्य, भावार्थकथनम्-तृतीयभङ्गविषयतामास्कन्दतीति । उक्तगाथायां
Page #290
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम्
२२९ .. अत्र च निजाऽर्थान्तरपर्यायैरनेकान्तोपजीविनैगम-व्यवहारविशुद्धतारतम्योपदर्शकवसतिदृष्टान्तनीत्या यथाक्रमसङ्कुचद्भिः क्रमेण युगपच्चाऽऽदिष्टैरुपदर्शितेषु षोडशस्ववक्तव्यविकल्पेषु मध्ये एकादशसु त्रयोऽपि भङ्गाः सम्भवन्ति, द्वादशादिषु पञ्चसु च स्वतत्रैकान्ते नयार्पितेस्तैः प्रत्येकं समुदाये च सर्वथाऽवक्तव्यत्वभङ्ग एवोत्तिष्ठते, स च बाधितः सन् कथञ्चिदवक्तव्यत्वे पर्यवस्यति, तस्य कथञ्चित्त्वं च भङ्गद्वयाधीनम्, इत्थं च त्रयाणां भङ्गानां क्रमाभिधानमेव सम्प्रदायसिद्धमिति ॥ व्युत्पत्तिमहिम्ना ततोऽपि स्याद्वादविदुषो भङ्ग
सामान्यतस्त्रयो भङ्गा दर्शिताः, तेभ्यश्च यथोक्तषोडशप्रकारा उपलक्षिता भवन्ति तथा दर्शयति--अत्र चेति-उक्तगाथायां चेत्यर्थः । निजा-ऽर्थान्तरपर्यायैः निजपर्याया-ऽर्थान्तरपर्यायैः, 'यथाक्रममसङ्कुचद्भिः' इति 'क्रमेण युगपञ्चाऽऽदिष्टैः' इति च 'निजाऽर्थान्तरपर्यायैः' इत्यस्यैव विशेषणम् । कथं यथाक्रमसङ्कुचद्भिः ? इत्यपेक्षायामुक्तम्-अनेकान्तोपजीवीत्यादि-अनेकान्तोपजीवी यो नैगमव्यवहारयोर्विशुद्धतारतम्योपदर्शको वसतिदृष्टान्तः, तन्नीत्येत्यर्थः । क्रमेणाऽऽदिष्टैराद्यभङ्गद्वयं युगपदादिष्टैस्तृतीयो भङ्ग इति कृत्वा तैः 'त्रयोऽपि भङ्गाः सम्भवन्ति इति । कुत्र ? इत्यपेक्षायामुक्तम्-'उपदर्शितेषु षोडशस्ववक्तव्यविकल्पेषु मध्ये एकादशसु' इति । अवशिष्टेषु द्वादशादिषु पञ्चसु विकल्पेषु तैः किं भवति ? इत्यपेक्षायामाह-द्वादशादिष्विति । तैः निजाऽर्थान्तरपर्यायैः । प्रत्येकं निजपर्याये अर्थान्तरपर्याये युगपद्विवक्षितपर्यायद्वये च । समुदाये च युगपद्विवक्षितोभयपर्याये च, यथा च अवक्तव्यत्वभङ्गस्योत्थानं तथोपदर्शितं प्राक् । स च सर्वथाऽवक्तव्यत्वभङ्गश्च । तस्य अवक्तव्यत्वस्य । एवं सति त्रयोऽपि भङ्गाः क्रमेणैवोपदर्शनीयाः, न त्ववक्तव्यत्वभङ्ग एव प्रथमत एव दर्शनीयः, सम्प्रदायोऽपि च तथैवेत्याह-इत्थं चेति-अवक्तव्यत्वे कथञ्चित् त्वस्य भङ्गद्वयाधीनत्वे चेत्यर्थः, केनापि प्रकारेण वक्तव्यत्वे सत्येवाऽवक्तव्यत्वं कथञ्चित् स्यादित्यतो वक्तव्यत्वोपदर्शकमाद्यभङ्गद्वयममिधातव्यमित्यभिसन्धिः । व्युत्पत्तिमहिम्ना व्युत्पत्तिविशेषसामर्थेन। ततोऽपि केवलैकावक्तव्यत्वभङ्गोद्भावनतोऽपि, यतस्तत्राऽयं निजपर्यायोऽयं च परपर्याय इत्युद्भावनपुरस्सरमेव युगपदा
Page #291
--------------------------------------------------------------------------
________________
२३० अनेकान्तव्यवस्थाप्रकरणम् । त्रयसम्भव इति विवेकः, इत्थं च यत् पशुपालेनोक्तम्- "सर्वत्रानेकान्ताभ्युपगमे 'सर्वमस्ति स्वरूपेण पररूपेण नास्ति च' इति । वचनमेवानुपपन्नम् , स्व-पररूपयोरप्यनिर्धारणाद्” इति, तदपास्तं द्रष्टव्यम् , पूर्वनयविशेषेण स्व-पररूपयोः सङ्कोच-विकासावुपजीव्य तदनुसारेणैव सप्तभङ्गीप्रवृत्तेः अवच्छिन्नसप्रतिपक्षधर्मद्वयाभिधानस्थले एकान्ततोऽवच्छेदकनिर्णयस्य तवाप्यभावात्, 'इदानीं गोष्ठे गौर्न तु वाजिशालायाम्' इत्यादौ शुद्धगोष्ठादेरप्यवच्छेदकत्वस्य निर्णेतुमशक्यत्वात् , 'इह कोणे गोष्ठे गौर्नापरकोणे' इति प्रतिसन्धाने एतत्कोणावच्छिन्नगोष्ठस्यैतकोणस्य वा तथात्वसम्भवादवच्छेदकावच्छेदकस्याऽवच्छेदकसङ्कोचस्य
दिष्टाभ्यां ताभ्यामवक्तव्य इत्युपन्यासः, तथा च यो निजपर्यायस्तेन सत्त्वमित्यतः 'स्यादस्त्येव' इति प्रथमो भङ्गः, यश्च परपर्यायः तेनासत्त्वमित्यतः 'स्यान्नास्त्येव' इति द्वितीयो भङ्ग इत्येवमर्थादवगतौ भङ्गत्रयावगतिः सुलभवेत्यभिसन्धिः । इत्थं च वसतिदृष्टान्तनीत्या स्वपरपर्यायसङ्कोचाश्रयणेन षोडशप्रकारेण भङ्गत्रयसमर्थनतः सप्तभङ्गीप्रवृत्तिव्यवस्थितौ च ।
यत् पशुपालेनोक्तं तदपास्तं द्रष्टव्यमित्यन्वयः । पशुपालोक्तिमेवोल्लिखति-सर्वत्रानेकान्ताभ्युपगम इति । स्व-पररूपयोरप्यनिर्धारणा-दितीति-यत् स्वरूपं तदपि न सर्वथेति भवति तदपि पररूपमनेकान्तदृष्ट्या, एवं यदपि पररूपं तदपि न सर्वथेति स्यात् तदप्यनेकान्तदृष्ट्या स्वरूपमित्यत एतत् स्वरूपमेवैतत् पररूपमेवेत्येवं निर्धारणाऽसम्भवादित्यर्थः । तत्प्रतिक्षेपहेतुमुपदर्शयति पूर्वमिति । तदनुसारेणैव स्व-पररूपसङ्कोच-विकासानुसारेणैव । परमतेऽप्यवच्छेदकसङ्कोचविकासाश्रयणं सावच्छिन्नसप्रतिपक्षधर्मद्वयैकत्रावस्थानोपपत्तये आवश्यकमित्याहअवच्छिन्नेति । तवाऽपि पशुपालाभिधानपरस्यापि । एकान्ततोऽवच्छेदकनिर्णयाभावे हेतुमुद्भावयति-इदानीमिति । शुद्धगोष्ठादेरवच्छेदकत्वं कुतो निर्णतुमशक्यमित्यपेक्षायामाह-इहेति । तथात्वसम्भवात् गोवृत्तितावच्छेदकत्वसम्भवात् । यश्च प्रकारान्तरेणावच्छेदकनिर्णयो भवता कर्तुं शक्यः सोऽस्माभिरपि कर्तुं शक्य • इत्याह-अवच्छेदकावच्छेदकस्येति-अस्य 'अपरिस्फूर्ती' इत्यनेनान्वयः, एत
Page #292
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् २३१ वाऽपरिस्फूर्ती शुद्धावच्छेदकपुरस्कारेण तत्परिस्फूर्ती तु सावच्छिन्नप्रकृतावच्छेदकपुरस्कारेणैव प्रतिनियतदेशदेशावच्छेदेन वा निर्णयस्त्वावयोः समानः, देशदेशस्य नावच्छेदकत्वमिति तु नील-पीतकपालिकास्थकपालसमवेतघटनीलप्रत्यक्षान्यथानुपपत्त्या परेण वक्तुमशक्यम्, तत्र नीलकपालिकावच्छिन्नचक्षुःसंयुक्तसमवायसम्बन्धावच्छिन्नाधारतयैव.
कोणावच्छिन्नो गोष्ठो गोवृत्तितावच्छेदक इति गोवृत्तितावच्छेदकस्य गोष्ठस्याऽवच्छेदको गृहकोण इत्यस्यापरिस्फूर्तावित्यर्थः, सम्पूर्ण गोष्ठे गोवृत्तित्वं न सम्भवति किन्तु गोष्ठस्य कोण एवेत्यतो गोष्ठस्य न गोवृत्तितावच्छेदकत्वं किन्तु गोष्ठकोणस्येत्येवमवच्छेदकसङ्कोचस्याऽपरिस्फूर्तावित्यर्थः । शुद्धावच्छेदकपुरस्कारेण तत्परिस्फूतौ त्विति'गोष्ठे गौरिदानी वर्तते' इत्येवं प्रतिभासाच्छुद्धगोष्ठावच्छेदेन गोवृत्तित्वस्य परिस्फूर्ती त्वित्यर्थः । 'सावच्छिन्नप्रकृतावच्छेदकपुरस्कारेणैव' इत्यस्य 'निर्णयः' इत्यनेनान्वयः, कोणावच्छिन्नगोष्ठलक्षणावच्छेदकपुरस्कारेणैव गवि वर्तमानकालवृत्तित्वस्य निर्णय इत्यर्थः । प्रतिनियतदेशदेशावच्छेदेन वा निर्णय इति प्रतिनियतो देशो गोष्ठः, तस्य देशः कोणः, तदवच्छेदेन गवि वर्तमानकालवृत्तित्वस्य निर्णय इत्यर्थः । आवयोः पशुपाल-जैनयोः । देशदेशस्य नावच्छेदकत्वमिति तु परेण वक्तुमशक्यमित्यन्वयः, तत्र हेतुः-'नील' इत्यादि 'अनुपपत्त्या' इत्यन्तम् , एका नीलकपालिका द्वितीया पीतकपालिका, ताभ्यामारब्धो यः कपालः स न नीलो न वा पीतः किन्तु चित्ररूप. वानेव नील-पीतकपालिकास्थकपालः, तत्समवेतघटोऽपि चित्ररूपवानेव, एवमप्यवयवगतनीलस्य तत्र प्रत्यक्ष 'नीलो घटः' इत्येवमुपजायते, तस्य नीलस्य कपालानाश्रितत्वान्न कपालस्यावच्छेदकत्वं किन्तु कपालिकाया एवेति तादृशप्रत्यक्षान्यथानुपपत्त्या देशदेशस्यावच्छेदकत्वं स्वीकरणीयमित्यभिप्रायः । तत्र तादृशनीलप्रत्यक्षस्थले । नीलेति-नीलकपालिकावच्छिन्नचक्षुःसंयुक्तः कपालः तत्समवायो घटे इति तत्सम्बन्धावच्छिन्नाधारता घटे वर्तते इति तयैव घटे सतो नीलस्य प्रत्यक्षोपपादनादित्यर्थः । देशदेशस्योभयोरप्यवच्छेदकत्वस्वीकारे यो विशेषस्तमुपदर्शयति-इयांस्तु विशेष इति । तदधिकरणस्यैव तदवच्छेदकत्वमिति नियमेन देशदेशस्य स्वसमवायिसमवायात्मकपरम्परासम्बन्धलक्षणस्वाभाविकसम्बन्धेन स्वसंयुक्तसमवायात्मकपरम्परासम्बन्धलक्षणस्वाभाविकसम्बन्धेन वाऽवच्छेद्यसम्बन्धित्वादवच्छेदकत्वमित्याह
Page #293
--------------------------------------------------------------------------
________________
२३२
अनेकान्तव्यवस्थाप्रकरणम् ।
wwwm
घटे नीलप्रत्यक्षोपपादनात् इयांस्तु विशेषः, यत्परेषां देशदेशस्यावच्छेदकत्वं स्वाभाविकसम्बन्धविशेषेण, अस्माकं तु वैज्ञानिकसम्बन्धविशेषेण, तत्र परेषां परम्परासम्बन्धेन गोष्ठकोणस्य साक्षात्सम्बन्धेन च कोणावच्छिन्नगोष्ठस्य गवावच्छेदकत्वमिति 'कोणे गौर्न तु गोष्ठे' इति सूक्ष्मेक्षिकानुपपत्तिः, अस्माकं तु मध्यमनैगमभेदकृत वैज्ञानिकसम्बन्धेन गोष्ठकोण एव तथात्वं न तु गोष्ठ इति तदुपपत्तिः, न च 'कोणे गौर्न तु गोष्ठे' इति सूक्ष्मेक्षिका न भवत्येव, किन्तु 'न तु सम्पूर्ण गोष्ठे' इत्येव, सा च यावत्कोणेषु गवावच्छेदकतावच्छेदकत्वपर्यात्यभावमवगाहत इति
"
यदिति - यस्मादित्यर्थः । परेषां पशुपालानुयायिनाम् । अस्माकं तु जैनानां तु वैज्ञानिक सम्बन्धविशेषेण स्वविषयकज्ञानविषयत्वाद्यात्मक सम्बन्धेन । तत्र उक्तविषये । परेषां पशुपालानुयायिनाम् । परम्परासम्बन्धेन गोष्टो न गोरव - यवरूपो देशः किन्तु संयोगिलक्षण इति स्वसंयुक्तसमवायित्वसम्बन्धेन गोष्टकोणस्य गवावच्छेदकत्वमिति सम्बन्धः । साक्षात्सम्बन्धेन संयोगसम्बन्धेन, यदा च परमते देशदेशस्य देशस्य चावच्छेदकत्वं स्वाभाविकेन परम्परासम्बन्धेन स्वाभाविकेन च साक्षात्सम्बन्धेन चोपपद्यते तदा 'कोणे गौः' इति 'गोष्टे गौः' इति प्रतीतिद्वयमपि सम्भवतीत्यतः 'कोणे गौर्न तु गोष्टे' इति सूक्ष्मेक्षिकाया अनुपपत्तिरित्याह-इतीति-एतस्मात् कारणादित्यर्थः । अस्माकं तु जैनानां पुनः । मध्यमेति - अपकृष्टनैगममते 'लोके गौः' इति प्रतीत्या लोकादेरप्यवच्छेदकत्वं भवति, अत्युत्कृष्टनैगमे तु यत्राकाशदेशे गोरवगाहस्तस्यावच्छेदकत्वमतो मध्यमेति–मध्यमो यो नैगमभेदो नैगमविशेषस्तत्कृतस्तत्प्रयुक्तो यो वैज्ञानिकसम्बन्धः, तेन गोष्टकोण एव तथात्वमवच्छेदकत्वम्, एवकारेण गोष्टस्यावच्छेदकत्वव्यवच्छेदः प्राप्त एवोपदर्शयति-न तु गोष्ठ इति, प्रतीत्यनुसारेणैव वैज्ञानिकसम्बन्धः कल्प्यत इति मध्यमनैगमेन तत्रावच्छेदकत्वप्रतीत्युपपत्तये तत्रैव वैज्ञानिकसम्बन्धः सम्बन्धतया कल्प्यते, अन्यत्र सतोsपि यथा कथञ्चिद्वैज्ञानिकस्य सम्बन्धत्वं न कल्प्यत इत्यभिसन्धिः । इति एतस्मात् कारणात् । तदुपपत्तिः 'कोणे गौर्न तु गोष्ठे' इति सूक्ष्मेक्षिकाया उपपत्तिः । परमतमाशय प्रतिक्षिपति - न चेति - 'अस्य वाच्यम्' इत्यनेन सम्बन्धः ।
Page #294
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् २३३ परेषामपि नाऽनुपपत्तिरिति वाच्यम् , एवं सति सम्पूर्णकोणेऽपि तदभावात्' 'कोणे गोष्ठे गौः' इत्यस्याप्यनुपपत्तेर्नयविशेषकृतसम्बन्धं विना न विचित्रप्रतीत्युपपत्तिरित्यधिकं नयरहस्यादौ ॥
एते च त्रयो भङ्गा गुण-प्रधानभावेन सकलधर्मात्मकैकवस्तुप्रतिपादकाः सन्तः सकलादेशाः स्यात्कारपदलाञ्छितैतद्वाक्याद् विवक्षा
wwwwww
सा च 'कोणे गौर्न तु सम्पूर्णगोष्ठे' इति सूक्ष्मेक्षिका पुनः । यावदिति-यत्किञ्चित्कोणावच्छिन्नगोष्ठ एव गौर्विद्यते न तु यावत्कोणावच्छिन्नगोष्ठ इति गोष्ठनिष्ठगवावच्छेदकताया अवच्छेदकत्वं यत्किञ्चित्कोण एव न तु यावत्कोणेष्विति तेषु गवावच्छेदकतावच्छेदकत्वपयोप्यभावमवगाहत इत्यस्यार्थस्य परमतेऽपि घटमानत्वात् परेषामपि पशुपालानुयायिनामपि । 'कोणे गौन तु सम्पूर्ण गोष्ठे' इति सूक्ष्मेक्षिकाया नानुपपत्तिरित्यर्थः । यावत्कोणेषु गोरभावात् सम्पूर्णगोष्ठेषु न गोस्तथा कोणस्य यावदवयवेष्वभावात् सम्पूर्णकोणेऽपि न गौरिति 'कोणे गोष्ठे गौः' इति प्रतीतेरप्यनुपपत्तरिति निषेधहेतुमुपदर्शयति-एवं सतीति । तथा च नयविशेषकृतसम्बन्धाश्रयणेन विचित्रप्रतीत्युपपत्तिर्न तु नयविशेषकृतसम्बन्धं विनेत्याहनयविशेषेति । विशेषजिज्ञासुभिरस्मत्कृतनयरहस्यादिकमवलोकनीयमित्युपदिशतिअधिकं नयरहस्यादाविति ॥
सप्तभङ्गयां केषुचिद् भङ्गेषु सकलादेशत्वं केषुचिद् विकलादेशत्वमिति मतमावेदयितुमाह-एते चेति-अनन्तरोपदर्शिताश्चेत्यर्थः । गुणेति-प्रथमभङ्गो नास्तित्वादिधर्माणां गुणभावेनाऽस्तित्वधर्मस्य प्रधानभावेन प्रतिपादकः, द्वितीयभङ्गोऽस्तित्वादिधर्माणां गुणभावेन नास्तित्वधर्मस्य प्रधानभावेन प्रतिपादकः, तृतीयभङ्गोऽस्तित्वादिधर्माणां गुणभावेनाऽवक्तव्यत्वधर्मस्य प्रधानभावेन प्रतिपादक इत्येवं गुण-प्रधानभावेन सकलधर्मात्मकैकवस्तुप्रतिपादकाः सन्त आद्यास्त्रयो भङ्गाः सकलादेशा भवन्तीत्यर्थः । स्यात्कारेति-स्यात्कारः 'स्याद्' इत्येवंस्वरूपं यत् पदं तेन लाञ्छितं घटितं यदेतद् वाक्यं 'स्यादस्त्येव घटः, स्यान्नास्त्येव घटः, स्यादवक्तव्य एव घटः' इत्येवं वरूपं वाक्यं तस्मात् स्यात्कारपदलाञ्छितैतद्वाक्यात् , अस्य 'प्रतीतेः' इत्यत्रान्वयः, विवक्षाकृतः प्रधानभावो यस्य स विवक्षाकृतप्रधानभावः, यो धर्मों यदा विवक्ष्यते स धर्मस्तदा प्रधानो भवतीति सत्त्वस्य... विवक्षया प्रथमभङ्गः
Page #295
--------------------------------------------------------------------------
________________
२३४ अनेकान्तव्यवस्थाप्रकरणम् । कृतप्रधानभावसदायेकधर्मात्मकस्यापेक्षिताऽपराशेषधर्मक्रोडीकृतस्य वाक्यार्थस्य प्रतीतेः। विवक्षाविरचितद्वित्रिधर्मानुरक्तस्य स्यात्कारपदसंसूचितसकलधर्मस्वभावस्य धर्मिणो वाक्यार्थस्य प्रतिपादका वक्ष्यमाणास्तु चत्वारो विकलादेशा इति केचित् सङ्गिरन्ते । ते चेमे 'स्यादस्ति नास्ति च घटः' इति प्रथमो विकलादेशः १, ‘स्यादस्त्यवक्तव्यश्च घटः' इति द्वितीयः २, 'स्यान्नास्ति चावक्तव्यश्च घटः' इति तृतीयः ३, 'स्यादस्ति च नास्ति चावक्तव्यश्च घटः' इति चतुर्थः ४ । तत्र वस्तुनो देशो यदैकः सत्त्वेऽपरश्चासत्त्वे आदिश्यते तदा प्रथमो विकलादेशः । आह च
उपतिष्ठत इति, एवमसत्त्वस्य विवक्षया द्वितीयभङ्ग उपतिष्ठत इति प्रथमभङ्गे सत्त्वस्य प्राधान्यं द्वितीयभङ्गेऽसत्त्वस्य प्राधान्यम् , एवमन्यत्रापि ज्ञेयम् , तथा च विवक्षाकृतप्रधानभावो यः सदायेकधर्मो भावप्रधाननिर्देशात् सत्त्वाद्येकधर्मस्तदात्मकस्य, अस्य वाक्यार्थस्य' इत्यनेनान्वयः, अपेक्षिता येऽपरे तद्भिन्ना अशेषधर्मास्तैः क्रोडीकृतस्य वाक्यार्थस्य प्रतीतेर्भवति गुण-प्रधानभावेन सकलधर्मात्मकैकवस्तुप्रतिपादकत्वं 'स्यादस्त्येव' इत्यादिभङ्गत्रयाणामिति सकलधर्मात्मैकवस्तुप्रतिपादकत्वलक्षणसकलादेशत्ववत्वात् ते सकलादेशा इत्यर्थः। 'स्यादस्त्येव नास्त्येव' इत्यादिचतुर्थपञ्चम-षष्ठ-सप्तमभङ्गाश्चत्वारो विकलादेशा इत्युपदर्शयति-विवक्षाविरचितेतिचतुर्थ-पञ्चम-षष्ठभङ्गेषु धर्मद्वयस्य विवक्षाविरचितत्वं सप्तमभङ्गे धर्मत्रयस्य विवक्षाविरचितत्वम् , तच्च प्रधानभावेन विवक्षितत्वमिति बोध्यम् । 'केचित् सङ्गिरन्ते' इत्युक्त्या अन्ये देवसृरिप्रभृतयः सप्तापि भङ्गाः सकलादेशा विकलादेशाश्चेत्यामनन्तीत्यस्य संसूचनम् । 'ते चेमे' इत्यादिना चत्वारोऽपि विकलाः प्रत्येकं स्वरूपोदृङ्कनेन विभाविताः । चत्वारो विकलादेशा यथोपतिष्ठन्ते तथा क्रमेणोपदर्शयतितत्रेति-चतुर्पु विकलादेशेषु मध्य इत्यर्थः । .. वस्तुन एकदेशस्य सत्त्वेऽपरदेशस्याऽसत्त्वे आदेशे सति प्रथमो विकलादेशः प्रवर्तत इत्यत्र सम्मतिसंवादमाह-आह चेति । अह० इति “अथ देशः सद्भावे
Page #296
--------------------------------------------------------------------------
________________
तत्त्वधिबोनीविवृतिविभूषितम् "अह देसो सब्भावे देसोऽसब्भावपञ्जवे णियओ। ___ तं दवियमत्थि णत्थि य आएसविसेसियं जम्हा ॥”.
[सम्मतितकें का० १, गा० ३७] अस्यार्थः-यदा देश:-वस्तुनोऽवयवः, सद्भावे अस्तित्वे, नियत:सन्नेवायमित्येवं निश्चितः, अपरश्च देशोऽसद्भावपर्याये-नास्तित्व एव नियतः-असन्नेवायमित्यवगतः, अवयवेभ्योऽवयविनः कथञ्चिदभेदादवयवधर्मेस्तस्यापि तथा व्यपदेशः, यथा-कुण्ठो देवदत्त इति, ततोऽवयवसत्त्वाऽसत्त्वाभ्यामवयव्यपि सदसन् सम्भवति, ततस्तद् द्रव्यमस्ति च नास्ति चेति भवति, आदेशेन-उभयप्रधानावयवभागेन विशेषितं यस्मात् तथा हि-यदवयवेन विशिष्टधर्मेण आदिश्यते तदस्ति च नास्ति च भवति, तथा स्वद्रव्य-क्षेत्र-काल-भावैर्विभक्तो हि घटोऽस्ति परद्रव्यादिरूपेण च स एव नास्तीति । आद्ययोरपि भङ्गयोः स्वद्रव्य-परद्रव्याभ्यां विभज्यत एव घट इति तत्समुदायात् कोऽस्य विशेष इति चेत् ? न-'तत्रास्तित्व-नास्तित्वावच्छेदकद्वारा विभागेऽदेशोऽसद्भावपर्यवे नियतः । तद्व्यमस्ति नास्ति च आदेशविशेषितं यस्मात्" । इति संस्कृतम् । अस्यार्थः एतत्सम्मतिवचनस्यार्थः । देशोऽस्तित्वे नियत इत्यस्य फलितमाह-सन्नेवेति । देशयोः सद्भावाऽसद्भावनियतत्वे देशिनस्तथाव्यपदेशः कथमित्यपेक्षायामाह-अवयवेभ्य इति । तस्यापि अवयविनोऽपि । ततः अवयवधभैरवयविनो व्यपदेशतः । उभयप्रधानेति-अस्तित्व-नास्तित्वोभयप्रधानेत्यर्थः । उपपादयति-तथाहीति । स्वद्रव्यादिभिरस्तित्वस्य परद्रव्यादिभिर्नास्तित्वस्य चाश्रयणेन विभक्तोऽपि घटस्तथा व्यपदिश्यत इत्याह-तथेति । अत्र तटस्थः शङ्कते-आद्ययोरपीति । तत्समुदायात् प्रथम-द्वितीयभङ्गसमुदायात् । अस्य तुरीयभङ्गस्य प्रथम भङ्गे वस्तुगतमेवास्तित्वम् , द्वितीयभङ्गे वस्तुगतमेव नास्तित्वम् , तयोरवच्छेदकद्वारा विभजनम् , तुरीयेऽवयवगतयोश्च तयोरवयवद्वारा विभज्यावयविन्युपदर्शनमित्यस्ति विशेष इति समाधत्ते-नेति। तत्र प्रथम-द्वितीयभङ्गसमुदाये। अत्र
Page #297
--------------------------------------------------------------------------
________________
२३६
अनेकान्तव्यवस्थाप्रकरणम् ।
P
प्यवयवद्वारा विभागाभावात्, अत्र तु तद्वारा विभागेन विशेषात् तद्वारा विभागकरण एवं किं बीजमिति चेत् ?, सावयवनिरवयवात्मकवस्तुनस्तथाप्रतिपत्तिजनकसावयवनिरवयवत्वशबलैक स्वरूपवाक्यत्वेन प्रामाण्यरक्षार्थमिति दिक् ॥ ४ ॥
एकस्य देशस्य सत्त्वेनाऽपरस्य च युगपदुभयथादेशे द्वितीयो विकलादेशः । आह —
"सब्भावे आइट्ठो देसो देसो य उभयहा जस्स ।
तं अस्थि अवत्तव्वं च होइ दवियं विअप्पवसा || " [ सम्मतितर्फे का० १, गा० ३८ ] अस्यार्थः – सद्भावे - अस्तित्वे, यस्य - घटादेर्धर्मिणः, देशः- धर्मः,
तु तुरीयभङ्गे पुनः । तद्वारा अवयवद्वारा । शङ्कते -तद्वारेति - प्रथम-द्वितीययोरस्तित्वनास्तित्वावच्छेदकद्वारा तुरीयेऽवयवद्वारेत्यर्थः, 'किं बीजम्' इत्यत्र किम आक्षेपार्थत्वान्नास्ति बीजमित्यर्थः । वस्तुनः सावयव - निरवयवोभयस्वरूपत्वम् । तत्र निरवयवत्वप्रतिपत्तिकालेऽवयवस्तस्य न विवक्षितोऽतो निरवयववस्तुप्रतिपत्तिप्रवणप्रथमद्वितीयभङ्गयोरस्तित्वनास्तित्वावच्छेदकद्वारा विभजनम्, सावयववस्तुप्रतिपत्तिप्रवणतुरीयभङ्गेऽवयवद्वारा विभजनम्, ततश्चैकवाक्यतया सावयव - निरवयवात्मकवस्तुप्रतिपत्तिजनकवाक्यत्वेन सप्तभक्त्याः प्रामाण्यं सुरक्षितं भवतीत्यस्त्येव बीजमिति समाधत्ते - सावयवेति । तथा प्रतिपत्तीति - सावयव - निरवयवप्रतिपत्तीत्यर्थः, सप्तभङ्ग्या आद्यभङ्गत्रयावच्छेदेन निरवयवत्वं तुरीयादिभङ्गावच्छेदेन सावयवत्वमित्येवं सावयवत्व-निरवयवत्वशबलं यत् सप्तभङ्ग्यात्मकमेकवाक्यम्, तत्त्वेन प्रामाण्यरक्षार्थमुक्तदिशा विभागकरणमित्यर्थः ।
'स्यादस्त्येव स्वादवक्तव्य एव च घटः इति पञ्चमं भङ्गं द्वितीयविकला देश भावयति - एकस्येति । 'सत्त्वेन ' ' इत्यस्य आदेशे' इत्यनेनान्वयः । उभयथा सत्त्वाऽसत्त्वाभ्याम् । तत्र सम्मतिगाथां प्रमाणयति-आह चेति सब्भावे इति" सद्भावे आदिष्टो देशो देशश्च उभयथा यस्य । तदस्ति अवक्तव्यं च भवति द्रव्यं विकल्पवशात्” ॥ इति संस्कृतम् । अस्यार्थः - अनन्तरोपदर्शितसम्मतिवच
wwwww
Page #298
--------------------------------------------------------------------------
________________
२३७
तत्त्वबोधिनीविवृतिविभूषितम् आदिष्टोऽवक्तव्यानुविद्धः, स्वभावे, अन्यथा तदसत्त्वात् , नापरधर्माऽप्रविभक्ततामन्तरेण विवक्षितधर्मास्तित्वमस्य सम्भवति, खरविषाणादेवि, तस्यैवापरो देश उभयथा-अस्तित्वनास्तित्वप्रकाराभ्याम्, एकदैव विवक्षितोऽस्तित्वानुविद्ध एवावक्तव्यस्वभावे, अन्यथा तदसत्त्वप्रसक्तेः, नह्यस्तित्वाभावे उभयाविभक्तता शशशृङ्गादेरिव तस्य सम्भविनी, प्रथमतृतीयकेवलभङ्गव्युदासस्तथाविवक्षावशादत्र कृतोऽत्र द्रष्टव्यः, तत्र प्रथम-तृतीययोर्भङ्गयोः परस्पराविशेषणीभूतयोः प्रतिपाद्येनाधिगन्तुमि
नस्यार्थः । 'अवक्तव्यानुविद्धः, स्वभावे' इति मुद्रितपाठो न युक्तः, किन्तु 'अवक्तव्यानुविद्धस्वभावे' इति पाठः सङ्गतः। अन्यथा अवक्तव्यानुविद्धस्वभावे धर्मान्तरस्यास्तित्वस्यादेशाभावे । तदसत्त्वात् अस्तित्वस्यासत्त्वात् । एतदेवोपपादयतिनहीति-अस्य 'सम्भवति' इत्यनेनान्वयः । अस्य वस्तुनः, अपरधर्मोऽवक्तव्यत्वम् , तेनाप्रविभक्ततामनुविद्धतामन्तरेण वस्तुनो घटादेर्विवक्षितस्यास्तित्वधर्मस्यास्तित्वं नहि सम्भवतीत्यर्थः । खरविषाणादेरिवेति-यथा खरविषाणादेर्धर्मान्तरानुविद्धस्वभावविकल स्यास्तित्वस्यास्तित्वं न तथेत्यर्थः । तस्यैव यस्यैको देशोऽस्तित्वे आदिष्टस्तस्यैव घटादेवस्तुनः । अन्यथा अस्तित्वानुविद्धेऽवक्तव्यत्वस्वभावे आदेशाभावे । तदसत्त्वप्रसक्तेः अवक्तव्यत्वासत्त्वप्रसङ्गात् । अत्रैव युक्तिमाहनहीति-अस्य 'सम्भविनी' इत्यनेनान्वयः । उभयाविभक्तता युगपद्विवक्षितास्तित्वनास्तित्वोभयानुविद्धता । शशशृङ्गादेरिव शशशृङ्गादेर्यथाऽस्तित्वाभावादस्तित्व-नास्तित्वोभयानुविद्धता नास्ति तथा। तस्य घटादेवस्तुनः । 'स्यादस्त्येव' इति प्रथमे केवलमस्तित्वं विवक्षितम् , 'स्यादवक्तव्य एव' इति तृतीये युगपदस्तित्वनास्तित्वोभयमेव विवक्षितम् , पञ्चमभङ्गे तु अस्तित्वानुविद्धमस्तित्वनास्तित्वोभयमस्तित्वनास्तित्वोभयानुविद्धमस्तित्वं च विवक्षितमतः प्रथम-तृतीयाभ्यामस्य भेदं इत्यावेदयितुमाह-प्रथमेति-केवलो यः प्रथमभङ्गः, केवलो यस्तृतीयभङ्गः, तयोय॒दासः, तथा विवक्षावशाद अस्तित्वानुविद्धास्तित्व-नास्तित्वोभयविवक्षावशाद् अत्र तृतीयभङ्गे अस्य 'तथाविवक्षावशाद्' इति पूर्वेणान्वयः । 'अत्र' इति द्वितीयस्य 'व्युदासः कृतः' इत्यनेनान्वयः । प्रथम-द्वितीयभङ्गयोर्ये विवक्षे ताभ्यामन्यान विवक्षेति स्पष्टयति-तत्रेति-प्रथम-तृतीय-पञ्चमभङ्गेषु मध्य इत्यर्थः, परस्परा
Page #299
--------------------------------------------------------------------------
________________
२३८ अनेकान्तव्यवस्थाप्रकरणम् । ष्टत्वात्, प्रतिपादकेनापि तथैव विवक्षितत्वाद्, अत्र तु तद्विपर्ययादनन्तधर्मात्मकस्य धर्मिणः प्रतिपाद्यानुरोधेन तथाभूतधर्माक्रान्तत्वेन वक्तुमिष्टत्वात् तद्रव्यमस्ति चावक्तव्यं च भवति, तद्धर्मविकल्पवशाद् धर्मयोस्तथापरिणतयोस्तथा व्यपदेशे धर्म्यपि तद्बारेण तथैव हि व्यपदिश्यते । __ अत्रेदमवधेयम्-परस्परविशेषणीभूतयोरस्तित्वाऽवक्तव्यत्वयोरत्र न विवक्षा, चैत्रो 'रक्तदण्डवान्' इतिवत् 'स्यादस्त्यवक्तव्यश्च घटः' इत्यतः 'अस्तित्वविशिष्टाऽवक्तव्यत्ववान् घटः' इत्यबोधात्, किन्तु चकारबलाद् 'एकत्र द्वयम्' इति न्यायेन 'विदेशे दण्डी कुण्डली च'
विशेषणीभूतयोः' इत्यस्यानन्तरम् 'अस्तित्वा-ऽवक्तव्यत्वयोः' इति दृश्यम् । प्रतिपाद्येनेति-यं पुरुषं बोधयितुमुक्तवाक्यं प्रयुङ्क्ते प्रतिपादकस्तेन पुरुषेणेत्यर्थः । तथैव परस्पराविशेषणतयैव । विवक्षितत्वात् अस्तित्वा-ऽवक्तव्यत्वयोर्विवक्षितत्वात् । अत्र तु पञ्चमभङ्गे पुनः । तद्विपर्ययात् प्रथम-तृतीयभङ्गतो विपर्ययात् । एतदेव स्पष्टयति-अनन्तेति । 'विकल्पवशाद' इत्यस्यैव 'तद्धर्मविकल्पवशाद्' इति परिष्कृत्य कथनम् । धर्मयोस्तथा विवक्षावशात् तथाप्रयोगः समुचितः कथं धर्मिणस्तथाप्रयोग इत्यपेक्षायामाह-धर्मयोरिति । तद्वारेण तथा परिणतधर्मद्वारेण । ___ स्वाभिप्रायमत्रोपदर्शयति-अत्रेदमवधेयमित्यादिना । अत्र तृतीयभङ्गे । चैत्रो रक्तदण्डवान् इतिवदिति-अयं च व्यतिरेकेण दृष्टान्तः, तेन 'चैत्रो रक्तदण्डवान्' इत्यत्र यथा रक्तत्वविशिष्टदण्डवान् चैत्र इत्यवबोधो न तथेत्यर्थः । यद्युक्तभङ्गतोऽस्तित्वविशिष्टावक्तव्यत्वप्रकारकबोधो न भवति तर्हि कीदृशस्ततो बोध इति पृच्छति-किन्त्विति । उत्तरयति-चकारेति-'स्यादस्ति अवक्तव्य एव च घटः' इत्यत्र च शब्दोपादानबलादित्यर्थः । एकत्र द्वयमिति न्यायेनेति-एकविशेष्यतानिरूपितप्रकारताद्वयनिरूपको बोधो यत्र भवति तत्रोक्तन्यायः प्रवर्तते, समुच्चये प्रकारताभेदाद् विशेष्यताया भेदोऽत्र तु नैवमिति ततो विशेषः। विदेश इतिहस्तावच्छेदेन दण्डसंयोगः, कर्णावच्छेदेन कुण्डलसंयोग इत्येवं विभिन्नदेशावच्छेदेने
Page #300
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् २३९ इत्यत्र चैत्रे दण्ड-कुण्डलयोरिव प्रकृते घटेऽस्तित्वा-ऽक्तव्यत्वयोः परस्पराऽविशेषणीभूतयोरेव भानात् । एकत्र द्वयभाने द्वयोः सामानाधिकरण्येन वैशिष्ट्यमप्यौत्सर्गिकं भासत इति चेत् ; तर्हि सम्भूयभङ्गद्वयजनितबोधेऽपि तद्भानमावश्यकमिति कस्ततो विशेषः ? । वस्तुतो मिलिताभ्यां प्रथम-तृतीयाभ्यामस्तित्वविशिष्टे घटेऽवक्तव्यवैशिष्ट्यज्ञानं सुकरम्, द्वितीयमिलनस्यापि 'अधिकं प्रविष्टं(टे)न तु तद्धानिः' इति न्यायेनाऽदुष्टत्वात् , प्रकृते तु 'एकत्र द्वयम्' इति न्यायेनापि न बाधः, देशेऽसत्त्वस्य देशेऽवक्तव्यत्वस्य च विवक्षणादिति विपरीतो विशेषः, परस्परविशेषणीभूतयोरेकवाक्येन बोध्यत्वप्रकारकतात्पर्यविषयतया तु विशेषो न भङ्गान्तरनिमित्तं फलाऽविशेषात्, अन्यथा विशे
त्यर्थः, दण्डनिष्ठप्रकारतानिरूपिता सती कुण्डलनिष्ठप्रकारतानिरूपिता या चैत्रनिष्ठविशेष्यता तन्निरूपको बोधो यथा 'दण्डी कुण्डली च चैत्रः' इत्यत्र तथा 'स्यादस्त्य. वक्तव्यश्च घटः' इत्यत्रास्तित्वनिष्ठप्रकारतानिरूपिता सती अवक्तव्यनिष्ठप्रकारतानिरूपिता या घटत्वावच्छिन्नविशेष्यता तन्निरूपको बोध इति बोध्यम् । दण्ड-कुण्डलयोरिवेति-दण्ड-कुण्डलयोर्यथा परस्पराविशेषणीभूतयोरेव भानं तथेत्यर्थः । अत्र शङ्कते-एकत्रेति । समाधत्ते-तीति । सम्भूय मिलित्वा । भङ्गद्वयेतिप्रथम-तृतीयभङ्गद्वयेत्यर्थः । तद्भानं द्वयोः सामानाधिकरण्येन वैशिष्ट्यभानम् । कस्ततो विशेष इति-मिलितप्रथम-तृतीयभङ्गद्वयतः पञ्चमभङ्गस्य को विशेषः ? न कोऽपि विशेषः स्यादित्यर्थः । मिलितप्रथम-तृतीयाभ्याम् ‘एकत्रद्वयम्' इति न्यायेन बोधजनकस्य पञ्चमभङ्गस्य विशेषोपदर्शनायाह-वस्तुत इति । प्रकृते तु पञ्चमभङ्गे पुनःनि बाधः एकविशेष्यतानिरूपितप्रकारताद्वयनिरूपकबोधेन बाधः। पराभिमतविशेषस्य भङ्गान्तरनिमित्तत्वं न भवतीत्यावेदयति-परस्परेति । अन्यथा फलविशेषाभावेऽप्युक्तविशेषस्य भङ्गान्तरनिमित्तत्वाभ्युपगमे । तथात्वप्रसङ्गात् भङ्गान्तरनिमित्तत्वप्रसङ्गात् तथा चास्तित्वस्य विशेषणत्वेऽवक्तव्यत्वस्य विशेष्यत्वे च यथा 'स्यादस्ति स्यादवक्तव्यश्च घटः' इति भङ्गस्तथाऽवक्तव्यत्वस्य विशेषणत्वेऽस्तित्वस्य विशेष्यत्वे 'स्यादक्तव्य एव स्यादस्त्येव च' इत्यपि भङ्गः स्यादिति भावः । तथापि
Page #301
--------------------------------------------------------------------------
________________
२४०
अनेकान्तव्यवस्थाप्रकरणम् । षण-विशेष्यभावकामचारस्यापि तथात्वप्रसङ्गात्, तथापि देशविशेषितपरस्परविशेषण-विशेष्यभावेनात्र विशेषो द्रष्टव्यः, प्रकृतेऽस्त्यवक्तव्यपदयोर्देशास्तित्वविशिष्टदेशावक्तव्यत्वविशिष्टयोरेव तात्पर्यानुपपत्त्या लक्षणास्वीकारात्, तयोश्च तादात्म्येन वैशिष्टयबाधस्यैतद्भङ्गफलत्वात् , अयमेव परस्परानुवेधार्थोऽपि द्रष्टव्यः, चतुर्थभङ्गेऽप्युभयप्रधानावयवभागेनैव विशेषोपदेशादत्राग्रेऽपि तस्यैव विशेषस्याऽविशिष्टत्वादिति दिग् ॥ ५ ॥
देशेऽसत्त्वस्य देशे च युगपदुभयोर्विवक्षणे षष्ठः, आह च"आइट्ठोऽसब्भावे देसो देसो य उभयहा जस्स ॥ तं णत्थि अवत्तव्यं च होइ दवियं वियप्पबसा"
[सम्मतितर्के का० १ गा० ३९]
उक्तदिशामिलितप्रथम-तृतीयभङ्गाभ्यां पञ्चमभङ्गस्य विशेषाभावेऽपि । देशविशेषितेति-सम्भूयप्रथम-तृतीयभङ्गद्वयजनितबोधे पञ्चमभङ्गजन्यबोधे चैकधर्मवैशिष्ट्यमपरधर्मे भासते, परं सम्भूयभङ्गद्वयजन्यबोधेऽस्तित्व-ऽवक्तव्यत्वयोर्देशाविशेषितयोः परस्परविशेष्य-विशेषणभावभानम् , पञ्चमभङ्गे तु देशविशेषितास्तित्व-देशविशेषितावक्तव्यत्वयोर्विशेष्य-विशेषणभावेन भानमित्येवं विशेषो द्रष्टव्य इत्यर्थः । ननु प्रत्येकभङ्गयोः पञ्चमभङ्गे च देशोपस्थापकपदाभावेऽविशिष्टे कथं देशविशेषितास्तित्वादिवैशिष्ट्यभानं पञ्चमभङ्गे इत्यत आह-प्रकृत इति-पञ्चमभङ्ग इत्यर्थः । तयोश्च देशास्तित्वविशिष्टदेशावक्तव्यत्वविशिष्टयोश्च । एतद्भङ्गफलत्वात् पञ्चमभङ्गफलत्वात् । अयमेव उक्तदिशालक्षणया विशिष्टद्वयाभेदान्वयबोध एव । चतुर्थभङ्गेऽपि 'स्यादस्त्येव स्यान्नास्त्येव च घटः' इति भङ्गेऽपि । अत्र पञ्चमभङ्गे । अग्रेऽपि षष्ठ-सप्तमभङ्गयोरपि। 'स्यान्नास्त्येव स्यादवक्तव्य एव च घटः' इति षष्ठभङ्गं दर्शयति-देशेऽसत्त्वस्येति-अस्य 'विवक्षणे' इत्यनेनान्वयः । अत्र सम्मतिवचनसंवादमाह-आह चेति । आइट्ठो० इति “आदिष्टोऽसद्भावे देशो देशश्चोभयथा यस्य । तन्नास्त्यवक्तव्यं च
Page #302
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् २४१ - अस्यार्थः-यस्य-वस्तुनो, देशोऽसत्त्वे आदिष्टोऽसन्नेवायमित्यवक्तव्यानुविद्धो विवक्षितोऽपरश्वासदनुविद्धः, उभयथा-सदसत्त्वाभ्याम् , आदिष्टस्तदा तद् द्रव्यं नास्ति चावक्तव्यं च भवति विकल्पवशात्, तव्यपदेश्यावयवाभेदोपचारात्, द्रव्यस्यापि तद्व्यपदेशासादनात्, देशानुपरक्तद्वितीय-तृतीयभङ्गव्युदासेनायं षष्ठो भङ्गः प्रवर्तते ६ ॥
देशेऽस्तित्वस्य देशे नास्तित्वस्य देशे च युगपदुभयोर्विवक्षायां सप्तमः । आह च
"सब्भावा-ऽसब्भावे, देसो देसो य उभयहा जस्स। . तं अस्थि णस्थि अवत्तव्वयं च दवियं विअप्पवसा ॥" ..
- [सम्मतितर्के का० १, गा० ४० ] अस्यार्थः-यस्य-देशिनः, देशः-अवयवः, देशः-धर्मो वा, सद्भावे
भवति द्रव्यं विकल्पवशात्" ॥ इति संस्कृतम् । अस्यार्थः अनन्तरोपदर्शितसम्मतिवचनस्यार्थः । अवयवेऽवक्तव्यानुविद्धासत्त्वस्यासत्त्वानुविद्धावक्तव्यत्वस्य च विवक्षितत्वेऽवयवयोरेव तथाव्यपदेशः स्याद् , वस्तुनश्च कथं तथाव्यपदेश इत्यत आह-तव्यपदेश्येति-तथाव्यपदेश्यो योऽवयवस्तदभेदस्योपचारात्, द्रव्यस्यापि वस्तुनोऽपि, तयपदेशासादनात् तद्व्यपदेशप्राप्तेः । 'स्यान्नास्त्येव घटः' इति द्वितीयभङ्गे नास्तित्वं देशानुपरक्तमेव विषयः, एवं 'स्यादवक्तव्य एव घटः' इति तृतीयभङ्गेऽवक्तव्यत्वं देशानुपरक्तमेव विषयः, षष्ठे तु 'स्यान्नास्त्येव स्यादवक्तव्य एव घटः' इत्यत्र देशानुषक्तयोर्नास्तित्वा-ऽवक्तव्यत्वयोर्विषयत्वमित्येवं द्वितीय-तृतीयभङ्गाभ्यां भेदेन षष्ठभङ्गप्रवृत्तिरित्याह-देशानुपरक्तेति ।
'स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्य एव च घटः' इति सप्तमभङ्ग भावयतिदेशेऽस्तित्वस्येति । उभयोः अस्तित्व-नास्तित्वयोः । अत्र सम्मतिवचनं प्रमाणयति-आह चेति । सम्भावा-ऽसब्भावे इति-"सद्भावी-ऽसद्भाचे देशो देशश्च उभयथा यस्य । तदस्ति नास्ति अवक्तव्यं च द्रव्यं विकल्पवशात्" ।। इति संस्कृतम्।
अ. व्य. १६
Page #303
--------------------------------------------------------------------------
________________
२४२
अनेकान्तव्यवस्थाप्रकरणम् । सत्त्वे नियतोऽपरस्तु असद्भावे-असत्त्वे, तृतीयस्तूभयथेत्येवं देशानां सदसदवक्तव्यव्यपदेशात् तदपि द्रव्यमस्ति च नास्ति चावक्तव्यं च भवति विकल्पवशात् , तथाभूतविशेषणाध्यासितस्य द्रव्यस्यानेन प्रतिपादनादपरभङ्गव्युदासः ७ ॥
एते च परस्पररूपापेक्षया सप्तभङ्गयात्मकाः प्रत्येकं स्वार्थ प्रतिपादयन्ति नान्यथेति प्रत्येकं तत्समुदायो वा सप्तभङ्गात्मकः प्रतिपाद्यमपि तथाभूतं दर्शयतीति सम्प्रदायविदो वदन्ति ॥ तत्र जिज्ञासितसप्तधर्मात्मकताप्रतिपादकत्वपर्याप्त्यधिकरणमहावाक्यत्वरूपसप्तभङ्गीत्वं समुदाय एव निरुक्तप्रतिपादकत्वाधिकरणवाक्यत्वरूपं च तत् प्रत्येकमपीति विवेकः, अत एव स्यात्पदलाञ्छनविवक्षितधर्मावधारकत्वेन स्वार्थमात्रप्रतिपादनप्रवणत्वेन च द्विधा सुनयत्वमुदाहरन्ति, आद्यं सप्तभङ्ग्यात्मकमहावाक्यैकवाक्यतापन्नवाक्ये, अन्त्यं चोदासीने धर्मान्त
mM
अस्यार्थः ‘सब्भाव०' इति वचनस्यार्थः । तथाभूतविशेषणाध्यासितस्य अस्तित्व-नास्तित्वा-ऽवक्तव्यत्वैतद्धर्मत्रयात्मकविशेषणविशिष्टस्य । अनेन सप्तमभङ्गेन। एते च अनन्तरं क्रमेण निरूपिताः सप्तापि भङ्गाः । नान्यथा परस्पररूपानपेक्षत्वे खार्थ न प्रतिपादयन्ति । तथाभूतं परस्परापेक्षसप्तधर्मात्मकम् । अत्र निरुच्य सप्तभङ्गीत्वं सप्तभङ्गसमुदाये प्रत्येकं भङ्गे च दर्शयति-तत्रेति-सप्तानां भङ्गानां जिज्ञासितसप्तधर्मात्मकताप्रतिपादकत्वे तत्पर्याप्तिः सप्तस्वेव वर्तते न प्रत्येकमिति तत्पर्याप्यधिकरणमहावाक्यत्वलक्षणं सप्तभङ्गीत्वं सप्तभङ्गसमुदाय एवेति सप्तभङ्गसमुदाय एव सप्तभङ्गी, जिज्ञासितसप्तधर्मात्मकताप्रतिपादकत्वं च प्रत्येकभङ्गेष्वपि वर्तत इति तथाभूतप्रतिपादकताधिकरणवाक्यात्मकं सप्तभङ्गीत्वं च प्रत्येकमपीति विवेक इत्यर्थः । अत एव यत एव सप्तभङ्गीत्वं सप्तभङ्गसमुदाय एव प्रत्येकभङ्गेष्वपि वेति विवेकस्तत एव आद्यं स्यात्पदलाञ्छनविवक्षितधर्मावधारकत्वलक्षणं सुनयत्वम् । अन्त्यं स्वार्थमात्रप्रतिपादनप्रवणत्वलक्षणं सुनयत्वम्, 'उदासीने' इत्यस्य पर्यवसितस्वरूपनिर्वचनम्-धर्मान्तरोपादान-प्रतिषेधाकारिणीति, धर्मान्तरं नोपादत्ते नापि
Page #304
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम्
२४३
रोपादानप्रतिषेधाकारिणि, इत्थं च ' स्यादस्ति' इत्यादि प्रमाणम्, 'अस्त्येव' इत्यादि दुर्नयः, 'अस्ति' इत्यादिकः सुनयः, न तु स व्यवहाराङ्गम्, ‘स्यादस्त्येव' इत्यादिस्तु सुनय एव व्यवहारकारणम्, स्व-परानुवृत्त-व्यावृत्तवस्तुविषयप्रवर्त्तकवाक्यस्य व्यवहारकारणत्वादिति ग्रन्थकृतो विवेचयन्ति ॥
अत्र सप्तभङ्ग्यामाद्यभङ्गक स्त्रिधा, द्वितीयोऽपि त्रिधा, तृतीयो दशधा, चतुर्थोऽपि दशधैव, पञ्चमादयस्तु त्रिंशदधिकशतपरिमाणाः, प्रत्येकं श्रीमन्मल्लवादिप्रभृतिभिर्दर्शिताः । पुनश्च षट्त्रिंशदधिकचतुर्दशशतपरिमाणास्त एव च व्यादिसंयोगकल्पनया कोटिशो भवन्तीत्यभिहितं तैरेवेति तद्विस्तरस्तद्व्रन्थादेवावसेयः ॥
अथाऽनन्तधर्मात्मके वस्तुनि तत्प्रतिपादकवचनस्य सप्तधा कल्पने
प्रतिषेधतीत्यत उदासीने स्वार्थमात्रप्रतिपादनप्रवणे भङ्गे सुनयत्वम्, इत्थं च अनेन प्रकारेण द्विधा सुनयत्वव्यवस्थितौ च 'स्यादस्तीत्यादि' इत्यादिपदात् 'स्यान्नास्ति' इत्यादेरुपग्रहः । ‘अस्तीत्येवेत्यादि' इत्यादिपदान्नास्त्येवेत्यादेर्ग्रहणम् । 'अस्तीत्यादिकः' इत्यत्रादिपदान्नास्तीत्यादेः परिग्रहः । तत्र स्वार्थमात्रप्रतिपादनप्रवणं सुनयवाक्यं न व्यवहाराङ्गं किन्तु स्यात्पदलाञ्छनविवक्षितधर्मावधारकत्वलक्षणसुनयत्वाकलितवाक्यमेव व्यवहाराङ्गमित्याह - न त्विति । स अस्तीत्यादिकः सुनयः । कथं 'स्यादस्त्येव' इत्यादिरेव सुनयो व्यवहारकारणमित्यपेक्षायामाहस्व-परेति । विशेषजिज्ञासून् प्रत्युपदिशति — अत्रेति - आद्यभङ्गादीनां त्रिप्रकारादिकं श्रीमल्लवाद्यादिग्रन्थादवसेयम् । त एव आद्यभङ्गादिका एव । तैरेव श्रीमन्मलवादिप्रभृतिभिरेव । कथमित्थमितिजिज्ञासानिवृत्तये तद्ग्रन्थावलोकनं कर्तव्यं ग्रन्थगौरवभयान्नात्र तद्विशदीकरणमित्युपदिशति - तद्विस्तर स्त्विति ॥
1
ननु सप्तधर्मप्रतिपादकसप्तभङ्गीवाक्यवदनन्तधर्मात्मके वस्तुन्यष्टविध-नवविधधर्मादेरपि भावात् तत्प्रतिपादकाष्टभङ्गी - नवभक्त्यादीनामपि सम्भवात् तत्कल्पना किमिति न क्रियत इति शङ्कते - अथेति । तत्प्रतिपादकेति - अनन्तधर्मात्मकवस्तु
Page #305
--------------------------------------------------------------------------
________________
२४४ अनेकान्तव्यवस्थाप्रकरणम् । ऽष्टम-नवमविकल्पयोः, कल्पनमपि किं न क्रियत इति चेत् ? न-तत्परिकल्पननिमित्ताभावात् , तथाहि-न तावत् सावयवात्मकमन्योऽन्यनिमित्तकं तत् परिकल्पयितुं युक्तम् , चतुर्थादिवचनविकल्पेषु तस्यान्तर्भावप्रसक्तेः, नापि निरवयवात्मकमन्योऽन्यनिमित्तकं तत् परिकल्पनामर्हति, प्रथमादिष्वन्तर्भावप्रसक्तेः, न च गत्यन्तरमस्तीति नाष्टमभङ्गकल्पना युक्ता । किञ्च, असौ क्रमेण वा तद्धर्मद्वयं प्रतिपादयेद् ? यौगपद्येन वा ? प्रथमपक्षे गुण-प्रधानभावेन तत्प्रतिपादने प्रथम-द्वितीययोरन्तर्भावः, प्रधानभावेन तत्प्रतिपादने चतुर्थे, यौगपद्येन तत्प्रतिपादने तृतीये, भङ्गकसंयोगेन भङ्गान्तरकल्पनायां प्रथम-द्वितीयसंयोगे चतुर्थ एव प्रसज्यते, प्रथम-तृतीयसंयोगात् पञ्चमः, द्वितीय-तृतीयसंयोगात् षष्ठः, प्रथम-द्वितीय-तृतीयसंयोगात् सप्तमः, प्रथम-चतुर्थादिसंयोगकल्पना तु पौनरुक्त्यभयादनुप्रतिपादकेयर्थः । समाधत्ते-नेति । तत्परिकल्पनेति-अष्टम-नवमविकल्पकल्पनेत्यर्थः । तत्परिकल्पननिमित्ताभावमेवोपपादयति-तथाहीति । अष्टम-नवमभङ्गादिकं सावयवं परिकल्प्येत, निरवयव वा ? तत्र सावयवं कल्पयितुं न शक्यत इत्याहन तावदिति-नञो 'युक्तम्' इत्यनेनान्वयः । तत् अष्टम-नवमादिकम् । 'चतुर्थादि' इत्यादिपदात् पञ्चम-षष्ठ-सप्तमवचनानामुपग्रहः, अस्तित्वानुविद्धनास्तित्वात्मकधर्मप्रतिपादकभङ्गपरिकल्पने तस्य चतुर्थभङ्गे, अस्तित्वानुविद्धावक्तव्यत्वप्रतिपादकभङ्गस्य पञ्चमे, एवं षष्ट-सप्तमभङ्गयोरन्तर्भाव इति । निरवयवस्यापि प्रथमादिष्वन्तभावान्न कल्पना भद्रेत्याह-नापीति । अष्टमभङ्गे कल्पिते सत्येव नवमभङ्गकल्पनाया अवसरः, तदभावे तु कुतो नवमभङ्गादिकल्पनेत्याशयेनैकस्या एवाष्टमभङ्गकल्पनाया अयुक्तत्वमावेदयति-नाष्टमभङ्गकल्पना युक्तेति । प्रतिपाद्यान्तराभावादपि नाष्टमभङ्गकल्पना युक्त्याह-किश्चेति । असौ कल्पनीयोऽष्टमभङ्गः । तत्प्रतिपादने धर्मद्वयप्रतिपादने, एवमग्रेऽपि । भङ्गकसंयोगेन एकभङ्गस्य भङ्गान्तरसंयोगेन । 'चतुर्थादि' इत्यादिपदात् पञ्चमादेर्द्वितीयादेश्वोपग्रहः । चतुर्थभङ्गः 'स्यादस्ति स्यान्नास्ति' इति, तत्र प्रथमसंयोगे ‘स्यादस्ति स्यादस्ति स्यान्नास्ति' इति स्यात्, तत्र
Page #306
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् त्थानोपहता। न च देशिदेशभेदेन धर्मिभेदादपौनरुक्त्यम् , प्रथम-चतुर्थसमाजादेतादृशप्रतीतिसिद्धौ तत्संयोगस्य निराकाङ्कत्वात् , तस्मान्न कथञ्चिदष्टमभङ्गसम्भव इति नाधिक्यम् , न चाऽवक्तव्यत्वसप्तभङ्गयां तृतीयभङ्गस्य प्रथमभङ्गाद् वक्तव्यत्वसप्तभङ्गयां च द्वितीयभङ्गादविशेषान्यूनत्वमपि शङ्कनीयम् , तत्रांशांशग्राहकधर्मेणावक्तव्यत्व-वक्तव्यत्वयोरेव प्रथम-द्वितीयभङ्गार्थत्वादंशावक्तव्यत्ववक्तव्यत्वतद्विपर्ययाभ्यामवक्तव्यस्यैव तृतीयभङ्गार्थत्वादिति दिक् । इत्थमुक्तन्यायेन वस्तुप्रतिपादने सप्तविध एव वचनमार्ग इति स्थितम् ॥ यदेव 'स्यादस्ति' इत्येकेन प्रतिपाद्यं द्वितीयेनापि 'स्यादस्ति' इत्यनेन तदेव प्रतिपाद्यमित्येवं पौनरुक्त्यभयात् प्रथम-चतुर्थसंयोगकल्पनाऽनुत्थानोपहता, एवमेव द्वितीयादि-चतुर्थादिसंयोगकल्पनाऽपीति । ननु देशिनो देशा बहव इत्येकदेशे यथाऽस्तित्वविवक्षा तथा द्वितीयदेशेऽप्यस्तित्वविवक्षा, तदन्यदेशे च नास्तित्वविवक्षा, ततश्च तत्र देशिन्येकदेशगतास्तित्वमन्यदन्यदेशगतास्तित्वमन्यदित्यतः प्रथम-चतुर्थसंयोगकल्पना न पौनरुक्त्यास्कन्दितेति नानुत्थानोपहता, एवमेवैकदेशगतनास्तित्व-तदन्यदेशगतनास्तित्वयोरपि विभिन्नत्वात् तद्विवक्षातो द्वितीय-चतुर्थसंयोगकल्पनाऽपि न पौनरुक्त्यकलङ्किता, इत्थमेव चान्यसंयोगकल्पनाऽपीत्याशङ्कय प्रतिक्षिपति-न चेति। यद्यद्देशगतास्तित्वं सम्भावितं तत् तत् 'स्यादस्ति' इत्येनेनैकेन प्रतिपाद्यम् , यद्यद्देशगतनास्तित्वं सम्भावितं तत् तत् 'स्यान्नास्ति' इत्येकेन प्रतिपाद्यम् , देशाविशेषितमस्तित्वं च 'स्यादस्त्येव' इत्यनेन प्रथमभङ्गेन प्रतिपाद्यमित्येवं प्रथम-चतुर्थसमाजादेतादृशप्रतीतेः सम्भवेन तत्संयोगस्य निराकाङ्क्षत्वात् कल्पना न युक्तेति निषेधहेतुमुपदर्शयति-प्रथमेति । उपसंहरति-तस्मादिति । ननु अस्तित्वधर्मसमाश्रयणेन तत्प्रतिपक्षनास्तित्वधर्ममुपादाय यथा सप्तभङ्गी तथाऽवक्तव्यत्वधर्मसमाश्रयणेन तत्प्रतिपक्षवक्तव्यत्वधर्ममुपादायापि सप्तभङ्गी भवतोऽभिमतैव, सा च 'स्यादवक्तव्य एव घटः, स्याद् वक्तव्य एव घटः, स्याद् वक्तव्य एव' इत्यादिदिशोपदर्शनीया भवति, तत्र तृतीयभङ्गस्य प्रथमभङ्गादविशेषान्न प्रयोक्तव्यत्वमिति न्यूनत्वम् , एवं वक्तव्यत्वधर्मसमाश्रयणेन तत्प्रतिपक्षावक्तव्यत्वधर्ममुपादायापि या सप्तभङ्गी सा 'स्याद् वक्तव्य एव घटा, स्यादवक्तव्य एव घटः, स्यादवक्तव्य एव घटः' इत्यादिनीत्यैव
Page #307
--------------------------------------------------------------------------
________________
www
२४६ अनेकान्तव्यवस्थाप्रकरणम् । अत्रैवं नयविभागमुपदिशन्ति श्रीसिद्धसेनदिवाकरपादाः"एवं सत्तवियप्पो, वयणपहो होइ अत्थपज्जाए। वंजणपज्जाए पुण, सवियप्पो णिव्वियप्पो य॥"
[सम्मतितर्के का० १, गा० ४१] अस्यार्थः-एवम्-अनन्तरोक्तप्रकारेण, सप्तविकल्पः-सप्तभेदः, वचनपथो भवति, अर्थपर्याये-अर्थनये सङ्ग्रहव्यवहारर्जुसूत्रलक्षणे, सप्ताऽप्यनन्तरोक्ता भङ्गका भवन्ति । तत्र प्रथमो भङ्गः सङ्ग्रहे सामान्यप्रयोक्तव्या, तत्रापि तृतीयभङ्गस्य द्वितीयभङ्गादविशेषान्न प्रयोक्तव्यत्वमिति न्यूनत्वमित्याशङ्कय प्रतिक्षिपति-न चेति-अस्य 'शङ्कनीयम्' इत्यनेनान्वयः निषेधहेतुमुपदर्शयति-तत्रेति-अवक्तव्यत्वसप्तभङ्गयां वक्तव्यत्वसप्तभङ्गयां चेत्यर्थः, अंशश्चासावंशग्राहकश्चांशांशग्राहकः, एवंभूतो यो धर्मो घटत्व-द्रव्यत्वादिः, तत्र कश्चिद् धर्म एवंभूतो भवति येन धर्मेण वस्तु वचनकोटिमुपगच्छति, कश्चिद् धर्मः पुनस्तदृशो भवति येन धर्मण वस्तु वक्तुं न शक्यते, तादृशधर्मेणाऽवक्तव्यत्वम् , वचनकोट्युपनायकधर्मेण वक्तव्यत्वम्, तयोरेव च प्रथम-तृतीयभङ्गार्थत्वात् , यश्च वस्तुनोंऽशोऽवक्तव्यत्वधर्मों वक्तव्यत्वधर्मश्च, युगपद्विवक्षिताभ्यां ताभ्याम् , एवं वस्तुनो धर्मो यो वक्तव्यत्वधर्मोऽवक्तव्यत्वधर्मश्च, युगपद्विवक्षिताभ्यां ताभ्यामवक्तव्यस्यैव भावप्रधाननिर्देशादवक्तव्यत्वस्यैव तृतीयभङ्गार्थत्वान्नावक्तव्यत्वसप्तभङ्गयां प्रथमभङ्गादविशेषस्तृतीयभङ्गे, नवा वक्तव्यत्वसप्तभङ्गयां द्वितीयभङ्गादविशेषस्तृतीयभङ्गे इत्यर्थः, तथा च व्यवस्थितोऽयमर्थः—सप्तधैव वचनमार्गों वस्तुप्रतिपादने इत्युपसंहरति-इत्थमिति-अस्यार्थकथनमिदम्-उक्तन्यायेनेति ॥
अत्र सप्तभङ्गयाम्। एवम् अन्तरोल्लिख्यमानसम्मतिगाथोक्तप्रकारेण, एवं इति"एवं सप्तविकल्पो वचनपथो भवति अर्थपर्याये व्यञ्जनपर्याये पुनः सविकल्पो निर्विकल्पश्च" ॥ इति संस्कृतम् । अस्यार्थः अनन्तराभिहितसम्मतिवचनस्यार्थः । सङ्ग्रह-व्यवहारर्जुसूत्रलक्षणे सङ्ग्रह-व्यवहारर्जुसूत्रवरूपे, नैगमस्य सिद्धसेनदिवाकरमते सङ्ग्रह-व्यवहारयोरेवान्तर्भावादर्थनयत्वेनानुपादानम् । तत्र सप्तसु भङ्गेषु मध्ये । अस्तित्वस्य सत्तासामान्यलक्षणस्य प्रतिपादकः 'स्यादस्त्येव' इति प्रथमो भङ्गः
Page #308
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् २४७ पाहिणि, 'नास्ति' इत्ययं तु व्यवहारे विशेषप्राहिणि, ऋजुसूत्रे तृतीयः, चतुर्थः सङ्ग्रह-व्यवहारयोः, पञ्चमः सङ्ग्रहर्जुसूत्रयोः, षष्ठो व्यवहारर्जुसूत्रयोः, सप्तमः सङ्ग्रह-व्यवहारर्जुसूत्रेष्विति विभागः । अत्र यद्धर्मप्रकारकः सङ्ग्रहाख्यो बोधः प्रथमभङ्गफलत्वेनाभिमतस्तद्धर्माभावप्रकारको व्यवहाराख्यबोध एव द्वितीयभङ्गफलत्वेनैष्टव्यः, तेन 'स्याद् घटः, स्यानीलघटः' इत्यादिसामान्य-विशेषसङ्ग्रह-व्यवहाराभ्यां न सप्तभङ्गीप्रवृत्तिरित्यवधेयम् । अथ तृतीयभङ्गस्य ऋजुसूत्रनिमित्तताया सत्ता सामान्यग्राहिणि सङ्ग्रहनये भवतीत्यर्थः, भवतीति क्रियाऽग्रेऽप्यध्याहार्या। 'नास्ति' इत्ययं तु 'स्यान्नास्त्येव घटः' इति द्वितीयभङ्गः । पुनः, अस्तित्वसामान्यप्रतिपक्षत्वान्नास्तित्वं विशेषस्तदाहिणि, व्यवहारे व्यवहारनये भवतीत्यर्थः । ऋजुसूत्रे ऋजुसूत्रनये । तृतीयः स्यादवक्तव्य एव घटः' इति तृतीयभङ्गो भवति, यथा-च ऋजुसूत्रे तृतीयभङ्गस्तथाऽग्रे व्यक्तीभविष्यति । चतुर्थः 'स्यादस्त्येव स्यान्नास्त्येव घटः' इति तुरीयो भङ्गः, अस्य सत्त्वसामान्यप्रतिपादकत्वात् सङ्ग्रहे नास्तित्वलक्षणविशेषप्रतिपादकत्वाद् व्यवहारे च सम्भव इति कृत्वा सङ्ग्रह-व्यवहारयोर्भवतीत्यर्थः । पञ्चमः ‘स्यादस्ति स्यादवक्तव्यश्च घटः' इति पञ्चमो भङ्गः, अयं च सङ्ग्रहविषयमस्तित्वमृजुसूत्रविषयमवक्तव्यत्वं च प्रतिपादयतीत्यतः सङ्ग्रह - सूत्रयोर्भवतीत्यर्थः । षष्ठः 'स्यान्नास्ति स्यादवक्तव्यश्च घटः' इति षष्टो भङ्गः, अयं च व्यवहारविषयं नास्तित्वलक्षणविशेषमृजुसूत्रविषयमवक्तव्यत्वं च प्रतिपादयत्यतो व्यवहारर्जुसूत्रयोर्भवतीत्यर्थः । सप्तमः स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्य एव च घटः' इति सप्तमो भङ्गः, अयं च सङ्ग्रहविषयमस्तित्वसामान्य व्यवहारविषयं नास्तित्वविशेषमृजुसूत्रविषयमवक्तव्यत्वं च प्रतिपादयतीति सङ्ग्रह-व्यवहारर्जुसूत्रेषु, भवतीत्येवं विभागो द्रष्टव्य इत्यर्थः । घटस्य घटत्वं यदा सामान्यस्वरूपं प्रथमभङ्गेन विवक्षितं तदा घटत्वापेक्षया नीलघटत्वस्य विशेषत्वाद् घटत्वप्रतिपादकप्रथमभङ्गानन्तरं नीलघटत्वप्रतिपादकद्वितीयभङ्गक्रमेण सप्तभङ्गीप्रवृत्तिः किं न स्यात् सङ्ग्रह-व्यवहारर्जुसूत्रनयरित्याकाङ्क्षायामाह-अत्रेति । तेन निरुक्तव्यवहाराख्यबोधस्य द्वितीयभङ्गफलतयैवेष्टत्वेन ऋजुसूत्रनयस्य तृतीयभङ्गोत्थापकत्वमसहमानः शङ्कतेअथेति । सङ्ग्रह-व्यवहारयोर्युगपत्सत्त्वाऽसत्त्वोभयादेशकत्वाभावान्न ताभ्यां तृतीय
Page #309
--------------------------------------------------------------------------
________________
२४८
अनेकान्तव्यवस्थाप्रकरणम् ।
किं बीजम् ? युगपत्सत्त्वाऽसत्त्वाभ्यामादिष्टं हि सङ्ग्रह-व्यवहारावप्यवक्तठयमेव ब्रूतः, सङ्ग्रह-व्यवहारौ युगपदुभयथाऽऽदिशत एव नेति चेत् ? ऋजुसूत्रोऽपि कथं तथाऽऽदिष्टुं प्रगल्भताम् ? मध्यमक्षणरूपायाः सत्तायास्तेनाप्यभ्युपगमात् , सङ्ग्रहाभिमतयावत्सजातीयविशेषानुवृत्तसामान्यानभ्युपगमादृजुसूत्रेणावक्तव्यत्वभङ्ग उत्थाप्यत इति चेत् ? सोऽयं प्रत्येकाऽवक्तव्यत्वकृतोऽवक्तव्यत्वभङ्गः, तदुत्थापने च सङ्ग्रहोऽपि समर्थः, ऋजुसूत्राभिमतमध्यमक्षणरूपसत्तानभ्युपगत्रा तेनापि तदुत्थापनस्य सुकरत्वादिति चेत् ? अत्रेदमाभाति-सङ्ग्रह-व्यवहारौ युगपन्नोभयथाभङ्गप्रवृत्तिरत ऋजुसूत्रस्य तन्निमित्तत्वमित्याशङ्कते-सङ्गह-व्यवहाराविति । मध्यमक्षणरूपसत्त्वमभ्युपगच्छतार्जुसूत्रेणाप्यसत्त्वस्य वाविषयीभूतस्यादेशासम्भवे तदुभयादेशो न सम्भवत्येवेति कथं तस्यापि तन्निमित्तत्वमिति तत्समाधानमुपदर्शयतिऋजुसूत्रोऽपीति । तथादेष्टु सत्त्वाऽसत्त्वे युगपदादेष्टुम् । तेनापि ऋजुसूत्रेणापि । यावत्सजातीयविशेषव्यक्तिषु यद् वत्तते सत्त्वं तत् सङ्ग्रहाभिमतम् , तच्च नाभ्युपगच्छति ऋजुसूत्र इत्यतस्तस्य तृतीयभङ्गोत्थापकत्वमिति शङ्कते-सङ्ग्रहाभिमतेति । यथा सङ्ग्रहाभिमतसत्त्वमृजुसूत्राऽविषयस्तथा व्यवहारविषयतत्प्रतिपक्षासत्त्वमपि तदविषय इति ऋजुसूत्रेण निरुक्तसत्त्वं न वक्तुं शक्यते, एवं निरुक्तासत्त्वमपि वक्तुं न शक्यते इत्येवं प्रत्येकावक्तव्यमेव, ताभ्यामवक्तव्यत्वभङ्ग इत्थमुपपादितः स्यात् , न तु प्रत्येकवक्तव्याभ्यां ताभ्याम् , अभिमतश्च प्रत्येकवक्तव्याभ्यामेव ताभ्यां युगपदादिष्टाभ्यां सः, यदि च प्रत्येकावक्तव्यत्वकृतावक्तव्यत्वभङ्ग एवाभिमतो भवेत् तर्हि योऽयं भङ्ग उक्तनीत्या सङ्ग्रहनिमित्तकोऽपि स्याद् यतः सङ्ग्रहेणापि मध्यमक्षणसत्त्वलक्षणसत्त्वमविषयत्वान्न वक्तुमर्हमेव, व्यवहारविषयासत्त्वमप्यविषयत्वाद् वक्तुमनहमिति कृत्वा प्रत्येकावक्तव्यत्वनिबन्धनावक्तव्यत्वस्य तत्राप्यस्त्येव सम्भव इति पूर्वपक्षयिता समाधत्ते-सोऽयमिति । तदुत्थापने च प्रत्येकावक्तव्यत्वकृतावक्तव्यत्वभङ्गोत्थापने पुनः । तेनापि सङ्ग्रहेणापि । तदुत्थापनस्य उक्तप्रकारतृतीयभङ्गोत्थापनस्य । - ग्रन्थकारो यथा ऋजुसूत्रस्य तृतीयभङ्गोत्थापकत्वं सम्भवति तथोपपादयन्नुक्तप्रश्नप्रतिविधानमादर्शयति-अत्रेदमाभातीति-उक्तप्रश्ने 'सङ्ग्रह-व्यवहारौं' इत्यादिना
Page #310
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम्
२४९ देष्टुं प्रगल्भेते, स्वानभिमतांशादेशेऽनिष्टसाधनत्वप्रतिसन्धानात् , ऋजुसूत्रस्य तु वर्तमानपर्यायमात्रग्राहिणस्तिर्यगूलतास्पदाधारांशान्यतररूपसामान्या-ऽन्यापोहरूपविशेषौ च सांवृतावेवेति तदपेक्षया युगपदुभयथाऽऽहार्यतदादेशसम्भवादवक्तव्यभङ्गोत्थानमनाबाधम्, न चैवमपि तजनितबोधस्य प्रसङ्गरूपत्वाद् विपर्ययपर्यवसाने सङ्ग्रहव्यवहारान्यतरसाम्राज्यमिति वाच्यम् , विषयाऽबाधे कूटलिङ्गजानुमितेरिव प्रकृतभङ्गजबोधस्य प्रमात्वेन विपर्ययपर्यवसानकदर्थनानवकाशात् । अधिकं. बहुश्रुता विदन्ति । ऽनन्तरमेवाभिधीयमानं प्रतिविधानमस्मच्चित्ते स्फुरतीत्यर्थः । स्वानभिमतांशेतिसङ्ग्रहानभिमतासत्त्वलक्षणांशादेशे सङ्ग्रहस्यानिष्टसाधनत्वप्रतिसन्धानात् , व्यवहारानभिमतसत्त्वलक्षणांशादेशे व्यवहारस्यानिष्टसाधनत्वप्रतिसन्धानादित्यर्थः । ऋजुसूत्रनये तृतीयभङ्गसम्भवमुपपादयति-ऋजुसूत्रस्य त्विति । अस्य 'वर्तमानपर्यायमात्रग्राहिणः' इति विशेषेणोक्त्या सङ्ग्रहाभिमतं सत्त्वं व्यवहाराभिमतमसत्त्वं च वस्तुतोऽशं वस्तुतो न गृह्णातीत्यावेदितम् , तर्हि कथं तन्मते तयोर्युगपदादेश इत्यपेक्षायामाहतिर्यगूर्वतेति-तिर्यक्सामान्योलतासामान्ययोर्देश-कालानुगामिनोरास्पदं यदाधारस्वरूपं वस्तु तदंशान्यतररूपं तिर्यगूलतान्यतररूप सामान्यमन्यापोहरूपो विशेषश्च, तौ च सांवृतावेव कल्पितावेव ऋजुसूत्रस्य । इति एतस्माद् हेतोः । तदपेक्षया सांवृतसामान्यविशेषापेक्षया । आहायतदादेशसम्भवात् आरोपात्मकसामान्यविशेषादेशसम्भवात् , एवं च कल्पितसामान्य-विशेषौ स्वविषयावुपादाय युगपत्तदुभयाहार्यादेशतः, अवक्तव्यत्वभङ्गोत्थानम् ऋजुसूत्रनये, अनाबाधं निराबाधं सम्भवतीत्यर्थः । न च' इत्यस्य ‘वाच्यम्' इत्यनेनान्वयः, एवमपि कल्पितसामान्यविशेषौ स्वविषयावुपादायाहार्यतदादेशत ऋजुसूत्रनयेऽवक्तव्यत्वभङ्गोत्थानसम्भवेऽपि। तजनितबोधस्य तथाभूतावक्तव्यत्वभङ्गजन्यबोधस्य । भवतूक्तभङ्गोत्थानमाहार्यादेशतस्तथाऽपि तथाभूतभङ्गजन्यबोधो न प्रसङ्गात्मा, तथाभूतभङ्गप्रतिपाद्यस्यावक्तव्यत्वस्य वस्त्वंशत्वसम्भवेन तद्विषयकबोधस्य तजन्यस्य यथार्थविषयत्वमेव, यथा वस्तुगल्या वह्निमति देशे धूलीपटलाद् भ्रान्त्या धूमत्वेनावधृता वह्नयनुमितिः कूटलिङ्गजाऽपि यथार्थविषयेति तस्याः प्रामाण्यम् , तद्वदेव प्रमात्वेन विपर्यपर्यवसानस्यात्राभावादिति निषेधहेतुमुपदर्शयति-विषयाबाध इति । अधिकमिति-ऋजुसूत्रनयतोऽवक्तव्यत्वभङ्गोत्थानसमर्थमद्धृदयावमानानन्तरोपदर्शितयुक्तितोऽधिकमित्यर्थः ।
Page #311
--------------------------------------------------------------------------
________________
२५०
अनेकान्तव्यवस्थाप्रकरणम् । ___ व्यञ्जनपर्याये-शब्दनये पुनः सविकल्पः प्रथमे पर्यायशब्दवाच्यताविकल्पसद्भावेऽप्यर्थस्यैकत्वात्, द्वितीय-तृतीययोर्निर्विकल्पकश्च, द्रव्यार्थात् सामान्यलक्षणान्निर्गतस्य पर्यायरूपस्य विकल्पस्याभिधायकत्वात् तयोः, समभिरूढस्य पर्यायभेदभिन्नार्थत्वात् एवम्भूतस्यापि विवक्षितक्रियाकालार्थत्वात् , तथा च घटो नाम घटवाचकयावच्छब्दवाच्यः शब्दनयेऽस्त्येव, समभिरूढैवम्भूतयोर्नास्त्येवेति द्वौ भङ्गो लभ्येते, लिङ्ग-संज्ञा-क्रियाभेदेन भिन्नस्यैकशब्दावाच्यत्वाच्छब्दादिषु तृतीयः, प्रथम-द्वितीयसंयोगे चतुर्थः, तेष्वेव चानभिधेयसंयोगे पश्चम-षष्ठ-सप्तमा वचनमार्गा भवन्ति ।।
एतावता “एवं सत्तवियप्पो' इत्यादिसम्मतिगाथायाः पूर्वार्द्ध व्याख्यातम् , अथोत्तरार्द्ध विवृणोति-व्यञ्जनपर्याय इति-अस्य विवरणं-शब्दनये इति । साम्प्रत-समभिरूढैवम्भूतभेदेन त्रिविधः शब्दनयः, तत्र प्रथमे साम्प्रते सविकल्पः, तत्र हेतुः-पर्यायेति-यथा घटशब्दस्य समानार्थकः कुट-कुम्भादिशब्दः पर्यायशब्दः, तद्वाच्यताविकल्पसद्भावेऽपि, अर्थस्य घटस्य, एकत्वात् अभिन्नत्वात् , साम्प्रतनये एक एवार्थोऽनेकसमानार्थकशब्दवाच्य इति सविकल्प इत्यर्थः । द्वितीय-तृतीययोः समभिरूढेवम्भूतयोः, निर्विकल्पकश्च । कथमित्याकाङ्क्षानिवृत्तये त्वाह-द्रव्यार्थादिति । तयोः समभिरूढैवम्भूतयोः । एतदेव स्पष्टयति-समभिरूढस्येति । एवं च सति शब्दनये यथा सप्तभङ्गी प्रवर्तते तथा तामुपदर्शयति-तथा चेतिप्रथमस्य सविकल्पकत्वे द्वितीय-तृतीययोर्निर्विकल्पकत्वे चेत्यर्थः । तत्र प्रथमभङ्गं भावयति-घटो नामेति । शब्दनये साम्प्रतनये । द्वितीयभङ्गं भावयतिसमभिरूलैवम्भूतयोरिति । नास्त्येव घटो घटवाचकयावच्छब्दवाच्यो न भवत्येव । इति एवम् । लिङ्गेति-साम्प्रतनये लिङ्गभेदेन भिन्नस्य समभिरूढनये संज्ञाभेदेन भिन्नस्य एवम्भूतनये क्रियाभेदेन भिन्नस्य चार्थस्यैकशब्दावाच्यत्वादेकार्थवाचकशब्दावाच्यत्वाद् द्वितीयार्थस्येत्यर्थः । एवं दिशा अवक्तव्यत्वं शब्दादिषु शब्द-समभिरूदैवम्भूतेष्वित्यतः तृतीयः 'स्यादवक्तव्य एव' इति तृतीयो भङ्गः । प्रथम-द्वितीयसंयोगे प्रथमभङ्ग-द्वितीयभङ्गयोः संयोगे । चतुर्थः 'स्यादस्त्येव स्यान्नास्त्येव च घटः' इति चतुर्थभङ्गः । तेष्वेव च प्रथम-द्वितीय-चतुर्थेष्वेव पुनः ।
Page #312
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम्
२५१ अथवाऽन्यथास्याः व्याख्यातात्पर्यम् , अर्थनय एव सप्त भङ्गाः । शब्दादिषु तु त्रिषु नयेषु प्रथम-द्वितीयावेव भङ्गौ । यो ह्यर्थमाश्रित्य वक्तृस्थः सङ्ग्रव्यवहारर्जुसूत्राख्यः प्रत्ययः प्रादुर्भवति सोऽर्थनयः, अर्थवशेन तदुत्पत्तरर्थं प्रधानतयाऽसौ व्यवस्थापयतीति कृत्वा, शब्द तु स्वप्रभवमुपसर्जनतया व्यवस्थापयति, तत्प्रयोगस्य परार्थत्वात् । यस्तु श्रोतरि शब्दश्रवणादुद्गच्छति शब्द-समभिरूढवम्भूताख्यः प्रत्ययस्तस्य शब्दः प्रधानं तद्वशेन तदुत्पत्तेः, अर्थस्तूपसर्जनं तदुत्पत्तावनिमित्तत्वात् स शब्दनय उच्यते, तत्र वचनमार्गः सविकल्प-निर्विकल्पतया द्विविधः, सविकल्पं सामान्यम् , निर्विकल्पः पर्यायः, तदभिधानाद्
अनभिधेयसंयोगे अवक्तव्यभङ्गात्मकतृतीयभङ्गसंयोगे । पञ्चमेति-प्रथमभङ्गस्य तृतीयभङ्गेन संयोगे पञ्चमो भङ्गः, द्वितीयभङ्गस्य तृतीयभङ्गेन संयोगे षष्ठो भङ्गः, चतुर्थभङ्गस्य तृतीयभङ्गेन संयोगे सप्तमो भङ्गः इति तदात्मका वचनमार्गा भवन्तीत्यर्थः ।
उक्त सम्मतिगाथाव्याख्यातात्पर्यन्तरमुपदर्शयति-अथवेति । अन्यथा-उक्तप्रकारभिन्नप्रकारेण, अस्याः अनन्तराभिहितसम्मतिगाथायाः। सङ्ग्रहादयस्त्रयोऽर्थवशादुत्पन्नत्वेनार्थप्रधानतया वस्तु व्यवस्थापयतीत्यर्थनयाः, शब्दाद्यास्त्रयस्तु शब्दवशादुत्पत्नत्वेन शब्दप्रधानतयाऽर्थोपसर्जनतया वस्तु व्यवस्थापयतीति शब्दनयाः, तत्र अर्थनयेष्वेव सप्त भङ्गाः, शब्दनयेषु तु प्रथम-द्वितीयावेव भङ्गाविति व्यवस्थापयतिअर्थनय एवेति। कोऽर्थनय इत्यपेक्षायामाह-योहीति। तदुत्पत्तेः सङ्ग्रहादिप्रत्ययोत्पत्तेः। असौ सङ्ग्रहादिप्रत्ययः । स्वप्रभवं सङ्ग्रहादिप्रत्ययजनितम् । तत्प्रयोगस्य शब्दप्रयोगस्य । परार्थत्वात् प्रतिपाद्यश्रोतृपुरुषगतज्ञानजनकत्वात् । शब्दनयः क इत्यपेक्षायामाह-यस्त्विति । उद्गच्छति उत्पद्यते, तस्य शब्द-समभिरूढैवम्भूताख्यप्रत्ययस्य, तद्वशेन शब्दवशेन । तदुत्पत्तेः शब्दसमभिरूढवम्भूताख्यप्रत्ययोत्पत्तेः । अर्थस्योक्तप्रत्ययानिमित्तत्वादुपसर्जनतयैव तत्र भानमित्याह-अर्थस्त्विति । तदुत्पत्तौ, शब्दसमभिरूढैवम्भूताख्यप्रत्ययोत्पत्तौ । तत्र शब्दनये । सामान्यविशेषरूपार्थयोः सविकल्प-निर्विकल्परूपत्वात् तत्प्रतिपादकवचनयोः सविकल्पत्वनिर्विकल्पकत्वे इत्याह-सविकल्पं सामान्यमिति । तदभिधानात्
Page #313
--------------------------------------------------------------------------
________________
२५२
अनेकान्तव्यवस्थाप्रकरणम् । वचनमपि तथा व्यपदिश्यते, तत्र शब्द-समभिरूढौ संज्ञा-क्रियाभेदेऽप्यभिन्नमर्थं प्रतिपादयत इति तदभिप्रायेण सविकल्पो वचनमार्गः प्रथमभङ्गकरूपः, एवम्भूतस्तु क्रियाभेदाद् भिन्नमेवार्थं तत्क्षणे प्रतिपादयतीति निर्विकल्पो द्वितीयभङ्गरूपस्तद्वचनमार्गः, अवक्तव्यभङ्गास्तु व्यञ्जननये न सम्भवत्येव, यतः श्रोत्रभिप्रायो व्यञ्जननयः, स च शब्दश्रवणादर्थं प्रतिपद्यते, न शब्दाश्रवणात् , अवक्तव्यं तु शब्दाऽभावविषय इति नावक्तव्यभङ्गको व्यञ्जनपर्याये सम्भवतीत्यभिप्रायवता व्यञ्जनपर्याये तु सविकल्पक-निर्विकल्पौ प्रथम-द्वितीयावेव भङ्गावभिहितावाचार्येणेति टीकाकृतो व्याचक्षते । अत्र वक्तरि यत् सप्तभङ्ग्यर्थज्ञानं तन्मानसोत्प्रेक्षोपनीतपदार्थसंसर्गभानरूपम्, श्रोतरि तु शाब्दमेव तत् सम्भवति, अवक्तव्यं तु न शब्दविषयः किन्तु शब्दाभावविषय इति यद् व्यञ्जननयतात्पर्यमुन्नीतं तत् कथं सङ्गच्छते ?, शब्दाभावस्यासविकल्पनिर्विकल्प-रूपसामान्य-पर्यायार्थाभिधायकत्वात् । तथा सविकल्पतया निर्विकल्पकतया च । तत्र शब्दादित्रितयलक्षणशब्दनये । तदभिप्रायेण शब्द-समभिरूढनयाभिप्रायेण । तत्क्षणे क्रियाक्षणे । तद्वचनमार्गः एवम्भूतवचनमार्गः । तृतीयभङ्गस्तु शब्दनये न सम्भवतीत्युपपाद्य दर्शयति—अवक्तव्यभङ्गस्त्विति । व्यञ्जननये शब्दनये । स च श्रोत्रभिप्रायात्मा व्यञ्जननयश्च । 'अभिप्रायवता' 'आचार्येण' इत्यस्य विशेषणम् । आचार्येण श्रीसिद्धसेनदिवाकरसूरिणा। इति एवं रीत्या व्याख्यातात्पर्यम् । टीकाकृतः सम्मतिटीकाकाराः श्रीअभयदेवसूरयः । स्वयं यथाश्रुतव्याख्यातात्पर्योपवर्णनं यथा न सङ्गच्छते यथा चार्थनये सप्ताऽपि भङ्गाः, व्यञ्जननये द्वावेव भङ्गो, नावक्तव्यत्वभङ्गस्य तत्र सम्भव इति स्पष्टीकुर्वन्नाह-अत्रेति। तत् सप्तभङ्गार्थज्ञानम्। एवमग्रेऽपि । इति एवंप्रकारेण । तत् व्यञ्जननयतात्पर्यम् । 'कथम्' इत्याक्षेपे, न कथञ्चित् सङ्गच्छत इति तदर्थः । तत्र हेतुमाह-शब्दाभावस्येति-'अवक्तव्यं तु न शब्दविषयः, किन्तु शब्दाभावविषयः' इत्यस्य 'अवक्तव्यं शब्दप्रमाणविषयो न भवति किन्तु शब्दाभावलक्षणप्रमाणविषयः' इत्येवमभिमतो
Page #314
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् २५३ प्रमाणत्वेन कस्याप्यर्थस्य तदविषयत्वात् , कथञ्चिन्मते शब्दानुपलब्धेः शब्दाभावविषयप्रमाणत्वेऽपि तां विना तद्विषयं विलक्षणं ज्ञानं मा जनि, अवक्तव्यपदाद् वक्तव्यत्वाभावविषयशाब्दबोधोत्पत्तौ किं बाधकम् ? नहि भावविषयक एव शाब्दबोधो भवति, न त्वभावविषयक इत्यत्र प्रमाणमस्ति, पदज्ञानादिकार्यतावच्छेदककोटौ भावशाब्दत्वप्रवेशे गौरवात् , 'घटो नास्ति' इत्यादेर्घटाभावादिबोधस्य सार्वजनीनत्वाच्च, तत्रापि
ऽर्थस्तदोपपद्येत यदि शब्दाभावः किञ्चिदर्थविषयकत्वेनात्मनि प्रामाण्यमासादयेत् , तदेव न शब्दाभावस्याप्रमाणत्वेन कस्याप्यर्थस्य तदविषयत्वादित्येवं सङ्गमनाऽत्र विधेया 'तदविषयत्वाद्' इत्यस्य शब्दाऽभावाविषयत्वादित्यर्थः । यदा न कोऽप्यर्थः शब्दाभावविषयः, एवं सत्यवक्तव्यमपि न शब्दाभावविषय इति, किन्तु शब्दाभावविषय इति न सङ्गच्छते, अनुपलब्धिरप्यभावविषयकज्ञानहेतुतया प्रमाणान्तरं मीमांसकवेदान्तिनावभ्युपगच्छत इति सर्वनयमये स्याद्वादे तदृष्ट्याऽनुपलब्धिरभावविषयप्रमाणं स्यादित्युपेत्याह-कथञ्चिन्मत इति । तां विना शब्दानुपलब्धि विना । तद्विषयं शब्दाभावविषयकम् । विलक्षणं प्रत्यक्षादिभिन्नम् । शब्दाच्छाब्दबोध उत्पद्यत इति निर्विवादमतोऽवक्तव्यपदाद् वक्तव्यत्वाभावविषयकशाब्दबोधोत्पत्तौ किं बाधकम् ? न किञ्चिद् बाधकमित्यर्थः, एवं च वक्तव्यत्वाभावविषयकशाब्दबोधजनकतयाऽवक्तव्यत्वभङ्गः शब्दनयेऽपि स्यादेवेत्यर्थः । 'नहि' इत्यस्य 'अस्ति' इत्यनेनान्वयः । भावविषयकशाब्दत्वावच्छिन्नं प्रति पदज्ञानादिकं कारणमित्येवं कार्यकारणभावो यदि भवेत् तदा तादृशकार्य-कारणभावमूलको भावविषयक एव शाब्दबोधो नाभावविषयक इति नियमोऽपि भवेत् , न च तथा कार्य-कारणभावः सम्भवति, भावविषयकशाब्दत्वस्य शाब्दत्वापेक्षया गुरुभूतत्वेन कार्यताऽनवच्छेदकत्वादित्याह-पदज्ञानादीति-आदिपदादाकाङ्क्षायोग्यताज्ञानादेरुपग्रहः । यदि च भावविषयक एव शाब्दबोधो भवेत् तर्हि 'घटो नास्ति' इत्यादिवाक्याद् घटाभावादिविषयकशाब्दबोधस्य सार्वजनीनस्यापलापः कृतः स्यात्, न तन्याय्यमित्याहघटो नास्तीत्यादेरिति । ननु 'घटो नास्ति' इत्यत्र पदार्थद्वयान्वयबोधलक्षणः शाब्दबोधो न भवत्येव, किन्तु घटपदस्य घटप्रतियोगिकाभावे लक्षणया ततो घटप्रतियोगिकाभावस्योपस्थितिरेव भवति; 'घटपदं घटप्रतियोगिकाभावपरम्'
Page #315
--------------------------------------------------------------------------
________________
२५४ अनेकान्तव्यवस्थाप्रकरणम् । नत्र उपसर्गवद् द्योतकतया तात्पर्यग्राहकत्वमात्रमेव, घटपदस्य घटप्रतियोगिके लक्षणाध्रौव्येऽभावान्तर्भावेनैव तस्या युक्तत्वादिति चेत् ? न-'न न घटः' इत्यत्रैकस्माद् घटपदाद् घटत्व-घटाभावाभावत्वाभ्यामेकदा शक्ति-लक्षणाभ्यां बोधासम्भवेन नबः पृथक्शक्तिकल्पनावश्यकत्वाद्, द्योतकत्वपक्षेऽपि 'घटो नास्ति' इत्यादिवाक्यरीत्यैव 'स्यादवक्तव्यो घटः' इत्यतोऽवक्तव्यत्वबोधाप्रतिरोधाच्च, तस्मानायं प्राञ्जलः पन्थाः, किन्तु कथञ्चिदवक्तव्यत्वमिह 'एकपदजन्यप्रातिस्विकधर्मद्वयावच्छिन्नविषयकशाब्दबोधाविषयत्वम्', तद्वोधनं त्वर्थनये मानसोत्प्रक्षोपस्थितखण्डशःप्रसिद्धपदार्थासंसर्गाग्रहमात्रात् कथइत्येवम्भूततात्पर्यग्राहकमेव तत्र न पदम् , यथा-धातोरर्थविशेषे तात्पर्यग्राहक उपसर्गः, नपदस्याभावाभिधायकत्वेऽपि घटपदस्य घटप्रतियोगिके लक्षणाया आवश्यकत्वे सा घटप्रतियोगिकाभाव एव स्वीक्रियत इत्याशङ्कते तत्रापीति-'घटो नास्ति' इत्यादावपीत्यर्थः । तस्याः लक्षणायाः । समाधत्ते-नेति । 'न न घटः' इत्यत्र नवयस्य तात्पर्यग्राहकत्वे घटपदमेकमेवावशिष्यते बोधकम् , तद् यदि घटप्रतियोगिकाभावप्रतियोगिकाभावे लाक्षणिकं तदा घटाभावाभावत्वेनैव घटस्य बोधः स्यात् , न तु घटत्वेन घटस्य बोधो भवेत् , भवति च घटत्व-घटाभावाभावत्वाभ्यां घटस्य बोधः, तदर्थ यदि घटत्वेन घटे शक्तिघटाभावाभावत्वेन च तत्र लक्षणेत्येवं वृत्तिद्वयमेकदा तस्येष्यते, तच्च न सम्भवति; एकदैकपदेन शक्ति-लक्षणाभ्यां शक्य-लक्ष्यार्थोभयविषयकबोधस्यानङ्गीकाराद्, अतो नञोऽभावे पृथक् शक्तिकल्पनाऽऽवश्यकीति नजस्तात्पर्यग्राहकत्वपक्षेऽपि च 'घटो नास्ति' इत्यस्य वाक्यविधयैवार्थावबोधकत्वमिति तन्नीत्या 'स्यादवक्तव्यो घटः' इत्यतोऽवक्तव्यत्वबोधः स्यादेवेत्येवमप्यवक्तव्यत्वभङ्गः शब्दनय उपपद्यत एवेत्याह-द्योतकत्वपक्षेऽपीति । यथाश्रुतव्याख्यानस्याऽसमीचीनत्वमुपसंहरति-तस्मादिति। पृच्छति-किन्त्विति । उत्तरयति-कथञ्चिदवक्तव्यत्वमिहेति । एकेति-एकपदेन पदान्तरासहकृतपदेन जन्यो यः प्रातिस्विकधर्मद्वयावच्छिन्नविषयकः स्वस्वासाधारणधर्माकलितधर्मद्वयावच्छिन्नविषयकः शाब्दबोधस्तदविषयत्वं तद्विषयत्वाभावः प्रकृते कथञ्चिदवक्तव्यत्वमित्यर्थः । तद्बोधनं तु निरुक्तावक्तव्यत्वबोधनं पुनः । अर्थनये सङ्ग्रह-व्यवहारर्जुसूत्रनये । मानसेति
Page #316
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् २५५ श्चित्संसर्गग्रहाद् वा सम्भवति, व्यञ्जननये तु तन्न सम्भवति "असतो णत्थि णिसेहो" [
] इत्यादि भाष्यकृद्वचनादुक्तविशिष्टप्रतियोगिनोऽसिद्ध्या तदभावस्याप्यसिद्धत्वात् पदार्थमर्यादया वाक्यार्थमर्यादया वा बोधयितुमशक्यत्वात् , न च स्यात्पदसमभिव्याहृतावक्तव्यपदात् प्रकृते खण्डशः शक्त्या बोधः सम्भवति, एकपदार्थयोः परस्परमन्वयबोधस्याव्युत्पन्नत्वात् , अन्यथा हरिपदादुपस्थितयोः सिंह-कृष्णयोराधाराधेयभावसम्बन्धेनान्वयबोधप्रसङ्गादिति सूक्ष्मेक्षिकामनुसरता व्यञ्जननयेन प्रकृते नब्व्यत्यासादेकपदाऽजनितप्रातिस्विकधर्मद्वयावच्छिन्नविषयकशाब्दबोधविषयत्वं स्यादवक्तव्यत्वं वाच्यम् , तच्च भङ्गद्वयार्थमादाय पर्यवस्यतीति व्यञ्जननये द्वावेव मानसोत्प्रेक्षया मानसकल्पनया उपस्थिता ये खण्डशः प्रसिद्धाः पदार्थास्तेषामन्योऽन्यमसंसर्गस्याग्रहमात्रात्, वास्तविकसंसर्गस्याभावेऽपि कथञ्चित्संसर्गस्य वैज्ञानिकसंसर्गस्य ग्रहाद् वा निरुक्तावक्तव्यत्वबोधनं सम्भवतीत्यर्थः । व्यञ्जननये तु शब्द-समभिरूडैवम्भूताख्यशब्दनये पुनः । तन्न सम्भवति निरुक्तावक्तव्यत्वबोधनं न सम्भवति । असतो० इति-"असतो नास्ति निषेधः” इति संस्कृतम्। उक्तेति-एकपदजन्यप्रातिखिकधर्मद्वयावच्छिन्नविषयकशाब्दबोधविषयत्वलक्षणविशिष्टप्रतियोगिनोऽप्रसिद्ध्या तदभावस्यापि निरुक्तशाब्दबोधविषयत्वाभावस्यापि, असिद्धत्वात् 'असतो नास्ति निषेधः' इति वचनप्रामाण्यात् यश्च स्वरूपत एवाप्रसिद्धः, स न पदार्थो नाऽपि वाक्यार्थ इति पदार्थविधया वाक्यार्थविधया वोक्ताभावरूपस्यावक्तव्यत्वस्य बोधयितुमशक्यत्वादित्यर्थः । यद्यप्यवक्तव्यपदात् स्यात्पदासमभिध्याहृतानोक्ताऽवक्तव्यत्वबोधः सम्भवति तथापि स्यात्पदसमभिव्याहृतादवक्तव्यपदात् प्रत्येक्तमुक्ताऽवक्तव्यत्वशरीरप्रविष्टेषु सर्वपदार्थेषु शक्तात् सर्वावक्तव्यत्वघटकपदार्थोपस्थितिबलादुक्ताऽवक्तव्यत्वबोधो भविष्यतीत्याशय प्रतिक्षिपति-न चेति-अस्य 'सम्भवति' इत्यनेनान्वयः, निषेधे हेतुमुपदर्शयति-एकपदार्थयोरिति । अन्यथा एकपदार्थयोरपि परस्परमन्वयबोधाभ्युपगमे। नव्यत्यासात् 'अविषयत्वम्' इत्यत्र स्थितस्य नञः तत्स्थानं परित्यज्य 'एकपदजन्य' इत्यत्र जन्ये समन्वयात् । तच्च "एकपदाजनित०' इत्यादिनिरुक्तस्यादवक्तव्यत्वं च । भङ्गद्वयार्थ एकवाक्यतापन्न
Page #317
--------------------------------------------------------------------------
________________
२५६
अनेकान्तव्यवस्थाप्रकरणम् ।
भङ्गाविति व्याख्यातृतात्पर्य सुष्ठु घटामटाट्यते ॥ देशकृतश्चतुर्भङ्ग[ ताश्चत्वारो भङ्गा ]स्तु व्यञ्जननयेन शुद्धेन देश्यतिरिक्तदेशाऽभावादेव नोद्भावना ( र्हा) इति विभावनीयं सुधीभिः ॥ इति बुधहितहेतोर्दर्शिताः सप्तभङ्गा, जिनवचनसमुद्रोत्तुङ्ग गङ्गातरङ्गाः । दलितकुनयवादं निर्विशेषं मया श्रीनयविजयगुरूणां प्राप्य पूर्णप्रसादम् ॥
m
प्रथमद्वितीयभङ्गार्थकथञ्चिदस्तित्व-कथञ्चिन्नास्तित्वलक्षणप्रातिखिकधर्मद्वयम् । तथा च सिद्धमिदं यच्छब्दनये प्रथम - द्वितीयावेव भङ्गावित्युपसंहरति- व्यञ्जननय इति । देशिव्यतिरिक्तदेशानभ्युपगन्तृशब्दनये 'स्यादस्त्येव, स्यान्नास्त्येव' इत्याद्याश्चत्वारो भङ्गा देशकृता न सम्भवन्त्येवेत्याह- देशकृताश्चत्वारो भङ्गास्त्विति । वस्तुतः 'देशकृतचतुर्थभङ्गस्तु' इत्येव पाठो युक्तः, यतः स्यादवक्तव्य एवं' इति तृतीयभङ्गस्य शब्दनये उक्तदिशाऽभावे व्यवस्थिते पञ्चम-षष्ट- सप्तमभङ्गानां तृतीयभङ्गसंयोगलब्धात्मनामभावः सुदृढनिरूढ एवेति प्रथम द्वितीयभङ्गसंयोगकृतश्चतुर्थभङ्ग एव शब्दनये सम्भावनापथमवतरतीति तस्यैवोद्भावनाऽनर्हत्वं देश्यतिरिक्तदेशाऽभावतः प्रतिपादयितुमुचितमिति ॥
सप्तभङ्गी निरूपणोपसंहरणं पद्येनावेदयति- इतीति- इति जिनवचनसमुद्रोत्तुङ्गगङ्गातरङ्गाः सप्तभङ्गा श्रीनयविजयगुरूणां पूर्णप्रसादं प्राप्य मया बुधहितहेतोर्निर्विशेषं दलितकुनयवादं यथा स्यात् तथा दर्शिता इत्यन्वयः, अर्थस्तु व्यक्त एव । सप्तभङ्गा उक्तदिशा यथावत् समर्थिताः सुपरीक्षितार्थग्रहणकृतादराणां बुधानामभ्यासविषयतां प्राप्य स्याद्रादागमश्रद्धोत्पादनद्वारा सम्यक्त्वं सम्पादयिष्यन्तीति बुधहितहेतुत्वात् सप्तभङ्गयुपवर्णनं सप्रयोजनमेवेत्युपदर्शितुमुक्तम्- बुधहितहेतोरिति । जिनवचनाभ्यासावदातहृदयैरेवैते भङ्गाः समुद्भावयितुं शक्या इति वैशिष्ट्याधिगतये भङ्गानां 'जिनवचन' इत्यादिविशेषणम् । लब्धगुरुप्रसादस्य स्वस्य तथाविधभङ्गोपदेष्टृत्वं सम्भवति, न त्वलब्धगुरुप्रसादस्येत्यावेदयितुं श्रीनयेत्यादि । एक कुनयवादोन्मूलनेन सप्तभङ्गचुपदर्शने तन्नयवादी तथोपदेष्टरि पक्षपातित्वमारोप्य तदुपदिष्टसप्तभङ्गावलोकनेऽप्यौदास्यमासादयेत्, न चैवमित्यावेदयितुमुक्तम् - निर्विशेषं दलित कुनयचादमिति, क्रियाविशेषणम् ॥
गुरूणां नेमिसूरीणां प्रसादं प्राप्य धीमता ।
लावण्यसूरिणा व्याख्या, कृताऽस्तु विदुषां मुदे ॥
wwwwwwm
Page #318
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् २५७ तदेवं सप्तभङ्गीमङ्गीकुर्वाणमनेकान्तात्मकमेव वस्तु नय-प्रमाणात्मकचैतन्यगोचरः, सदृशा-ऽसदृशपर्यायाभ्यामेकान्तसदसद्विलक्षणस्य जात्यन्तरात्मकस्यैव घटादेरनुभूयमानत्वात् , येऽपि सदृशपर्यायास्तेऽपि सद्-द्रव्य-पृथिव्यादिवचनप्रतिपाद्या व्यञ्जनपर्यायाः, न तु ऋजुसूत्राभिमता अर्थपर्यायाः, अन्योऽन्यव्यावृत्तवस्तुस्वलक्षणग्राहकत्वात् तस्य ।
अनेकान्तात्मकवस्तुनो नय-प्रमाणविषयत्वं प्रतिज्ञातमुपसंहरति-तदेवमिति । सप्तभङ्गीमङ्गीकुर्वाणं स्वप्रतिपादकत्वेन सप्तभङ्गीमभ्युपगच्छत् , सप्तभङ्गीवाक्यप्रतिपाद्यमिति यावत् । सदृशपर्यायेण घटादेः सत्त्वम् , असदृशपर्यायेणासत्त्वमिति कृत्वा कथञ्चित् सन् घटः कथञ्चिदसँश्चेत्येवमेकान्तसदसद्विलक्षणं जात्यन्तरमनेकान्तात्मकं घटादिकं वस्त्वनुभूयमानत्वादभ्युपगन्तव्यमित्याह-सदृशेति-सदृशपर्यायो घटादेः सत्त्व-द्रव्यत्व-पृथ्वीत्वादिय॑ञ्जनपर्यायस्तद्रूपेण सत्त्वम् , तदन्योऽसदृशपर्यायस्तद्रूपेणाऽसत्त्वमिति सदृशाऽसदृशपर्यायाभ्याम्। एकान्तसदसद्विलक्षणस्येतियदि वस्त्वेकान्तेन सद् भवेत् सदृशपयायेणेवासदृशपर्यायेणापि सद् भवेत् , तथा च सर्वरूपेण सत्त्वे सर्वस्य सर्वात्मकत्वं प्रसज्येत, अथ वस्त्वेकान्तेनासद् भवेत् , असदृशपर्यायेणेव सदृशपर्यायेणाप्यसदिति शून्यमेव स्यात् , न चैवम् , अतो नैकान्तेन सन्नप्येकान्तेनासदित्येकान्तसदसद्विलक्षणस्येत्यर्थः, एकान्तसदसदुभयरूपत्वेऽपि प्रत्येकपक्षभाविदोषः स्यादेव, अतः सदसदुभयात्मकत्वेन जात्यन्तरात्मकमनेकान्तात्मकमेव वस्त्वित्याह-जात्यन्तरात्मकस्यैवेति । न चेत्थमननुभूयमानत्वादनुभवबाधतो नाभ्युपगन्तुं शक्यमित्यत आह-अनुभूयमानत्वादिति। सदृशपर्यायः कः ? यद्रूपेण सत्त्वमभिमतमित्यपेक्षायामाह-येऽपि सदृशपर्याया इति- सदृशपर्यायः स एव भवितुमर्हति यद्रूपेणाने कानुगमनम् , इत्थंखभावश्च व्यञ्जनपर्याय एव यः सदादिशब्देन प्रतिपाद्यते। अनेकानुगमाभावाजुसूत्रभिमतोऽर्थपर्यायस्तु न सदृशपाय इत्याह-न त्विति । निषेधे हेतुमाह-अन्योऽन्येति । तस्य अर्थपर्यायस्य, यद्यप्यसाधारणस्वरूपेण सत्त्वं साधारणस्वरूपेणासत्त्वमिलेवं विवक्षयाऽसाधारण-साधारणपर्यायाभ्यामेकान्तसदसद्विलक्षणस्य जात्यन्तरात्मकस्यानुभूयमानत्वादनेकान्तात्मकवस्तुसिद्धिः सम्भवति तथा च ऋजुसूत्राभिमतार्थपर्यायतोऽपि सत्त्वसङ्गमना युज्यते तथापि तां विवक्षामनादृत्यैवैतत्प्रकारेणानेकान्तात्मक
अ. व्य. १७
Page #319
--------------------------------------------------------------------------
________________
अनेकान्त व्यवस्थाप्रकरणम् ।
'
२५८
न च, सामान्यमात्रस्य न शब्दवाच्यत्वम्, शब्दादप्रवृत्तिप्रसक्तः, सामान्यस्यार्थक्रियाऽक्षमत्वात्, सामान्यप्रतिपादनद्वारा लक्षणयाऽनुमानतो वाऽर्थक्रियाक्षमस्य विशेषस्य प्रतिपत्तेश्च क्रमप्रतिपत्तेरसंवेदनेन वक्तुमशक्यत्वात्, नापि विशेषाणां शब्दवाच्यत्वमानन्त्यात् सङ्केतासम्भवात्, किन्तूभयात्मकं वस्तु गुणप्रधानभावेन शब्दवाच्यम्, तच्चार्थपर्यायरूपमेवेति कुतस्तद्विलक्षणव्यञ्जनपर्यायसिद्धिर्यदपेक्षया
।
त्वमिदानीमुपपादयितुमिष्टमिति बोध्यम् । सामान्यस्य शब्दवाच्यत्वतो व्यञ्जनपर्यायत्वमसहमानस्याशङ्कामुत्थाप्य प्रतिक्षिपति - न चेति - अस्य 'शङ्कनीयम्' इत्युत्तरेण सम्बन्धः, दोहन- वाहनाऽऽनयन-जलाहरणादिक्रियायोगित्वाच्छब्दव्यवहारयोग्या व्यक्तय एव शब्दवाच्याः, न तु तादृशक्रियाऽसमर्थं सामान्यं शब्दवाच्यम् तस्य तथात्वे शब्दात् प्रवृत्तिरेव न स्यादित्याह - शब्दादप्रवृत्तिप्रसक्तेरिति । पूर्वं शब्दात् सामान्यं प्रत्येति ततस्तस्यानयनादिक्रियान्वयानुपपत्तिं प्रतिसन्धाय लक्षणया विशेषप्रतिपत्तिः, अथवा यत्र सामान्यं तत्रावश्यं कश्चिद् विशेष इत्येवं व्याप्तिप्रतिसन्धानेन सामान्यविषयकत्वं यत्किञ्चिद्विशेषविषयकत्वमन्तरेणानुपपन्नमित्येवमन्यथानुपपत्तिप्रतिसन्धानेन वा विशेषप्रतिपत्तिः, ततश्च प्रवृत्तिरित्येवमुपगमोऽपि तदा शोभेत यद्युक्तदिशा क्रमप्रतीतिः संवेद्येत, न चैवमित्याह - सामान्यप्रतिपादनद्वारेति । 'प्रतिपत्तेश्च' इत्यस्य 'वक्तुमशक्यत्वाद्' इत्यनेनान्वयः । तत्र हेतु :- क्रमप्रतिपत्तेरसंवेदनेनेति - पूर्वं सामान्यप्रतीतिस्ततो विशेषप्रतीतिरित्येवमननुभूयमानत्वेनेत्यर्थः । आनन्त्यतो विशेषेष्वशेषेषु सङ्केतासम्भवेन यत्किञ्चिद्विशेषे न सङ्केताभ्युपगमे यत्र विशेषे न सङ्केतग्रहस्तस्य शाब्दबोधाविषयत्वतः प्रवृत्तिविषयत्वं न स्यादिति विशेषाणामपि न शब्दवाच्यत्वमित्याह-नापि विशेषाणामिति । तर्हि किंशब्दवाच्यमिति पृच्छतिकिन्त्विति । उत्तरयति-उभयात्मकमिति - सामान्यविशेषोभयात्मकमित्यर्थः । गुणेति-क्वचित् सामान्यान्वययोग्यपदार्थान्तरान्वयोपपत्तये विशेषस्य गुणभावः सामान्यस्य प्राधान्यम् क्वचिद् विशेषस्यैव पदार्थान्तरान्वययोग्यत्वे प्राधान्यं सामान्यस्य गुणभाव इत्येवं गुणप्रधानभावेनेत्यर्थः । तच्च सामान्य- विशेषोभयात्मकं वस्तु च तद्विलक्षणेति-अर्थपर्यायविलक्षणेत्यर्थः । अर्थपर्यायः सर्वत्र शब्दवाच्यो न भवति तथा सति तस्य सर्वत्रार्थे सद्भावादशेषस्यापि वस्तुधर्मस्य शब्दवाच्यत्वं स्यात्,
Page #320
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् २५९ सत्त्वमुच्येतेति शङ्कनीयम् , केषुचिदेवार्थधर्मेषु शब्दवाच्यतापरिणत्यभ्युपगमादाख्यातुमशक्यत्वेऽपि प्रत्याख्यातुमशक्यानां माधुर्यविशेषादीनां बहूनामर्थधर्माणामनुभवसिद्धत्वात् , अत एव 'प्रज्ञापनीया भावा अप्रज्ञापनीयानामनन्तभाग एव' इति सिद्धान्तव्यवस्था, तेनार्थपर्यायवैलक्षण्यं व्यञ्जनपर्यायेषु नाप्रामाणिकम् , अवश्यं चैतदभ्युपगन्तव्यम् , अन्यथाऽदृष्टदशरथादीनामिदानीन्तनानां तदीयार्थपर्यायापरिज्ञानाद् दशरथादिपदाच्छाब्दबोधो न स्यादित्यधिकमनेकान्तवादप्रवेशे ।
न चैवम् , कस्यचिद् धर्मस्य शब्देनामिधातुमशक्यस्यापि सद्भावादित्यर्थपर्यायविलक्षणो व्यञ्जनपर्यायोऽवश्यमभ्युपगम्यः, यद्भावाऽभावाभ्यां शब्दवाच्यत्वाऽवाच्यत्वे सङ्गतिमञ्चतः, तथा च व्यञ्जनपर्यायस्यार्थपर्यायविलक्षणस्य सद्भावात् तस्य शब्दवाच्यत्वं समीचीनमेवेति प्रतिक्षेपहेतुमुपदर्शयति-केषुचिदेवेति । ये च शब्दवाच्यतां न प्रतिपद्यन्तेऽर्थधर्मास्ते न सन्त्येवेति वक्तुमशक्यम् , यतो दुग्ध-दधि-गुड-सिता-शर्करामध्वादीनां माधुर्यसामान्यस्याविशेषेऽप्यवान्तरमाधुर्यविशेषा अन्योऽन्यविलक्षणा अनुभूयमाना अपलपितुमशक्या अनुभूयमाना अपि ते नान्योऽन्यव्यावृत्तिप्रतिपत्तये शब्दतोऽभिधातुं शक्या इत्याह-आख्यातुमशक्यत्वेऽपीति । अत एव शब्दाप्रतिपाद्यानां बहूनामर्थधर्माणां सद्भावादेव । तेन उक्तदिशा व्यञ्जनपर्यायसद्भावेन । शब्दवाच्यतया व्यञ्जनपर्यायस्यावश्याभ्युपगन्तव्यत्वं युक्त्यन्तरेण व्यवस्थापयति-अवश्यं चेति । एतत् व्यञ्जनपर्यायस्य शब्दवाच्यत्वम् । अन्यथा व्यञ्जनपर्यायस्य शब्दवाच्यत्वमनभ्युपगम्यार्थपर्यायस्यैव शब्दवाच्यत्वाभ्युपगमे । अदृष्टेति-'दशरथादीनाम्' इत्यादिपदाद् राम-रावण-युधिष्ठिरादीनामन्ययुगीनानां भूतानां भविष्यतां चोपग्रहः, 'इदानीन्तनानाम्' इत्युक्तियुगादिव्यवहितानां न कथञ्चिदपि दर्शनसम्भव इत्यावेदनाय । तदीयेति-दशरथादिसम्बन्धीत्यर्थः, व्यञ्जनपर्यायस्तु सत्त्व-द्रव्यत्वादिनित्यत्वादिदानीमस्त्येवेति तत्परित्यागतस्तद्रूपेण दशरथादीनामपि शाब्दबोधः सम्भवेदेवेति हृदयम् । उक्तार्थविशेषाधिगतये स्वनिर्मितग्रन्थान्तरावलोकनप्रवर्तनायाह-अधिकमिति । 'सदृशाऽसदृशपर्यायाभ्याम्' इति यदुक्तं प्राक् तदुपसंहरति-तत इति-व्यञ्जनपर्यायस्य शब्दवाच्यत्वत इत्यर्थः । उक्तार्थे
Page #321
--------------------------------------------------------------------------
________________
२६०
अनेकान्तव्यवस्थाप्रकरणम् ।
ततः सदृशव्यञ्जनपर्यायैरेव सर्वमस्ति न त्वन्यैरित्ययमनेकान्त
एव व्यवस्थितः, तदिदमुक्तम् —
“परपज्ज़वेहिं विसरिसगमेहिं णियमेण णिच्चमवि णत्थि । सरिसेहि वि वंजणओ, अत्थि ण पुण अत्थपज्जाए ॥” [ सम्मतिकाण्ड० ३, गाथा-५ 1
wwwww
विसदृशगमैर्विजातीयज्ञानप्रायैः । नन्वेवमपि प्रत्युत्पन्नपर्यायेणास्तित्वनियमेऽप्येकान्तवादापत्तिरिति चेत् ?, अत्राहु:
----
"पशुप्पण्णंमि विपज्जयंमि भयणागई पडइ दवं । जं एगगुणाईया अनंतकप्पा गम [ गुण ]विसेसा ॥” [ सम्मतिकाण्ड० ३, गाथा - ६ ]
प्रत्युत्पन्नेऽपि - वर्तमानेऽपि, पर्याये, स्व-पररूपतया सदसदात्मिकां मध्योर्ध्वादिरूपेण च भेदाऽभेदात्मिकां भजनागतिं- विकल्पपद्धतिम्, पतति - आसादयति, द्रव्यम्, यद्यस्मात् कारणाद्, एकगुणकृष्णत्वादयः अनन्तकल्पाः - अनन्तप्रकाराः तत्र गुणविशेषाः, तेषां च मध्ये केनचिदेव गुणविशेषेण युक्तं तत्, तथाहि - कृष्णं द्रव्यं
सम्मति - सम्मतिमुपदर्शयति तदिदमुक्तमिति । परपज्जवेहिं० इति - " परपर्यायैर्विसदृशगमैर्नियमेन नित्यमपि नास्ति । सदृशैरपि व्यञ्जनतोऽस्ति न पुनरर्थपर्याये ॥ १ ॥” इति संस्कृतम् । ननु यदि व्यञ्जनपर्यायैरेव वस्तुनोऽस्तित्वं तदा प्रत्युत्पन्नपर्यायेणास्तित्वनियमाभ्युपगमेऽप्येकान्तवादापत्तिः स्यादित्याशङ्कते - नन्वेवमिति । प्रत्युत्पन्नपर्यायेण वर्तमानपर्यायेण । अत्र उक्ताशङ्कायाम् । आहुः श्रीसिद्धसेनदिवाकरसूरयः कथयन्ति समाधानम् । पचुप्पण्णं मि० इति - " प्रत्युत्पन्नेऽपि पर्याये भजनागतिं पतति द्रव्यम् । यदेकगुणादिका अनन्तकल्पा गुणविशेषाः ॥” इति संस्कृतम् । निरुक्तगाथां विवृणोति - प्रत्युत्पन्नेऽपीति । तत्र द्रव्ये । तेषां च
Page #322
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम्
२६१ तद् द्रव्यान्तरेण तुल्यमधिकमूनं वा भवेत्, प्रकारान्तराभावात् , प्रथमपक्षे सर्वथातुल्यत्वे तदेकत्वापत्तिः, तथा च नील-नीलतरादिप्रतीतिबाधः, उत्तरपक्षयोः सङ्ख्येयादिभाग-गुणवृद्धि-हानिभ्यां षट्रस्थानकप्रतिपत्तिरवश्यम्भाविनीति प्रत्युत्पन्नपर्यायेणापि भजनाऽबाधितैव ॥
स्यादेतत् , पुद्गलद्रव्यस्य तादृग्भूताऽपरपुद्गलद्रव्यापेक्षयाऽनेकान्तरूपता युक्ता, प्रत्युत्पन्ने चात्मद्रव्यपर्याये कथमनेकान्तरूपता युक्ता ? मैवम्-आत्मपर्यायस्यापि ज्ञानादेस्तत्तद् ग्राह्यार्थापेक्षयाऽनेकान्तरूप
गुणविशेषाणां च मध्ये । तत् द्रव्यम् । तद्रव्यान्तरेण कृष्णद्रव्यान्तरेण । प्रथमपक्षे कृष्णद्रव्यं कृष्णद्रव्यान्तरेण तुल्यमिति पक्षे । सर्वथा सर्वप्रकारेण, खेनैव सह स्वस्य सर्वप्रकारेण तुल्यत्वम् , भिन्नस्य तु यद्रूपात्मकविरुद्धधर्माध्यासाद् भेदस्तद्रूपेण तुल्यत्वाभावान्न सर्वथा तुल्यत्वमिति, एवं च सर्वथा तुल्यत्वे तदेकत्वं प्रसज्यत इत्याह-तदेकत्वापत्तिरिति । तथा च तदेकत्वे च, एकत्वे च यन्नीलं तन्नीलतरं न भवतीति नील-नीलतरादिप्रतीतिबाधः । उत्तरपक्षयोः कृष्णद्रव्यं कृष्णद्रव्यान्तरेणाधिकमूनं वेति द्वितीय-तृतीयपक्षयोः, अधिकत्वं सङ्ख्येयभागगुणवृद्ध्यसङ्ख्येयभागगुणवृद्ध्यनन्तभागगुणवृद्धितः स्यात् , न्यूनत्वं सङ्ख्येयभागगुणहान्यसङ्ख्येयभागगुणहान्यनन्तभागगुणहानित इत्येवं सङ्ख्येयादिभाग-गुणहानिभ्यां षट्स्थानकप्रतिपत्तिरवश्यंभाविनीति प्रत्युत्पन्नपर्यायेणापि भेदाभेदात्मिका भजनाऽ. बाधितैवेत्यर्थः । नन्वेकमपि कृष्णपुद्गलद्रव्यं कृष्ण-कृष्णतराद्यबाधितप्रतीत्यनुरोधेन भिन्नमिति तत्रोक्तदिशा वर्तमानपर्यायेऽपि भेदाभेदात्मकभजनासौर्यतोऽनेकान्तरूपताप्रतिपत्तिसम्भवेऽपि प्रत्युत्पन्नात्मद्रव्यपर्याये चोक्तदिशा भजनाप्राप्त्यसम्भवात् कथमनेकान्तरूपतेत्याशङ्कते-स्यादेतदिति । पुद्गलद्रव्यस्य कृष्णगुणविशिष्टपुद्गलद्रव्यस्य । तादृग्भूतेति-कृष्णगुणविशिष्टेत्यर्थः । समाधत्ते-मैवमिति । तत्तद्राोति-नीलगुणादिविशिष्टद्रव्याद्यात्मकग्राह्यार्थापेक्षयेत्यर्थः, अर्थस्यानेकान्तात्मकत्वे तद्राहकज्ञानस्याप्यनेकान्तात्मकत्वमावश्यकम् , यतो भेदाऽभेदात्मकवस्तुग्राहिणो ज्ञानस्य भेदग्राहित्वाऽभेदग्राहित्वाभ्यां भेदः स्वरूपतश्चाभेद इत्यनेकान्तरूपता, एवं सदसदात्मकवस्तु ग्राहिणोऽपि सद्रूपार्थग्राहित्वा-ऽसद्रूपार्थग्राहित्वाभ्यां भेदः स्वरूपतोऽभेद इत्येवमनेकान्तरूपता भावनीया । एवं सिद्धेषु सर्वदावस्थितमपि ज्ञानं स्वग्रा
Page #323
--------------------------------------------------------------------------
________________
२६२ अनेकान्तव्यवस्थाप्रकरणम् । तायाः पुद्गलवदविरोधात्, अनेनैव हि न्यायेन सिद्धेष्वपि त्रैलक्षण्यं व्यवतिष्ठते, तथा द्रव्य-कषायादिभेदादप्यात्मनः पुद्गलवदनेकान्तरूपता सिद्धान्तसिद्धैव, तथा च वाचकमुख्यः
"द्रव्यं कषाय-योगावुपयोगो ज्ञान-दर्शने चैव । चारित्रं वीर्यं चेत्यष्टविधा मार्गणा तस्य । जीवा-ऽजीवानां द्रव्यात्मा, सकषायिणां कषायात्मा । योगः सयोगिनां पुनरुपयोगः सर्वजीवानाम् । ज्ञानं सम्यग्दृष्टेर्दर्शनमथ भवति सर्वजीवानाम् । चारित्रं विरतानां तु, सर्वसंसारिणां वीर्यम् ॥ द्रव्यात्मेत्युपचारः, सर्वद्रव्येषु नयविशेषेण ।
आत्मादेशादात्मा, भवत्यनात्मा परादेशात् ॥ ह्यस्य विनाशे तदाहित्वेन विनष्टं स्वग्राह्यस्योत्पादे तदाहित्वेनोत्पन्नं ज्ञानात्मना त्वविचलमित्येवमुत्पाद-व्यय-ध्रौव्यात्मकत्रैलक्षण्ययोगादनेकान्तात्मकत्वमित्याह-अनेनैवेति-तत्तद्वाह्यापेक्षयाऽनेकान्तरूपताप्रापकेणेत्यर्थः । प्रकारान्तरेणापि पुद्गलवदनेकान्तरूपताऽऽत्मन इत्यावेदयति-तथेति । ___ द्रव्य-कषायादिभेदादात्मनोऽनेकान्तरूपतायाः सिद्धान्तसिद्धत्वस्य दााय तत्र प्रशमरति प्रकरणे भगवदुमास्वातिवाचकमुख्यदृब्धं वचनकदम्बकमुपदर्शयतितथा च वाचकमुख्य इति । द्रव्यमिति०-तस्य आत्मनः । मार्गणा चिन्तना, 'द्रव्यम् , कषायः, योगः, उपयोगः, ज्ञानम् , दर्शनम् , चारित्रं, वीर्यं च' इत्येवम् अष्टविधा अष्टप्रकारा भवतीत्यर्थः ॥
तत्र येषां द्रव्यमात्मा, येषां कषाय आत्मा इत्यादि, तान् विविच्य दर्शयतिजीवा-ऽजीवानामिति । योगः योगात्मा, एवमुपभोग इत्यादीनामप्युपभोगात्मेत्यादिरूपेण व्याख्यानमवसेयम् ॥ ___जीवा-ऽजीवानां द्रव्यात्मेति कथमित्यपेक्षायामाह-द्रव्यात्मेत्युपचार इति । नयविशेषेण सङ्ग्रहनयेन । कषायादिकं कथमात्मेति व्यपदिश्यत इत्यपेक्षायामाह-- आत्मादेशादात्मेति-कषायादेहात्मधर्मत्वाद् धर्म-धर्मिणोरभेद इति कृत्वाऽऽत्म
Page #324
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् एवं संयोगा-ऽरूप-बहुत्वाद्यै कशः स परिमृग्यः । जीवस्यैतत् सर्वं, स्वतत्त्वमिह लक्षणैदृष्टम् ॥
[प्रशमरतौ श्लो० १९९, २००, २०१, २०२, २०३] इति ॥ - प्रकारान्तरेणाप्यात्मनोऽनेकान्तरूपतामुपपादयति सम्मतिकारः
"कोवं उप्पायंतो, पुरिसो जीवस्स कारओ होइ । तत्तो विभइयबो, परम्मि सयमेव भइयवो ॥”
[सम्मतिकाण्ड० ३, गाथा-७] को-कोपपरिणतिम् , उत्पादयन् पुरुषः, जीवस्य-परभवप्रादुर्भावपरिणतिविशिष्टस्य, कारक:-निर्वर्तको भवति, तन्निमित्तकर्मण उपात्वेनादेशात् कषायादिर्भवत्यात्मेत्यर्थः, यदा च कषायादिरात्मभिन्नत्वेनैव विवक्ष्यते तदा परादेशदात्मनः परः कषायादिरित्येवमादेशात् कषायादिरनात्मा भवतीत्यर्थः ॥
प्रकारान्तरेणाप्यात्मनो मार्गणा भवतीत्याह-संयोगेति । नैकशः अनेकप्रकारेण । स आत्मा, परिमृग्यः समन्ताद् विचारणीयः । एतत् सर्व द्रव्यकषाययोगादिकं सर्वम् । इह स्याद्वादे । लक्षणैः द्रव्यादीनां यानि लक्षणानि 'गुणपर्यायवद् द्रव्यम्' [ तत्त्वा० अ० ५. सू० ३७] इत्यादिकानि तैः जीवस्य स्वतत्त्वं स्याद्वादिभिदृष्टमित्यर्थः । ___ प्रकारान्तरेणात्मनोऽनेकान्तरूपतावेदकं सम्मतिवचनमवतार्य दर्शयति-प्रकारान्तरेणेति । कोवं इति-"कोपमुत्पादयन् पुरुषो जीवस्य कारको भवति । ततो विभजनीयः परस्मिन् स्वयमेव भजनीयः ॥” इति संस्कृतम् । विवृणोति-कोपमिति । जीवस्यानादिनिधनस्य कारकत्वं कोपपरिणत्युत्पादके पुरुषे न सम्भवतीत्यतस्तस्य विशेषणं 'परभवप्रादुर्भावपरिणतिविशिष्टस्य, इति तथाविधस्य जीवस्यानादिनिधनत्वाभावाजन्यस्य सतः कारकत्वं सम्भवतीति, स्वकृतकर्मणैव जन्तुरेकभवादन्यभवं प्रयातीति कथं तथाविधजीवनिर्वर्तकत्वमपि कोपोत्पादकपुरुषस्येत्यत आहतन्निमित्तेति-कोपोत्पादकः पुरुषः कोपपरिणतिमुत्पादयति, कोपपरिणतिमाँश्चात्मा परभवनिमित्तं कर्मोपचिनोति तेन कर्मणा परभवे प्रादुर्भवतीत्येवं परम्परया कोपोत्पा
www
Page #325
--------------------------------------------------------------------------
________________
२६४ अनेकान्तव्यवस्थाप्रकरणम् । दानात् , कोपपरिणाममापद्यमानश्च पुरुषः, ततः-परभवजीवाद् , विभजनीयः-भिन्नो व्यवस्थापनीयः, कार्य-कारणयोर्मुत्पिण्ड-घटवत् कथञ्चिद्भेदात् , अन्यथा कार्य-कारणभावाभावप्रसङ्गात् । 'वीतरागजन्माऽदर्शन'न्यायेनैकत्वेन सिद्धस्य जीवस्य कथं भवभेदेन भेद इति चेत् ?, मृद्रव्यतयैकत्वेन सिद्धस्य मृत्पिण्ड-घटभावाभ्यामपि कथं भेदः ? नहि मृत्पिण्ड-घटभावाभ्यां मृद इव देव-मनुजभावाभ्यां जीवस्य वैलक्षण्यमप्रामाणिकमिति विभावनीयम् , न चासौ ततो भिन्न
दकपुरुषस्य तादृशजीवनिर्वर्तकत्वं सम्भवतीति । ननु य एव पूर्वभवस्थो जीवः स एव परभवस्थ इत्येकस्य तस्य कथं कर्मद्वारा स्वं प्रत्येव कारणत्वं येनोक्तदिशा कोपोत्पादकपुरुषस्य तन्निवर्तकत्वं स्यादित्यत आह-कोपपरिणामेति । अन्यथा कोपपरिणतिमापद्यमानस्य पूर्वभवस्थजीवस्य परभवजीवाद् भेदाभावे । अत्र परः शङ्कतेवीतरागेति-वीतरागस्य जन्माप्रसिद्ध्या तद्दर्शनाप्रसिद्धौ तददर्शनमप्यप्रसिद्धमतो 'वीतरागजन्मादर्शनाद्' इत्यस्य 'सरागस्यैव जन्मदर्शनाद् इत्यर्थः, अस्य न्यायस्येदमैदम्पर्यम्-गर्भनिस्सरणानन्तरमेव पुरुषो मातुः स्तनपानं कर्तुमिच्छति, इच्छा चेष्टसाधनताज्ञानपूर्विका, नहि तदानीमेवोत्पन्नोऽयं पुरुषोऽस्मिन् भवे स्तनपानं कृतवानिति 'स्तनपानं मदिष्टसाधनम्' इत्यनुभवरूपं ज्ञानमस्य नास्तीति न चोक्तेष्टसाधनताज्ञानमन्तरेण तदिच्छा तस्य संभवतीति स्मरणरूपं तस्य तदिति वाच्यम् , स्मरणं च संस्कारद्वारा अनुभवजन्यमिति पूर्वजन्मनि तस्य तदनुभव इति पूर्वजन्मसिद्धौ तत्रापि प्रथमतस्तस्य स्तन्यपानगोचरा प्रवृत्तिरिष्टसाधनतास्मरणपूर्विकैवेत्येवमनादिभवपरम्परासिद्धितस्तद्भवपरम्परानुगाम्येक आत्मेति उक्तन्यायेनैकत्वेन सिद्धस्यात्मनः कथं भवभेदेन भेद इति शङ्कार्थः । प्रतिबन्दिमुखेन समाधत्ते-मृद्रव्यतयेति । कथं भेद इति-तथा च मृगव्यतयैकत्वेन सिद्धस्यापि यथा मृत्पिण्डघटभावाभ्यां भेदस्तथा वीतरागजन्मादर्शनन्यायेनैकत्वेन सिद्धस्यापि जीवस्य पूर्वभवभावोत्तरभवभावाभ्यां भेदः । न च तत्र वैलक्षण्यं समस्ति प्रकृते तु वैलक्षण्यं नास्तीति विनिगमकमिति वाच्यम् , अत्रापि वैलक्षण्यस्य सद्भावादित्याह-न हीति-अस्य 'अप्रामाणिकम्' इत्यनेनान्वयः । एतावता जीवे भेदसिद्धावप्यभेदासिद्धौ न भेदा-ऽभेदोभयात्मकत्वलक्षणानेकान्तरूपता सिद्ध्यतीत्यत आह-न चेति-असौ परभवजीवाद् भिन्न एव न चेत्यर्थः । अत्र
Page #326
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम्
२६५ एव, यतः, परस्मिन् भवे, स्वयमेव पुरुषो, भजनीय:-आत्मरूपतयाऽभेदेन व्यवस्थापनीयः, घटाद्याकारपरिणतमृद्र्व्यवदित्यनेकान्तः । यद्वा कोपपरिणतिमन्यस्मिन् जीवे उत्पादयन् पुरुषः कारको भवति, ततोऽसौ कोपकारकत्वेन विभजनीयः-कोपपरिणतियोग्ये जीवे कारकोऽन्यत्राकारक इति ॥ - अथ द्रव्य-गुणानां भेदा-ऽभेदानेकान्तममृष्यमाणानां मतमुत्थापयति
"रूव-रस-गंध-फासा, असमाणग्गहण-लक्खणा जम्हा । तम्हा दवाणुगया, गुण त्ति ते केइ इच्छंति"॥
[सम्मतिकाण्ड० ३, गाथा-८] रूप-रस-गन्ध-स्पर्शा असमानग्रहण-लक्षणा यस्मात् तत्तो द्रव्याश्रिता गुणा:-तद्भिन्ना एवेति केचन-वैशेषिकाद्याः स्वयूथ्या वा सिद्धान्ताऽनभिज्ञाः, अभ्युपगच्छन्ति, तथाहि-गुणा द्रव्याद् भिन्ना भिन्नप्रमाणग्राह्यत्वाद् भिन्नलक्षणत्वाच्च, स्तम्भात् कुम्भवत् , न चासिद्धौ हेतू , हेतुः-यत इति । अनेकान्त इति-परभवप्रादुर्भावपरिणतिविशिष्टजीवत्व-कोपपरिणामापन्नपूर्वभवजीवत्वाभ्यां भेदः, आत्मरूपतया चाभेद इत्येवं शबलात्मको जीव इत्यर्थः, इत्थं यस्मिन् जीवे कोपपरिणामो जनितस्तस्य भिन्नाभिन्नोभयात्मकत्वेनानेकान्तरूपतोपपादिता, अथ कोपोत्पादकपुरुष एवानेकान्तरूपतासमर्थनपरं व्याख्यानान्तरमाह-यद्वेति । असौ कोपोत्पादकः पुरुषः, अन्यत्र कोपपरिणत्ययोग्ये, तथा च कोपकारकत्व-तदकारकत्वाभ्यामनेकान्तरूपता तस्येति भावः ।
· द्रव्य-गुणयोर्भेद एव न तु भेदा-ऽभेदाविति वैशेषिकमतोपदर्शकं सम्मतिवचनमवतार्य दर्शयति-अत्रेति । रूव० इति-"रूप-रस-गन्ध-स्पर्शा असमानग्रहण-लक्षणा यस्मात् । तस्माद् द्रव्यानुगता गुणा इति ते केऽपीच्छन्ति ॥” इति संस्कृतम् । विवृणोति-रूपेति । तद्भिन्ना एव द्रव्याद् भिन्ना एव । अनुमानप्रमाणेन गुणानां द्रव्यभिन्नत्वं साधयति-तथाहीत्यादिना। भेदसाधकहेत्वोः स्वरूपासिद्धता परिहरति
Page #327
--------------------------------------------------------------------------
________________
२६६
अनेकान्तव्यवस्थाप्रकरणम् । द्रव्यस्य 'यमहमद्राक्षं तमेव स्पृशामि' इत्यनुसन्धानाध्य(द् व्य)क्षग्राह्यत्वाद् , रूपादीनां च प्रतिनियतेन्द्रियप्रभवप्रत्ययावसेयत्वाद् , 'दार्शनं स्पार्शनं च द्रव्यम्' [ ] इत्याद्यभिधानादसमानग्रहणता द्रव्य-गुणयोः सिद्धा, तथा विभिन्नलक्षणत्वमपि “क्रियावद् गुणवत् समवायिकारणं वा द्रव्यम्" [ ] "द्रव्याश्रया निर्गुणा गुणाः" [ तत्त्वा० अ० ५, सू० ४०] इत्यादिवचनात् सिद्धम् ॥ एतन्मतं परिजिहीर्षुराह
"दूरे ता अण्णत्तं, गुणसद्दे चेव ताव पारिच्छं । किं पजवाहिए होज, पज्जवे वा वि गुणसण्णा ॥"
[सम्मतिकाण्ड० ३, गाथा-९] दूरे तावद् गुणगुणिनोरेकान्तेनान्यत्वम् , असम्भावनीयमिति न चेति । द्रव्य-गुणयोर्भिन्नप्रमाणग्राह्यत्वं व्यवस्थापयति-द्रव्यस्येति । प्रतिनियतेति-चक्षुरिन्द्रियजप्रत्ययावसेयत्वं रूपस्य, रसनेन्द्रियजप्रत्ययावसेयत्वं रसस्य, घ्राणेन्द्रियजप्रत्ययावसेयत्वं गन्धस्य, त्वगिन्द्रियजप्रत्ययावसेयत्वं स्पर्शस्येत्येवं प्रतिनियतेन्द्रियजप्रत्ययावसेयत्वादित्यर्थः । दार्शनं चक्षुरिन्द्रियजन्यप्रत्यक्षविषयः स्पार्शनं त्वगिन्द्रियजन्यप्रत्यक्षविषय; द्रव्य-गुणयोविभिन्नलक्षणत्वमुपपादयतितथेति। 'विभिन्नलक्षणत्वमपि' इत्यस्य 'सिद्धम्' इत्यनेनान्वयः। क्रियावत्त्वमाकाशादौ विभुन्यव्याप्तमिति क्रियावद्वृत्तिसत्ताभिन्नजातिमत्त्वं द्रव्यलक्षणं बोध्यम्।द्रव्याश्रयेतिद्रव्यवृत्तित्वलक्षणं द्रव्याश्रयत्वमवयवात्मकद्रव्यवर्तिन्यवयविन्यतिप्रसक्तमतो निर्गुणत्वमुपात्तम् , एवमपि कर्मादावतिप्रसक्तिर्न वारिता स्यात् तद्वारणाय द्रव्याश्रयत्वं यदि द्रव्यत्वव्यापकतावच्छेदकसत्ताभिन्नजातिमत्त्वं तदा तावन्मात्रमेव गुणलक्षणम् 'निर्गुणा' इति गुणे गुणा न विद्यन्त इति ख्यापनपरम् , निर्गुणवृत्तिकर्मावृत्तिजातिमत्त्वपर्यवसितं निर्गुणत्वं वा पृथगेव' गुणलक्षणमिति बोध्यम् ।
निरुक्तमतखण्डनपरां सम्मतिगाथामवतार्योल्लिखति-एतन्मतमिति । दरे इतिदूरे तावदन्यत्वं गुणशब्द एव तावत् पारीक्ष्यम् । किं पर्यायाधिके भवेत् पर्याये वाऽपि गुणसंज्ञा ॥” इति संस्कृतम् । विवृणोति-दूर इति । गुण-गुणिनोरेकान्तेनान्यत्वं
Page #328
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम्
२६७ यावत् , गुणात्मकद्रव्यप्रत्ययबाधितत्वादेकान्तेन गुण-गुणिभेदस्य, न च समवायनिमित्तोऽयमभेदप्रत्ययः, तत्र प्रमाणाभावात् , न चैकत्वप्रत्ययस्य प्रागुक्तानुमानबाधा, एकत्वप्रत्ययाध्यक्षबाधितकर्मनिर्देशानन्तरं प्रयुक्तत्वेनैकशाखाप्रभवत्वानुमानस्येव तस्य कालात्ययापदिष्टत्वात् , ततो गुण-गुणिनोरेकान्तान्यत्वस्यासम्भवाद्, गुणशब्द एव तावत् पारीक्ष्यमस्ति, किं पर्यायादधिके गुणसंज्ञा-गुणशब्दः प्रवर्तते ? किं वा पर्याय एव भवेत् ?, पर्यायानन्यत्वे कथञ्चिद्रव्यात्मकत्वमेवेत्यभिप्रायः । यदि च पर्यायादन्यो गुणः स्यात् तदा पर्यायार्थिकवद् गुणार्थोऽपि नयः स्यादित्यनिष्टापत्तिमाह
कथमसम्भावनीयमित्यपेक्षायामाह-गुणात्मकेति-'नीलो घटः पीतो घटः' इति गुण-गुणिनोस्तादात्म्यावगाही यो गुणात्मकद्रव्यप्रत्ययस्तेन बाधितत्वादित्यर्थः । ननु 'नीलो घटः' इत्यादिप्रत्ययस्य समवायेन नीलरूपवान् घट इत्यादिरेव विषयो न तु गुण-गुणिनोरभेदस्तस्य विषय इति न तेन बाधितत्वं गुण-गुणिभेदस्येत्याशय प्रतिलिपति-न चेति । निषेधे हेतुमाह-तत्रेति-समवाय इत्यर्थः । ननु गुण-गुणिनोरेकत्वप्रत्ययस्यैव तयोर्भेदावगाह्यनुमानप्रत्ययेन बाधनादेकान्तेन तयोर्भद एव पुरस्क्रियतामित्याशय प्रतिक्षिपति-न चेति । प्रागुक्तति-'गुणा द्रव्याद् भिन्नाभिन्नप्रमाणग्राह्यत्वाद् भिन्नलक्षणत्वाच्च' इति ग्रन्थोक्तेत्यर्थः। प्रबलेन दुर्बलस्य बाधो भवति, ननु दुर्बलेन प्रबलस्य, उक्तानुमानं चैकत्वग्राहिप्रत्यक्षप्रमाणबाधितविषयकत्वाद् दुर्बलमतो न तेनैकत्वावगाहिप्रत्यक्षबाध इत्याह-एकत्वप्रत्ययेति-एकत्वप्रत्ययरूपं यद् अध्यक्षं तेन बाधितं यत् कर्म अनुमित्यात्मकक्रियाया विषयत्वलक्षणकर्मताशालिगुण-गुणिभेदात्मकसाध्यं प्रतिज्ञात्मकतन्निर्देशानन्तरं भिन्नप्रमाणग्राह्यत्व-भिन्नलक्षणत्वरूपहेत्वोः प्रयुक्तत्वेन, तस्य भेदसाधकानुमानस्य, कालात्ययापदिष्टत्वाद् बाधितत्वात् , एकशाखाप्रभवत्वानुमानस्येव यथा “एतान्याम्रफलानि पक्कानि एकशाखाप्रभवत्वात् परिदृश्यमानपक्काम्रफलवद् इत्यनुमानस्यापक्कैकशाखाप्रभवाम्रफलग्राहिप्रत्यक्षबाधितकर्मनिर्देशानन्तरप्रयुक्तत्वेन बाधितत्वं तथेत्यर्थः। ततः मेदसाधकानुमानस्य बाधितत्वात् । पर्यायानन्यत्वे गुणशब्दः पयोय एव प्रवर्तत इति
Page #329
--------------------------------------------------------------------------
________________
२६८
अनेकान्तव्यवस्थाप्रकरणम् । "दो उ णया भगवया, दवट्ठिय-पज्जवट्ठिया नियया । एत्तो य गुणविसेसे, गुणट्ठियणओ वि जुजतो॥"
[सम्मतिकाण्ड० ३, गाथा-१०] द्वावेव मूलनयौ, भगवता द्रव्यार्थिक-पर्यायार्थिको नियमितौ इतः-पर्यायाद्, अधिके गुणविशेषे ग्राह्ये सति, तद्बाहको गुणास्तिकनयोऽपि नियमि(मयि)तुं, युज्यमानकः स्याद्, अन्यथाऽव्यापकत्वं नयानां भवेत् । न च भगवताऽसायुक्त इत्याह-~
"जं च पुण अरहया, तेसु तेसु सुत्तेसु गोयमाईणं । पज्जवसण्णा णियया, वागरिया तेण पज्जाया ॥"
[सम्मतिकाण्ड० ३, गाथा-११] यत् पुनर्भगवता तस्मिंस्तस्मिन् सूत्रे [ भगवतीप्रमुखे] 'वण्णपज्जवेहिं' इत्यादिना, पर्यायसंज्ञा नियमिता वर्णादिषु, गौतमादिभ्यो पक्ष आश्रिते गुणस्य पर्यायाभिन्नत्वे पर्यायस्य कथञ्चिद्रव्यात्मकत्वेन पर्यायरूपस्य गुणस्यापि कथञ्चिद्रव्यात्मकत्वमित्यर्थः । पर्यायादधिके गुणशब्दः प्रवर्तत इति पक्षे त्वतिरिक्तस्य गुणार्थिकनयस्याभ्युपगमे तत्रानिष्टापत्तिप्रतिपादिकां सम्मतिगाथामवतार्य दर्शयति-यदि चेति । दो उ इति-"द्वौ तु नयौ भगवता द्रव्यार्थिक-पर्यायार्थिको नियमितौ। इतश्च गुणविशेषे गुणार्थिकनयोऽपि युज्यमानः।” इति संस्कृतम् । विवृणोति-द्वावेवेति । तद्राहकः गुणात्मकविशेषग्राहकः । अन्यथा गुणविशेषग्राहकतया गुणास्तिकनयस्यानियमने । अव्यापकत्वं वस्तुत्वाव्यापकत्वम् , यत्र यत्र वस्तुत्वं तत्र तत्र नयविषयत्वमिति नियमो न भवेत् , वस्तुत्वस्य गुणेऽपि सत्त्वेन तत्र नयविषयत्वाभावादित्यर्थः । गुणास्तिकनयस्य भगवदनुक्तत्वप्रतिपादिकां सम्मतिगाथामवतार्योल्लिखति-न चेति। असौ गुणार्थिकनयः।जं च इति-“यच्च पुनरर्हता तेषु तेषु सूत्रेषु गौतमादिभ्यः । पर्यायसंज्ञा नियमिता व्याकृता तेन पर्यायाः ॥" इति संस्कृतम् । विवृणोति-यत् पुनरिति-व्यक्तमिदं व्याख्यानम् । गुणस्य पर्याय एवान्तर्भावात् पर्यायार्थिकनयविषय एव गुण इत्युपपादनप्रवणां सम्मतिगाथा
www
Page #330
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम्
२६९
व्याकृता, ततः पर्याया एव वर्णादयो न गुणा इत्यभिप्रायः । अथ तत्र गुण एव पर्यायशब्देनोक्तः किं न स्यादित्यादिशङ्कायामाह -
www
“परिगमणं पज्जाओ, अणेगकरणं गुण त्ति तुल्लत्था । तहवि ण गुण ति भण्णइ, पज्जवणयदेसणा जम्हा || " [ सम्मतिकाण्ड० ३, गाथा - १२ ] परि-समन्तात् सहभाविभिः क्रमभाविभिश्च भेदैर्वस्तुनः परिणतस्य, गमनं - परिच्छेदो यः स पर्यायः, विषय - विषयिणोरभेदाद्, अनेकरूपतया वस्तुनः करणं - 'करोतेर्ज्ञानार्थत्वात्' ज्ञानम्, विषय-विषयिणोरभेदादेव गुणः, 'गुण्यते पृथक्रियतेऽनेन' इति धात्वर्थानुसाराद्, इति
6
मवतार्य दर्शयति- अथेति । तत्र “वण्णपज्जवेहिं" इत्यादौ । परिगमणं इति“परिगमनं पर्यायोऽनेककरणं गुण इति तुल्यार्थी । तथाऽपि न गुणा इति भण्यन्ते पर्ययनयदेशना यस्मात् ॥” इति संस्कृतम् । विवृणोति - परि-समन्तादिति । समन्ताद् इत्यनेन किमुक्तं भवतीत्यपेक्षायामाह - सहभाविभिः क्रमभाविभिश्च भेदैरिति भेदो विशेषः, सहभाविनो भेदा गुणाः क्रमभाविनो भेदाः पर्यायाः । एतैर्भेदैः कस्य गमनमित्यपेक्षायामाह-वस्तुनः परिणतस्येति । एवं सत्युक्तव्युत्पत्तितः सहभाविक्रमभाविविशेषनिश्चयः पर्यायः स्यान्न तु सहभाविविशेषाः क्रमभा विविशेषाश्च पर्यायाः स्युरित्यत आह-विषय-विषयिणोरभेदादिति-उक्तव्युत्पत्त्या तादृशनिश्चये पर्यायशब्दस्य प्रवृत्तौ तादृशनिश्चयरूपविषयिणा समं विषययोः सहभाविक्रमभाविविशेषयोरभेदात् तयोरपि पर्यायशब्दप्रवृत्तिरित्याशयः । पर्यायशब्दनिरुक्तिमुपदर्य गुणशब्दनिरुक्तिमुपदर्शयति- अनेकरूपतयेति । करणं ज्ञानं कथमित्याकाङ्क्षानिवृत्तये उक्तम्- करोतेर्ज्ञानार्थत्वादिति । एतावताऽनेकरूपतया वस्तुनो ज्ञानमेव गुणशब्दवाच्यं स्यान्न त्वनेकरूपा ये सहभाविनः क्रमभाविनश्च विशेषास्ते तथेत्यत आहविषय - विषयिणोरभेदादेव गुण इति उक्तज्ञानरूपविषयिणोऽनेकरूपा ये क्रमभाविसहभाविविशेषलक्षणविषयास्तयोर्विषय-विषयिणोरभेदादेव तज्ज्ञानस्य गुणशब्दवाच्यत्वे विषयस्याप्युक्तज्ञानादभिन्नस्य गुणशब्दवाच्यत्वमित्यनेकरूपाः सहभाविनः क्रमभाविनश्च विशेषा गुणशब्दवाच्या भवन्तीत्याशयः । यादृशीं व्युत्पत्तिमाश्रित्य
Page #331
--------------------------------------------------------------------------
________________
२७० अनेकान्तव्यवस्थाप्रकरणम् । व्युत्पत्तिनिमित्तमपेक्ष्य, तुल्यौ (ल्यार्थी) गुण-पर्यायशब्दौ, तथापि गुणा इति पर्याया न भण्यन्ते, पर्यायविशेषवाचकस्य गुणशब्दस्य पर्यायसामान्योक्तावप्रवृत्तेः, न च गुणशब्दस्य पर्यायसामान्य एव शक्तिः कल्पनीया, यस्मात् पर्यायनयद्वारेणैव भगवता देशना कृता, न तु गुणार्थिकनयद्वारा, अतो व्युत्पत्तिनिमित्ततौल्येऽपि गुण-पर्यायशब्दयोः सामान्य-विशेषभावापन्नप्रवृत्तिनिमित्तभेदान्न पर्यायत्वमिति । ननु पर्यायशब्दः क्रमभाविधर्मवाचक एव, गुणशब्दश्च सहभाविधर्मवाचक
गुणशब्दादनेकरूपतया करणरूपार्थस्य सम्प्राप्तिस्तादृशीं व्युत्पत्तिमाह--गुण्यत इति पृथक्करणमनेकरूपतयाऽवगमनमेव । 'इति' इत्यस्येति व्युत्पत्तिनिमित्तमपेक्ष्येत्यर्थः । को तुल्यार्थावित्यपेक्षायामाह-गुण-पर्यायशब्दाविति । ननूपदर्शितव्युत्पत्तिनिमित्तापेक्षया यथा पर्यायशब्दो गुणे प्रवर्तते तथा गुणशब्दोऽपि पर्याये प्रवर्तत इति पर्यायशब्देन यथा सहभाविविशेषरूपस्य गुणस्य ग्रहणं तथा गुणशब्देन क्रमभाविविशेषरूपस्य पर्यायस्य ग्रहणं सम्भवतीति गुणशब्देन पर्यायख्यापनं कथं न भवतीत्यत आह-तथापीति-गुण-पर्यायशब्दयोस्तुल्यार्थत्वेऽपीत्यर्थः गुणा इति-गुणा इत्येवं बहुवचनान्तगुणशब्देन पर्याया न भण्यन्ते नाभिधीयन्ते व्युत्पत्तिनिमित्तमात्रमवलम्ब्यैव तयोस्तुल्यार्थत्वम् , रुढिस्तु गुणशब्दस्य सहभाविविशेष एव न क्रमभाविविशेष इति सहभाविविशेष क्रमभाविविशेषोभयानुगतपर्यायसामान्ये गुणपदस्य शक्त्यभावान्न गुणशब्देन पर्यायसामान्यकथनमित्याह-पर्यायविशेषवाचकस्येति-सहभाविपर्यायवाचकस्येत्यर्थः । ननु पर्यायशब्दस्य सहभावि-क्रमभाव्युभयानुगतपर्यायसामान्ये यथा शक्तिस्तथा तत्र गुणशब्दस्य शक्तिरस्तु, ततो गुणशब्दात् पर्यायसामान्योक्तिरुपपद्यत इत्याशङ्कय प्रतिक्षिपति-न चेति । यदि गुणशब्दस्य पर्यायसामान्ये शक्तिः स्यात् तदा पर्यायसामान्यग्राहिनयो गुणार्थिकशब्देन भगवतोपदिष्टः स्यात् न च तथोपदिष्टः, किन्तु गुणदेशनाऽपि भगवता पर्यायार्थिकनयद्वारेणैव कृतेत्यतो ज्ञायते न गुणशब्दस्य पर्यायसामान्ये शक्तिरित्याह-यस्मादिति । सामान्यविशेषभावापन्नेति-पर्यायशब्दस्य पर्यायद्वयानुगतपर्यायसामान्यं प्रवृत्तिनिमित्तं गुणशब्दस्य सहभाविपर्यायत्वं प्रवृत्तिनिमित्तमिति विभिन्न प्रवृत्तिनिमित्तकयोः गुण-पर्यायशब्दयोन पर्यायत्वमित्यर्थः ।
Page #332
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम्
२७१ एव, तथा च गुणाः पर्यायेभ्योऽतिरिच्यन्ते, पर्यायातिरिक्तगुणाभिधानान्यथानुपत्त्या च गुणार्थिकनयोऽपि भगवताऽर्थादुपदिष्ट एवेत्याशङ्कते
"जंपंति अत्थि समए, एगगुणो दसगुणो अणंतगुणो। रूवाइयपरिणामो, भण्णइ तम्हा गुणविसेसो ॥"
[सम्मतिकाण्ड० ३, गाथा-१३] जल्पन्ति द्रव्य-गुणान्यत्ववादिनो, अस्ति-विद्यत एव, सिद्धान्ते 'एगगुणकालए दुगुणकालए' [ ] इत्यादी रूपादौ व्यपदेशः, तस्माद् रूपादिपरिणामो गुणविशेष एवेत्यस्ति गुणार्थिकोऽपि नय उपदिष्टश्च भगवतेति । अत्राह सिद्धान्तवादी
“गुणसहमंतरेणावि, तं तु पज्जवविसेससंखाणं । सिज्झइ णवरं संखाणसत्थधम्मो न उ गुणो त्ति ॥”
[सम्मतिकाण्ड० ३, गाथा-१४]. अन्याशङ्काप्रतिपादिकां सम्मतिगाथामवतार्य दर्शयति-नन्विति-प्रथमैवकारेण पर्यायशब्दस्य सहभाविपर्यायवाचकत्वव्यवच्छेदः, द्वितीयैवकारेण गुणशब्दस्य क्रमभाविपर्यायवाचकत्वव्यवच्छेदः । तथा च गुण-पर्याययोविभिन्नशब्दवाच्यत्वव्यवस्थितौ, 'गुणाः पर्यायेभ्योऽतिरिच्यन्ते' इत्यत्र विभिन्नशब्दवाच्यत्वात् तदवाचकशब्दवाच्यत्वादिति यावत्। यदि गुणार्थिकनयो न स्यात् पर्यायातिरिक्तगुणाभिधानं सिद्धान्ते नोपपद्यतेति तदभिधानान्यथानुपपत्त्या गुणार्थिकनयोऽप्याद् भगवतोपदिष्ट एवेत्याहपर्यायातिरिक्तति । जंपंति इति-"जल्पन्ति अस्ति समये एकगुणो दशगुणोऽनन्तगुणः । रूपादिकपरिणामो भण्यते तस्माद् गुणविशेषः ॥" इति संस्कृतम् ।' विवृणोति-जल्पन्तीति । के जल्पन्तीत्यपेक्षायामाह-द्रव्य-गुणान्यत्ववादिन इति । अन्यत् स्पष्टम् । उक्ताशङ्कासमाधानप्रतिपादिकां सम्मतिगाथामवतार्य दर्शयति-अत्राहेति । गुणसद्द० इति “गुणशब्दमन्तरेणापि तत् तु पर्यवविशेषसंख्यानम् । सिध्यति नवरं संख्यानशास्त्रधर्मों न तु गुण इति ॥” इति संस्कृतम् ।
Page #333
--------------------------------------------------------------------------
________________
२७२ अनेकान्तव्यवस्थाप्रकरणम् ।
तत् तु-प्रागुक्तं वचनम् , गुणशब्दमन्तरेणापि-रूपाद्यभिधायकगुणशब्दं विनापि, पर्यायविशेषसंख्यानं-पर्यायविशेषसंख्यावाचकम् , सिध्यति, न त्वतिरिक्तगुण-गुणार्थिकनयप्रतिपादनपरम् , तत्र गुणशब्दस्यैतावताऽधिको न्यूनो वा भाव इति गणितशास्त्रधर्मवचनत्वादिति भावः । दृष्टान्तद्वारेणामुमथं दृढीकर्तुमाह
"जह दससु दसगुणम्मि य, एगम्मि दसत्तणं समं चेव । अहियम्मि वि गुणसहे, तहेव एवं पि दट्ठव्वं ॥"
[सम्मतिकाण्ड ३, गाथा-१५] यथा दशसु द्रव्येषु, एकस्मिन् वा द्रव्ये दशगुणिते गुणशब्दातिरेकेऽपि, दशत्वं सममेव, तथैवैतदपि न भिद्यते ‘परमाणुरेकगुणकृष्णादिः' इत्येकादिशब्दाधिकगुणशब्देनापि तदधिकार्थाप्रतिपादनादिति विवृणोति-तत् त्विति । प्रागुक्तम् ‘एकगुणकालए दुगुणकालए' इत्यादिग्रन्थेनोक्तम् , गुणशब्दस्तत्रास्त्येवेति 'गुणशब्दमन्तरेणापि' इति यथाश्रुतमसङ्गतमतस्तदर्थमाह-रूपाद्यभिधायकगुणशब्दं विनाऽपीति । यदि रूपादिवाचकं न तत्र गुणपदं तर्हि किं वाचकमित्यपेक्षायामाह-पर्यायविशेषसंख्यानमिति-एतद्विवरणम्-पर्यायविशेषसंख्यावाचकमिति । नातो गुण-गुणार्थिकनययोः सिद्धिरित्याहन त्विति । नवरं 'संख्यानशास्त्रधर्म' इत्यस्याभिप्रेतमुपदर्शयति-तत्रेति-‘एगगुण कालए' इत्यादावित्यर्थः । उक्तार्थस्य दृष्टान्तद्वारा दाव्वेदिकां गाथामवतार्य दर्शयति-दृष्टान्तेति । जह० इति-"यथा दशसु दशगुणे च एकस्मिन् दशत्वं सममेव । अधिकेऽपि गुणशब्दे तथैवैतदपि द्रष्टव्यम् ॥” इति संस्कृतम् । विवृणोति-यथेतिदशसु द्रव्येषु दशत्वं सङ्ख्या दशगुणिते एकस्मिन् द्रव्ये दशत्वं सङ्ख्या, 'दशद्रव्ये' इत्युक्तौ द्रव्ये दशत्वं 'दशगुणिते द्रव्ये' इत्युक्तावपि दशत्वं प्रतीयते, एकं दशगुणितं दशरूपतामुपयातीति अतिरिक्तगुणशब्दोपादानेऽपि नाधिकोऽर्थी यथा तत्र तथा प्रकृतेऽपि एकगुणकृष्णे एककृष्णे च एकसङ्ख्यकत्वं सममेवेत्येकादिशब्दतोऽधिकस्य गुणशब्दस्य नार्थोऽतिरिक्तः कश्चिदिति संख्यानशास्त्रधर्म एव तथावचनं न तु गुणगुणार्थिकनयप्रतिपादनमत इति निर्गलितोऽर्थः । गुणस्य पर्यायानतिरिक्तत्वे "गुण-पर्या
Page #334
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् २७३ द्रष्टव्यम् । न चैव गुणानां पर्यायानतिरेके वाचकचक्रवर्तिसूत्रं “गुणपर्यायवद् द्रव्यम्" [ तत्त्वा० अ० ५, सू० ] इति विरुध्यते, युगपदयुगपद्भाविपर्यायविशेषप्रतिपादनार्थत्वात् तस्य, सहभाविधर्मवाचकगुणशब्दसमभिव्याहृतस्य पर्यायशब्दस्य धर्ममात्रवाचकस्यापि 'गो-बलीवर्द'न्यायेन तदतिरिक्तधर्मप्रतिपादकत्वे दोषाभावात् , नहि काल्पनिको गुण-पर्याययोर्भेदो वास्तवं तदभेदं विरुणद्धि, कल्पनाबीजं च तत्र तत्र प्रदेशे व्युत्पत्तिविशेषाधानमेव । अत एव
"गुणाणमासओ दव्वं, एगदव्वस्सिया गुणा।
लक्खणं पज्जवाणं तु, उभओअस्सिया भवे ॥६॥". इत्याद्युत्तराध्ययन[अ० २८ ]वचनम् , “दव्वनामे गुणनामे पज्जवणामे" [ ] इत्याद्यनुयोगद्वारवचनं च शिष्यव्युत्पत्तिविशेषाय यवद् द्रव्यम्” इति तत्त्वार्थसूत्रे पर्यायशब्दव्यतिरिक्तगुणशब्दोपादानं पर्यायव्यतिरिक्तगुणप्रतिपादनपरं यदुपलभ्यते तद्विरोधो दुरुद्धर इत्याशङ्का प्रतिक्षिपति-न चैवमिति । एवम् इत्यस्यैवोपवर्णनम्-'गुणानां पर्यायानतिरेके' इति । 'गुण-पर्यायवद् द्रव्यम्' इत्यत्र गुणशब्दः सहभाविपर्यायविशेष प्रतिपादयति, पर्यायसामान्यवाच्यपि पर्यायशब्दो गुणशब्दसमभिव्याहृतः क्रमभावि पर्यायविशेष प्रतिपादयतीत्येवमुपगमे उक्तसूत्रविरोधाभावादित्याह-युगपदयुगपद्भावीति। गो-बलीवर्दन्यायेनेति-गोसामान्यवाचकस्यापि गोशब्दस्य गोविशेषबलीवर्दप्रतिपादक-बलीवर्दपदसमभिव्याहृतस्य यथा बलीवतिरिक्तगवप्रतिपादकत्वं तथेत्यर्थः । तदतिरिक्तति-सहभाविधर्मातिरिक्तेत्यर्थः । एवं सति सहभाविपर्यायत्वसहभाविपर्यायातिरिक्तपर्यायत्वाभ्यां गुण-पर्याययोर्भेदः, स च काल्पनिको न पर्यायत्वेन तयोरभेदं वास्तविकं विरुणद्धि, काल्पनिकभेदमवलम्ब्यैव च सूत्रे गुण-पर्याययोः पृथगुपादानमित्याह-नहीति-अस्य 'विरुणद्धि' इत्यनेनान्वयः । 'पर्यायवद् द्रव्यम्' इत्युक्त्यापि सामञ्जस्ये किमर्थ कल्पनया तयोर्भेदमुपजीव्य पृथगभिधानमित्याशङ्काशङ्कसमुद्धारायाह-कल्पनाबीजमिति । प्रदेशे सिद्धान्तैकदेशे । अत एव व्युत्पत्तिविशेषाधानस्य कल्पनाबीजत्वादेव । गुणाण इति-गुणानामाश्रयो द्रव्यमेकद्रव्याश्रिता
अ. व्य. १८
Page #335
--------------------------------------------------------------------------
________________
२७४ - अनेकान्तव्यवस्थाप्रकरणम् । काल्पनिकगुण-पर्यायभेदाभिधानपरमेव, स्वाभाविकतद्भेदाभिधानपरत्वे तु गुणार्थिकनयप्रसङ्गात् । न च--'नाण-दंसणट्ठयाए दुवे अहं' [ ] इत्याद्यागम एव गुणार्थिकप्रतिपादक इति शङ्काशेषो(लेशो)ऽपि विधेयः, अनेकीकरणस्य पर्यायार्थगोचरत्वादस्येति दिक् ॥ - इत्थं च यद् दिगम्बरैः परिभाष्यते-"गुण्यन्ते पृथक्रियन्ते द्रव्यं द्रव्या(न्तरा)चैस्ते गुणाः, तेषु चास्तित्वं १, वस्तुत्वं २, द्रव्यत्वं ३, प्रमेयत्वं ४, अगुरुलघुत्वं ५, प्रदेशत्वं ६, चेतनत्वं ७, अचेतनत्वं ८, मूर्तत्वम् ९, अमूर्तत्वं १० चेति द्रव्याणां दश सामान्यगुणाः, प्रत्येकमष्टावष्टौ सर्वेषाम् । ज्ञान-दर्शन-सुख-'वीर्य-स्पर्श-रस-गन्ध-वर्ण
गुणाः लक्षणं पर्यायाणां तु उभयाश्रयिता भवेत्" ॥ इति संस्कृतम् । दव्व इति"द्रव्यनाम गुणनाम पर्यवनाम" इति संस्कृतम् । स्वाभाविकगुण-पर्यायभेदपरमेव कुतो नोक्तवचनद्वयमित्यपेक्षायामाह-स्वाभाविकेति । तद्भेदेति-गुण-पर्यायभेदेत्यर्थः । 'न च' इत्यस्य 'विधेयः' इत्यनेनान्वयः। नाण० इति-ज्ञान-दर्शनार्थतया द्वावहम्' इति संस्कृतम् , अनेनानेकीकरणं प्रतीयते, अनेकीकरणं च गुण इति गुणार्थिकनयप्रतिपादकोऽयं 'नाणदंसणठ्याए दुवे अहं' इत्यागमः । अनेकीकरणं पर्यायनयविषय इति पर्यायनय एवोक्तागमप्रतिपाद्य इति निषेधहेतुमुपदर्शयति-अनेकीकरणस्येति-एकस्यात्मनो ज्ञानदर्शनाश्रयतयाऽनेकरूपताज्ञापनस्येत्यर्थः।
इत्थं च गुणानां पर्यायानतिरिक्तत्वे तत एव च गुणार्थिकनयाभावव्यवस्थितौ च। 'यद् दिगम्बरैः परिभाष्यते' इत्याद्यारभ्य ‘इति पर्यायाधिकारः' इत्यन्तं दिगम्बरमतप्रपञ्चनम् । तदेतत् स्वकपोलकल्पनामात्रम्' इत्यादिना च तत्खण्डनोपवर्णनम् । गुण्यन्त इत्यादिव्युत्पत्त्या द्रव्यस्य द्रव्यान्तरात् पृथक्करणनिमित्तं गुण इति गुणलक्षणं लभ्यते, न च तद् युक्तम् , अस्तित्व-वस्तुत्वादौ तदभावात् , किन्तु सहभाविधर्मत्वमेव गुणत्वम् । तत् तु व्युत्पत्तिनिमित्तमात्रमिति बोध्यम् । गुणाश्च सामान्यगुण-विशेषगुणभेदेन द्विविधाः ते क्रमेणोपदर्शयति-तेष चेति-गुणेषु मध्ये चेत्यर्थः। दश सामान्यगुणानुल्लिख्य दर्शयति-अस्तित्वमित्यादिना । अस्तित्वादिषु दशसु मध्ये प्रत्येक
Page #336
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् २७५ गैतिहेतुत्वैस्थितिहेतुत्वा-ऽवाहनाहेतुत्व-वर्तनाहेतुत्व-चेतनत्वा-ऽचेतनत्व-मूतत्वाऽर्भूर्तत्वलक्षणाः षोडश विशेषगुणाः,प्रत्येकं जीव-पुद्गलयोः षट् षट्, इतरेषां च प्रत्येकं त्रयस्त्रयो गुणा, अन्तस्थाश्चत्वारः स्वजात्यपेक्षया सामान्यगुणा, विजात्यपेक्षया विशेषगुणाः, तत्रास्तीत्येतस्य भावोऽस्तित्वं सद्रूपत्वम् १, वस्तुनो भावो वस्तुत्वं सामान्यविशेषरूपत्वम् २,
मष्टावष्टौ सर्वेषां द्रव्याणां भवन्तीत्याह-प्रत्येकमिति-तत्रास्तित्व-प्रवेशत्वान्ताः षट् द्रव्यमात्रे, चेतनत्वममूर्तत्वं चेति द्वयं जीवे, अचेतनत्वं मूर्तत्वं चेति द्वयं पुद्गले धर्माऽधर्मा-ऽऽकाश-कालेषु अचेतनममूर्तत्वं चेति द्वयमित्येवमष्टसामान्यगुणसद्भावः प्रत्येकं द्रव्यमाने ज्ञेयः । षोडश विशेषगुणानुपदर्शयति-ज्ञानेति । प्रत्येकमिति-उक्तेषु षोडशविशेषगुणेषु ज्ञान-दर्शन-सुख-वीर्य-चेतनत्वा-ऽमूर्तत्वलक्षणाः षड् विशेषगुणा जीवस्य, स्पर्श-रस-गन्ध-वर्णा-ऽचेतनत्व-मूर्तत्वलक्षणाः षड् विशेषगुणाः पुद्गलस्य, गतिहेतुत्वाऽचेतनत्वा-ऽमूर्तत्वलक्षणास्त्रयो विशेषगुणा धर्मास्तिकायस्य, स्थितिहेतुत्वा-ऽचेतनत्वा-ऽमूर्तत्वलक्षणास्त्रयो विशेषगुणा अधर्मास्तिकायस्य, अवगाहनाहेतुत्वा-ऽचेतनत्वा-ऽमूर्तत्वलक्षणास्त्रयो विशेषगुणा आकाशस्य, वर्तनाहेतुत्वा-ऽचेतनत्वा-ऽमूर्तत्वलक्षणास्त्रयो विशेषगुणाः कालस्येत्यर्थः । चेतनत्वा-ऽचेतनत्व-मूर्तत्वा-ऽमूर्तत्वलक्षणाश्चत्वारो गुणाः सामान्यगुणेषु विशेषगुणेषु चाधीताः, तत्र यदि सामान्यगुणाः कथं विशेषगुणास्ते, विशेषगुणाश्चेत् कथं सामान्यगुणाः, सामान्यगुणत्व-विशेषगुणत्वयोविरोधाभावे सर्वेषां सामान्य-विशेषगुणत्वे स्यातामित्यत आह-अन्तस्थाश्चत्वार इति-सामान्यगुणगणनायां विशेषगुणगणनायां च अन्ते पठितत्वाद् अन्तस्था इति, चेतनेषु सर्वेषु जीवेष्वविशेषेण चेतनत्वम् , अचेतनेषु धर्मास्तिकायादिषु सर्वेष्वचेतनत्वम् , मूर्तेष्वशेषपुद्गलेषु मूर्तत्वम् , धर्मास्तिकायादिष्वमूर्तेष्वखिलेष्वमूर्तत्वं च वर्तन्त इति चेतनत्वादिना सर्वे चेतनादयः सजातीया इति खजात्यपेक्षयैतेषां चतुर्णा सामान्यगुणत्वम् , चेतनादीनां विजातीया अचेतनादयस्तेषु चेतनत्वादीनामवृत्तेस्तदपेक्षया विशेषगुणत्वमित्येवमन्तस्थाश्चत्वारः सामान्यगुणा विशेषगुणाश्च भवन्तीत्यर्थः। अस्तित्वादीनां स्वप्रतिपादकशब्दव्युत्पत्त्युपदर्शनद्वाराऽसाधारणस्वरूपमुपदर्शयतितत्रेति-अस्तित्वादिगुणेषु मध्ये इत्यर्थः । सामान्य-विशेषात्मकं वस्तु, ततस्तद्भावः सामान्य-विशेषरूपत्वमेवेत्याह-सामान्य-विशेषरूपत्वमिति । स्वभाव-विभाव
Page #337
--------------------------------------------------------------------------
________________
२७६
अनेकान्तव्यवस्थाप्रकरणम् । द्रव्यस्य भावो द्रव्यत्वम्, निजनिजप्रदेशसमूहैरखण्डवृत्त्या स्वभावविभाव-गुण-पर्यायान् द्रवति द्रोष्यति अदुद्रुवदिति द्रव्यम् ३, प्रमेयस्य भावः प्रमेयत्वम् , प्रमाणेन परिच्छेद्यं रूपं प्रमेयम् ४, गुरु-लाघवाभावोऽगुरुलघुत्वम् , सूक्ष्मा अवाग्गोचराः प्रतिक्षणं विवर्तमाना आगमप्रामाण्यादभ्युपगम्या अगुरुलघुगुणाः ५ ॥
"सूक्ष्मं जिनोदितं तत्त्वं, हेतुभिर्नैव हन्यते ।
आज्ञासिद्धं हि तद् ग्राह्यं, नान्यथावादिनो जिनाः ॥ १॥[ ] प्रदेशस्य भावः प्रदेशत्वम् , अविभागिपुद्गलपरमाणुनाऽवष्टब्धत्वम् ६, चेतनस्य भावश्चेतनत्वम् , चैतन्यमनुभवनम् ७, श्लोकः
चैतन्यमनुभूतिः स्यात् , सा क्रियारूपमेव च । . क्रिया मनोवचः-कायैरन्विता वर्तते ध्रुवम् ॥१॥” [ ]
गुण-पर्यायानुगामिस्वरूपत्वं द्रव्यत्वमिति द्रव्यपदव्युत्पत्त्युपदर्शनमुखेनावेदयति-निजनिजेति-यस्य द्रव्यस्य यावन्तः प्रदेशास्तावद्भिः प्रदेशैरित्यर्थः, अस्य 'द्रवति' इत्यादावन्वयः । अखण्डवृत्त्या अविच्छिन्नस्वरूपेण । स्वभावः यद्रूपं कदापि खावस्थानसमये परित्यक्तं न भवति तद्रूपं स्वभाव उच्यते, यद् विच्छिद्यतेऽपूर्वमुद्भवति तद् विभाव इत्युच्यते । प्रमेयत्वं निर्वक्ति-प्रमेयस्येति । अगुरुलघुत्वं समयैकप्रमाणकमावेदयति-गुरु-लाघवाभावः यन्न गुरु नापि लघु एवंरूपत्वमगुरुलघुत्वम् । एतन्न प्रत्यक्षादिप्रमाणपरिच्छेद्यं किन्त्वागमप्रमाणावसेयमित्याह-सूक्ष्मा इति । एवंवरूपागुरुलघुभावे प्राचां वचनं संवादकतयोपदर्शयति-सूक्ष्ममिति । प्रदेशत्वं निर्वक्ति-प्रदेशस्येति-अविभागी यस्यावयवाभावात् खण्डद्वयभवनलक्षणो विभागो न सम्भवत्येवैतादृशो यः पुद्गलपरमाणुस्तेनावष्टब्धत्वमित्यर्थः । चेतनत्वं दर्शयति-चेतनस्येति-चेतनत्वमेव चैतन्यम् , तदेव चानुभवनम् , तत्रापि वृद्धवचनसंवादमाह-चैतन्यमिति । सा अनुभूतिः। अनुभूतेः क्रियावाभाव्यादेव मनोवचः-कायैः करणस्वरूपैरन्वितत्वमावश्यकमित्याह-क्रियेति । अचेतनत्वं निरूपयतिअचेतनस्येति । चेतनत्वस्य विपक्षभूतमचेतनत्वमिति चेतनत्वस्यानुभवनलक्षणत्वेऽ
Page #338
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् २७७ अचेतनस्य भावोऽचेतनत्वम् , अचैतन्यमननुभवनम् ८, मूर्तस्य भावो मूर्तत्वं रूपादिसन्निवेशः ९, अमूर्तस्य भावोऽमूर्तत्वम् , रूपादिरहितत्वम् १० । ज्ञानादयः प्रतीताः । स्वस्य भावाः स्वभावाः, ते चैकविंशतिः, तत्र अस्तिस्वभावः, नास्तिस्वभावः, नित्यस्वभावः, अनित्यस्वभावः, ऐकस्वभावः, अनेकस्वभावः, "भेदस्वभावः, अभेदस्वभावः, भव्यस्वभावः, अभंव्यस्वभावः, परमस्वभाव इति द्रव्याणामेकादश सामान्यस्वभावाः, 'चेतनस्वभावः, अचेतनस्वभावः, मूर्तस्वभावः, अमूर्तस्वभावः, ऐकप्रदेशस्वभावः, अनेकप्रदेशस्वभावः, विभावखभावः, शुद्धस्वभावः, अशुद्धस्वभावः, उपचरितस्वभाव इत्येते द्रव्याणां दश विशेषस्वभावाः, एते जीव-पुद्गलयोरेकविंशतिः, 'चेतनस्वभाव-मूर्तस्वभाव-विभावस्वभावा-ऽशुद्धस्वभावैकप्रदेशस्वभावान् विना धर्मादित्रयस्य षोडश । बहुप्रदेशं विना कालस्य पञ्चदश, श्लोकःननुभवनलक्षणमचेतनत्वं सिद्धमेवेत्याह-अचैतन्यमननुभवनमिति । मूर्तत्वं दर्शयति-मर्तस्येति । मूर्तत्वस्य रूपादिसन्निवेशरूपत्वे तद्विपक्षस्यामूर्तत्वस्य रूपादिरहितत्वरूपताऽसन्दिग्धेत्याह-रूपादिरहितत्वमिति । एतावता अस्तित्वादयो दश सामान्यगुणा निरूपिताः, ज्ञान-दर्शनादयश्च षोडश विशेषगुणाः सुप्रतीता एवेति न तेषां निरूपणस्यात्रेदानीमावश्यकतेत्याह-ज्ञानादयः प्रतीता इति । यथा च गुण-पर्यायरूपतया वस्तुनोऽनेकान्तस्वरूपत्वं तथाऽनेकस्वभावत्वमपि वस्तुनोऽनेकान्तवाद एव घटते न त्वेकान्तवादे इत्यस्यावगतये स्वभावा अपि निरुच्य विवेकेन दर्शयितव्या इत्याशयेनाह-स्वस्येति । ते च खभावाश्च । तत्र द्रव्याणामेकादश सामान्यस्वभावा दश च विशेषस्वभावा मिलित्वैकविंशतिः स्वभावा भवन्ति, क्रमेण तानुपदर्शयति-तत्रेति-एकविंशतिखभावेषु मध्ये इत्यर्थः । सर्वेऽप्येते स्वभावा जीवपुद्गलयोरित्याह-एत इति। उक्तेष्वेकविंशतिखभावेषु चेतनखभावमूर्तस्वभाव-विभावस्वभावा-ऽशुद्धस्वभावैकप्रदेशस्वभावान् पञ्च मुक्त्वा षोडशखभावा धर्माऽधर्माऽऽकाशानामित्याह-चेतनस्वभावेति । परमनिरुद्धसमयः काल एकदेश एवेति तस्यानेकप्रदेशखभावाभावादुक्तषोडशस्वभावतोऽनेकखभावस्य बहिर्भावे सति पञ्चदश
Page #339
--------------------------------------------------------------------------
________________
૨૭૮
अनेकान्तव्यवस्थाप्रकरणम् । "एकविंशतिभावाः स्युर्जीव-पुद्गलयोर्मताः। धर्मादीनां षोडश स्युः, काले पञ्चदश स्मृताः” ॥ १॥ [ ]
स्वभावलाभादच्युतत्वादस्तिस्वभावः १, पररूपेणाभावान्नास्तिस्वभावः २, निजनिजनानापर्यायेषु तदेवेदं द्रव्यमिति प्रतीतेर्नित्यस्वभावः ३, तस्याप्यनेकपर्यायपरिणामित्वादनित्यस्वभावः ४, स्वभावानामेकाधारत्वादेकस्वभावः ५, एकस्याप्यनेकस्वभावोपलम्भादनेकस्वभावः ६, गुणगुण्यादिसंज्ञादिभेदाद् भेदस्वभावः ७, गुण-गुण्याघेकस्वभावादभेदस्वभावः ८, भाविकाले पररूपाकारभवनाद् भव्यस्वभावः ९, कालत्रयेऽपि पररूपाकाराभवनादभव्यस्वभावः १० । उक्तं चखभावास्तस्येत्याह-बहुप्रदेशं विनेति । एतत्सङ्ग्राहकं पद्यमुपदर्शयति-एकविंशतिभावाः स्युरिति । अस्तित्वाद्यकविंशतिस्वभावानां क्रमेण व्यवस्थामुपदर्शयति-स्वभावलाभादिति-येन यः स्वभावो लब्धस्तस्मिन् स्वभावे व्यवस्थित एव सर्वदा न ततथ्युतो भवतीत्येतावताऽस्तिस्वभाव इत्यर्थः । नास्तिस्वभावसङ्गमनं विधत्ते-पररूपेणेति । नित्यस्वभावं व्यवस्थापयति-निजेति । अनित्यस्वभावं सङ्गमयति-तस्यापीति-द्रव्यस्यापीत्यर्थः । यद्यकस्वभावो वस्तुनो न भवेन्न भवेत् तदानीमनेकस्वभावानामेकाधारत्वम्, न च तदन्तरेणानेकान्तात्मकं वस्त्वित्येकस्वभावोऽभ्युपगन्तव्य इत्येवमेकखभावं व्यवस्थापयति-स्वभावानामिति । योकस्वभावमेव सर्वथा वस्तु भवेदनेकखभावानां तत्रोपलब्धिरेव न स्यादतोऽनेकखभावोपलम्भान्यथानुपपत्त्याऽनेकस्वभावोऽभ्युपगन्तव्य इत्याह-एकस्यापीति । यदि भेदस्वभावो न भवेत् सर्वथाऽभिन्नस्य संज्ञिनो गुण-गुण्यादिसंज्ञाभेदो न स्यादतः संज्ञाभेदान्यथानुपपत्त्या भेदस्वभावोऽभ्युपगन्तव्य इत्याह-गुण-गुण्यादीति । य एव गुणः स एव गुणीत्येवं गुण-गुण्यादीनां य एकखभावः सोऽभेदखभावं विनाऽनुपपन्न इत्यवश्यमभेदस्वभावोऽभ्युपगन्तव्य इत्याह-गुणेति । किञ्चिद् द्रव्यमुत्तरकाले पररूपाकारेण भवति, तदेतत् पररूपेण भवनं भव्यस्वभावमन्तरेण नोपपद्यत इत्यतो भव्यखभावोऽभ्युपगन्तव्य इत्याह-भाविकाले । किञ्चित् कदाचिदपि पररूपाकारेण न भवतीति तदस्य पररूपाकारेणाभवनमभव्यखभावमन्तरेण न स्यादित्यभव्यखभाव आश्रयणीय इत्याह-कालत्रयेऽपीति । उक्तार्थे प्राचां वचनं संवादकतया
Page #340
--------------------------------------------------------------------------
________________
२७९
तत्त्वबोधिनीविवृतिविभूषितम् २७९ "अण्णोण्णं पविसंता, दिता ओगासमण्णमण्णस्स। मेलन्ता वि य णिचं, सगसगभावं ण विजहंति ॥ १॥”[ ]
पारिणामिकभावप्रधानत्वेन परमस्वभावः ११, चेतनस्वभावादिचतुष्टयं ४ गुणपाठमध्य एव व्याख्यातम् १५, एकप्रदेशस्वभावोऽखण्डवृत्त्याऽवस्थितिः १६, अनेकप्रदेशस्वभावः सखण्डवृत्त्याऽवस्थानम १७, स्वभावादन्यथाभवनं विभावः १८, शुद्धस्वभावोऽन्यामिश्रणेन केवलस्वभावः १९, अशुद्धस्तद्विपरीतः २०, स्वभावस्याप्यन्यत्रोपचारादुपचरितस्वभावः २१, स द्वेधा कर्मज-स्वाभाविकभेदात् , आद्यो यथा--जीवस्य मूर्तत्वमचेतनत्वं च, द्वितीयो यथा-सिद्धादर्शयति-उक्तं चेति । अण्णोण्णं इति-"अन्योऽन्यं प्रविशन्तो ददतोऽवकाशमन्योन्यस्य । मीलन्तोऽपि च नित्यं स्वस्वभावं न विजहति" ॥ इति संस्कृतम् । परखभावं व्यवस्थापयति-पारिणामिकेति-पारिणामिकभावः प्रधानो यस्य स पारिणामिकभावप्रधानस्तत्त्वेनेत्यर्थः, चेतनत्वा-ऽचेतनत्व-मूर्तत्वा-ऽमूर्तत्वचतुष्टयं सामान्यगुणतया विशेषगुणतया च प्रागुपदिष्टं निरूपितं चेति पुनस्तन्निरूपणं पौनरुक्त्यदोषावहत्वादुपेक्षणीयमेवेत्याह-चेतनस्वभावेति । अनेकप्रदेशस्य सतो जीवपुद्गलादेरेक एव प्रदेशो यस्य स एकप्रदेश इत्येवं स्वभावो न सम्भवति, किन्तु सतामपि प्रदेशानां यावत् पृथग्भावो न भवति तावदखण्डवृत्त्या-अविच्छिन्नस्वरूपेण याऽवस्थितिः सैवैकदेशस्वभाव इत्याह-एकप्रदेशेति एतद्विपरीतोऽनेकदेशस्वभाव इत्याह-अनेकेति। यस्य यः स्वभावस्तत्वभावं परित्यज्य स्वभावान्तरेण यद् भवनं तद् विभावखभाव इत्याह-स्वभावेति। शुद्धस्वभावं निरूपयति-शुद्धस्वभाव इति अन्यमिश्रितः स्वस्वभावोऽशुद्धस्वभाव इत्याह-अशुद्ध इति । तद्विपरीतः शुद्धस्वभावविपरीतः अन्यसंबद्धो यः स्वभावः स चेदन्यत्रारोपित उपचरितस्वभाव इत्याह-स्वभावस्यापीति । कर्मज-स्वाभाविकभेदेनोपचरितखभावस्य द्वैविध्यमुपदर्शयति-स द्वधेति-उपचरितस्वभावो द्विप्रकार इत्यर्थः, आद्यः कर्मज उपचरितस्वभावः, मूर्तत्वं पौद्गलिकस्य कार्मणशरीरस्य स्वभावस्तत्सम्बन्धाजीवस्योपचरितः स भवतीति कर्मज उच्यते । द्वितीयः स्वाभाविक उपचरितखभावः, सिद्धस्य ज्ञत्वं स्वभावः, ततश्चास्य परज्ञत्वं परदर्शकत्वं च भवतीति स्वभावप्रभवत्वात् खाभाविक
Page #341
--------------------------------------------------------------------------
________________
२८०
अनेकान्तव्यवस्थाप्रकरणम् । त्मनां परज्ञता परदर्शकत्वं च, एवमितरेषां द्रव्याणामुपचारो यथासम्भवं ज्ञेयः । एते स्वभावा अनेकान्तवाद एव घटन्ते, एकान्तस्य वक्तुमशक्यत्वात् , तथाहि सर्वथैकान्तेन सद्रूपस्य न नियतार्थव्यवस्था, सङ्करादिदोषप्रसङ्गात् १, एकान्तेनासद्रूपस्याऽपि न नियतार्थव्यवस्था, सकलशून्यतापत्तेः २, सर्वथा नित्यत्वेऽप्येकरूपस्य नानाविधार्थ
इत्युच्यते, यद्यपि परज्ञत्वं परदर्शकत्वं च संसारिणोऽपि तथापि यदयं किञ्चिदेव परं जानाति किञ्चिदेव परं पश्यति च, तत्र चावरणकर्म एव प्रभवतीति कर्मजत्वं तस्य, सिद्धे तु कर्ममात्रस्यैवाभावात् स्वाभाविकत्वं तस्य, एवमप्युपचरितोऽसौ ज्ञत्वमात्रमस्य स्वभावो द्रष्टुत्वं च, तत्र परप्रवेशे उपचारः स्यादेवेति । आत्मद्रव्ये दर्शित उपचरित. स्वभावो द्रव्यान्तरेष्वपि यथासम्भवमनुसन्धेय इत्याह-एवमिति यदर्थमेते स्वभावा व्यवस्थापितास्तन्निगमयति-पत इति-अनन्तरोपवर्णिता इत्यर्थः । एकान्तस्य वक्तुमशक्यत्वमेव भावयति-तथाहीति । न नियतार्थव्यवस्थेति-घटो ययेकान्तेन सद्रूप एव स्यात् तदा स्वद्रव्य-क्षेत्र-काल-भावैरिव परद्रव्य-क्षेत्र-काल-भावैरपि सन्नेव स्यात् , एवं च घटत्वेन सत्त्वाद् य एव घटः स एवं पटत्वेन सत्त्वात् पटो मठत्वादिना सत्त्वान्मठादिरपि स्यात् , एवं च 'अयं घटः, अयं तु पटः' इत्यादिरूपा प्रतिनियतार्थव्यवस्था न स्यादित्यर्थः । घटत्वेन घटस्येव पटस्यापि सत्त्वात् पटत्वेन पटस्येव घटस्यापि सत्त्वाद् घटे घटत्वमिव पटत्वमपि स्यात् । पटे पटत्वमिव घटत्वमपि स्यात् । तयोः साङ्कयं । प्रसज्यतेत्याह-सङ्करादिदोषप्रसङ्गादिति-आदि. पदाद् व्यतिकर-संशयादेरुपग्रहः । यथा च पररूपादिभिर्घटोऽसंस्तथा निजरूपादिभिरप्यसन्नित्येवमेकान्तेनासत्त्वाभ्युपगमेऽपि नियतार्थव्यवस्थाऽभाव एव स्यादित्याहएकान्तेनेति । कथं नियतार्थव्यवस्थाऽभाव इत्यपेक्षायामाह-सकलशून्यतापत्तेरिति-सर्वेणापि रूपेण प्रत्येकं सर्वेषामपि वस्तूनामसत्त्वे न नाम जगति किञ्चिद् वस्त्विति शून्यमेव जगत् स्यादिति कस्य नियततेत्यर्थः । सर्वथा नित्यतयाऽभ्युपगतं वस्तु यद्येकार्थक्रियाकारिखभावं तदा तदर्थक्रियामेव सर्वदा विदध्यात्, नान्यर्थक्रियाम् , तस्यान्यार्थक्रियाकारित्वस्वभावोऽपि यद्यपरोऽभ्युपेयेत तदा स्वभाव भेदाद् भेद इति नैकं नित्यमित्येवं सर्वथैकरूपस्यैकान्तनित्यस्य नानाविधार्थक्रियाकारित्वाभावस्ततश्चार्थक्रियाकारित्वलक्षणसत्त्वस्याभावे तन्नियतस्य द्रव्यस्याप्यभाव
Page #342
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम्
]
क्रियाकारित्वाभावस्तदभावे द्रव्यस्याप्यभावः ३, सर्वथाऽनित्यपक्षेऽपि निरन्वयत्वादर्थक्रियाकारित्वाभावस्तदभावे द्रव्यस्याप्यभावः ४, एकान्तेनैकस्वरूपत्वे विशेषाभावस्तदभावे सामान्यस्याप्यभावः ५ । यतः" निर्विशेषं हि सामान्यं भवेत् खरविषाणवत् । सामान्यरहितत्वाच्च, विशेषास्तद्वदेव हि ॥ १ ॥" [ एकान्तेनानेकस्वभावपक्षेऽपि द्रव्याभावो निराधारत्वात् ६, भेदैकान्तपक्षेऽपि विशेषस्वभावानां निराधारत्वादर्थक्रियाकारित्वाभावस्तदभावे द्रव्यस्याप्यभावः ७, अभेदैकान्तपक्षेऽपि सर्वेषामेकत्वम्, तथा च इत्याह- सर्वथा नित्यत्वेऽपीति । तदभावे नानाविधार्थक्रियाकारित्वाभावे वस्तुनः सर्वथाऽनित्यत्वे यदा कारणं तदा न कार्यम्, यदा कार्यं तदा न कारणमिति कार्यकालेऽसतोऽपि पूर्वक्षणवृत्तित्वमात्रेण कारणत्वे घटपूर्वक्षणवृत्तित्वं यथा कपाले तथा तत्समानकालीनानामन्येषामपीति तेषामपि घटकारणत्वं प्रसज्येतेति न निरन्वयविनाशिनः सर्वथाऽनित्यस्यार्थक्रियाकारित्वलक्षणं सत्त्वम्, तदभावाच्च न द्रव्यमपि तदित्याह-सर्वथाऽनित्यत्वपक्षेऽपीति । तदभावे अर्थक्रियाकारित्वाभावे । यदि वस्त्वेकान्तेनैकस्वरूपं स्यान्निर्विशेषं स्यात् एवं च निर्विशेषं न सामान्यमिति सामान्यरूपमपि तन्न भवेत्, सामान्यविशेषोभयानात्मकं च शशशृङ्गकल्पमेवेति नैकान्तेनैकरूपमपि वस्त्वित्याह-एकान्तैकस्वरूपत्व इति । तदभावे विशेषाभावे। विशेषाभावे सामान्यस्याप्यभाव इत्यत्र हेतुं पद्येनोपदर्शयति- -यत इति । तद्वदेव खरविषाणवदेव । अनेकं हि एकाश्रितमवतिष्ठते, एकाभावे च निराश्रितमनेकं न स्यादेवेत्येकान्तेन । नैकपक्षोऽपि न युक्त इत्याह-एकान्तेनेति । एकान्तमेदस्वभावस्याप्ययुक्तत्वमुपदर्शयति - भेदैकान्तपक्षेऽपीति । तदभावे अर्थक्रियाकारित्वाभावे । यदि सर्वेषामेकान्तेनाभेद एव स्यात् कार्य-कारणयोरप्यभेदात् कार्यकारणस्वभाव एव न स्यात्, नहि स्वमेव स्वस्य कारणं भवति, पूर्वापरभावे सति कार्यकारणभावो भवति, नहि स्वमेव स्वस्य पूर्वमपरं च सम्भवति, एवं यदेकस्य कार्यं तदपरस्यापि स्यात् तयोरभेदादिति प्रतिनियतार्थक्रियाकारित्वमेकान्ताभेदपक्षे न भवेत्, प्रतिनियतार्थक्रियाकारित्वाभावे तल्लक्षणसत्त्वाऽभवाद् द्रव्यमपि तन्न स्यादित्येकान्तामेदवादोऽपि न युक्त इत्याह- अभेदै कान्तपक्षेऽपीति । तथा च
२८१
Page #343
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ।
प्रतिनियतार्थक्रियाकारित्वाभावस्तदभावे द्रव्यस्याप्यभावः ८, एकान्तेन भव्यस्वभावाभ्युपगमे द्रव्यस्य द्रव्यान्तरत्वप्रसङ्गात् सङ्कर-व्यतिकर-विरोध-वैयधिकरण्या-ऽनवस्था-संशयाप्रतिपत्त्यभावदोषानुषङ्गः ९, सर्वथाऽभव्यस्वभावाभ्युपगमेऽपि शून्यताप्रसङ्गः १०, स्वभावैकान्ते
सर्वेषामेकत्वे च । तदभावे प्रतिनियतार्थक्रियाकारित्वाभावे । भाविकाले पररूपाकारभवनलक्षणस्य भव्यखभावस्यापि सर्वथाऽभ्युपगमे द्रव्यं द्रव्यान्तराकारेण परिणमेदेव। सर्वथेति द्रव्यान्तरत्वं स्यादित्येकस्य द्रव्यस्य द्रव्यान्तरेण सङ्कीर्णता स्यात् एवं तद् द्रव्यं द्रव्यान्तरम् , द्रव्यान्तरं च तद् द्रव्यमित्येवं व्यतिकरः, तद् द्रव्यस्य द्रव्यान्तरत्वे विरोधोऽपि तद् द्रव्यं यद्देशकालाद्यवस्थितमुपलभ्यते ततोऽन्यदेशकालाद्यवस्थितं स्यादिति वैयधिकरण्यं स्याद् , एवं तद् द्रव्यस्य पररूपाकारभवनस्वभावो यथा तथा द्रव्यान्तरं यजातं तस्यापि स स्वभाव इति ततोऽपि द्रव्यान्तरमेवं, तस्यापि स स्वभाव इत्येवमनवस्थानमापद्येत एवं तद्रव्यस्य द्रव्यान्तरभवनमिदं द्रव्यान्तरस्य वेति संशयोऽपि स्यात् , इत्थं भव्यस्वभावे प्रतिनियतस्वभावपरावर्तनसंभावनयाऽप्रतिपत्तिरासज्यते, न च युक्त्यपेतमीदृगू वस्तु सम्भवतीत्यभावस्तस्य स्यादित्येवमष्टविधदोषग्रस्तत्वात् सर्वथा भव्यस्वभावोऽपि न युक्त इत्याह-एकान्तेन भव्यस्वभावाभ्युपगम इति। कालत्रयेऽपि पररूपाकाराभवनस्याभव्यस्वभावस्य सर्वथाऽभ्युपगमे न किञ्चिद्रूपेण परिणमेदित्यर्थक्रियाकारित्वलक्षणसत्त्वाभावाच्छून्यत्वमेव स्यादिति न सर्वथाऽभव्यखभावोऽपीत्याह-सर्वथाऽभव्यस्वभावाभ्युपगमेऽपीति । वस्तुत आत्मनोऽनावृतज्ञानस्वरूप एव स्वभावः, स च सर्वथा चेत् ? उत्तरकाल इव पूर्वकालेऽप्यना. वृतज्ञानस्वरूप एवेति संसारस्तस्य न स्यादेवेति स्वभावैकान्तोऽपि न युक्त इत्याहस्वभावैकान्त इति । मोक्षदशायामष्टविधकर्मविनिर्मुक्तस्वभावो य आत्मा तस्य तथाविधस्वभावादन्यथाभवनं न भवति, विभावैकान्ते तु तदानीमपि स्वभावादन्यथाभवनलक्षणो विभावः स्यादिति न मोक्षस्तस्य स्यादिति विभावैकान्तोऽपि न कान्त इत्याह-विभावैकान्त इति । सर्वथा चैतन्यस्वभाव एव यद्यात्मा स्यात् सर्वेषामात्मनां सर्वप्रकारेण चैतन्यमेव भवेत् , न केनचिदंशेनाज्ञानमपीति शुद्धचैतन्यावाप्तिः सर्वजीवानामविशिष्टत्येकस्य किञ्चिदशेनाज्ञानमन्यस्य विशिष्टं ज्ञानम् , एको विशिष्टज्ञानावाप्तितो देवदेवत्वं गतोऽन्यस्तत्स्वरूपावाप्स्याकाङ्क्षया तत्स्वरूपध्यानाभि
Page #344
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् संसाराभावः, विभावकान्ते मोक्षाभावः ११, सर्वथा चैतन्यस्वभावाभ्युपगमे सर्वेषामात्मनां शुद्धज्ञानचैतन्यावाप्तिप्रसङ्गेन ध्यानध्येयज्ञानज्ञेय-गुरुशिष्याद्यभावः १२, अचैतन्यैकान्तेऽपि सकलचैतन्योच्छेदाजडत्वापत्तिः १३, एकान्तेन मूर्तस्वभावाभ्युपगमे आत्मनो न मोक्षावाप्तिः १४, अमूर्तेकान्तेऽपि संसारविलोपापत्तिः १५, एकप्रदेशस्यैकान्तेनाखण्डपरिपूर्णस्यात्मनोऽनेककार्यकारित्वहानिः १६, सर्वथाऽनेकप्रदेशत्वेऽपि तस्य नार्थक्रियाकारित्वम् , स्वस्वभावशून्यताप्रसङ्गात् निविष्टचित्त इत्यादिवैलक्षण्याभावाद् ध्यान-ध्येयाद्यभावः प्रसज्यत इति सर्वथा चैतन्यखभावोऽपि नाभ्युपगमार्क इत्याह-सर्वथा चैतन्यस्वभावाभ्युपगम इति । अचैतन्यैकान्ते तु न कुत्रापि चैतन्यमिति जडमयमेव जगत् स्यादिति तस्याभ्युपगमो न श्रेयानित्याह-अचैतन्यैकान्तेऽपीति। सर्वथा मूर्तस्वभावाभ्युपगमे कार्मणशरीरेण सहान्योऽन्यप्रदेशाभिव्याप्तिनिबन्धनं मूर्तत्वं यदात्मनस्तदेव सर्वदेति मोक्षवाप्तिस्तस्य कदापि न स्यादिति सर्वथा मूर्तस्वभावोऽप्यनभ्युपगमार्ह एवेत्याह-एकान्तेन मूर्तस्वभावाभ्युपगम इति । यदि सर्वथाऽमूर्तस्वभाव एवात्मा स्यान्न कर्मणा लिप्येत; कार्मणशरीरेण सहात्यन्तिकसंश्लेषतोऽभेदाध्यासप्रयुक्ततत्पोषकपदार्थे रागादितो विहिता-ऽविहितक्रियाऽनुष्ठानादिप्रभवापूर्वपुण्य-पापागमजनितस्वर्ग-नरकादिभवभ्रमणलक्षणसंसारो न भवेदिति नामूतैकान्तस्वभावोऽपि सङ्गतिमेतीत्याह-अमूर्तेकान्तेऽपीति। अखण्डवृत्त्याऽवस्थितिलक्षणैकप्रदेशस्वभावस्य सर्वथा स्वीकारे आत्मनस्तथा स्वभावस्यानेककार्यकारित्वमेव न स्यादिति नैकान्तप्रदेशस्वभावाभ्युपगमोऽपि युक्त इत्याह--एकप्रदेशस्येति । अनेककार्यकरणे तत्तत्कार्यकारित्वात्मकानेकधर्मात्मकानेकभागसंप्राप्तितोऽखण्डपरिपूर्णस्वभावत्वमात्मनो न स्यादित्यभिसन्धिः । सखण्डवृत्त्याऽवस्थानलक्षणस्यानेकप्रदेशस्वभावस्य सर्वथोपगमे नैकाखण्डस्वरूप आत्मा स्यात् तथास्वरूपश्चात्मोपेयते, तस्यैवाभावे कस्यार्थक्रियाकारित्वं तदभावाद् द्रव्यमपि नासौ भवेदिति न सर्वथाऽनेकप्रदेशस्वभावोऽपीत्याह-सर्वथाऽनेकप्रदेशत्वेऽपीति । तस्य आत्मनः । स्वखभावे व्यवस्थित एव भावोऽर्थक्रियाकारी भवति, सर्वथाऽनेकप्रदेशतायां चात्मनोऽखण्डैकव्यक्त्यात्मतालक्षणखखभावप्रच्युत्या नार्थक्रियाकारित्वमित्याह-स्वस्वभावहानिप्रसङ्गादिति । कर्ममलकलङ्कावलेपाभावतः
Page #345
--------------------------------------------------------------------------
________________
२८४ अनेकान्तव्यवस्थाप्रकरणम् । १७, शुद्धैकान्तस्वभावे चात्मनो न कर्ममलकलङ्कावलेपः, सर्वथा निरञ्जनत्वात् १८, अशुद्धैकान्तस्वभावेऽप्यात्मनो न कदाचिदपि शुद्धस्वभावप्रसङ्गः स्यात् , तन्मयत्वात् १९, उपचरितैकान्तपक्षेऽपि नात्मज्ञता सम्भवति, नियमितपक्षत्वात् २०, तथाऽऽत्मनोऽनुपचरितैकान्तपक्षेऽपि परज्ञाना(ज्ञता)दीनां विरोधः स्यात् २१ ॥ ___ अत्र नयोपनययोजना कर्तव्येति तद्भेदा उच्यन्ते-द्रव्यार्थिकः पर्यायार्थिको नैगमाद्याश्च सप्तेति नव नयाः, नयानां समीपे उपनयाः, ते त्रयः-सद्भूतव्यवहारोऽसद्भूतव्यवहार उपचरितासद्भूतव्यवहारश्चेति, तत्र द्रव्यार्थिको दशधा-आद्यः कर्मोपाधिनिरपेक्षः शुद्धद्रव्यार्थिकः,
संसाराभावप्रसक्त्या नैकान्तशुद्धस्वभाव एवात्मेत्याह-शुद्धैकान्तस्वभाव इति । एकान्ताशुद्धस्वभावत्वे त्वात्मनः कदापि कर्ममलकलङ्कावलेपाभावाभावान्न मोक्षः स्यादिति नैकान्ताशुद्धस्वभावोऽऽप्यात्मेत्याह-अशुद्धकान्तस्वभावोऽपीति । शुद्धस्वभावप्राप्तिरेव मोक्ष इति । शुद्धखभावप्रसङ्गाभावे मोक्षाभाव इति । तन्मयत्वात् कर्ममलकलङ्कावलिप्तस्वभावमयत्वात् यद्येकान्तोपचरितखभाव एवात्मा तदा तत्वरूपता न वस्तुतस्तस्येत्युपचरितखभावाऽवभासेऽपि नात्मवरूपावभास इत्यात्मज्ञत्वं न स्यात् तदभावे च मोक्षोऽपि दुर्लभस्तत्त्वज्ञानकार्यत्वात् तस्य, तत्त्वज्ञानं चाशेषजडभिन्नतयाऽऽत्मस्वरूपज्ञानमेवेत्युपचरितैकान्तपक्षोऽपि नाभ्युपगमाह इत्याह-उपचरितैकान्तपक्षेऽपीति । नियमितपक्षत्वात् उपचरितस्वभाव एवात्मनो व्यवस्थितत्वात् । शुद्धचैतन्यलक्षणानुपचरितखभावः सर्वेषामात्मनामवशिष्ट इति तत्स्वभावेन सर्वेषामात्मनामभेद इति तदेकान्ते न कश्चित् पर आत्मेति परज्ञानादीनामभावः प्रसज्यत इति नानुपचरितस्वभावैकान्तोऽपि युक्त इत्याह-तथाऽऽत्मन इति ।
प्रसङ्गानयोपनयान् खाभ्युपगतान् दिक्पटाः प्रकटयन्ति--अत्रेति-निरुक्तगुणखभावविचारे इत्यर्थः । तद्भेदा नयोपनयभेदाः। द्रव्यार्थिक इति-द्वौ द्रव्यार्थिकपर्यायार्थिको नैगम-सङ्ग्रह-व्यवहारर्जुसूत्र-शब्द-समभिरूढेवम्भूताः सप्तेत्येवं नव नया इत्यर्थः । ते त्रयः उपनयास्त्रयः । तत्र नगोपनयेषु मध्ये आद्यः प्रथमः । दशविध
Page #346
--------------------------------------------------------------------------
________________
२८५
तत्त्वबोधिनीविवृतिविभूषितम्। यथा-संसारिजीवः सिद्धसदृशशुद्धात्मा १, द्वितीय उत्पाद-व्ययगौणत्वेन सत्ताग्राहकः शुद्धद्रव्यार्थिकः, यथा द्रव्यं नित्यम् २, तृतीयो भेदकल्पनानिरपेक्षः शुद्धद्रव्यार्थिकः, यथा-निजगुण-पर्यायस्वभावाद् द्रव्यमभिन्नम् ३, चतुर्थः कर्मोपाधिसापेक्षोऽशुद्धद्रव्यार्थिकः, यथाक्रोधादिकर्मजभाव आत्मा ४, पश्चम उत्पाद-व्ययसापेक्षोऽशुद्धद्रव्यार्थिकः, यथा-एकस्मिन् समये द्रव्यमुत्पाद-व्यय-ध्रौव्यात्मकम् ५, षष्ठो भेदकल्पनासापेक्षोऽशुद्धद्रव्यार्थिकः, यथा-आत्मनो दर्शनज्ञानादयो गुणाः ६, सप्तमोऽन्वयसापेक्षो द्रव्यार्थिकः, यथा-गुणपर्यायस्वभावं द्रव्यम् ७, अष्टमः स्वद्रव्यादिग्राहको द्रव्यार्थिकः, यथा-खद्रव्यादिचतुष्टयापेक्षया द्रव्यमस्ति ८, नवमः परद्रव्यादिग्राहको
द्रव्यार्थिकभेदनिरूपणं स्पष्टत्वान्न व्याख्यानमपेक्षत इति । पर्यायार्थिकनयभेदान् प्रकटयन्ति-अथेति । आद्यः प्रथमः । उदाहरति-यथेति-पुद्गलपर्यायो मेरुरुपचया-ऽपचयशालित्वाद् भवति पर्यायः, किन्त्वनादिः, नास्ति स भूतकालो यस्मिन् मेरुर्नासीत् , नापि भविष्यत्कालः कोऽपि मेरुशून्य इति स्वानधिकरणकालवृत्तिध्वंसप्रतियोगित्वाभावान्नित्य इति तद्विषयको नयोऽनादिनित्यपर्यायार्थिक इत्यर्थः। सिद्धति-विगलितकर्माष्टकात्मपर्यायः सिद्धः संसारावस्थायां नासीत्, किन्त्वष्टविधकर्मक्षये स जात इति सादिः, उत्तरकालं च सर्वदाऽवतिष्ठत इति नित्यः, तत्सङ्ग्राहको नयः सादिनित्यपर्यायार्थिकनय इत्यर्थः । सत्तागौणत्वेन ध्रौव्यलक्षणसत्त्वस्याप्रधानतया, अस्य 'ग्राहकः' इत्यनेनान्वयः। उदाहरति-यथेति-प्रतिसमयं पर्यायाणां विनाशित्वं तदैव घटेत यदि पूर्वपर्यायस्य नाश उत्तरपर्यायस्योत्पाद इति स्यात् , तथा चार्थादायातमेवोक्तज्ञानस्योत्पादावगाहित्वमिति । चतुर्थमुदाहरतियथेति-एकस्मिन् समये पर्यायस्योत्पाद-व्यय-ध्रौव्यलक्षणत्रयात्मकत्वं तदैव यदि केनचिद्रूपेणोत्पादः केनचिद्रूपेण विनाशः केनचिद्रूपेण ध्रौव्यम्, अत्र ध्रौव्यलक्षणसताऽऽपेक्षितेति सत्तासापेक्षत्वम् , ध्रौव्यमेव च नित्यत्वमिति तथावगाहिनयस्य नित्यग्राहित्वमपि, नित्यांशस्य द्रव्यस्यानुप्रवेशादशुद्धताऽऽपीति भवति तथाज्ञानं सत्तासापेक्षो नित्याशुद्धपर्यायार्थिकनय इत्यर्थः । पञ्चममुदाहरति-यथेति-संसारिणः
Page #347
--------------------------------------------------------------------------
________________
२८६ अनेकान्तव्यवस्थाप्रकरणम् । द्रव्यार्थिकः, यथा-परद्रव्यादिचतुष्टयापेक्षया द्रव्यं नास्ति ९, परमस्वभावग्राहको द्रव्यार्थिको दशमः, यथा-ज्ञानस्वरूप आत्मा, अत्रानेकखभावानां मध्ये ज्ञानाख्यः परमस्वभावो गृहीतः १० ॥ इति द्रव्यार्थिकभेदाः॥१०॥ ____ अथ पर्यायार्थिकस्य षड् भेदाः, आद्योऽनादिनित्यपर्यायार्थिकः, यथा-पुद्गलपर्यायो मेर्वादिनित्यः १, ११, द्वितीयः सादिनित्यपर्यायार्थिकः, यथा-सिद्धपर्यायो नित्यः २, १२, तृतीयः सत्तागौणत्वेनोत्पाद-व्ययग्राहकोऽनित्यशुद्धपर्यायार्थिकः, यथा-समयं समयं प्रति पर्याया विनाशिनः ३, १३, चतुर्थः सत्तासापेक्षो नित्याशुद्धपर्यायार्थिकः, यथा-एकस्मिन् समये त्रयात्मकः पर्यायः ४, १४, पञ्चमः
सिद्धसादृश्यं तदैवोपपद्येत यदि सतोऽपि तत्र कर्मोपाधेः सम्बन्धो गजनिमीलिकयोपेक्ष्येतेति कर्मोपाधिनिरपेक्षत्वम् , सिद्धपर्यायः सादिरप्युत्तरकालं न विनश्यतीत्येतावतैव नित्यत्वं सिद्धपर्याये तत्सादृश्यतोऽपि तथैव नित्यत्वमायातीति पर्यायविधयैव नित्यत्वं न द्रव्यविधयेति द्रव्यांशाननुप्रवेशाच्छुद्धत्वमिति तथाज्ञानं कर्मोपाधिनिरपेक्षो नित्यशुद्धपर्यायार्थिकनय इत्यर्थः, यद्यपि कर्मोपाधिनिरपेक्षः शुद्धद्रव्यार्थिक इति द्रव्यार्थिकस्य यः प्रथमो मेदस्तस्यापीदमेवोदाहरणमुपदर्शितम्, तथा च यस्यैव शुद्धद्रव्यार्थिकत्वं तस्यैव शुद्धपर्यायार्थिकत्वमित्यसङ्गतमिव प्रतिभाति तथापि पूर्व सिद्धसादृश्यं संसारिण आत्मरूपतयाऽभिमतं न तु पर्यायरूपतयेति शुद्धद्रव्यार्थिकत्वम् , अत्र तु सिद्धस्य यः कर्माष्टकविनिर्मोके सति शुद्धतालक्षणः पर्यायो य उत्तरकालं सर्वदाऽवतिष्ठते तद्रूपस्य संसारदशायामसतोऽपि सद्भावमारोप्य तद्रूपेण सादृश्यमभिमतमिति शुद्धपर्यायार्थिकत्वमिति बोध्यम् । षष्ठमुदाहरति-यथेति-उत्पत्तिरात्मनोऽपूर्वदेहेन्द्रियादिना सह सम्बन्धः, मरणमुपात्तदेहेन्द्रियादिना सह वियोगः, न चैतदुभयं कर्मोपाधिसम्बन्धमन्तरेणेति कर्मोपाधिसापेक्षत्वम्, न ह्यनुगामिद्रव्यखरूपतामन्तरेणैकाधिकरणे उत्पत्ति-मरणे सम्भवत इति नित्यद्रव्यस्वरूपताऽवश्यमेव तद्बलादायातेति नित्यत्वम् , द्रव्यानुप्रवेशाच्चाशुद्धत्वमिति भवति तथाज्ञानं कर्मोपाधिसापेक्षो नित्याशुद्धपर्यायार्थिकनय इत्यर्थः । इत्थं निरूपिता द्रव्यार्थिक-पर्यायार्थिक
Page #348
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् २८७ कर्मोपाधिनिरपेक्षो नित्यशुद्धपर्यायार्थिकः यथा-संसारी सिद्धसदृक् शुद्धात्मा ५, १५, षष्ठः कर्मोपाधिसापेक्षो नित्याशुद्धपर्यायार्थिकः, यथा-संसारिणामुत्पत्ति-मरणे स्तः ६, इति १६, नैगमनेधा-भूतभावि-वर्तमानकालभेदात्, अतीते वर्तमानारोपणं यत्र स भूतनैगमः, यथा-अद्य दीपोत्सवपर्वणि वर्धमानस्वामिनो मोक्षं गताः १, १७, भाविनि भूतवत् कथनं यत्र स भाविनैगमः, यथा-अर्हन् सिद्ध एव २, १८, कर्तुमारब्धमीषनिष्पन्नमनिष्पन्नं वा वस्तु निष्पन्नवत् कथ्यते यत्र स वर्तमाननैगमः, यथा-ओदनः पच्यते ३, इति, १९, सङ्ग्रहो द्विविधः-सामान्य-विशेषभेदात्, आद्यो यथा-द्रव्याणि सर्वाण्यविरोधीनि १, २०, द्वितीयो यथा-सर्वे जीवाः परस्परम
भेदाः । अथ नैगमनयभेदा निरूप्यन्ते-नैगमस्त्रेधेति । भूतनैगमं प्रथममुदाहरति न्यथेति-अतीत एव दीपोत्सवपर्वणि वर्द्धमानस्वामिनो मोक्षं गता न तु वर्तमाने तत्रेति अतीते वर्तमानारोपेण 'अद्य०' इत्यादिनैगमः प्रवर्तत इत्ययं भूतनैगम इत्यर्थः । 'भाविनैगममुदाहरति-यथेति-अर्हन् घातिकर्मचतुष्टयात्यन्तक्षयतोऽवाप्तकेवलज्ञानादिरघातिकर्मचतुष्टयक्षयात् सिद्धो भविष्यति, अथापि भाविनि सिद्धस्वरूपे भूतवत् कथनं 'सिद्ध एवं' इत्येवंरूपम्, अतः 'अर्हन् सिद्ध एवं' इति ग्रहणं भाविनैगम इत्यर्थः । तृतीयं नैगममुदाहरति-यथा ओदनः पच्यत इति-तण्डुलः परिपक्वः सन्नवस्थान्तरमापन्नः सन् ओदन इति कथ्यते, यस्य भक्तमिति नाम लोके व्यवह्रियते, तदात्मकं वस्तु पाके निष्पन्ने सति निष्पन्नं भवति, प्राक् तु विक्लत्त्यनुकूलव्यापारलक्षणक्रियाप्रचयस्वरूपे पाके 'काचित् क्रिया जाता काचिद् वर्तमाना काचिद् भाविनी' इत्येवंरूपे कर्तुमारब्धं तद् वस्तु किञ्चिदंशेन निष्पन्नमनिष्पन्नमेव वा 'ओदनः' इत्येवं निष्पन्नवत् कथ्यत इत्ययं वर्तमाननैगम इत्यर्थः । सङ्ग्रहभिदां दर्शयति-सङ्ग्रहो द्विविध इति । आद्यः सामान्यसङ्ग्रहः । द्रव्याणीति-द्रव्यत्वलक्षणसामान्येन धर्मा-ऽधर्मा-ऽऽकाशादीनां सर्वेषां द्रव्याणामैक्यलक्षणमविरोधं गृह्णन्नयं सङ्ग्रहः सामान्यसङ्ग्रह इत्यर्थः । द्वितीयो विशेषसङ्ग्रहः । सर्वे जीवा इति-जीवत्वस्य सामान्यरूपत्वेऽपि द्रव्यत्वापेक्षया विशेषरूप
Page #349
--------------------------------------------------------------------------
________________
२८८ अनेकान्तव्यवस्थाप्रकरणम् । विरोधिनः २, इति, २१, व्यवहारोप्येतद्भेदको द्विविधः, आद्यो यथा-जीवा-ऽजीवाः २२, द्वितीयो यथा-जीवाः संसारिणो मुक्ताश्च २३ इति । ऋजुसूत्रः स्थूल-सूक्ष्मभेदाद् द्विधा, आद्यो यथा-मनुप्यादिपर्यायास्तदायुःप्रमाणकालं तिष्ठन्ति २४, द्वितीयो यथा-एकसमयावस्थायी पर्यायः २५, इति। शब्दादयस्त्रयः प्रत्येकमेकैकभेदाः २६, २७, २, ८ इति सर्वेऽप्यष्टाविंशतिर्नयभेदाः ।।
उपनयेषु एकवस्तुभेदविषयः सद्भूतव्यवहारः, स च शुद्धात्वमिति जीवत्वेन विशेषेण सर्वेषां जीवानामैक्यलक्षणमविरोधं गृह्णन्नयं विशेषसङ्ग्रह इत्यर्थः । व्यवहारभेदमुपदर्शयति-व्यवहारोऽपीति । एतद्भेदकः सामान्यविशेषभेदकः । आद्यः सामान्यव्यवहारः । जीवाऽजीवा इति-जीवत्वं सर्वजीवगतं सामान्यं तथाऽजीवत्वं धर्मा-ऽधर्माद्यशेषाजीवगतं सामान्यमिति ताभ्यां विभागोऽयमिति सामान्यविभागः, अत्र 'द्रव्याणि जीवा अजीवाश्च' इति पाठो विभागस्पष्टीकरणार्थो युक्तः । द्वितीयो विशेषविभागः, संसारित्वं मुक्तत्वं च सामान्यस्वरूपमपि जीवत्वापेक्षया भवति विशेष इति ताभ्यां विभागोऽयं भवति विशेषविभाग इत्यर्थः । ऋजुसूत्रभेदमुपदर्शयति-ऋजुसूत्र इति । आद्यः स्थूलर्जुसूत्रः, ऋजुसूत्रो वर्तमानकालस्थाय्येव वस्त्वभ्युपगच्छति, वर्तमानकालश्च स्थूलोपाध्यपेक्षया आयुःप्रमाणकालोऽपि स्थूलो भवतीति मनुष्यादिपर्यायास्तदायुःप्रमाणकालं तिष्ठन्तीत्येवं ग्रहणं भवति स्थूलर्जुसूत्र इत्यर्थः । द्वितीयः सूक्ष्म सूत्रः, सूक्ष्मविचारणायां परमविरुद्धसमय एव वर्तमानकालः, तदवस्थाय्येव वस्तु ऋजुसूत्राभ्युपगमविषय इति 'एकसमयावस्थायी पर्यायः' इति ज्ञानं भवति सूक्ष्मणुसूत्र इत्यर्थः । शब्द-समभिरूडैवम्भूतास्तु एकैकभेदा एवेत्याह-शब्दादय इति । द्रव्यार्थिकभेदानारभ्यैवम्भूतभेदपर्यन्तं यावत्यः प्रत्येकं संख्या दर्शितास्तासंमिलिता अष्टाविंशतिरिति तत्संख्यका नयभेदा इति निगमयति-सर्वेऽपीति । सद्भूतव्यवहारा-ऽसद्भूतव्यवहारोपचरितासद्भूतव्यवहारभेदेनोपनयानां त्रैविध्यं प्रागुपदर्शितम् , तेषां विषया अवान्तरभेदाश्च नोपदर्शिता इति तदुपदर्शनायाह-उपनयेष्विति । एकेति-एकस्य वस्तुनो गुणिनः पर्यायिनो वा भेदा विशेषा गुणाः पर्याया वा ते विषया यस्य व्यवहारस्य स एकवस्तुमेदविषयः, सद्भूतव्यवहार इत्यर्थः । स च सद्भूतव्यवहारश्च । आद्यः
Page #350
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् २८९ ऽशुद्धभेदाद् द्विविधः, आद्यःशुद्धगुणगुणि-शुद्धपर्यायपर्यायिभेदकथनम् यथा-केवलज्ञानादयो जीवस्य, द्वितीयोऽशुद्धगुण-गुण्यादिभेदकथनम् , यथा-मतिज्ञानादयो जीवस्य असद्भूतव्यवहार उपचरितस्य पृथक्कथनादनुपचरितो गृह्यते, स च संश्लेषसहितवस्तुसम्बन्धविषयः स्वजातिविजात्युभयविषयभेदेन त्रिविधः, आद्यो यथा-परमाणुबहुप्रदेशीति कथनम् , द्वितीयो यथा-मूर्त मतिज्ञानम् , यतो मूर्त्तद्रव्येण जनितम् , तृतीयो यथा-ज्ञेये जीवेऽजीवे च ज्ञानमिति कथनम् , तस्योभयशुद्धसद्भूतव्यवहारः । शुद्धेति-शुद्धगुण-गुणिभेदकथनं शुद्धपर्याय-पर्यायिभेदकथनं चेत्यर्थः । 'यथा' इत्यादिना शुद्धगुण-गुणिभेदकथनलक्षणशुद्धसद्धृतव्यवहार उदाहृतः, 'घटादयो मृदः, नीलादयो रूपस्य वा' इति शुद्धपर्याय-पर्यायिभेदकथनलक्षणशुद्धसद्भूतव्यवहारो ज्ञेयः । द्वितीयः अशुद्धसद्भूतव्यवहारः। 'अशुद्धगुण-गुण्यादि' इत्यादिपदादशुद्धपर्याय-पर्यायिग्रहणम् । यथा मतिज्ञानादयो जीवस्येति-अत्र जीवो यद्यपि शुद्धो गुणी तथापि मतिज्ञानादयो ज्ञानपर्याया एवेति न शुद्धगुणता मतिज्ञानादीनामिति गुण-गुणिनोरेकस्याप्यशुद्धत्वेऽशुद्धगुण-गुणिकथनमेव तद् भवतीति। 'नीलतर-नीलतमादयो रूपस्य' इत्यशुद्धपर्याय-पर्यायिभेदकथनलक्षणाशुद्धसद्भूतव्यवहारस्योदाहरणं द्रष्टव्यम् । उपचरितासद्भूतव्यवहार उपनयस्य तृतीयो भेद इत्यसद्भूतव्यवहारपदेनानुपचरितासद्भूतव्यवहार एव द्वितीयो भेद इत्याह-उपचरितस्येति । स च अनुपचरितासद्भूतव्यवहारश्च । संश्लेषेति-संश्लेषसहितं यद् वस्तु तत्सम्बन्धविषय इत्यर्थः । आद्यः खजात्यनुपचरितासद्भूतव्यवहारः । परमाण्विति-बहवश्च ते प्रदेशा बहुप्रदेशाः, ते सन्त्यस्येति बहुप्रदेशी, परमाणुश्चासौ बहुप्रदेशी च ‘परमाणुबहुप्रदेशी' इत्येवं कथनं स्वजात्यनुपचरितासद्धृतव्यवहार इत्यर्थः, अत्र परमाणवोऽप्रदेशा एवेति परमाणोः बहुप्रदेशित्वमसद्भूतमेव, तस्य व्यवहारोऽयं 'बहुप्रदेशी' इति, संश्लेषसहितमेव वस्तु, प्रदेशस्य प्रदेशान्तरं स्वजातिरेवेति भवत्युक्तलक्षणसङ्गमनमिति बोध्यम् । द्वितीयो विजात्यनुपचरितासद्भूतव्यवहारः। उदाहरति-यथेति । 'मूर्तम्' इति मूर्तद्रव्यपरम् , मूर्तद्रव्यस्य मतिज्ञानं विजातीयम् , मतिज्ञानस्य मूर्तत्वमसदेवेत्यसद्भूतव्यवहारोऽयम् , मूर्तत्वमपि संश्लेषसहितं मतिज्ञानमपि संश्लेषसहितमिति भवति लक्षणसङ्गमनम् । तृतीयः खजाति
अ. व्य. १९
Page #351
--------------------------------------------------------------------------
________________
२९० अनेकान्तव्यवस्थाप्रकरणम् । निष्ठत्वात् । असद्भूतव्यवहार एवोपचारः, तत उपचारानन्तरं य उपचारः क्रियते स संश्लेषरहितवस्तुसम्बन्धविषय उपचरितासद्भूतव्यवहारः, सोऽपि स्वजाति-विजात्युभयविषयभेदेन त्रिविधः, आद्यो यथा-पुत्रदारादि मम, द्वितीयो यथा-वस्त्राऽऽभरणहेमरजतादि मम, तृतीयो यथा-दुर्गदेशराज्यादि मम ।। विजात्यनुपचरितासद्भूतव्यवहारः । 'जीवेऽजीवे च ज्ञेये' इति विशेषणोपादानात् संश्लेषसहितत्वं दर्शितं चैतन्यलक्षणत्वाजीवस्येति ज्ञानस्य स्वजातीयः सः, विजातीयश्चाजीव इति तस्य ज्ञानस्य । उभयनिष्ठत्वाद उभयवृत्तित्वात्, न च ज्ञानं वस्तुगत्योभयनिष्ठम् , जीववृत्त्येव तदिति जीवा-ऽजीवोभयवृत्तित्वस्य ज्ञानगतस्यासद्भूतस्यैव व्यवहार इत्युक्तलक्षणसङ्गतिः। उपचरितासद्भूतव्यवहारं, निरूपयति-असद्भुतव्यवहार एवेति-‘परमाणुबहुप्रदेशी' इति कथनम्, 'मूर्त मतिज्ञानम्' इति कथनम् , 'ज्ञेये जीवेऽजीवे च ज्ञानम्' इति कथनं चासद्भूतव्यवहारतया यदुपदर्शितं तत् सर्वमुपचार एव, तस्मात् कारणादुपचारानन्तरं य उपचारः क्रियते स उपचारः, संश्लेषरहितं यद् वस्तु तत् सम्बन्धविषयः उपचरितासद्भूतव्यवहारो भवतीत्यर्थः । सोऽपि उपचरितासद्भूतव्यवहारोऽपि। आद्यः स्वजातिविषयोपचरितासद्भूतव्यवहारः । पुत्रेति-आत्मा वस्तुगत्या न पुत्र-दारादिस्वरूपः, एवमप्यसद्भूतं पुत्रत्व-दारत्वादिकं तत्रारोप्य 'अयं पुत्रः, इमे दाराः' इत्यादि कथनमुपचार एव, ततश्च तत्रास्मत्सम्बन्धमसन्तमेवारोप्य 'पुत्र-दारादि मम' इत्युपर्यते, सोऽयं संश्लेषरहितपुत्रदारादिवस्तुसम्बन्धविषयः, पुत्र-दारादिश्चास्मच्छब्दार्थस्य स्वजातिरेवेति खजातिविषयोऽपीति भवति स्वजातिविषयोपचरितासद्भूतव्यवहार इत्यर्थः । द्वितीयो विजातिविषयोपचरितासद्भूतव्यवहारः, वस्त्राभरणादिकं च संश्लेषरहितं स्वतोऽनावृतस्यात्मन आच्छादनालङ्कारादिरूपेणोपचरितम् , तथाऽस्मच्छब्दार्थस्य विजातीयं च, तद्वस्तुगत्या नास्त्येवात्मसम्बन्धित्वमथाऽप्युपर्यत इति 'वस्त्रा-ऽऽभरण-हेमरजतादि मम' इति व्यवहारो भवति विजातिविषयोपचरितासद्भूतव्यवहार इत्यर्थः । तृतीयः स्वजाति-विजात्युभयविषयोपचरितासद्भूतव्यवहारः। दुर्गेति-दुर्गादिकं वस्तु संश्लेषरहितं विजातीयं च, राज्यान्तर्गतं पुत्र-दारादिकं मनुष्यादिकं चास्मच्छब्दार्थसजातीयं च, एतत् सर्वमुपचरितं च, न तत्रास्मच्छब्दार्थात्मसम्बन्धो वस्तुतः सन्निति 'दुर्ग-देश-राज्यादि मम' इति व्यवहारो भवति स्वजाति-विजात्युभयविषयो
Page #352
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् २९१ एते नयोपनयभेदा यथासम्भवं स्वभावेषु योज्यन्ते, स्वद्रव्यादिग्राहकेणास्तिस्वभावः १, परद्रव्यादिग्राहकेण नास्तिखभावः २, उत्पादव्यय-गौणत्वेन सत्ताग्राहकेण नित्यस्वभावः ३, केनचित् पर्यायार्थिकेणानित्यस्वभावः ४, भेदकल्पनानिरपेक्षेणैकखभावः ५, अन्वयद्रव्यार्थिकेनैकस्याप्यनेकद्रव्यस्वभावत्वम् ६, सद्भूतव्यवहारेण गुणगुण्यादिभिर्भेदस्वभावः ७, भेदकल्पनानिरपेक्षेण गुण-गुण्यादिभिरभेदस्वभावः ८, परमभावग्राहकेण भव्या-ऽभव्य-पारिणामिकस्वभावाः ९-१०-११, शुद्धा-ऽशुद्धपरमभावग्राहकेण चेतनस्वभावो जीवस्य, पचरितासद्भूतव्यवहार इत्यर्थः । अत्र 'नयोपनययोजना कर्तव्या' इति यत् प्रतिज्ञातं तदधिकरोति-पते इति-अनन्तरमेवोपदर्शिता इत्यर्थः। 'स्वद्रव्यादिग्राहकेण' इत्यन्तरं 'नयोपनयभेदेन' इति दृश्यम् , एवमग्रेऽपि, यथा च यो नयो वस्तुतः स्वद्रव्य-क्षेत्रकाल-भावादिकं गृह्णाति तेन नयेन वस्तुनोऽस्तिस्वभावः सिद्ध्यतीत्यर्थः । परेतिपरद्रव्य-क्षेत्र-काल-भावग्राहकेण नयेन वस्तुनो नास्तिस्वभावः सिद्ध्यतीत्यर्थः । उत्पादेति-यो नयो वस्तुन उत्पाद-व्ययौ गौणतया ध्रौव्यं च प्रधानतया गृह्णाति तेन नयेन वस्तुनो नित्यस्वभावः सिद्ध्यतीत्यर्थः । केनचिदिति-यश्च पर्यायार्थिकनयो गौणतया ध्रौव्यं प्रधानतयोत्पाद-व्ययौ गृह्णाति तेन पर्यायार्थिकनयेन वस्तुनोऽनित्यस्वभावः सिद्ध्यतीत्यर्थः । मेदेति-यो नयो भेदे गजनिमीलिकामवलम्बते, ऐक्यमेव तु गृह्णाति तेन नयेन वस्तुन एकखभावः सिद्धिमुपयाति । अन्वयेति-यो नयोऽशेषस्वपर्यायान्वयि मृदादिद्रव्यं गृह्णाति नयेनैकस्यापि सद्रूपवस्तुनोऽनेकद्रव्यस्वभावत्वं सिद्धयतीत्यर्थः । सद्भुतेति-सद्भूतव्यवहारेणैकवस्तुमेदविषयकेणोपनयविशेषेण वस्तुनो गुण-गुण्यादिभिर्भेदखभावः सिद्ध्यतीत्यर्थः। भेदकल्पनेति-यो नयो गुण-गुणिनोर्मेंदे गजनिमीलिकामाश्रयति तयोरभेदमेव चावगाहते तेन नयेन वस्तुनो गुण-गुण्यादिभिरभेदस्वभावः सिद्ध्यतीत्यर्थः । परमेति-भाविकाले पररूपाकारभवनलक्षणो भव्यस्वभावः कालत्रयेऽपि पररूपाकाराभवनलक्षणोऽभव्यस्वभावः पारिणामिकस्वभावश्चैते त्रयः स्वभावाः परमभावग्राहकेण नयेन सिद्ध्यतीत्यर्थः । शुद्धतिअनेक स्वभावानां मध्ये चेतनस्वभाव आत्मनः परमस्वभावः, स च निर्मलज्ञानलक्षणः शुद्धः, मतिज्ञानादिस्तु अशुद्ध इत्येवं शुद्धा-ऽशुद्धपरमस्वभावस्य चैतन्यस्य ग्राहकेण
Page #353
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ।
असद्भूतव्यवहारेण कर्म- नोकर्मणोरपि चेतनस्वभावः १२, परमभावग्राहकेण कर्म- नोकर्मणोरचेतनस्वभावः, जीवस्याप्यसद्भूतव्यवहारेणाऽचेतनस्वभावः १३, परमभावग्राह्केण कर्म-नोकर्मणोर्मूर्तस्वभावः, जीवस्याप्यसद्भूतव्यवहारेण मूर्तस्वभावः १४, परमभावग्राहकेण पुद्गलं विहायेतरेषाममूर्तस्वभावः, पुद्गलस्योपचारादपि नास्त्य - मूर्तत्वम्, मुख्यार्थबाधे सति तथाव्यवहाराभावात् एवं सति
२९२
2
नयविशेषेण जीवस्य चेतनस्वभावः सिद्ध्यतीत्यर्थः । असद्भूतेति - असद्भूतव्यवहारलक्षणोपनयविशेषेण कर्म-कर्मदेशयोश्चेतनस्वभावः सिद्ध्यति, कर्म- नोकर्मणोर्नास्त्येव चैतन्यमथापि तयोस्तदरोप्यत इत्यसद्भूतस्य कर्म- नोकर्मगतचैतन्यस्य ग्राहकत्वादसद्भूतव्यवहारत्वं बोध्यम् । यदेव यत्र वस्तु सत् तदेव परमभावग्राह केण नयेन गृह्यत इति कर्म-नोकर्मणोरचेतनस्वभाव एव परमस्वभाव इति स तथा ग्राहकेण नयेन सिद्ध्यतीत्याह-परमस्वभावग्राह केणेति । जीवश्चेतनस्वभाव एव, अथापि तस्याचेतनस्वभावोऽसद्भूतव्यवहारलक्षणोपनयविशेषेण गृह्यत इत्याह-जीवस्यापीति । कर्म-नोकर्मणोर्वस्तुगत्या मूर्तस्वभाव एव पौद्गलिकत्वात्, परमार्थस्वरूपग्राहकेण परमस्वभावग्राहिणा नयेन तयोर्मूर्तस्वभावः सिध्यतीत्याह - परमभावग्राहकेणेति । जीवस्यामूर्तस्यापि सतो मूर्तशरीरसम्बन्धादारोपितो मूर्तस्वभावः सोऽसद्भूतव्यवहारलक्षणोपनयविशेषेण सिद्ध्यतीत्याह - जीवस्यापीति । पुद्गलभिन्नानां सर्वेषामपि द्रव्याणां परमार्थतोऽमूर्तस्वभावः परमभावग्राहकेण नयेन सिद्ध्यतीत्याह - परमभावग्राहकेणेति । यथा जीवस्योपचाराश्रयणेनासद्भूतव्यवहारेण मूर्तत्वम्, न तथा पुद्गलस्यामूर्तत्वम्, यद्यपि मूर्तपदस्य मुख्योऽर्थो रूपवत्त्वलक्षणो यथा जीवे बाधितः तथा पुद्गलेऽप्यमूर्तपदस्य मुख्योऽर्थो रूपवत्त्वविरहलक्षणो बाधितः, तथापि जीवो मूर्तत्वेन व्यवह्रियत इति तत्र तस्योपचार आश्रीयते, पुद्गलस्तु नामूर्ततया व्यवह्रियत इति न तत्र तस्योपचाराश्रयणम्, किन्तु पुद्गलपरमाणुः प्रत्यक्षेण न गृह्यते, किन्तु परोक्षप्रमाणेनैवेति परोक्षप्रमाणापेक्षया पुद्गलाणुरमूर्ततया व्यवहियतेऽतस्तत्रासद्भूतव्यवहारेणोपचारेणामूर्तत्वमित्याह - पुद्गलस्येति - 'मुख्यार्थबाधेऽसति' इत्यत्राकारप्रश्लेषः, तेन तस्य मुख्यार्थबाधे सत्यपीत्यर्थः । तथा व्यवहाराभावात् पुद्गलस्यामूर्ततया व्यवहाराभावात् । भवतु पुद्गलस्योपचारादपि नामूर्तत्वं तेन का
Page #354
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम्
२९३ पुद्गलस्यैकविंशतितमो भावो न लभ्येतेति पुद्गलाणोः परोक्षप्रमाणापेक्षयाऽसद्भूतव्यवहारेणोपचारेणामूर्तत्वं स्वीकर्तव्यम् १५, परमभावग्राहकेण काल-पुद्गलाणूनामेकप्रदेशस्वभावत्वम् , भेदकल्पनानिरपेक्षेणेतरेषां च धर्मा-ऽधर्माऽऽकाश-जीवानामखण्डत्वादेकप्रदेशत्वम् १६, भेदकल्पनासापेक्षेण चतुर्णामपि नानाप्रदेशस्वभावत्वम् , पुद्ग
हानिरित्यत आह- एवं सतीति । पुद्गलस्योपचारादप्यमूर्तत्वस्याभावे सतीत्यर्थः । एकविंशतितम इति-'अस्तिखभावो नास्तिस्वभावः' इत्यादिनकविंशतिखभावानुपदृश्यानन्तरम् ‘एते जीव-पुद्गलयोरेकविंशतिः' इत्यनेनैकविंशतिः स्वभावः पुद्गले निर्धारिताः, सङ्ग्रहश्लोकोऽपि
“एकविंशतिभावाः स्युर्जीव-पुद्गलयोर्मताः।
धमोदीनां षोडश स्युः काले पञ्चदश स्मृताः ॥१॥" इति सङ्ग्राहकश्लोकस्तदुपष्टम्भको दर्शितः, एकविंशतिमध्ये चामूर्तत्वस्यापि गणनमिति तदप्येकविंशतिसङ्ख्यापूरकत्वादेकविंशतितमो भवति, अतोऽमूर्तत्वस्योपचारतोऽपि पुद्गलेऽभावे एकविंशतितमो भावो न लभ्येत; अथवाऽमूर्तत्वस्य पुद्गलेऽभावे पुद्गलगतस्वभावपरिगणनाऽमूर्तत्वं विहायैवेति विंशतिरेव स्वभावास्तत्र स्युरेकविंशतितमश्च भावो न कोऽपि लभ्येतेत्येकविंशतिः स्वभावाः पुद्गलस्य न स्युः, इति एतस्मात् कारणात् , पुद्गलाणोः परोक्षप्रमाणापेक्षयाऽसद्भूतव्यवहारेणोपचारेणामूर्तत्वं खीकर्तव्यमित्यर्थः, युज्यते चैतत् , यतो. लोके यः पदार्थः प्रत्यक्षगम्यो न भवति परीक्षेणैव प्रतीयते सोऽमूर्त इति व्यवह्रियत इति । परमविरुद्धसमयलक्षणः कालाणुः पुद्गलाणवश्चैकप्रदेशस्वभावा एवेति परमभावग्राहकेण नयेन तेषामेकप्रदेशस्वभावत्वं सिद्ध्यतीत्याह-परमभावग्राहकेणेति । यद्यपि धर्मादीनामनेके प्रदेशाः सन्ति तथापि प्रदेशत्वेनैक्यमेव तेषामवगाहते, न तु भेदम् , एतादृशो यो नयस्तेन भेदकल्पनानिरपेक्षेण पुद्गलभिन्नानामपि धर्मादीनामखण्डत्वादेकदेशखभावत्वमेव सिद्ध्यतीत्याह-भेदकल्पनानिरपेक्षेणेति । इतरेषां पुद्गलभिन्नानाम् । येन नयेन प्रदेशानां भेदो विषयीक्रियते तेन भेदकल्पनासापेक्षेण नयेन धर्मादीनां नानाप्रदेशखभावत्वं सिद्ध्यतीत्याह-भेदकल्पनासापेक्षेणेति । चतुर्णामपि धर्मा-ऽधर्माऽऽकाशजीवानामपि । एकस्यापि पुद्गलाणोरुपचारतो भावप्रदेशानाश्रित्य नाना
Page #355
--------------------------------------------------------------------------
________________
२९४ अनेकान्तव्यवस्थाप्रकरणम् । लाणोरुपचारतो नानाप्रदेशत्वम् , न च कालाणोः स्निग्धरूक्षत्वाभावात् , अरूक्षत्वाच्चाणोरमूर्तकालस्य चैकविंशतितमो भावो न स्यात् , परोक्षप्रमाणापेक्षयासद्भूतव्यवहारेणाप्युपचारेणामूर्तत्वम् १७, पुद्गलस्य शुद्धा-ऽशुद्धद्रव्यार्थिकेन विभावस्वभावत्वं १८, शुद्धद्रव्यार्थिकेन शुद्धस्वभावः १९, अशुद्धद्रव्यार्थिकेनाशुद्धस्वभावः २०, उपचारितस्वभावश्वासद्भूतव्यवहारेणेति २१ ॥
गुणविकाराः पर्यायाः, ते द्वेधा-स्वभाव-विभावभेदात्, स्वभावपर्यायाः षड् वृद्धिरूपाः षट् च हानिरूपा इति द्वादश । विभावद्रव्य
प्रदेशत्वमवसेयमित्याह-पुद्गलाणोरिति । न च इत्यारभ्य 'उपचारेणामूर्तत्वम्' इत्यन्तो ग्रन्थस्तु किञ्चित् त्रुटितांशकोऽधिकांशोपेतो वा भविष्यतीति चिन्त्यम् । 'पुदलस्य' इत्यादिग्रन्थस्तूत्तानार्थः । पर्यायान् निरूपयति-गुणविकारा इति । ते पर्यायाः। विभावेति-विभावः स्वभावस्यान्यथाभवनम् , तद्रूपा ये द्रव्यस्य व्यञ्जनपर्यायास्ते जीवस्य नर-नारकादयः, पूर्वभवे यादृक् स्वभावो जीवस्य ततोऽन्यथाभवनमुत्तरभवे, यथा पूर्व देवस्वभावः, तं स्वभावं परित्यज्योत्तरभवे नरत्वादिस्वभावभवनविभाव इति गीयते, स च विभावो नरादिशब्दप्रवृत्तिनिमित्तत्वाद् व्यञ्जनपर्याय इत्यर्थः । स्वभावेति-द्रव्यस्य व्यञ्जनपर्याया द्रव्यव्यञ्जनपर्यायाः, स्वभावाश्च ते द्रव्यव्यञ्जनपर्यायाश्च स्वभावद्रव्यव्यञ्जनपर्यायाः, ते चरमशरीरात् किञ्चिन्यूनसिद्धपर्यायाः, यादृक्संस्थानविशेषस्वभावो जीवश्चरमशरीरे चरमशरीरप्रमाणः ततः किञ्चिन्यूनसंस्थानप्रमाणः सिद्धपर्यायो भवति, स च न्यूनत्वेऽपि पूर्वस्वभावाभिन्न एव न ततोऽन्यथाभवनमिति न स विभावः, स च स्वभावः, सिद्धपदप्रवृत्तिनिमित्तत्वाद् व्यञ्जनपर्यायः । विभावेति-गुणस्य व्यञ्जनपर्याया गुणव्यञ्जनपर्यायाः, विभावाश्च ते गुण-व्यञ्जनपर्याया विभावगुणव्यञ्जनपर्यायाः ते मत्यादयः, ज्ञानगुणस्य ज्ञेयमात्रविषयकत्वं स्वभावः ततः प्रतिनियतविषया मत्यादयोऽन्यथा भवन्तीति विभावाः, ते सर्वदा नावतिष्ठन्ते, यदा सन्ति तदा मत्यादिशब्दानां प्रवृत्तिनिमित्ततामुपयान्तीति व्यञ्जनपर्यायाः। स्वभावेति-गुणस्य व्यञ्जनपर्याया गुणव्यञ्जनपर्यायाः, स्वभावाश्च ते गुण-व्यञ्जनपर्यायाश्च स्वभावगुणव्यञ्जनपर्यायाः, ते अनन्तचतुष्टयरूपा अनन्त
Page #356
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् व्यञ्जनपर्याया जीवस्य नर-नारकादयः १, स्वभावद्रव्यव्यञ्जनपर्यायाश्चरमशरीरात् किञ्चिन्न्यूनसिद्धपर्यायाः २, विभावगुणव्यञ्जनपर्याया मत्यादयः ३, स्वभावगुणव्यञ्जनपर्याया अनन्तचतुष्टयरूपा जीवस्य ४, पुद्गलस्य तु व्यणुकादयो विभावद्रव्यव्यञ्जनपर्यायाः५, रसरसान्तर-गन्धगन्धान्तरादयो विभावगुणव्यञ्जनपर्यायाः ६, अविभागिपुद्गलपरमाणवः स्वभावद्रव्यव्यञ्जनपर्यायाः ७, वर्ण-गन्ध-रसैकैकाविरुद्धस्पर्शद्वयं च स्वभावगुणव्यञ्जनपर्याया ८ इति ।
"अनाद्यनिधने द्रव्ये स्वपर्यायाः प्रतिक्षणम् । उन्मज्जन्ति निमन्जन्ति, जल(कूल)कल्लोलवज्जले ॥१॥ धर्मा-ऽधर्म-नभ:-काला, अर्थपर्यायगोचराः । व्यञ्जनेन तु सम्बद्धौ, द्वावन्यौ जीवपुद्गलौ ॥ २॥"
[इति पर्यायाधिकारः] इति । तदेतत् स्वकपोलकल्पनामानं वातूलतरलार्कतूलतुल्यम् , गुणानामेव ज्ञाना-ऽनन्तदर्शना-ऽनन्तसुखा-ऽनन्तवीर्यस्वरूपा जीवस्य ज्ञेयाः,ज्ञानादिगुणस्य स्वभावभूता एव ते तथाशब्दप्रवृत्तिनिमित्तत्वाद् व्यञ्जनपर्यायाः । विभावद्रव्यव्यञ्जनपर्याया इति व्याख्यातमेव। पुद्गलाणुद्वयद्रव्यस्कन्धो घणुकः, पुद्गलाणुत्रयद्रव्यस्कन्धस्त्यणुक इत्येवं ये घ्यणुकादयस्ते पुद्गलस्य विभावद्रव्यव्यञ्जनपर्यायाः, तेषां विभावत्वव्यञ्जनपर्यायत्वे पूर्ववद् भावनीये । रसरसान्तरेत्यादिग्रन्थोऽपि व्याख्यातकल्पत्वात् सुखावबोधो न व्याख्यानमपेक्षते । अनाद्यनिधने अनुत्पन्नाविनाशिनि । उन्मजन्ति उत्पद्यन्ते । निमजन्ति विलीयन्ते। जलकल्लोलवजले यथा जले कल्लोलास्तरङ्गाः प्रतिक्षणमुत्पद्यन्ते नश्यन्ति च तथेत्यर्थः । अर्थपर्यायगोचराः प्रतिक्षणभाविनोऽर्थपर्याया एव धर्मादीनां भवन्ति, न तु व्यञ्जनपर्यायाः। अन्यौ धर्मादिभ्यो मिन्नौ । व्यञ्जनेन सम्बद्धौ व्यञ्जनपर्यायवन्तौ । 'इत्थं च यद् दिगम्बरैः परिभाष्यन्ते' इत्यारभ्य 'इति' इत्यन्तग्रन्थेन गुण-पर्यायभेदव्यवस्थापन दिगम्बराभिमतमुपदर्य तत्खण्डनं करोति-तदेतदित्यादिना । 'खकपोलकल्पना
Page #357
--------------------------------------------------------------------------
________________
२९६ अनेकान्तव्यवस्थाप्रकरणम् । पर्यायानतिरेके गुण-स्वभावभेदकल्पनायां प्रमाणाभावात् , सहभावित्वक्रमभावित्वभेदविवक्षया गुण-पर्यायभेदोक्तिसम्भवेऽपि सहभाविनामपि धर्माणामानन्त्याद् यथोक्तेयत्ताक्षतेः, द्रव्यव्यवस्थाहेतोश्चोपयोगादिगुणानां यथासूत्रं प्रत्येकमेव ग्रहणौचित्यात् , स्थूलव्यवहारेण
मात्रम्' इत्यनेन प्रमाणशून्यत्वं सूचितम् । वातूलेति-वातसमूहेन तरलं क्वचिदप्यवस्थितिमलभमानमतिचञ्चलं यदर्कस्य वृक्षविशेषस्य तूलं तत्सदृशम् , युक्तिसमष्टिलक्षणवातसमूहेन शीघ्रमेवानन्तरोपवर्णितं दिगम्बरमतं दूरप्रक्षिप्तं भविष्यतीत्यर्थः । तत्खण्डनयुक्तिमुपढौकयति-गुणानामेवेति । पर्यायानतिरेके पर्यायाभेदे, गुणा यदि पर्यायतो भिन्ना भवेयुः स्यात् तदा तेषां स्वभावभेदकल्पना प्रमाणत उपपन्ना, पर्यायभिन्नानां गुणानां प्रमाणाभावादभावे निराश्रितस्वभावकल्पनाया अपि प्रमाणाभावादसम्भव इत्यर्थः, यदि च सहभाविनो धर्मा गुणाः क्रमभाविनो धर्माः पर्याया इत्येवं गुण-पर्याययोर्भेद इति विभाव्यते तर्हि सहभाविधर्माणामानन्त्यात् तत्स्वरूपाणां गुणानामप्यानन्त्यादुक्तदिशेयत्तया तेषां परिगणनं सुतरामसङ्गतं दिगम्बराणामित्याह-सहभावित्वेति। यो द्रव्यव्यवस्थाहेतुः स गुण इत्यतो जीवादिद्रव्यव्यवस्थाहेतुत्वादुपयोगादिगुणानां प्रत्येकमेव ग्रहणमुचितं भवेत् , तथा च जीवद्रव्यव्यवस्थाहेतुरुपयोगः, पुद्गलद्रव्यव्यवस्थाहेतुः स्पर्शी रूपं वा, धर्मद्रव्यव्यवस्थाहेतुर्गतिहेतुत्वम् , अधर्मद्रव्यव्यवस्थाहेतुः स्थितिहेतुत्वम् , आकाशद्रव्यव्यवस्थाहेतुरवगाहस्वभावत्वम् , कालद्रव्यव्यवस्थाहेतुर्वर्तनेत्येवं कतिपयगुणपरिगणनमेवोचितं न त्वस्तित्वादिगुणानां परिसङ्ख्यानमपि कार्यमित्याह-द्रव्यव्यवस्थाहेतोश्चेति । यथासूत्रमिति" उपयोगलक्षणो जीवः " " रूपिणः पुद्गलाः” [ तत्त्वार्थ० अ० सू० ] इत्यादि सूत्रमनतिकम्येत्यर्थः । यदि च अस्ति, नास्ति, चेतनः, अचेतनः, मूर्तम् , अमूर्तम् , इत्यादिस्थूलव्यवहारेणास्तित्वादीनामभिहितसङ्ख्यकानां ग्रहणं तर्हि यथा 'अस्ति घटः' 'प्रमेयो घटः' इत्यादिव्यवहारस्तथा 'अभिधेयो घटः, पदार्थों घटः, विषयो घटः, भावो घटः' इत्यादिरपि स्थूलव्यवहारः समस्तीत्यभिधेयत्वादीनामपि गुणतया परिगणनमुचितमेव, तत्परित्यागो निर्बीज एव भवेदित्याह-स्थूलव्यवहारेणेति। एवं द्रव्यवृत्तित्वाद् यदि द्रव्यत्वं गुणतया भवद्भिः परिभाष्यते तदा द्रव्यस्य स्वपयोयेण सह कथञ्चिदभेदात् पर्यायत्वमपि द्रव्यवृत्तीति कुतो न तत्तथा परिभाष्यते, तथा सामान्य-विशेषोभयाद्यात्मके द्रव्ये सामान्यत्व-विशेषत्वादिकमपि वर्तत
Page #358
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम्
२९७. यथोक्तसङ्ख्यग्रहणेऽपि प्रमेयत्ववदभिधेयत्वादेरपि त्यागे बीजाभावात् । किश्च, द्रव्यत्वं यदि गुणः, पर्यायत्वं कुतो न गुणः, द्वयोस्तुल्याश्रयत्वात् , एवं सामान्यत्व-विशेषत्वादावपि पर्यनुयोगो विधेयः । वस्तुत्वकुक्षावेव सामान्य-विशेषप्रवेशान्न तदाधिक्यमिति चेत्, वस्तुत्वं यथा सामान्य-विशेषात्मकत्वं तथा द्रव्य-पर्यायात्मकत्वमपि किं न स्यात् , जात्यन्तरात्मके हि वस्तुनि प्रामाणिकसर्वधर्मात्मकत्वं सुवचमेव । किञ्च, स्वभावा अपि गुण-पर्यायातिरिक्ताः के नाम ? ये पृथगुद्दिष्टाः, धर्मापेक्षया स्वभावा गुणा न भवन्तीति ते पृथगुद्दिष्टा इति चेत् ? तत् किं विध्येकनियमितस्वभावा धर्मा गुणाः, विधि-प्रतिषेधान्यतर
इति गुणतया सामान्य-विशेषत्वादीनां ग्रहणं किं न क्रियते इत्याह-किश्चेति । पर्यनुयोगः सामान्यत्व-विशेषत्वादिकं कुतो न गुण इति प्रश्नः । वस्तुत्वं गुणतयोपदर्शितमेव, तच्छरीर एव सामान्य-विशेषोभयं प्रविष्टमिति न सामान्य-विशेषावुपादाय गुणानामाधिक्यमित्युत्तरमाशङ्कते-वस्तुत्वकुक्षावेवेति । तदाधिक्यं सामान्यत्व-विशेषत्वात्मिकगुणाधिक्यम्। यदि वस्तुत्वात्मकगुणशरीरप्रविष्टत्वान्न सामान्यत्व-विशेषत्वयोर्गुणान्तरत्वं तर्हि द्रव्यत्वस्यापि वस्तुत्वशरीरप्रविष्टत्वाद् गुणान्तरत्वं न भवेत् , एवं धर्ममात्रस्यानन्तधर्मात्मकत्वलक्षणशरीरप्रविष्टत्वाद् गुणान्तरत्वं न स्यात् , किन्त्वेकमेव वस्तुत्वं गुणः स्यादिति समाधत्ते-वस्तुत्वं यथेति । कथं द्रव्यपर्यायात्मकत्वं वस्तुत्वमित्यपेक्षायामाह-जात्यन्तरात्मके हीति । गुण-पर्यायव्यतिरिक्तानां स्वभावानामपि प्रमाणत उपपादयितुमशक्यत्वात् तद्विशेषोपवर्णनमपि न सङ्गतमित्याह-किश्चेति । कश्चिद् धर्मः स्वभावः, कश्चित् तु धर्मो गुण इत्येवं धर्मविशेषात्मकस्य स्वभावस्य धर्मविशेषात्मकगुणतो भिन्नत्वमिति शङ्कते-धर्मापेक्षयेति । ते स्वभावाः । पृथगुद्दिष्टाः गुणेभ्यो भिन्नतयाऽभिहिताः। सिद्धान्ती परं पृच्छति-तत् किमिति । विध्येकनियमितेति-येषां धर्माणां विधिरेव भवति, न तु प्रतिषेधस्ते विध्येकनियमितस्वभावा धर्मा गुणाः, येषां तु धर्माणां विधिनिषेधश्च भवतस्ते धर्मा विधि-प्रतिषेधान्यतरनियन्त्रिताः खभावा इत्येवं किं भवतो दिगम्बरस्याभिप्राय इत्यर्थः । य एव भवतोपदर्शितः स एव ममाभिप्राय
Page #359
--------------------------------------------------------------------------
________________
२९८ अनेकान्तव्यवस्थाप्रकरणम् । नियत्रितधर्माः स्वभावा इति भवतोऽभिप्रायः, ओमिति चेत् ? तर्हि चैतन्या-ऽचैतन्यमूर्तत्वा-ऽमूर्तत्वादीनां कथं गुणमध्ये परिगणनयाऽपि स्वभावनययोजनिकाभिहिता सापि न सर्वा सिद्धान्तानुपातिनी, अन्वयद्रव्यार्थिकेनानेकस्वभावत्वयोजनस्याघटमानत्वात्, प्रतीत्यसमुत्पादसमुत्पन्नानेकधर्मस्वभावत्वस्य पर्यायार्थिकेनैव ग्रहणात् , तन्मत एव क्रमिकनानाधर्मग्राहिप्रत्यक्षानन्तरं तेष्वनेकत्वविकल्पोत्पादेन तथा
इति दिगम्बर आह-ओमिति चेदिति । तर्हि अस्तित्व-वस्तुत्व-प्रमेयत्वादीनां सर्वत्र विधेरेव भावाद् भवतु भवदभिप्रायेण गुणत्वं चैतन्यस्यात्मनि विधिः पुद्गलादौ प्रतिषेधः, अचैतन्यस्य पुद्गलादौ विधिर्जीवे प्रतिषेधः, मूर्तत्वस्य पुद्गले विधिः पुद्गलभिन्ने सर्वत्र प्रतिषेधः, अमूर्तत्वस्य धर्मादौ प्रतिषेध इत्येवं विधि-प्रतिषेधान्यतरनियन्त्रितधर्मागां चेतनत्वादीनां स्वभावत्वमेव भवेन्न गुणत्वमिति तेषां गुणमध्ये यत् परिगणनं भवता कृतं तत् कथं सङ्गतं स्यादिति समाधत्ते-तहीति। 'परिगणनयापि' इति स्थाने 'परिगणनम् , यापि' इति पाठो युक्तः । स्वभावनययोजनाऽपि दैगम्बरीया न युक्तेत्याह-याऽपीति । साऽपि स्वभावनययोजनिकाऽपि । कथं न सा सर्वसिद्धान्तानुपातिनीत्यपेक्षायामाह-अन्वयद्रव्यार्थिकेनेति- अन्वयद्रव्यार्थिकेनैकस्याप्यनेकद्रव्यस्वभावत्वमित्येवं स्वभावनययोजनिका याऽभिहिता तस्या अघटमानत्वमनेन दयते । अन्वयद्रव्यार्थिको हि पूर्वापरपर्यायानुगतं द्रव्यमभ्युपगन्तुमर्हति, तत्र पूर्वपूर्वद्रव्येणोत्तरोत्तरं यद् द्रव्यमुत्पद्यते तत् , ततश्च ये समुत्पन्ना धर्मास्ते च पर्यायार्थिकनयगोचरा इति तादृशानेकधर्मस्वभावत्वमपि पर्यायार्थिकेनैव गृह्यते, न तु द्रव्यार्थिकेन, तेन तु ध्रौव्यग्राहिणोत्पादस्य ग्रहणाभावे उत्पन्नधर्मस्याप्यग्रहणादित्याहप्रतीत्येति-मृद्रव्यं प्रतीत्य स्थासस्य समुत्पादः, स्थासं प्रतीत्य कोशस्य समुत्पादः, कोशं प्रतीत्य कुशूलस्योत्पाद इत्येवं यः प्रतीत्यसमुत्पादः, तेन प्रतीत्यसमुत्पादेन समुत्पन्ना ये मृद्रव्यगताः स्थासत्व-कोशत्व-कुशूलत्वादयोऽनेकधर्मास्ते पर्यायनयगोचरा इति तत्स्वभावत्वस्य पर्यायार्थिकेनैव ग्रहणादित्यर्थः पर्यायार्थिकेनैव तथास्वभावत्वयोजनस्य घटमानत्वमावेदयति-तन्मत एवेति-पर्यायार्थिकनयमत एवेत्यर्थः । ऋमिकेति-क्रमोत्पन्ना ये नानाधर्मास्तद्वाहि यत् प्रत्यक्षं तदपि क्रमिकं तदनन्तरम् , तेषु क्रमिकनानाधर्मेषु, अनेकत्वविकल्पस्यानेकत्वप्रकारकविकल्पस्योत्पादेन, तथा व्यपदेशस्य
Page #360
--------------------------------------------------------------------------
________________
२९९
तत्त्वबोधिनीविवृतिविभूषितम् व्यपदेशसम्भवात् , धर्मिण एकत्वप्रतीत्यर्थं तत्रान्वयद्रव्यार्थिकोऽपेक्षणीय इति चेत् ? न-'पत्रस्य नीलता, तैलस्य धारा' इत्यादाविव धर्मिण एकत्वस्याप्यौपचारिकस्य पर्यायार्थिकेनाश्रयणात् । एवं सति एकत्वसापेक्षानेकत्वग्राहकोऽशुद्धपर्यायार्थिकोऽप्यतिरिच्यतेति चेत् ? अतिरिच्यतां नाम नास्माकमनुपपत्तिः, नहि वयं भवानिव दशभेदमेव द्रव्यार्थिक षड्भेदमेव च पर्यायार्थिकं प्रसिद्धनयविलक्षणभेदमभ्युप'इदं द्रव्यं नानाधर्मवद्' इति व्यवहारस्य अस्मिन् द्रव्ये एते नानाधर्माः' इति व्यवहारस्य वा सम्भवादित्यर्थः । ननु यद्यपि नानाधर्माः क्रमोत्पन्नाः पर्यायार्थिकनयगोचरास्तथापि धर्मिद्रव्यं तत्रैकत्वेनावभासमानं द्रव्यार्थिकनयविषय एवेति धर्मिणो द्रव्यस्यैकत्वप्रतिपत्तये द्रव्यार्थिकनयोऽपेक्षणीय इत्येतावता द्रव्यार्थिकेनैकस्मिन् द्रव्यधर्मिण्यनेकस्वभावत्वयोजनं युक्तमेवेति शङ्कते-धर्मिण इति समाधत्ते-नेति । "पत्रस्य नीलत' इति स्थाने 'पत्रस्य नीरन्ध्रता' इति पाठो युक्तः, न ह्येकस्य पत्रस्यातिनिबिडसंयोगलक्षणं नीरन्ध्रत्वं सम्भवति, ततस्तत्र बहुषु पत्रेषूपचरितमेकत्वमुपादाय तथाव्यवहारः, एवं तैलस्य धारेत्यत्राविच्छेदेनानेकतैलक्रियाविशेषलक्षणधारैकस्य तैलस्य सम्भवतीति बहुषु तैलेधूपचरितमेकत्वमुपादाय तथा व्यपदेशः, पत्रस्य नीलतेति पाठप्रामाण्ये तु दूरत उपलभ्यमानेषु हरितधर्मेष्वपि पत्रेषु परस्परातिसान्निध्यप्रयुक्ता नीलताऽवभासते, न तु दूरादपि एकस्मिन् पत्रे प्रतीयमाने तत्र नीलतावगतिरस्तीत्यतस्तदानीं तथा व्यपदेशोऽनेकेषु पत्रेषूपचरितमेकत्वं समात्रित्यैव, तथा प्रकृतेऽपि धर्मिण एकत्वस्याऽप्यौपचारिकस्य पर्यायार्थिकेन समाश्रयणादेकस्मिन् धर्मिण्यनेकत्वस्वभावयोजनं सम्भवतीति न मनागपि द्रव्यार्थिकनयापेक्षेत्यर्थः । नन्वेकत्वस्यान्यनयगोचरस्य पर्यायार्थिकेनाश्रयणे तस्य पर्यायस्य तथा ग्रहणस्याशुद्धत्वेऽशुद्धपर्यायार्थिकनयोऽयं शुद्धपर्यायार्थिनयातिरिक्तः प्रसज्यत इत्याशङ्कतेएवं सतीति-एकस्मिन्ननेकस्वभावत्वयोजनस्य पर्यायार्थिकनयतोऽभ्युपगमे सतीत्यर्थः। समाधत्ते-अतिरिच्यतां नामेति । पर्यायाणां विषयाणामानन्त्यात् पर्यायार्थिकस्यावान्तरभेदा अनन्ता एवेति तत्रायमपि भेदः सम्भवतीति तथाऽभ्युपगच्छतो मम न काचिदनुपपत्तिः, भवांस्तु द्रव्यार्थिकं दशविधमेव पर्यायार्थिकं षडिधमेवेत्येवमभ्युपगच्छतीति तस्य भवत उक्तातिरिक्तपर्यायार्थिकनयप्राप्तौ स्यादेव प्रतिज्ञातानुपपत्तिरित्याशयेनाह-नहीति-अस्य 'अभ्युपगच्छामः' इत्यनेनान्वयः। प्रसिद्धनयविलक्षणभेदं
Page #361
--------------------------------------------------------------------------
________________
३०० अनेकान्तव्यवस्थाप्रकरणम् । गच्छामः, किन्तु यथासम्भवं यथानुभवं च शुद्धान् द्रव्यार्थिकभेदान् सङ्ग्रहे, शुद्धान् पर्यायार्थिकभेदांश्चर्जुसूत्रे, अशुद्धांश्च तान् व्यवहारेऽन्तर्भावयामः, ततश्च न कमपि दोषमासादयामः । यदि चानुपचरितैकस्वभावधर्मिण्यन्वयद्रव्यार्थिकेणैवानेकस्वभावो गृह्यत इत्यभिमानः, तदाऽनुपचरितस्यैव प्राधान्यादेकस्वभाव एवायातः, तथापि आधारांशोलतासामान्यांशभेदाद् ग्राहकग्राह्यभेद इति चेत् ? तर्हि तिर्यक्सामान्यार्थिकेन ग्राहकेण ग्राह्यस्तिर्यक् सामान्यस्वभावोऽप्यधिकः
प्रसिद्धा ये नैगमादयः सप्त नयास्तेभ्यो विलक्षणमतिरिक्तं भेदं नयविशेषम् , ननु भवतामपि उक्ताशुद्धपर्यायार्थिकस्य यदि प्रसिद्धेषु सप्तसु नयेषु नान्तर्भावस्तदाऽतिरिक्तस्य तस्यापत्तितोऽनुपपत्तिः स्यादेव, यदि च तेष्वेवास्यान्तर्भावस्तदा वक्तव्योऽन्तर्भावप्रकार इति पृच्छति-किन्विति । उत्तरयति-यथासम्भवमिति-शुद्धान् द्रव्यार्थिकभेदान् सङ्ग्रहे वयमन्त वयामः, शुद्धान् पयोयार्थिकभेदानृजुसूत्रेऽन्तर्भावयामः, अशुद्धांस्तान् , द्रव्यार्थिकभेदान् पर्यायार्थिकभेदांश्च व्यवहारेऽन्तर्भावयाम इत्यन्वयः, ततश्च इत्थमन्तर्भावतश्च । एकस्मिन् धर्मिण्यनेकस्वभावत्वयोजनायां धर्मिण्येकत्वस्य पर्यायनयगृहीतस्योपचरितस्य न विषयत्वं किन्त्वनुपचरितस्यैवैकत्वस्य द्रव्यनयगोचरीकृतस्य विषयत्वं तर्हि तत्र द्रव्यनयगोचरीकृतोऽनेकस्वभाव उपचरित एव स्यात् , अनुपचरितैकत्ववत्यनुपचरितानेकत्वस्य विरोधाद् द्रव्यार्थिकेनानुपचरितानेकत्वस्यानुपगमाच्च, एवं चोपचरिता-नुपचरितयोर्मध्येऽनुपचरितस्यैव प्राधान्यमित्यनुपचरितैकत्वस्वभावत्वमेव स्यादित्याह-यदि चेति। ननु द्रव्यं यद् धर्मि तदूर्ध्वतासामान्यम्, तत्रानेकधर्मास्तिर्यक्सामान्यम् ,तथा चाधारांशरूपोर्ध्वतासामान्यांशग्राही द्रव्यार्थिकनयोऽप्यूर्ध्वतासामान्यांशरूपः, स द्रव्यैकत्वमनुपचरितं विषयीकरोति, आधेयांशरूपतिर्यक्सामान्यांशग्राही द्रव्यार्थिकनयोऽपि तिर्यक्सामान्यांशरूपः, स धर्मागतानेकत्वं विषयीकरोति, ताभ्यां च द्रव्यार्थिकाभ्यामेकस्मिन् धर्मिण्यनेकधर्मस्वभावत्वयोजना भविष्यतीत्यत आह-तथाऽपीति-ग्राहकग्राह्यभेदाभ्युपगमेऽपीत्यर्थः । अधिक इति -तिर्यक्सामान्यार्थिको नयो भवताऽधिको नोपदर्शितो नापि खभावपरिगणनमध्ये तिर्यक्सामान्यस्वभावोऽपि परिगणित इति तद्विभागस्य न्यूनता भवतः प्रसज्यत
Page #362
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम्
३०१ कल्प्यतामिति, “परिगमणं पज्जाओ अणेगकरणं गुण त्ति तुल्लत्था" [काण्ड० ३, गाथा-१२] इत्यादिसम्मतिमहातर्कवचनानुसारेणानेकस्वभावत्वं पर्यायार्थिकेनैव ग्राह्यमिति प्रतिपत्तव्यमिति किमल्पीयसि क्षोदेन ? . 'परमभावग्राहकेण काल-पुद्गलाणूनामेकप्रदेशस्वभावत्वं भेदकल्पनानिरपेक्षेणेतरेषां च' इत्यादि यदुक्तम् , तदपि चिन्त्यम्भेदकल्पनानिरपेक्षशुद्धद्रव्यार्थिकेन नानाप्रदेशस्वभावस्याप्येकप्रदेशस्वभावव्यवस्थितौ 'धर्मादीनां षोडश स्युः' इत्यस्य व्याघातात्, कथायामत्र नयद्वयावतारेऽपि परमार्थचिन्तायां परमभावग्राहकेणैवैकप्रदेशस्वभावग्रहणे च 'जीव-पुद्गलयोरेकविंशतिः' इत्यस्य व्याघातात् , न हि जीवः कालपुद्गलाणुवत् कदाप्येकप्रदेशः सम्भवति, क्षेत्रतोऽप्यस्यासयेयप्रदेशावगाहनस्वाभाव्यात् । अणूनामेकप्रदेशस्वभावत्वं इत्यर्थः । सम्मतिवचनेनानेकखभावत्वं पर्यायानयग्राह्यमेव प्रतीयत इत्याह-परिगमणं इति-"परिगमनं पर्यायोऽनेककरणं गुण इति तुल्यार्थों" इति संस्कृतम्।अन्यदपि दिगम्बराभिहितमुपन्यस्य प्रतिक्षिपति-परमभावग्राहकेणेति । व्याघातादितिअस्तिस्वभावाद्यकविंशतिखभावेषु चेतनस्वभाव-मूर्तस्वभाव-विभावस्वभावा-ऽशुद्धस्वभावैकप्रदेशस्वभावान् मुक्त्वा षोडश स्वभावा धर्मादीनां त्रयाणां दर्शिताः, इदानीं च भेदकल्पनानिरपेक्षशुद्धद्रव्यार्थिकेनैकप्रदेशस्वभावोऽपि तेषामुपेयत इत्येवं विरोधादित्यर्थः । एवं परमभावग्राहकेणैवैकप्रदेशस्वभावग्रहणे यः स्वभावो यत्र वस्तुतो विद्यते परमभावग्राहको नयस्तत्रैव तं स्वभावं परिच्छिनत्ति, जीवस्य त्वसंख्यातप्रदेशत्वमेव नैकप्रदेशत्वं वस्तुगत्येति परमस्वभावग्राहकेण जीवस्यैकप्रदेशस्वभावो न स्यादेवेति “एकविंशतिभावाः स्युर्जीव-पुद्गलयोर्मताः” इत्यनेन विरोधः स्यादित्याहकथायामिति । अत्र स्वभावे । कथं व्याघात इत्यपेक्षायामाह-नहीति-अस्य 'सम्भवति' इत्यनेनान्वयः । 'क्षेत्रतोऽपि' इत्यपिना स्वरूपतोऽसंख्यातप्रदेशत्वादेव नैकप्रदेशत्वम् , क्षेत्रतस्तु एकप्रदेशत्वं तस्य तदा भवेद् यद्येकस्मिन्नाकाशप्रदेशेऽवगाहनमस्य स्यात् , न चैवम् , असंख्येयाकाशप्रदेशानवगाविास्यावस्थानात् , तथावस्थानं च तस्य तथा स्वाभाव्यादेव व्यवस्थितमित्यर्थः। दिगम्बरः शङ्कते-अणूनामिति
Page #363
--------------------------------------------------------------------------
________________
३०२
अनेकान्तव्यवस्थाप्रकरणम् । वास्तवमेव, तदतिरिक्तपुद्गल-जीवानां तु सङ्कोच-विकासप्रयुक्तच्छेदभेदाप्रतियोगिप्रदेशत्वलक्षणं पारिभाषिकमेव तदिति नातिप्रसङ्ग इति चेत् ? तर्हि तद्ब्रहः प्रदेशार्थनयेनैव, न तु भेदकल्पननिरपेक्षेण, तथा च सोमिलप्रश्ने भगवद्वचनम्-“पएसट्ठयाए अक्खये अहं, अबए अहं” [ भगवती, श० उ० सू०] ति । कथं च 'भेदकल्पनासापेक्षेण चतुर्णामपि नानाप्रदेशस्वभावत्वम्' इति वदस्तन्निरपेक्षे#कप्रदेशस्वभावत्वमपि नाभ्युपेयाः ? देशप्रदेशकल्पनारहितमखण्डैकस्वभावत्वलक्षणमेकप्रदेशस्वभावत्वं च द्रव्यार्थिकेन वदते ते कृतान्तः कथं न कुप्येत् ?, शुद्धपर्यायार्थिकैवम्भूतनयमत एव प्रदेशदृष्टान्ते तादृशवस्तुग्रहणस्या-ऽनुयोगद्वारादिषु व्यवस्थापनात् । अखण्डवस्तुग्राहित्वे सत्येवम्भूतस्य द्रव्यार्थिकत्वं बलादापतेदिति चेत् ? तत् किं तदतिरिक्तपुद्गलेति-अणुभिन्नपुद्गलेत्यर्थः । तत् एकप्रदेशस्वभावत्वम् । समाधत्तेतहीति । तद्हनिरुक्तैकप्रदेशस्वभावत्वग्रहः प्रदेशार्थनयेनैकप्रदेशस्वभावस्याखण्डस्वरूपस्य ग्रहं भवतीत्यत्र भगवतीवचनं संवादकतयोपदर्शयति-तथा चेति। पएसट्टयाए' इति “प्रदेशार्थतयाऽक्षयोऽहमव्ययोऽहम्” इति संस्कृतम्। भेदकल्पनासापेक्षेण नयेन चतुर्णामपि धर्माऽधर्माऽऽकाश-जीवानां नानाप्रदेशस्वभावत्वमित्यभ्युपगच्छन् दिगम्बरो भेदकल्पनानिरपेक्षेणैकप्रदेशत्वं कथं नाभ्युपेयात् , तथा च तत्राखण्डत्वादेकप्रदेशस्वभावत्वाभ्युपगमनं न तु वस्तुगत्यैकप्रदेशवत्वेनेत्यभिसन्धिस्तस्य न सङ्गतः स्यादित्याह-कथं चेति-अस्य 'नाभ्युपेया' इत्यत्रान्वयः 'वदन्' इत्यन्तरं त्वम्' इति दृश्यम् , ते तुभ्यं दिगम्बरायेति यावत् । कृतान्तः सिद्धान्तः, कथं न कुप्येत्, अपि तु कुप्येदेव, यमप्रतिपादककृतान्तशब्देन सिद्धान्तस्याभिधानेन धर्मराजो यथा निषिद्धाचरणेन धर्मविलोपकाय कुप्यति, तत्कोपफलं नरकादिषु निपातनम् , यथा जिनाज्ञालक्षणसिद्धान्तविराधकत्वेन परीक्षकनिकरान्निष्कासनादिकमिति ज्ञाप्यते, सिद्धान्तविरुद्धभाषित्वेन तं प्रति सिद्धान्तस्याकोप इत्यावेदनायाह-शुद्धति । तादृशेति-देश-प्रदेशकल्पनारहिताखण्डैकखभावेत्यर्थः । एवम्भूतस्याखण्डवस्तुग्राहित्वमसहमानो दिगम्बरः शङ्कते-अखण्डेति । समाधत्ते-तकिमिति। तेन सिद्धान्त
Page #364
--------------------------------------------------------------------------
________________
३०३
तत्त्वबोधिनीविवृतिविभूषितम् दिक्पटडिम्भ ! कृतान्तेन सह योद्भुमुद्यतोऽसि ?, न जानीषे सर्वतो बलवता तेन स्वप्रतिकूलवर्तिनः कस्य बलं न भग्नं, धर्मास्तिकायादिप्रदेशानां देश-प्रदेशादिकल्पनाराहियेनैकग्रहणगृहीतत्वमेव तन्मतेऽखण्डत्वं स्खलक्षणविलक्षणघटादिपरमाणुष्विव पुञ्जत्वमिति न पर्यायार्थिकत्वभङ्गो न वा द्रव्यर्थिकत्वापत्तिरिति निःशङ्क प्रतिपद्यस्व । एवमन्यदपि चिन्त्यमुपयुज्य चिन्तनीयम् । 'गुणविकाराः पर्यायाः ?' इत्युद्दिश्य द्रव्यपर्यायानपि तन्मध्ये विभजता देवानां प्रियेणोदेशविभाग
कृतान्तेन सिद्धान्ते एवम्भूतनये यादृशाखण्डत्वविषयकत्वे न पर्यायार्थिकत्वभङ्गो न वा द्रव्यार्थिकत्वहानिस्तादृशाखण्डत्वमुपदर्शयति-धर्मास्तिकायादिप्रदेशानामिति । एकग्रहणगृहीतत्वलक्षणाखण्डत्वाभ्युपगमे तादृशाखण्डत्वं न स्वलक्षणम् , तथा चैवम्भूतनये स्वलक्षणमात्रवस्त्वभ्युपगन्तृत्वमेवेति यत् पर्यायार्थिकत्वव्यवस्थापकं तत्प्रच्युत्या पर्यायार्थिकत्वहानिर्द्रव्यार्थिकत्वापत्तिश्च यथा न भवति तथोपपत्तये दृष्टान्तमुपदर्शयति-घटादिपरमाणुष्विव पुञ्जत्वमिति । स्वलक्षणविलक्षणघटादि परमाणुष्विव इति स्थाने 'स्वलक्षणविलक्षणं घटादिपरमाणुष्विव' इति पाठो युक्तः, 'स्वलक्षणविलक्षणम्' इति तु 'अखण्डत्वम्' ति पूर्वस्मिन् 'पुञ्जत्वम्' इत्युत्तरस्मिंश्चान्वेति घण्टालोलन्यायेन, स्वलक्षणाश्च ते विलक्षणाश्च स्वलक्षणविलक्षणाः, स्खलक्षणविलक्षणाश्च घटादिपरमाणवश्च खलक्षणविलक्षणघटादिपरमाणवः, तेषु पुजत्वमिव निरुक्तमखण्डत्वमित्यन्वयार्थस्य सम्भवेऽपि तत्कथनतः कथं पर्यायार्थिकत्वभङ्गस्य प्राप्तिस्तद्धानिनिमित्तप्रकारावगतिस्तथा द्रव्यार्थिकत्वप्रसङ्गस्य प्राप्तिस्तद्धानिनिमित्तप्रकारावगतिरत एतादृशं कथनं कथनमात्रं, स्यान्न तु किञ्चिदर्थोपोद्बलकमतस्तत्स्थाने यः पाठोऽभिहितः स एव युक्त इति बोध्यम् । चिन्त्यं चिन्ताविषयं वस्तु अन्यदपि दिगम्बरस्य प्रलपनमज्ञानविजृम्भितमित्याह-गुणविकारा इति । तन्मध्ये गुणविकारपर्यायमध्ये । विभजता विभावद्रव्यव्यञ्जनपर्याया जीवस्य नर-नारकादय इत्यादिविभागं कुर्वता। यस्यैवोद्देशस्तस्यैव विभागो युक्तः, दिगम्बरोक्तौ च गुणपर्यायस्योद्देशो विभागश्च द्रव्यपर्यायस्यापीत्येवमुद्देश-विभागविरोधः स्फुटोऽपि दिगम्बरेण न ज्ञात इति महदज्ञानविजम्भित
Page #365
--------------------------------------------------------------------------
________________
३०४
अनेकान्तव्यवस्थाप्रकरणम् । विरोध एव किं न ज्ञातः ? न च पर्यायाणां गुणविकारत्वं सूत्रसिद्धम् , अपि तु-"अणंतेहिं वण्णपज्जवेहिं अणंतेहिं गंध-रसफास-संठाणपज्जवेहिं अणंतेहिं गुरुअलहुअपज्जवेहिं अणंतेहिं अगुरुलहुअपज्जवेहिं" [
] इत्यादिसूत्रपाठदर्शनाद् गुणरूपत्वमेव तेषां सिद्धमिति किमुत्सूत्रविस्पन्दितेन ? । किञ्च, किं नाम गुणविकारत्वम् , किं गुणोपादेयत्वम् १, उत गुणाव्यवहितोत्तरक्षणोपजायमानत्वम् २, आहोस्विद् गुणजातीयत्वे सति कार्यत्वम् ३, किं वोत्कर्षा-ऽपकर्षशालिगुणपरिणामत्वम् ४, यद्वा द्रव्यक्षेत्रादिसन्निधानकृतवैलक्षण्यशालिगुणपरिणामत्वम् ५, नाद्यः-गुणोपादेयपर्यायाप्रसिद्धेः, गुणस्य पर्यायोपादानत्वे द्रव्योच्छेदप्रसङ्गात् , द्रव्यं गुणपर्यायोभयोपादानं गुणास्तु पर्यायाणामेवोपादानानीति न द्रव्यमुच्छेत्स्यत इति चेत् ? न-एकस्योभयोपादानत्वे विरोधाभावादतिमिति 'देवानांप्रियेण' इत्युक्त्या सूच्यते पर्यायाणां गुणविकारत्वकथनमप्युत्सूत्रमित्याह-न चेति-अस्य 'सूत्रसिद्धम्' इत्यनेनान्वयः। यदि पर्यायाणां गुणविकारत्वं न सूत्रसिद्धं तर्हि तस्य किं सूत्रसिद्धमिति पृच्छति-अपि त्विति । अणंतेहिं० इति "अनन्तैर्वर्णपर्यवैरनन्तैर्गन्ध-रस-स्पर्श-संस्थानपर्यवैरनन्तैर्गुरुकलघुकपर्यायैरनन्तैरगुरुलघुकपर्यवैः” इति संस्कृतम् । तेषां पर्यायाणाम् । किञ्च दिगम्बरो गुणविकारत्वं निर्वक्तुमपि न समर्थ इत्यावेदनायाह-किश्चेति । नाद्य इति-गुणोपादेयत्वं गुण. विकारत्वमिति प्रथमकल्पो नोपपन्न इत्यर्थः। द्रव्योच्छेदप्रसङ्गादिति-पर्यायोपादानतयैव द्रव्यमुपेयते, यदि पर्यायोपादानं गुण एव न तर्हि किञ्चिद् द्रव्यमित्येवं द्रव्योच्छेदः स्यादित्यर्थः । द्रव्योच्छेदप्रसङ्गपरिहारमाशङ्कते-द्रव्यमिति । गुणपर्यायोभयोपादानत्वं द्रव्यस्य लक्षणम् , पर्यायमात्रोपादानत्वं गुणस्य लक्षणमित्येवं लक्षणभेदान्न द्रव्यस्योच्छेदप्रसङ्ग इत्युक्तशङ्कार्थः । यदेव पर्यायोपादानं तदेव गुणपर्यायोभयोपादानमप्यस्तु, नात्र कश्चिद् विरोध इति लाघवमेतत्पक्षसाधकम् , पर्यायोपादानमन्यदन्यच्च गुण-पर्यायोभयोपादानमिति कल्पने गौरवमेव बाधकमतो न गुणोपादेयः पर्यायः किन्तु द्रव्योपादेय एवेति न गुणविकारत्वं गुणोपादानत्वरूपमित्यर्थः ।
Page #366
--------------------------------------------------------------------------
________________
तत्वबोधिनीविवृतिविभूषितम्
रिक्तोपादानकल्पने गौरवस्यैव बाधकत्वात्, अन्यथा केवल पर्यायोपादानवत् केवलगुणोपादानमपि किश्चित् कल्पनीयं स्यात् १ । न द्वितीयः - गुणस्य द्रव्यवदविचलितैकस्वभावत्वे तदव्यवहितोत्तरक्षणाप्रसिद्धेः, न च तदव्यवहितोत्तरक्षणोपजायमानत्वेन तद्विकारत्वं च वक्तुमपि शक्यम्, घटाव्यवहितोत्तरक्षणोपजायमानस्य पटादेर्घटविकारत्वव्यवहारप्रसङ्गात् २ । न च तृतीयः - शुद्धात्मद्रव्यव्यञ्जनपर्याये शुद्ध पुद्गलद्रव्यव्यञ्जनपर्याये च गुणजातीयत्वाभावात् ३ । नापि तुरीयः - अनन्तचतुष्टयादिस्वभावगुणव्यञ्जनपर्यायाणां स्वरूपेणोत्कर्षापकर्षशालित्वा
२०५
अन्यथा गुण- पर्यायोभयोपादानतः केवलपर्यायोपादानस्य भेदाभ्युपगमे । गुणाव्यवहितोत्तरक्षणोपजायमानत्वं गुणविकारत्वमिति द्वितीयपक्षोऽपि न युक्त इत्याह-न द्वितीय इति तदधिकर णक्षणध्वंसाधिकर णक्षणध्वंसांनधिकरणत्वे सति तदधिकरणक्षणध्वंसाधिकरणत्वं तसाधिकरणक्षणध्वंसानधिकरणत्वे सति तसाधिकरणत्वं वा तदव्यवहितोत्तरत्वं द्रव्यस्येव नित्यस्य गुणस्य न संभवति, सर्वस्यैव क्षणस्य गुणाधि - करणक्षणध्वंसाधिकर णत्वाद् गुणध्वंसाप्रसिद्धेश्चेति तदव्यवहितोत्तरक्षणाप्रसिद्धेरिति निषेधहेतुमुपदर्शयति-गुणस्येति । घटाव्यवहितोत्तरक्षणोपजायमानोऽपि पटादिर्न घटविकार इति व्यभिचारेण यत्र यदव्यवहितोत्तरक्षणोपजायमानत्वं तत्र तद्विकारत्वमिति नियमासम्भवेन गुणाव्यवहितोत्तरजायमानत्वेनापि न गुणविकारत्वसिद्धिरित्याह-न चेति- - अस्य 'शक्यम्' इत्यनेनान्वयः । गुणजातीयत्वे सति कार्यत्वं गुणविकारत्वमिति तृतीयपक्षोऽपि न सङ्गत इत्याह-न च तृतीय इति । शुद्धात्मद्रव्यव्यञ्जनपर्याय- शुद्धपुद्गलद्रव्यव्यञ्जनपर्यायौ पर्यायत्वेन सम्मतौ भवतोऽपि, न च तौ निरुक्तपर्यायत्वलक्षणाक्रान्तौ तयोर्गुणजातीयत्वाभावादिति निषेधहेतुमाह-शुद्धात्मेति । उत्कर्षा ऽपकर्षशालिगुणपरिणामत्वं गुणविकारत्वमिति तुरीयपक्षोऽपि न रमणीय इत्याह- नापि तुरीय इति । अत्राप्यनन्तचतुष्टयादिस्वभावगुणव्यञ्जनपर्यायेषु व्यभिचारेणोक्तनियमासम्भवादिति निषेधहेतुमुपदर्शयति - अनन्तेति । द्रव्य-क्षेत्रादिसन्निधानकृतवैलक्षण्यशालिगुणपरिणामत्वमपि पर्यायलक्षणं द्रव्यपर्यायेsव्याप्तेर्न सम्भवति, किन्तु तत्र गुणपदोपादानमकृत्वा द्रव्यक्षेत्रादिसन्निधानकृतवैलक्षण्यशालिपरिणामत्वं विकारत्वम्, तदेव पर्यायत्वमिति यदि क्रियेत तदेदमपि
अ. व्य. २०
Page #367
--------------------------------------------------------------------------
________________
३०६
अनेकान्तव्यवस्थाप्रकरणम् ।
भावात् ४ । नापि पञ्चमः - द्रव्यपरिणामे गुणपरिणामत्वायोगेन द्रव्यपर्यायासङ्ग्रहात्, गुणपदपरित्यागेनैव लक्षणकरणौचित्यात् ५ । गुणा एव हि पर्यायाः, ते च द्रव्यस्यैवावस्थाविशेषाः, अत एव केवलज्ञानात्मक पर्यायोऽपि षष्टिवर्षायुषस्त्रिंशद्वर्षीयराज्य पर्यायसदृशः सम्म तौ प्रतिपादितः, तेन द्रव्य-गुणपर्याययोर्जात्या भेदाभिधानमयुक्तम् । एतेन “पर्यायाश्चतुर्विधाः - समानजातीयद्रव्यपर्याया द्व्यणुकाणुकादयः १, विजातीयद्रव्यपर्याया मनुजादयः २, स्वभावगुणपर्यायाः केवलज्ञानादयः ३, विभावगुणपर्यायाश्च मत्यादयः ४” इति प्रवचनसारवृत्तौ पर्यायविभागं कुर्वन्नमृतचन्द्रोऽप्यपास्तः, द्रव्य-गुणपर्याययोर्जात्या भेदाभावात्, केवलज्ञानादिपर्यायाणां सादिनित्यानामपि भवस्थ-सिद्धद्रव्यावस्थाभेदेनैव वैलक्षण्यस्य त्रैलक्षण्यस्य शास्त्रे व्यवस्थापनात् । किन, अस्मिन् विभागे विभागजपर्यायः परमाण्वादि: कुत्रान्तर्भावनीयः ? न चासौ पर्यायो नास्त्येवेत्याशङ्कनीयम् ।
wwww
लक्षणं सम्भवत्येवेत्याह-नापि पञ्चम इति । जात्या द्रव्य - गुणपर्याययोर्भेदाभिधानमपि परस्य न युक्तमित्या वेदनायाह - गुणा एवेति । ते च गुणस्वरूपाः पर्यायाश्च । गुणात्मकपर्यायस्य द्रव्यावस्थाविशेषरूपत्वे सम्मतिसम्मतिमाह-अत एवेति-गुणात्मकपर्यायाणां द्रव्यावस्थाविशेषत्वादेवेत्यर्थः । तेन केवलज्ञानात्मकगुणपर्यायस्य राज्यपर्यायसदृशत्वेन । 'एतेन' इत्यस्य 'अपास्तः' इत्यनेनान्वयः । 'एतेन' इत्यतिदिष्टमेवापासनहेतुमुपदर्शयति-द्रव्य-गुणपर्याययोरिति । भवस्थेति - केवलज्ञानादिपर्याया भवस्थतादशायामपि वर्तन्ते सिद्धावस्थायामपि विद्यन्ते इति केवलज्ञानादिपर्यायत्वेन तेषामभेद एव, किन्तु भवस्थतादशायां ते भवस्थजीवद्रव्यावस्थासिद्धतादशायां तु सिद्धजीवद्रव्यावस्था इत्येवं भेदेन तेषां वैलक्षण्यस्य उत्पाद-व्ययः ध्रौव्यात्मकत्रैलक्षण्यस्य च शास्त्रे व्यवस्थानादित्यर्थः । सामान्यतः स्वभाव-विभावभेदेन पर्यायाणां द्वैविध्यमुपदर्यावान्तरपर्यायविभजनं द्वादशधाऽष्टधा च यत् कृतं तदपि न समीचीनमित्याह-किश्चेति । अस्मिन् विभागे 'ते द्वेधा स्वभाव-विभावभेदाद्’
Page #368
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् ३०७ "अणु-दुअणुएहिं दवे, आरद्धे तिअणुयं ति ववएसो। तत्तो य पुण विभत्तो, अणुत्ति जाओ अणू होइ ॥"
[सम्मतिकाण्ड० ३, गाथा-३९] : इत्यादिग्रन्थेन सम्मतौ तद्व्यवस्थापनात् । "एगत्तं च पुहुत्तं च, संखा संठाणमेव य।। संयोगो य विभागो य, पजवाणं तु लक्खणं ॥ १३ ॥” इति
. [उत्तराध्ययने अ० २८, गाथा-१३] पारमर्षे एकत्व-पृथक्त्वादीनां पर्यायलक्षणानां व्यक्त्या परिगणितानां परमाणुपर्यायव्यवस्थापकत्वात् , अत एव धर्मास्तिकायादीनामप्येकत्विकोत्पादमपेक्ष्य शुद्धपर्यायाणामिव परसंयोगजपर्यायाणामशुद्धानामपि सत्त्वं ध्रुवम् । "आगासाइआणं तिण्णं परपञ्चओऽणियमा"॥
[सम्मतिकाण्ड० ३, गाथा-३३] इत्यादिग्रन्थेन कृते पर्यायविभागे। ननु विभागजपर्यायः परमाण्वादिर्नास्त्येवेति तदन्तर्भावविचारणा काकदन्तपरीक्षावद् - विफलैवेत्याशय प्रतिक्षिपति-न चेति-अस्य 'आशङ्कनीयम्' इत्यनेनान्वयः। असौ विभागजपर्यायः। प्रतिक्षेपहेतुमाह-अणु इति"अणु-ध्यणुकाभ्यां द्रव्ये आरब्धे त्र्यणुक इति व्यपदेशः । ततश्च पुनर्विभक्तोऽणुरिति जातोऽणुर्भवति" इति संस्कृतम् । तद्व्यवस्थापनात् विभागजपर्यायपरमाणुव्यवस्थापनात् । उत्तराध्ययनेऽपि परमाणुपर्यायव्यवस्थापनं समस्तीत्याह-एगत्तं चे० इति-“एकत्वं च पृथक्त्वं च संख्या संस्थानमेव च । संयोगश्च विभागश्च पर्यायाणां तु लक्षणम्” ॥ इति संस्कृतम् । अत एव विभागजपरमाण्वादिपर्यायसद्भावादेव । एकत्विकोत्पाद वैश्रसिकोत्पादम् । धर्मास्तिकायादीनां परसंयोगजपर्ययसद्भावे सम्मतिस्वारस्यं दर्शयति-आगासाइआणं० इति-"आकाशादिकानां त्रयाणां परप्रत्ययोऽनियमात्" इति संस्कृतम् । सम्मतिप्रतीके सम्मतिगाथैकदेशे। अस्याभिप्रायस्य विभागजादिपर्यायसद्भावविषयकाभिप्रायस्य । धर्मादिषूक्तदिशाऽशुद्धपर्यायसद्भाववदशुद्धस्वभावस्यापि सम्भवेन स्यात्काराङ्कितस्य तस्याप्युपदेशो न्याय्यः, स च
Page #369
--------------------------------------------------------------------------
________________
३०८
अनेकान्तव्यवस्थाप्रकरणम् ।
इति सम्मतिप्रतीकेऽनियमादित्यकारप्रश्लेषेण व्याख्यानेऽस्याभिप्राय
wwwwww
स्यैव लाभात् । इत्थं चाशुद्धस्वभावोऽपि धर्मादिषु स्यात्कारसंवलितः किं नोपदिश्यते ?, धर्मादिषु परसंयोगजाः पर्याया उपचरिता एव न वशुद्धा इति चेत् ? आत्मनि मनुजादयः पर्याया अप्यसभूता एव न त्वशुद्धा इति शब्दमात्रेण किं नापलापः क्रियते ?, शेषाशुद्धस्वभावकार्यस्य विभावस्वभावादेव सम्भवादिति द्रव्य-पर्यायातिरिक्तगुणस्वभावप्रक्रिया दैगम्बरी न विचारसहेति दिग् ॥
mmmmm
ननु पर्यायातिरिक्तगुणाभावेऽपि युगपदयुगपद्भाविपर्यायविशेषप्रतिपिपादयिषया वाचकमुख्यानां " गुण- पर्यायवद् द्रव्यम् ।”
[ तत्त्वार्थे अ०५, सू० ३७. ]
mmm.
दिगम्बरेण नोपदिष्ट इति तत्स्वभावानामाकलनमज्ञानमूलक मेवेत्याह-इत्थं च उक्तदिशा धर्मादीनां परसंयोगजपर्याणामशुद्धानां सिद्धौ च । धर्मादिषु परसंयोगजाः पर्याया असन्त एवोपचरिता न त्वशुद्धा इति दिगम्बरः शङ्कते - धर्मादिष्विति । एवं सति मनुजादयोऽपि पर्याया आत्मन्युपचरिता एव न त्वशुद्धा इत्यपि किं न स्यात् ? तथा च आत्मनोऽशुद्धखभावतया मनुजादीनामुपवर्णनं कथं नासङ्गतं स्यादिति समाधत्ते - आत्मनीति । तथा चात्मनि कोऽप्यशुद्धस्वभावोऽपि नाङ्गीकरणीयः स्यात्, तत्कार्यस्य विभावस्वभावत एवोपपत्तेरित्याह- शेषाशुद्धस्वभावकार्यस्येति । दिगम्बरमतखण्डनमुपसंहरति- इति द्रव्य-पर्यायातिरिक्तेति । इति उपदर्शितयुक्तिस्तोमरूपकारणात्
तटस्थः शङ्कते - नन्विति । पर्यायातिरिक्तगुणाभावे " गुण-पर्यायवद् द्रव्यम्” [ तत्त्वार्थे, अ०५, सू० ३७ ] इति सूत्रे 'पर्यायवद् द्रव्यम् इत्येव प्रणयनमुचितं स्यादित्याशङ्काशङ्कुसमुद्धारायाह-युगपदयुगपद्भावीति । तस्मिन् सूत्रे, गुणपदेन युगपद्भाविपर्याग्रहणं पर्यायपदेन चायुगपद्भाविपर्यायग्रहणमिति तदुभयोपादानं युक्तमेवेत्यभिसन्धिः । यदि पर्यायो द्रव्यादभिन्न एव तदा पर्यायवत्त्वं द्रव्यस्य न भवेदतो द्रव्य-पर्याययोर्भेद एव मतुप्प्रत्ययबलादुक्तसूत्रेणापद्यत इत्याह- मतु
Page #370
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् . ३०९ .. इति सूत्रप्रणयनस्य युक्तत्वेऽपि मतुब्योगाद् द्रव्य-पर्याययोर्भेदापत्तिरिति चेत् ? न-नित्ययोगे मतुपो विधानात् , यथाहि-एकस्यैव पुरुषस्य पितृ-पुत्रादिसम्बन्धविशेषेण पुत्रादिनानारूपत्वं तथैकस्यैव द्रव्यस्य चक्षु-रसनादिग्राह्यतया रूप-रसादिपरिणतिभेद इति न द्रव्य-गुणयोरन्यत्वम् , आह च महामतिः- ... . ...
"पिउ-पुत्त-णत्तु-भाणिज-भाऊणं एगपुरिससंबन्धो। . ण य सो एगस्स पिय त्ति सेसयाणं पिया होइ ॥ जह सम्बन्धविसिट्ठो, सो पुरिसो पुरिसभावणिरइसओ। तह दव्वमिंदियगयं, रूवाइविसेसणं लहइ ॥” ..
[सम्मतिकाण्ड० ३, गाथा-१७,१८] - पितृ-पुत्र-नप्तृभागिनेय-भ्रातृभिर्य एकस्य पुरुषस्य सम्बन्धः,
बयोगादिति। समाधत्ते-नेति-भेदप्रतिपत्त्यर्थं न तत्र मतुपो विधानं किन्तु युगपदयुगपत्पर्यायाभ्यां सदा सम्बद्धमेव द्रव्यमित्यक्गतय एव मतुपो विधानादित्यर्थः । एवमपि कथञ्चिदन्यत्वं तयोः स्यादित्यत्रेष्टापत्तिरेवत्याह-यथाहीति-यथा खरूपत एक एव पुरुषः पितुर्जन्यत्वसम्बन्धेन सम्बन्धित्वात् पुत्र इति, पुत्रस्य च जनकत्वसम्बन्धेन सम्बन्धित्वात् पितेति, मातुलस्य स्वभगिनीजन्यत्वसम्बन्धेन सम्बन्धित्वाद् भागिनेय इति, भागिनेयस्य स्वमातृपितृजन्यत्वसम्बन्धेन सम्बन्धित्वान्मातुल इत्येवं नानारूपत्वं प्रतिपद्यते, तथैकमेव द्रव्यं चक्षुर्ग्राह्यत्वाद् रूपमिति, रसनग्राह्यत्वाद् रस इति, घ्राणग्राह्यत्वाद् गन्ध इति, • त्वगिन्द्रियग्राह्यत्वात् स्पर्श इत्येवं नानारूपत्वं प्रतिपद्यत इत्येवं भिन्नाभिन्नस्वरूपं द्रव्यं न तु द्रव्यगुणयोः सर्वथाऽन्यत्वमित्यर्थः । उक्तार्थे सूरिप्रवरवादिप्रकाण्डश्रीसिद्धसेनदिवाकरवचनसंवादमाहआह च महामतिरिति-पिउ० इति-पितृ-पुत्र-नप्तृभागिनेय-भ्रातृभिः एक पुरुषसम्बन्धः । न च स एकस्य पितेति शेषाणामपि पिता भवति ॥१॥ “यथा सम्बन्धविशिष्टोऽसौ पुरुषः पुरुषभावनिरतिशयः । तथा द्रव्यमिन्द्रियगतं रूपादिविशेषणं लभते" ॥२॥ इति संस्कृतम् । विवृणोति-पितृ-पुत्रेतिः । तेन तत्वत्सम्बन्ध
Page #371
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् । तेनासावेक एव पित्रादिव्यपदेशमासादयति, न चासावेकस्य पिता पुत्रः संवृत्त इति शेषाणामपि पिता भवति, यथा प्रदर्शितसम्बन्धविशिष्टः पित्रादिव्यपदेशमाश्रित्यासौ पुरुषरूपतया निरतिशयोऽपि संस्तथा द्रव्यमपि घ्राण-रसन-चक्षुस्त्वक्-श्रोत्रसम्बन्धमवाप्य गन्ध-रसरूप-स्पर्श-शब्दव्यपदेशमात्रं लभते द्रव्यस्वरूपेणाविशिष्टमपि, नहि शक्रेन्द्रादिशब्दभेदाद् गीर्वाणनाथस्येव रूपादिशब्दभेदाद् वस्तुभेदो युक्तः, न चैवं पित्रादिवद् घटादेरपि सावधिकत्वप्रसङ्गः, पित्रादिव्यवहारस्येव रूपादिव्यवहारस्य सावधिकत्वेऽपि वस्तुनोऽतथात्वात् । न च चक्षुग्राह्यताविशिष्टद्रव्यस्य रूपादित्वे ग्राह्यतायाः शक्तिरूपाया अतीन्द्रियत्वेन रूपाद्यतीन्द्रियतापत्तिः, विशेषणाप्रत्यक्षत्वेऽपि विशेष्यविधया तत्प्रत्यक्षत्वसम्भवात् , शक्तिभेदाच्च न चाक्षुषादिज्ञानसङ्कर इति दिक्॥ विशेषेण । असौ पुरुषः, एवमग्रेऽपि । 'नहि' इत्यस्य ‘युक्तः' इत्यनेन सम्बधः । गीर्वाणनाथस्येवेति-गीर्वाणनाथस्य देवाधिनाथस्येन्द्रस्य यथा भेदो न युक्तस्तथेत्यर्थः । ननु पुरुषदृष्टान्तेनैकस्य नानाशब्दव्यपदेशत्वाभ्युपगमे दृष्टान्ते यथा सावधिकत्वं पुत्रापेक्षया पितृत्वं पित्रपेक्षया पुत्रत्वमित्यादि तथा दार्टान्तिकेऽपि द्रव्ये सावधिकत्वं स्यादित्याशङ्कय प्रतिक्षिपति-न चैवमिति । पुरुषेऽपि पित्रादिस्वरूपं न सावधिकं किन्तु पित्रादिव्यवहार एव, तथा द्रव्येऽपि घटादौ रूपादिव्यवहारः सावधिक इष्ट एवेति प्रतिक्षेपहेतुमुपदर्शयति-पित्रादीति । अतथात्वात् । सावधिकत्वाभावात् । ननु चक्षुर्ग्राह्यताविशिष्टं द्रव्यं यदि रूपं तदा चक्षुर्ग्राह्यतायाः शक्तिरूपाया अतीन्द्रियत्वेन चक्षुर्जन्यप्रत्यक्षाविषयत्वे तद्विशिष्टद्रव्यात्मकरूपस्यापि चक्षुजेन्यप्रत्यक्षविषयत्वं न स्यात् , एवं रसनग्राह्यताविशिष्टद्रव्यस्वरूपरसस्यापि रसनेन्द्रियजन्यप्रत्यक्षविषयत्वं न भवेत् , एवं गन्धादेरपीत्याशय प्रतिक्षिपति-न चेति । चक्षुहिताविशिष्टद्रव्यस्य इति स्थाने 'चक्षुर्ग्राह्यताविशिष्टद्रव्यादेः' इति पाठो युक्तः, आदिपदाद् रसनग्राह्यताविशिष्टद्रव्यादेः परिग्रहः। निषेधहेतुमुपदर्शयति-विशेषणाप्रत्यक्षत्वेऽपीति-चक्षुर्ग्राह्यतादिरूपविशेषणस्याप्रत्यक्षत्वेऽपीत्यर्थः । विशेष्य. विधया विशेष्यं यद् द्रव्यं तद्रूपतया। तत्प्रत्यक्षत्वसम्भवात् चक्षुर्ग्राह्यता
Page #372
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् ३११ नन्वेवं द्रव्याद्वैतैकान्तसिद्धेः कथश्चिद्भेदा-ऽभेदवादो द्रव्य-गुणयोरघटमानः स्यादिति चेत् ? न-रूपादीनां गुणभेदेन व्यवहारोपपत्तावपि द्रव्याविशेषेऽपि तद्विशेषदर्शनेन भेदस्यापि सम्भवात् , आह च
“होज्जाहि दुगुणमहुरं, अणंतगुणकालयं तु जं दव्वं । ण उ डहरओ महल्लो व्व होइ संबंधओ पुरिसो ॥"
[सम्मतिकाण्ड ३, गाथा-१९] यदि नामाम्लादिद्रव्यमेव रसनसम्बन्धाद् रस इति व्यपदेशमात्रमासादयेत् , द्विगुणमधुरं रसनतो कुतो भवेत् , तथा नयनसम्बन्धाद् यदि नाम कृष्णमिति भवेदनन्तगुणकृष्णं तत कुतः स्यात्, वैषम्यभेदावगतेर्नयनादिसम्बन्धमात्रादसम्भवात् , तथा पुत्रादिसम्बन्धद्वारेण विशिष्टद्रव्यादेः प्रत्यक्षत्वसम्भवात् । शक्तिभेदाच चक्षुर्गाद्यतादिलक्षणशक्तिभेदाच्च । न चाक्षुषादिज्ञानसङ्करः यद्विषयं चाक्षुषज्ञानं तद्विषयमेव रासनादिज्ञानमिति विषयैक्यनिबन्धनं यत् साङ्कये तन्न, चाक्षुषज्ञाने चक्षुग्राह्यताविशिष्टस्य द्रव्यस्यावभासनं रासनादिज्ञाने रसनग्राह्यताविशिष्टद्रव्यादेरवभासनमित्येवं विषयभेदसम्भवादित्यर्थः । ननूक्तदिशैकस्यैव द्रव्यस्य रूप-रसादिनानावरूपत्वे द्रव्याद्वैतैकान्तवाद एव समर्थितः स्यात्, तथा च द्रव्यगुणयोः कथञ्चिद्भेदाभेदवादः स्याद्वादिनां भवतामसङ्गत एव स्यादित्याशङ्कते-नन्वेवमिति । समाधत्ते-नेति। गुणभेदेन द्विगुणमधुराऽनन्तगुणकृष्णेत्येवं गुणभेदेन व्यवहारोपपत्तावपि द्रव्यस्यैकत्वेऽपि 'इदं द्रव्यं द्विगुणमधुरमनन्तगुणकृष्णम्' इत्यादिव्यवहारोपपत्तावपि । द्रव्याविशेषेऽपि पुरुषद्रव्यस्यैकत्वेऽपि । तद्विशेषदर्शनेन पिता पुत्रो मातुलो भागिनेयः' इत्येवं विशेषस्य दर्शनेन । मेदस्यापि द्रव्य-गुणयोर्भेदस्यापि । उक्तार्थे सम्मतिसंवादमाह-आह चेति । होजाहिक इति “भवेद् द्विगुणमधुरमनन्तगुणकृष्णं तु यद् द्रव्यम् , न त्वल्पो महान् वा भवति सम्बन्धतः पुरुषः ॥” इति संस्कृतम् । विवृणोति-यदि नामेतितद्रव्यम्। उक्तप्रश्नप्रतिविधानाय यदि द्रव्याद्वैतवादी विशेषप्रतिपत्तेरुपचारितत्वं
Page #373
--------------------------------------------------------------------------
________________
३१२ अनेकान्तव्यवस्थाप्रकरणम् । पित्रादिरेव पुरुषो भवेन्न त्वल्पो महान् वेति युक्तः, विशेषप्रतिपत्तेरुपचरितत्वे मिथ्यात्वे वा सामान्यप्रतिपत्तावपि तथाप्रसक्तरिति भावः ॥ अत्राहैकान्ताभेदवादी
"भण्णइ संबंधवसा, जइ संबंधित्तणं अनुमयं ते । नणु संबंधविसेसे, संबंधिविसेसणं सिद्धं ॥"
. [सम्मतिकाण्ड० ३, गाथा-२०] सम्बन्धसामान्यवशाद् यदि सम्बन्धित्वसामान्यमनुमतं तव, ननु सम्बन्धविशेषद्वारेण सम्बन्धिविशेषोऽपि किं नाभ्युपगम्यते ? ॥ सिद्धान्तवाद्याह... “जुज्जइ संबंधवसा, संबंधिविसेसणं ण उण एयं । नय(रस)णाइविसेसकओ, रूवा(रसा)इविसेसपरिणामो ॥”
[सम्मतिकाण्ड० ३, गाथा-२१] सम्बन्धविशेषाद् युज्यते सम्बन्धिविशेषः, यथा दण्डादिसम्बन्धविशेषजनितसम्बन्धविशेषसमासादितपुरुषादिसम्बन्धिविशेषोऽवगतः, मिथ्यात्वं वाऽभ्युपेयात् तत्राह-विशेषप्रतिपत्तेरिति । तथा प्रसक्तेः उपचरितत्वस्य मिथ्यात्वस्य वा प्रसङ्गात् । उक्ताशङ्काया यदेकान्ताभेदवादिनः प्रतिविधान तत्प्रदर्शनपरां सम्मतिगाथामवतार्य दर्शयति-अत्राहैकान्ताभेदवादीति।भण्णइ० इति “भण्यते सम्बन्धवशाद् यदि सम्बन्धित्वमनुमतं ते । ननु सम्बन्धविशेषे सम्बन्धिविशेषः सिद्धः ॥” इति संस्कृतम् । विवृणोति-सम्बन्धसामान्यवशादिति व्यक्तमदः । द्रव्यैकान्तवादिमतखण्डनात्मकसिद्धान्तवादिसम्मतप्रदर्शनपरां गाथामवतार्य दर्शयति-सिद्धान्तवाद्याहेति-एतत्प्रतिविधानं स्याद्वादी कथयतीत्यर्थः । जुजइ इति. “युज्यते सम्बन्धवशात् सम्बन्धिविशेषो न पुनरेतद् नयनादि (रसनादि) कृतो रूपादि(रसादि) विशेषपरिणामः॥” इति संस्कृतम्। विवृणोति-सम्बन्धविशेषादिति । 'दण्डादिसम्बन्धविशेष०' इति स्थाने 'दण्डादिसम्बन्धिविशेषः' इति पाठो युक्तः, अर्थस्तु सुखावबोधः । अनेकान्तवादिनं प्रति द्रव्याद्वैताकान्तवादिनः पूर्वपक्षमुपदर्य तत्प्रतिविधानस्य प्रतिपादिकां सम्मतिगाथामवतार्य
mam
Page #374
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम्
३१३
द्रव्याद्वैतवादिनस्तु न सम्बन्धिविशेषो नापि सम्बन्धविशेषः सङ्गच्छत इति कुतो रसनादिविशेष सम्बन्धजनितो रसादिविशेषपरिणामः ? ॥ नन्वनेकान्तवादिनोऽपि रूपरसादेरनन्तगुण-द्विगुणादिवैषम्यपरिणतिः कथमुपपन्नेत्याशङ्कायामाह -
"भण्णइ विसमपरिणयं (ई), कह एयं होहिइ त्ति उवणीयं ॥ तं होइ परणिमित्तं, णव त्ति णत्थित्थ एगंतो ॥”
[ सम्मतिकाण्ड० ३, गाथा - २२ ]
शीतोष्णस्पर्शवदेकत्रैकदा विरोधाद् भण्यते एकत्राम्रफलादौ विषमपरिणतिः कथं भवतीति परेण प्रेरिते, उपनीतं प्रदर्शितम् आप्तेन, तद्-वैषम्यं भवति, परनिमित्तं - द्रव्य-क्षेत्र - काल - भावानां सहकारिणां वैचित्र्यात् तदाम्रादिवस्तु विषमरूपतया परिणमतीति वैषम्यं परनिमित्तमित्यर्थः, न च परनिमित्तमेवेत्यत्राप्येकान्तोऽस्ति, स्वरूपस्यापि तत्र कथञ्चिन्निमित्तत्वाद्, अन्यथा द्विगुणरसादीनां
wwwwwww
दर्शयति-नन्विति । रूपरसादेरिति - 'दुगुणमहुरम्' इत्यनेन रसस्य द्विगुणमधुरादिरूपेण परिणतिः, 'अणंतगुणकालयं तु' इत्यनेन रूपस्यानन्तगुण कृष्णादिरूपेण परिणतिरित्येवं वैषम्यपरिणतिर्योपदर्शिता सा कथमुपपन्नेत्यर्थः, भण्णइ इति - " भण्यते विषमपरिणतं कथमेतद् भविष्यतीत्युपनीतम् । तद् भवति परनिमित्तं न वेति नास्त्यत्रैकान्तः ॥” इति संस्कृतम् । विवृणोति - शीतोष्णस्पर्शवदिति- - यथा शीतोष्णस्पर्शयोरेकत्रैकदा विरोधान्न भवति परिणतिस्तथेत्यर्थः । परेण प्रेरिते एकान्तवादित्थं प्रश्ने कृते सति, 'उपनीतम्' इत्यस्य 'प्रदर्शितम्' इत्यर्थः, केनोपनीतमित्यपेक्षायाम् 'आप्तेन' इति पूरितम् । तथा च जैनाचार्येण तत्रानन्तरमेवाभिधीयमानं समाधानं दर्शितम् । 'तद्' इत्यस्य 'वैषम्यम्' इत्यर्थः । वैषम्यं परनिमित्तं यथा भवति तथा भावयति - द्रव्य-क्षेत्र - काल- भावानामिति । 'न वा' इत्यनेनानेकान्त उपदर्शितः, स च 'नास्त्यत्रैकान्तः' इत्यनेन दृढीकृत इति । तदेव स्पष्टयतिन च परनिमित्तमेवेत्यत्राऽप्येकान्तो ऽस्तीति । तत्र हेतुमाह-स्वरूपस्या
Page #375
--------------------------------------------------------------------------
________________
३१४
अनेकान्तव्यवस्थाप्रकरणम् । देशनियमानुपपत्तः, विरोधश्च कालभेदेन देशभेदेन वा निरसनीयः, न चैकत्रैव प्रदेशे द्विगुणरसादित्वे एकगुणरसादिद्वयसमावेशाद् विरोधः सम्भावनीयः, एकैकगुणापेक्षया द्विगुणपर्यायवतो रसस्य प्रत्येकातिरिक्तत्वेनाविरोधात् , अत एव परापेक्षया षट्स्थानपतितत्वमप्यविरुद्धम् , आपेक्षिकधर्मयोह्रस्वत्व-दीर्घत्वयोरिव विरोधासिद्धेरिति दिक् । तन्न द्रव्याद्वैतैकान्तः सम्भवी ।। पीति-यद् वस्तु विषमरूपतया परिणमति तद् वस्तुस्वरूपस्यापीत्यर्थः। तत्र विषमपरिगतौ। अन्यथा तद्गतविषमपरिणतौ। तत्स्वरूपस्य निमित्तत्वानुपगमे । द्विगुणरसेति-द्विगुणमधुरा-ऽनन्तगुणकृष्णादिस्तत्रैव भवति नान्यत्रेति योऽयं द्विगुणरसादीनां देशनियमस्तस्यानुपपत्तेः, यथा च तत्स्वरूपं तथाभूतपरिणतावनिमित्तं तथा तदन्यवस्तुखरूपमपीत्यनिमित्तत्वाविशेषात्। तद्वस्तुन इव तदन्यवस्तुनोऽपि तथाभूतपरिणत्यापत्तेः, तद्वस्तुनः सर्वथा तथाभूतपरिणतिनिमित्तत्वेऽपि द्रव्य-क्षेत्र-काल-भावादिसहकारिसमवधानमन्तरेणापि तथाभूतपरिणतिरेव सर्वदा तद्वस्तुनो भवेन्नान्यथाभूतपरिणतिः कदाचिदपि स्यादतः कथञ्चिन्निमित्तत्वं स्वीकरणीयमित्यर्थः । यदेवाम्रादि वस्तु द्विगुणमधुरं तदेवैकगुणमधुरादिकमपीति विरोधो नाशङ्कनीयः, यतो यदा यद्देशावच्छेदेन यद्वस्तुनि द्विगुणमधुरादिकं तदानीमेव तद्देशावच्छेदेनैव तद्वस्तुनि यद्येकगुणमधुरादिकमुपेयेत स्यात् तदा विरोधः, न चैवम्, किन्तु मिन्नदेशावच्छेदेन भिन्नकालावच्छेदेनैव वा तयोरुपगम इति नास्त्यत्र विरोध इत्याह-विरोधश्चेति। ननु यद्वस्तुन्येकदैव द्विगुणरसादित्वमेकप्रदेशावच्छेदेन तत्र द्विगुणरसे एकगुणरस एकः, तदन्यश्चैकगुणरस इति तयोरेकगुणरसयोरेकप्रदेशे एकदैव सद्भावाद् विरोधः स्यादित्याशङ्कय प्रतिक्षिपति-न चेति-अस्य 'सम्भावनीयः' इत्यनेनान्वयः । द्विगुणरस एकैकगुणरसद्वयाभ्यामन्य एव, न त्वेकैकगुणरसद्वयसमभिव्याहारो द्विगुणरस इति यत्र प्रदेशे द्विगुणरसो न तत्रैकगुणरसद्वयमिति कुतोऽत्र विरोधसङ्कथाऽपीति निषेधहेतुमुपदर्शयतिएकैकगुणापेक्षयेति । अत एव विषमपरिणतेरेकस्मिन् वस्तुनि परनिमित्ततयाऽभ्युपगमादेव। य एव द्विहस्तमितो दण्ड एकहस्तमितदण्डाद् दीर्घः स एव चतुर्हस्तमितदण्डाद् ह्रस्वश्चेत्येवमपेक्षाभेदेनैकत्र समाविष्टयोहखत्व-दीर्घत्वयोर्यथा न विरोधस्तथैव विभिन्नप्रदेशावच्छेदेनैकत्रैव वर्तमानयोर्द्विगुणमधुराधेकगुणमधुराद्योरपि न विरोध इत्याह-आपेक्षिकधर्मयोरिति । द्रव्याद्वैतवादखण्डनमुपसंहरति-तन्नेति ॥
Page #376
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् ३१५ अथ द्रव्य-गुणयोर्भेदैकान्तवादिनो द्रव्य-गुणलक्षणानुपपत्तिमुद्भावयन्ति
"दवस ठिई जम्म-विगमा य गुणलक्खणं ति वत्तवं । एवं सइ केवलिणो, जुज्जइ तं णो उ दवियस्स ॥"
[सम्मतिकाण्ड० ३, गाथा-२३] द्रव्यस्य लक्षणं स्थितिः, जन्म-विगमौ लक्षणं गुणानाम् , एवं सति केवलिनो युज्यत एतल्लक्षणम् , तत्र किल केवलात्मना स्थित एव चेतना-ऽचेतनरूपा अन्येऽर्था ज्ञेयभावेनोत्पद्यन्ते, अज्ञेयरूपतया च नश्यन्ति, न तु द्रव्यस्य-अण्वादेर्लक्षणमिदं युज्यते, नह्मणौ रूपादयो जायन्ते अत्यन्तभिन्नत्वाद् गव्यश्वादिवत् , अथवा केवलि. द्रव्य-गुणयोर्भेदैकान्तवादिनां स्याद्वाद्यभिमतद्रव्य-गुणलक्षणानुपपत्तिमुद्भावयतां मतस्योपदर्शिकां सम्मतिगाथामवतार्योल्लिखति-अथेति । दव्वस्स इति-"द्रव्यस्य स्थितिर्जन्म-विगमौ च गुणलक्षणमिति वक्तव्यम् । एवं सति केवलिनो युज्यते तन्न तु द्रव्यस्य ॥” इति संस्कृतम् । विवृणोति-द्रव्यस्य तु लक्षणं स्थितिरिति। केवलिनि निरुक्तद्रव्य-गुणलक्षणसङ्गमनं करोति-तत्रेति-केवलिनीत्यर्थः । केवलिनि ज्ञेयभावेनान्येषामर्थानामुत्पत्तौ तद्राहकत्वेन केवलिनोऽप्युत्पत्तिः, एवमन्येषामर्थानामज्ञेयभावेन तत्र विनाशे तदग्राहकत्वेन केवलिनोऽपि विनाश इत्येवं केवलात्मना स्थितिमतः केवलिनो जन्म-विनाशयोरपि सद्भावान्निरुक्तद्रव्य-गुणलक्षणयोगित्वमित्यर्थः । केवलिनोऽपि द्रव्यत्वात् तस्योक्तलक्षणयोगस्य दर्शितत्वात् 'न तु द्रव्यस्य' इति सामान्यतो द्रव्यस्योक्तलक्षणायुक्तत्वकथनमयुक्तमतः। 'अण्वादेः' इति, अनेन केवलिभिन्नस्य सर्वस्य द्रव्यस्य ग्रहणम् । ननु अण्वात्मना स्थित एवाणौ रूपादयो जायन्ते नश्यन्ति चेति रूपाद्यात्मना जन्म-विनाशौ सम्भवत एवाणोरपीत्यत आह-न हीति-अस्य 'जायन्ते' इत्यनेनान्वयः । अणौ रूपादीनामुत्पादेऽपि तदैवाणोरुत्पाद आयाति यदि रूपादिभिः सममणोरभेदः स्यात् , मेदे तु नास्योत्पादेऽन्यस्योत्पाद इत्यभिसन्धानेनाणौ रूपादयोऽभिन्नतया नहि जायन्त इत्येवार्थः, तत्र हेतुमाह-अत्यन्तमिन्नत्वादिति । गव्यश्वादिवदिति-यथा गोभिना अश्वादयो न गवि जायन्ते
Page #377
--------------------------------------------------------------------------
________________
३१६
अनेकान्तव्यवस्थाप्रकरणम् ।
नोऽपि सकलज्ञेयग्राहिणो नैतल्लक्षणं युज्यते, न चापि द्रव्यस्याचेतनस्य गुण-गुणिनोरत्यन्तभेदे ऽसत्त्वापत्तेः, असतोश्च खरविषाणादेवि लक्षणासम्भवादिति द्रव्यार्थान्तरभूतगुणवादिनः । अत्रोत्तरम
"दवत्थंतरभूया, मुत्ता-मुत्ता य(व) ते गुणा होज्जा । इत्ता परमाणू णत्थि अमुत्तेसु अग्ग्रहणं ।।” [ सम्मतिकाण्ड० ३, गाथा - २४ ] द्रव्यार्थान्तरभूता गुणा मूर्ता अमूर्त वा भवेयुः, यदि मूर्ताः, न तर्हि परमाणवो भवन्ति, मूर्तिमद्रूपाद्याधारत्वाद्, अनेकप्रादेशिकस्कन्धवत्, अथामूर्ताः, अग्रहणं तेषाम् अमूर्तस्वादाकाशवत्, ततो
तथेत्यर्थः । द्रव्यमात्रस्य नोक्तलक्षणं सम्भवतीत्येवंपरतया व्याख्यान्तरमाहअथ वेति । 'केवलिनोऽपि' इत्यपिना केवलिव्यतिरिक्तस्याशेषस्य चेतनस्य परिग्रहः, सकलज्ञेयग्राहिणः केवलिनोऽपि यदा नोक्तलक्षणायोगः किमु वक्तव्यमकेवलिन इति, अत एवाग्रे ' न चापि द्रव्यस्याचेतनस्य' इत्येवोक्तम्, अपना केवलनोऽग्रहणे तस्यापि पृथगभिधानं कर्तव्यं स्यादिति । अस्मिन् व्याख्याने कथं न द्रव्यमात्रस्योक्तलक्षणयोग इत्यपेक्षायामाह -गुण- गुणिनोरिति । उक्ताशङ्कासमाधानपरां सम्मतिगाथामवतार्य दर्शयति- अत्रोत्तरमिति । दव्वत्थं० इति - " द्रव्यार्थान्तरभूता मूर्ता अमूर्ता वा गुणा भवेयुः । यदि मूर्ताः परमाणवो न सन्ति अमूर्तेष्वग्रहणम् ॥” इति संस्कृतम् । विवृणोति - द्रव्यार्थान्तरभूतेति । यदि मूर्ताः द्रव्यभिन्नतयाऽभ्युपगता गुणा यदि मूर्ता अभ्युपगम्यते, तर्हि तदानीम्, परमाणवो न भवन्ति, अत्र हेतुरनुक्तत्वेन मूलस्य न्यूनता स्यात्, तत्परिहारायाहह - मूर्तिमद्रूपाद्याधारत्वादिति - मूर्तिमांश्चासौ रूपाद्याधारच मूर्तिमद्रूपाधारस्तत्त्वादित्यर्थः । रूपाद्याधारत्वं परमाणूनामपि, न तेषु परमाणुखरूपत्वाभाव इति व्यभिचारःः स्यात् तद्वारणाय मूर्तिमदिति - गुणानां प्रत्यक्षत्वान्यथानुपपत्त्या ' मूर्तानां सतां रूपादिमत्त्वमवश्यमभ्युपगन्तव्यम्, तच्च तादात्म्येन बोध्यमन्यथा द्रव्यार्थान्तरभूतानां तेषां रूपाद्याधारत्वमेव न स्यात्, तत्त्वे वा द्रव्यत्वमेव स्यान्न द्रव्यार्थान्तरत्वमिति । अनेकप्रादेशिक स्कन्धवदिति - यथाऽनेकप्रादेशिकस्कन्धो
Page #378
--------------------------------------------------------------------------
________________
तत्त्वबोधिनी विवृतिविभूषितम्
३१७
द्रव्य-गुणयोः कथचिद्भेदाभेदावभ्युपगमनीयौ, अन्यथा प्रतीतिविरोधात्, तथाहि - द्रव्य-गुणयोर्यथाक्रममेकाऽनेकप्रत्ययावसेयत्वात कथञ्चिद् भेदः प्रतीयते, कथञ्चिदभेदोऽपि रूपाद्यात्मना द्रव्यस्वरूपस्य, रूपादीनां च द्रव्यात्मकतया प्रतीतेः, अन्यथा तदभावापत्तेः, एतच्च विवक्षामात्रेणोच्यतेऽन्यथा जात्यन्तरात्मके वस्तुनि भेदाभेदादन्यतर
मूर्तिमद्रूपाद्याधार इति न परमाणुस्वरूपस्तथेत्यर्थः । अथामूर्ताः यदि द्रव्यार्थान्तरभूता गुणा अमूर्ता अभ्युपगम्यन्ते तदा तेषाम् अमूर्तानां गुणानाम्, अग्रहणं प्रत्यक्षाविषयत्वम्, आकाशवदिति-यथा आकाशोऽमूर्ती न प्रत्यक्षविषयस्तथेत्यर्थः । ततः द्रव्य-गुणयोरभेदैकान्ते भेदैकान्ते च दोषस्य सद्भावात् । अन्यथा द्रव्य-गुणयोः कथञ्चिद्भेदा-ऽभेदयोरनभ्युपगमे । प्रतीतिविरोधादिति - या च द्रव्य-गुणयोः कथञ्चिद्भेदस्य प्रतीतिः, या च तयोः कथञ्चिदभेदस्य प्रतीतिस्तयोरविषयत्वप्रसङ्गादित्यर्थः । प्रतीतिविरोधमेव भावयति - तथाहीति । यथाक्रममिति - यद्यपि द्रव्यं घटादिकं यथा 'अयं घटः, अयं पटः' इत्येवं प्रत्येकमेकतया प्रतीयते तथा इदं रूपमयं रसः, अयं गन्धः, अयं स्पर्शः' इत्येवं प्रत्येकमेकतया गुणोऽपि प्रतीयते, यथा च 'इमे रूप-रस- गन्धाः' इत्येवमनेकतया गुणः प्रतीयते तथा 'इमे घट-पट'कटाः' इत्येवमनेकतया द्रव्यमपि प्रतीयते, तथापि 'अस्मिन् घटे इमे रूप-रस- गन्धस्पर्शाः' इत्येवं या प्रतीतिस्तत्र घटद्रव्यमेकतयाऽवभासते रूपाद्याश्च गुणा अनेकतयाऽवभासन्त इत्येवं द्रव्यस्यैकप्रत्ययावसेयत्वाद् गुणस्यानेकप्रत्ययावसेयत्वाद् यदि तयोरभेद एव स्यादेकप्रत्ययावसेयत्वमेवानेकप्रत्ययावसेयत्वमेव वा स्यात् न चैवम्, अतः कथञ्चित् तयोर्भेदोऽपीत्यर्थः । कथञ्चिदभेदोऽपि' इत्यत्र 'द्रव्य-गुणयोः ' इत्यस्यानुकर्षः । अन्यथा द्रव्य-गुणयोः कथञ्चिदभेदस्याभावे, सर्वथा तयोर्भेदस्यैवाभ्युपगमे वा । तदभावापत्तेः द्रव्यखरूपस्य रूपाद्यात्मना प्रतीतेः रूपादीनां द्रव्यात्मकतया प्रतीतेश्चाभावापत्तेः । एतच्च द्रव्य-गुणयोः कथञ्चिद्भेदः कथञ्चिदभेदश्वेत्येवं वचनं च । विवक्षामात्रेण भेदा-भेदोभयात्मकत्वेन जात्यन्तरात्मके चित्रस्वरूपे वस्तुनि भेदा-ऽभेदयोर्भागयोरभावेऽपि 'एतदपेक्षया मेदः, एतदपेक्षयाsभेदः' इत्येवं भागद्वयं प्रकल्प्य प्रतिपाद्यपुरुषस्य प्रतिपत्तिसौकर्याय तयोर्या विवक्षा तन्मात्रेण । उच्यते अभिधीयते । अन्यथा विवक्षाया अनाश्रयणे । जात्यन्त
Page #379
--------------------------------------------------------------------------
________________
૨૮
अनेकान्तव्यवस्थाप्रकरणम् ।
कथाया एवासम्भवात्, नहि चित्रं वस्तु नील - पीताद्यन्यतरतया कथ्यते चर्च्यते वा, एकतरजिज्ञासया केवलं तथा प्रतीयत इति, एतदाह"सीसमईविष्फारणमेत्तत्थोयं कओ समुल्लावो ।
ww
इहरा कहामुहं चेव, णत्थि एवं ससमयम्मि || ” [ सम्मतिकाण्ड० ३, गाथा - २५] शिष्य बुद्धिविकासनमात्रार्थोऽयं कृतः प्रबन्धः, इतरथा कथैवैषा नास्ति स्वसिद्धान्ते - 'किमेते गुणा गुणिनो भिन्नाः ? आहोस्विदभिन्नाः ?” इति, अनेकान्तात्मकत्वात् सकलवस्तुनः । एवंरूपे च वस्तुतत्त्वे ऽन्यथारूपं तत् प्रतिपादयन्तो मिध्यावादिनो भवन्तीत्याह —
रात्मके नापि भिन्नस्वभावं नाप्यभिन्नस्वभावं किन्त्वखण्डात्मकत्वात् तदुभयस्वभावकलितत्वेन चित्रस्वरूपे । 'भेदा ऽभेदादन्यतर' इति स्थाने 'भेदाभेदाद्यन्यतर' इति पाठो युक्तः, आदिपदादेकानेक नित्यानित्य- सामान्यविशेषादेरुपग्रहः, अन्यतरपदं चान्यतमपरम्, बहुषु ग्रन्थेषु प्राचामन्यतमपदे प्रयोक्तव्येऽन्यतरपदस्यैव प्रयोगो दृश्यत इत्यतोऽन्यतरत्वमनेकभेदावच्छिन्न प्रतियोगिताकभेदखरूपमेव द्वितयत्रितयादिसाधारणमभिमतं न तु भेदद्वयावच्छिन्न प्रतियोगिताकभेदरूपं वस्तुद्वयमात्रवृत्ति वा बोध्यम् । उक्तार्थदाययाह -नहीति । तथा नीलात्मना पीतात्मना वा । उक्तार्थे सम्मति-संवादमाह - एतदाहेति । सीसमई० इति - " शिष्यमतिविस्फारणमात्रार्थोऽयं कृतः समुल्लापः । इतरथा कथामुखं चैव नास्त्येवं स्वसमये" ॥ इति संस्कृतम् । विवृणोति - शिष्यबुद्धीति । कीदृशी कथा जैनसिद्धान्ते नास्तीत्यपेक्षायामाह - किमेत इति । कथमियं कथा नास्तीत्यपेक्षायाम् अनेकान्तेतियद्यपि 'किमेते गुणा गुणिनो भिन्नाः ? आहोस्विदभिन्नाः ?' इति न कथा कस्यापि वादिनः, ये गुण- गुणिनोर्भेदमभ्युपयन्ति तेषां 'गुणा गुणिनो भिन्ना भिन्नप्रत्ययावसेयत्वाद्' इत्यादिप्रतिपाद्यवयोपन्यासरूपा कथा, ये पुनस्तयोरभेदमुरकुर्वन्ति तेषां 'गुणा गुणिनोऽभिन्नास्तदात्मनोपलभ्यमानत्वाद्' इत्यादिप्रतिज्ञाद्यवयवकथनात्मिका सेति, तथाप्येकान्तवादिनां स्वस्वमतोपदर्शनलक्षणकथातः प्राकू कथाङ्गविप्रतिपत्तिरवश्यमुपन्यसनीयेति, सा चैवंविधेति कथाङ्गत्वात् कथात्वेन व्यवहियत
Page #380
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् ३१९ "ण वि अस्थि अण्णवाओ, ण वि तबाओ जिणोवएसम्मि । तं चेव य मण्णंता, अवमण्णंता ण याणंति ॥"
... [सम्मतिकाण्ड० ३, गाथा-२६] नैवास्त्यन्यवादो गुण-गुणिनो प्यनन्यवादः, जिनोपदेशे-द्वादशाङ्गे प्रवचने, सर्वत्र कथञ्चिदित्याश्रयणात् , 'तदेव, अन्यदेव' इति वा मन्यमाना मननीयमेवावमन्यमाना वादिनोऽभ्युपगतविषयावज्ञाविधायित्वादज्ञा भवन्ति, अभ्युपगमनीयवस्त्वस्तित्वप्रतिपादकोपायइति, एकान्तवादिभिः सममनेकान्तवादिनो विवादे तु 'वस्त्वनेकान्तात्मकं न वा?' इत्येव विप्रतिपत्तिरिति किमेते.' इत्यादिस्वरूपा विप्रतिपत्तिरेव न भवतीति कुतस्तस्याः कथाङ्गत्वात् कथात्वोपचार इति बोध्यम् ।। - एकान्तवादिनामविशेषेणाज्ञत्वप्रतिपादिकां सम्मतिगाथां प्रस्तुतार्थसङ्गततयाऽवतार्य दर्शयति-एवंरूपे चेति-अनेकान्तात्मके चेत्यर्थः । अन्यथा रूपम् भिन्नमेव, अभिन्नमेवेत्यायेकान्तात्मकम् । तत् वस्तुवत्त्वम् । ण वि० इति-"नैवास्त्यन्यवादो नापि तद्वादो जिनोपदेशे। तदेव च मन्यमाना अवमन्यमाना न जानन्ति ॥" इति संस्कृतम् । विवृणोति-नेवास्त्यन्यवाद इति । 'नापि तद्वादः' इत्यस्यार्थः'नाप्यनन्यवादः' इति । 'जिनोपदेश' इत्यस्यार्थे-द्वादशाने प्रवचने इति। अन्यवादाऽनन्यवादनिषेधयोर्हेतुमुपदर्शयति-सर्वत्रेति-अन्यत्वा-ऽनन्यत्वादौ सर्वत्र विषय इत्यर्थः । कथञ्चिदित्याश्रयणादिति-कथञ्चिदनन्यत्वं कथञ्चिदन्यत्वं कथञ्चिन्नित्यत्वं कथञ्चिदनित्यत्वमित्येवमभ्युपगमादित्यर्थः 'तदेव च' इत्यत्र चकाराद् 'अन्यदेव' इत्यस्य समुच्चयमाश्रित्याह-'तदेव अन्यदेव' इति वेति। अभ्युपगतेति-खयमपि यद्वस्त्वभ्युपगच्छन्ति ते, तद् वस्तुतोऽनेकान्तमेव, एकान्तस्य शशशृङ्गकल्पत्वेन तदभ्युपगमासम्भवादित्यभ्युपगतं यदनेकान्तं तद्विषया याऽवज्ञा 'अनेकान्तं वस्तु नास्त्येव' इत्येवंरूपा तद्विधायित्वात् तत्कारित्वादज्ञाः-ज्ञानशून्या भवन्तीत्यर्थः । उक्तावज्ञाकारित्वेऽपि कथमज्ञत्वमित्यपेक्षायामाह-अभ्युपगमनीयेतियन्नित्यमनित्यं वाऽभ्युपगमनीयं वस्तु तस्यास्तित्वं किञ्चिदपेक्षया, तत्प्रतिपादकोपायः स्याद्वाद्युपदर्शितो यस्तन्निमित्तस्य स्वद्रव्यादिरूपापेक्षाज्ञापकनयादिलक्षणस्यापरिज्ञानादित्यर्थः । उपसंहरति-तत इति-सर्वेषामेकान्तवादानां दूषितत्वादित्यर्थः । ननु
Page #381
--------------------------------------------------------------------------
________________
३२० अनेकान्तव्यवस्थाप्रकरणम् । निमित्तापरिज्ञानान्मृषावादिवदिति तात्पर्यार्थः । ततोऽनेकान्तवाद एव व्यवस्थितः ॥
ननु सर्वत्राऽनेकान्त इति नियमेऽनेकान्तेऽप्यनेकान्तादेकान्तादेकान्तप्रसक्तिरिति चेत् ? अत्र वदन्ति
"भयणा वि हु भइयवा, जह भयणा भयइ सबवाई। एवं भयणा णियमो वि, होइ समयाविरोहेण ॥"
. [सम्मतिकाण्ड० ३, गाथा-२७] यथा भजना-अनेकान्तः, अजते-सर्ववस्तूनि तदेतत्स्वभावतया ज्ञापयति, यथा भजनापि-अनेकान्तोऽपि, भजनीया-अनेकान्तोऽप्य
'नित्यत्वा-ऽनित्यत्वादयः सर्वे धर्माः स्वसमानाधिकरणात्यन्ताभावप्रतियोगिनो धर्मत्वात् कपिसंयोगादिवद् इत्यनुमानमनेकान्तस्य सर्वव्यापकत्वे प्रमाणमभिमतं स्याद्वादिनाम् तच्च न सम्भवति धर्मत्वस्यानेकान्तत्वेऽपि सत्त्वेन तत्र स्वसमानाधिकरणैकान्तत्वरूपाभावप्रतियोगित्वसद्भावस्यैकान्तापत्तिभिया स्वीकर्तुमशक्यत्वेन तत्रैव व्यभिचारात् स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्व-धर्मत्वयोर्व्याप्त्यासिद्धेः, तयोरविनाभावोपपत्तये यद्यनेकान्तत्वेऽपि स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वमुपेयत एव तदाऽनेकान्त एवैकान्त इत्यतोऽपि न सर्वव्यापकत्वमनेकान्तत्वस्येत्युभयतः पाशा रज्जुरिति शङ्कते-नन्विति । उक्ताशङ्कासमाधानपरतया सम्मतिगाथामवतार्य दर्शयति-अत्र वदन्तीति-उक्ताशङ्कायां समाधानमभिदधतीत्यर्थः । भयणा वि० इति-"भजनाऽपि खलु भजनीया यथा भजना भजते सर्वद्रव्याणि । एवं भजना नियमोऽपि भवति समयाविरोधेन ॥” इति संस्कृतम् । विवृणोति-यथेतिद्वितीयचरणव्याख्येयम् । 'भजना' इत्यस्य 'अनेकान्तः' इत्यर्थः 'सर्वद्रव्याणि' इत्यत्र द्रव्यपदं वस्तुसामान्यपरमित्यभिसन्धानेनाह-सर्ववस्तूनीति। 'भजते' इत्यस्य 'तदतत्स्वभावतया ज्ञापयति' इत्यर्थः, 'तदेतद' इति मुद्रणदोषात् । प्रथमचरणव्याख्यामाह-तथेति । अनेकान्तवाचकस्त्रीलिङ्गभजनाशब्दसमभिव्याहाराद् 'भजनीया' इति स्त्रीलिङ्गमुक्तम् । 'भजनाऽपि भजनीया' इत्यस्य अनेकान्तोऽप्यनेकान्तः' इत्यर्थः । अस्माकं जैनानाम् । कथमिष्टमनेकान्तस्या
Page #382
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम्
३२१ नेकान्त इतीष्टमस्माकमिति नय-प्रमाणापेक्षयैकान्तश्चानेकान्तश्चेत्येवमसौ ज्ञापनीयः, तथाहि-नित्या-ऽनित्यादिशबलैकस्वरूपे वस्तुनि नित्यत्वाऽनित्यत्वाद्येकतरधर्मावच्छेदकावच्छेदेनैकतरधर्मात्मकत्वमुभयावच्छेदेन वोभयात्मकत्वम् , तथा नित्यानित्यत्वादिसप्तधर्मात्मकत्वप्रतिपादकतापर्याप्यधिकरणेऽनेकान्तमहावाक्येऽपि सकलनयवाक्यावच्छेदेनोक्तरूपमनेकान्तात्मकत्वं प्रत्येकनयवाक्यावच्छेदेन चैकान्तात्मकत्वं न दुर्वचमिति भावः । एतदेवाह-एवम् उक्तरीत्या, भजना-अनेकान्तः सम्भवति, नियमश्च-कान्तश्च, समयस्य-सिद्धान्तस्य-"रयणप्पभा सिय सासया सिय असासया” [ -] इत्येवमनेकान्तप्रतिपादकस्य, नेकान्तत्वे एकान्तत्वापत्तिर्दोष उक्तस्तस्यापरिहारादित्यत आह-नयेति–अनेकान्तो नयापेक्षयैकान्तः प्रमाणापेक्षयाऽनेकान्तश्च । इत्येवम् अमुना प्रकारेण । असौ अनेकान्तानेकान्तः । ज्ञापनीयः उपदर्शनीय इत्यर्थः । अनेकान्तो नयापेक्षयाऽनेकान्तत्वधर्मवानेवेत्यनेकान्त एवेत्येकान्तः, प्रमाणापेक्षया. त्वनेकान्तत्वैकान्तत्वोभयधर्मवान् भवत्यपेक्षाभेदेनेत्यनेकान्त इति बोध्यम् , सप्तभङ्गीवाक्यात्मकोऽनेकान्त इति तस्यैकैको भङ्गो नयनिमित्तक एकैकधर्मप्रतिपादकत्वादेकान्तः, सम्पूर्ण तु सप्तभङ्गीवाक्यं प्रमाणप्रभवमनेकधर्मात्मकवस्तुप्रतिपादकत्वादनेकान्त इत्येवमनेकान्तानेकान्ततां भावयति-तथाहीति-एतदनन्तरं 'यथा' इति दृश्यम् । 'तथाहि' इति स्थाने 'यथाहि' इति पाठः । नित्यत्वेति-नित्यत्वाऽनित्यत्वाद्येकैकधर्मस्य यदवच्छेदकं निमित्तं तदवच्छेदेन, तदपेक्षयेत्यर्थः। उभयावच्छेदेनेति-नित्यत्वाऽनित्वयोर्याववच्छेदको तदुभयावच्छेदेन, तदुभयापेक्षयेत्यर्थः, प्रत्येकमेकैकभङ्गानामपि महावाक्यघटकतया नित्यानित्यत्वादिसप्तधर्मात्मकत्वप्रतिपादकता समस्तीत्यतः पर्याप्यनुधावनम् । सकलेति-सकलनयवाक्यं प्रमाणवाक्यं भवति, तदवच्छेदेन तदपेक्षया । उक्तरूपं नित्यानित्यत्वादिसप्तधर्मात्मकत्वपर्याप्यधिकरणत्वरूपम् । अवतार्य तृतीयचरणं विवृणोति-एतदेवाहेति। 'एवम्' इत्यस्य 'उक्तरीत्या' इत्यर्थः। 'नियमोऽपीत्यत्र नियमशब्द एकान्तवाची, :अपिशब्दश्च समुच्चयार्थक इत्याशयेनाह-नियमश्च एकान्तश्चेति । 'समयाविरोधेन' इत्येतद् विवृणोति-समयस्येति-अस्यार्थःसिद्धान्तस्येति । क्रमेणानेकान्तप्रतिपादकमेकान्तप्रतिपादकं च सिद्धान्तवचनमुपदर्श
अ. व्य. २१
Page #383
--------------------------------------------------------------------------
________________
३२२
अनेकान्तव्यवस्थाप्रकरणम् । "दवट्ठयाए सासया पजवट्ठयाए असासया" { ] इत्येवं चैकान्ताभिधायकस्याविरोधेन । ___ न चैवमव्यापकोऽनेकान्तवादः, स्यात्पदसंसूचितानेकान्तगर्भस्यैवैकान्तस्वभावत्वाद्, अनेकान्तस्यापि स्यात्कारलाञ्छनैकान्तगर्भस्यानेकान्तस्वभावत्वात् , न चानवस्था देश-कात्या॑भ्यामवयवा-ऽवयविरूपस्य वस्तुन इव स्याद्वादस्याप्येकान्ता-ऽनेकान्तात्मकस्यैव प्रमाणादेव प्रतीतेः, भिन्नैकान्ता-ऽनेकान्तावलम्बनेऽप्यस्या ज्ञप्तिविरोधित्वाभावात् स्वसामयति-रयण० इति-"रत्नप्रभा स्यात् शाश्वती स्यादशाश्वती" । इत्येवं इत्येवंवरूपस्य, अनेकान्तप्रतिपादकस्याविरोधेनेत्यन्वयः । दव्वठ्ठ० इति-"द्रव्यार्थतया शाश्वती पर्यायार्थतयाऽशाश्वती।"
न चेति-एवमुपगमे सति अनेकान्तवादोऽव्यापको न च भवतीत्यर्थः । द्रव्यार्थनयेन शाश्वतैकान्तस्य पर्यायार्थनयेनाशाश्वतैकान्तस्याभ्युपगमेऽपि स्यात्पदो. पादनतोऽनेकान्तखभावत्वस्याप्येकान्ते लाभात्, एकान्तोऽप्येकान्तत्वा-ऽनेकान्तत्वधर्मद्वययोगादनेकान्तः, एवमनेकान्तोऽपि स्यात्कारलाञ्छनवाक्येन स्यात्पदसंसूचितैकान्तस्वभावतयाऽपि प्रतीयते, इत्येनेकान्तोऽप्यनेकान्तत्वैकान्तत्वधर्मद्वययोगादनेकान्त इत्येवमनेकान्तवादस्य तत्रापि सद्भावादिति निषेधहेतुमुपदर्शयति-स्यात्पदेति । अनेकान्ते एकान्तोऽनेकान्तश्च, तत्राप्येकान्ते एकान्तोऽनेकान्तश्च, अनेकान्तेऽनेकान्त एकान्तश्च, एवं तत्राप्येकान्ता-ऽनेकान्तयोः प्रत्येकमेकान्तानेकान्तखभावावित्येवं दिशाऽनवस्था स्यादित्याशङ्कां प्रतिक्षिपति-न चेति । यथा वस्तुनोऽभिधेयस्य देशतोऽवयवरूपत्वं कााचावयविरूपत्वमित्येवमनेकान्तत्वं प्रमाणात् प्रतीयते तथा तदभिधायकस्याप्युक्तदिशैकान्तानेकान्तात्मकत्वेनानेकान्तत्वं प्रमाणादेव प्रतीयते, प्रतीयमाने चैकान्तत्वा-ऽनेकान्तत्वे स्याद्वादात्मकानेकान्तादभिन्ने एवेति नानवस्थापीति निषेधहेतुमुपदर्शयति-देश-कात्या॑भ्यामिति । स्याद्वादानेकान्ते ये उक्तदिशैका. न्तानेकान्ते ते ततो भिन्ने, तयोरपि प्रत्येकमेकान्तानेकान्ते भिन्ने इत्येवमनवस्थाया भावेऽपि सा प्रमाणप्रतिपन्ना न दूषणभावमञ्चति, ज्ञप्युत्पत्त्योरविरोधित्वादित्याहभिन्नैकान्तेति । अस्याः अनवस्थायाः। तादृशस्यैव अनवस्थितैकान्तानेकान्तपरम्पराश्रितस्यैव स्याद्वादानेकान्तस्य । मिथोऽनपेक्षत्वात् पूर्वपूर्वकान्तानेकान्ता
Page #384
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् ३२३ ग्रीमहिम्ना तादृशस्यैवोत्पत्तेर्मिथोऽनपेक्षणादुत्पत्तिविरोधिताया अपि वक्तुमशक्यत्वात् , न चोत्पत्ति-ज्ञप्त्यन्यतराप्रतिबन्धिकाप्यनवस्थादूषणम् , यत्तार्किकाः-"मूलक्षयकरीं प्राहुरनवस्थां हि दूषणम् ॥” [ ] इति, न चेदेवं तदा प्रमेयत्वे प्रमेयत्वाद्युपगमेऽप्यनवस्थादोषो दुर्निनामुत्तरोत्तरैकान्तानेकान्तेषु तेषां च पूर्वपूर्वैकान्तानेकान्तेषु चोत्पत्तावनपेक्षणात् , उत्पत्तौ यदि परस्परमेतेषामेकान्तानेकान्तानां प्रवाहपतितानामपेक्षा स्यात् तदा यावन्न पूर्वपूर्वेषामुत्पत्तिस्तावन्न तदपेक्षाणामुत्तरोत्तरेषामुत्पत्तिर्यावन्नोत्तरोत्तरेषामुत्पादस्तावन्न तदपेक्षाणां पूर्वपूर्वेषामेषामुत्पत्तिरित्येवमुक्तानवस्थाया उत्पत्तिविरोधित्वं स्यात् , यदा तु तादृशस्य स्याद्वादानेकान्तस्य खसामग्रीमहिम्नैवोत्पत्तिस्तदा न तद्विरोध इत्याह-उत्पत्तिविरोधिताया अपीति । प्रमाणादेव तादृशानेकान्तस्य प्रतीत्या न ज्ञप्तिविरोधः, स्वसामग्रीत उत्पत्त!त्पत्तिविरोध इत्येवमुत्पत्ति-ज्ञप्त्यन्यतराप्रतिबन्धिकेयमनवस्था न भवति दूषणमित्याह-न चेति-अस्य 'दूषणम्' इत्यनेनान्वयः । उत्पत्ति-ज्ञप्यन्यतरप्रतिबन्धिकैवानवस्था यमालम्ब्य प्रवृत्ता तमुपहन्तीत्यतः सैव दूषणभावमञ्चति नान्येत्यत्र तार्किकाणां संवादमाह-यत् तार्किका इति । मलेतिहि यतः, मूलक्षयकरीमिति-यदालम्बनेन प्रवृत्ताऽनवस्था तदेवानवस्थाया मूलम् , यथा विशेषे विशेषस्वीकारे तत्रापि विशेषः, एवं तत्रापीत्यनवस्था स्यात् , तया चानवस्थया प्रथमविशेषोऽप्यपैति, यतः स्वत एव व्यावृत्तस्वरूपो विशेष उपेयते, विशेष विशेषसद्भावे च स्वगतविशेषेणैवाश्रयीभूतविशेषस्यान्यतो व्यावृत्तरिति स्वतोव्यावृत्तत्वधर्मस्यासाधारणस्याभावे सोऽपि न भवेत् , एवं द्वितीयविशेषादेरपि स्वगतविशेषत एव व्यावृत्तिरिति तस्याप्यसाधारणधर्मव्यपगमाद् व्यपगम इति मूलस्य प्रथमविशेषादेः क्षयकरी, अनवस्थितविशेषपरम्परोपनिपातलक्षणाऽनवस्था, तां दूषणं दूषणात्मिकां न्यायनिष्णाताः प्राहुरित्यर्थः । न चेदेवं यद्येवं नाभ्युपगम्येत, अर्थात् या काचिदनवस्था प्रोल्लसेत् सा सर्वाऽपि दूषणमेवेत्यभ्युपगम्येत । प्रमेयत्वे प्रमेयत्वं तत्रापि प्रमेयत्वमित्यवश्यमभ्युपेयमन्यथा प्रमेयत्वस्य केवलान्वयित्वमेव न स्यात् , प्रमेयत्वाभावाच्च शशशृङ्गादिवदसदेव प्रमेयत्वमापद्येत, ततश्च प्रमेयोऽपि न भवेत् , एवं च साऽप्यनवस्था दोषः स्यादित्याह-तदेति-'अयं घटः, अयं पटः' इत्यादिप्रमात्मकज्ञानविषयत्वं घट-पटादीनां प्रमेयत्वम् , प्रमेयत्वे प्रमेयत्वं तु 'इदं प्रमेयत्वम्' इत्याकारकप्रमाविषयत्वमित्येवं प्रथमप्रमेयत्व-तद्गतप्रमेयत्वयोर्भेदेऽभ्युप
Page #385
--------------------------------------------------------------------------
________________
३२४
अनेकान्तव्यवस्थाप्रकरणम् ।
"
वारः स्यात्, यद्वा यथा नैयायिकादीनां 'घटाभावो ऽतिरिक्त एव, तदभावश्च घट एव, तृतीयाभावश्चाद्य एव चतुर्थश्च द्वितीय एव इत्यादिरीत्या नानवस्था तथाऽस्माकम् अनेकान्तः १, अनेकान्तानैकान्त एकान्तः २, तदनेकान्त आद्य एव तदनेकान्तश्च द्वितीय एवेति तृतीय- चतुर्थाद्यनेकान्तानामाद्य द्वितीययोरेव पर्यवसानात्
काSनवस्था नाम
एकान्तनियामकस्व-पररूपयोरनवस्थानादेकान्तगर्भानेकान्तस्य परि
गम्यमाने सति निरुक्तानवस्था स्यात्, यदा तु सकलवस्तुविषयक पुरुषधौरेय ज्ञानमेव प्रमा, तद्विषयत्वं प्रमेयत्वमेकमेव, तच्च स्ववृत्त्यपीति तदाऽऽत्माश्रय एव नानवस्था, एवमनेकान्तत्वमप्यनुगतं सकलसाधारणम्, अनेकान्तेऽनेकान्तोऽपि स्वाधारीभूताSनेकान्तात्मक एवेति प्रकृतेऽपि नानवस्था, आत्माश्रयश्चान्योन्याश्रय - चक्रकाऽनवस्थानामेकतरस्यावश्यम्भावे लाघवादुपेयत इति न दूषणं यथा तत्र तथा प्रकृतेऽपीति बोध्यम् । प्रकृतेऽनवस्थैव नावतरति कुतोऽस्या दूषणत्वमित्युपदर्शयितुं कल्पान्तरमाहयद्वेति । अतिरिक्तएव भावस्वरूपाद् भिन्न एव । तदभावश्च घटाभावभावश्च । तृतीयाभावश्च घटाभावाभावाभावश्च । आद्य एव घटाभाव एव । चतुर्थश्च घटाभावाभावाभावाभावश्च । द्वितीय एव घटाभावाभाव एव, घट एवेति यावत् । अस्माकं जैनानाम्, मतम् इति शेषः । अनेकान्तः एकान्तनिषेधो घटाभावस्थानीय एकान्तादन्य एव । अनेकान्तानेकान्तो घटाभावाभावस्थानीय एकान्त एव । तदनेकान्तः एकान्तखरूपानेकान्ताने कान्तस्यानेकान्तो स्थानीयः । आद्य एव एकान्तनिषेधलक्षणो योऽनेकान्तः प्रथमस्तदात्मक एव । तदनेकान्तश्च तृतीयानेकान्तस्याने कान्तश्चतुर्थो घटाभावाभावाभावाभावस्थानीयः । द्वितीय एव एकान्तस्वरूपो योऽनेकान्तानेकान्तस्तदात्मक एव । इति एवं प्रकारेण, 'काऽनवस्था नाम' इत्यत्र किम आक्षेपार्थकत्वान्नैवानवस्थेत्यर्थः । अत्र कस्यचिदाक्षेपं प्रतिक्षेप्तुमुपन्यस्यति एकान्तेति - अनेकान्ते प्रतियोगिविधया प्रविष्टस्य सत्त्वाद्येकैकस्वरूपस्यैकान्तस्य स्वरूपापेक्षया सत्त्वं पररूपापेक्षयाऽसत्त्वमित्येवं व्यवस्थाकारित्वेन नियामकयोः स्व-पररूपयोरनेकविधत्वेनानवस्थानादियत्तया परिच्छेत्तुमशक्यत्वान्नियामकस्यानवस्थितत्वे तन्नियम्यस्यैकान्तस्याप्यनवस्थितत्वे नैकान्तगर्भा -
घटाभावाभावाभाव
Page #386
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् રરક ज्ञातुमशक्यत्वाज्ज्ञप्तिप्रतिबन्धिकैवेयमनवस्थेति कश्चित् , तन्न-इत्थमपि 'गुडशुण्ठी'न्यायेनानवच्छिन्नानेकान्ते दोषाभावात्, सावच्छिन्नानेकान्तवादेऽपि सूक्ष्मावच्छेदकजिज्ञासोपरम एवानेकान्तप्रयोगान्तरपरिश्रमोपरमेऽनवस्थानवकाशादिति दिग् ।।
नन्वनेकान्तस्य व्यापकत्वे 'षड् जीव-निकायास्तद्घाते चाधर्म' इत्यत्राप्यनेकान्तः स्यादिति चेत् ? अत्राहुःनेकान्तस्यैकान्तप्रतियोगिकानेकान्तस्यैकान्तत्वानैकान्तत्वधर्मद्वयसमावेशनिबन्धनानेकान्तस्य वा परिज्ञातुमशक्यत्वात् परिच्छिन्नतया ज्ञातुमशक्यत्वाज्ज्ञप्तिप्रतिबन्धिकैव ज्ञप्तिविरोधिन्येव । इयमनवस्था अनेकान्तेऽनेकान्तस्तत्राऽप्यनेकान्त इत्येवंरीत्योपजायमानाऽनवस्था। इति एवम् । कश्चित् अविज्ञाततत्त्वः पण्डितम्मन्यो ब्रूते इत्यर्थः । उक्ताक्षेपं प्रतिक्षिपति-तन्नेति। इत्थमपि अनवस्थानादेकान्तगर्भानेकातस्य परिज्ञातुमशक्यत्वेनानेकान्तानेकान्तानवस्थाया ज्ञप्तिप्रतिबन्धकत्वेऽपि । गुडशुण्ठीन्यायेनेति-"गुडोऽपि कफहेतुः स्यान्नागरं पित्तकारणम् । द्वयात्मनि न दोषोऽस्ति शुण्ठीनागरभेषजे ॥" [वीतरागस्तोत्रे ] इत्यादिवचनाद् गुडमात्रस्य कफहेतुत्वं शुण्डीमात्रस्य पित्तहेतुत्वमित्येवमेकैकस्य विभिन्नखभावत्वेऽपि गुड-शुण्ठीमिश्रणतो जायमानस्य जात्यन्तरखभावस्य पदार्थस्य कफपित्तविकारोपशमहेतुत्वमिति न्यायेनैकान्तत्वा-ऽनेकान्तत्वोभयसंवलतो जायमानाखण्डस्वरूपस्यानेकान्तस्य वैकान्तनियामकस्वरूपपररूपानवस्थानप्रयुक्तैकान्तानवस्थादोषसम्पर्ककलङ्कितत्वं प्रत्येकपक्षदोषस्य जात्यन्तरात्मके वस्तुन्यसम्भवादित्यर्थः । सखण्डानेकान्तस्वीकारेऽप्येतदपेक्षयैकान्त एतदपेक्षयाऽनेकान्तश्चैवं तत्राप्येकान्ते एतदपेक्षयैकान्त एतदपेक्षयाऽनेकान्तश्च, अनेकान्तेऽप्यमुकापेक्षयैकान्तोऽमुकापेक्षयाऽनेकान्तश्चेत्येवं दिशा जायमानेऽनेकान्तपरम्परास्वरूपे सुदूरं गत्वा यत्रैवैकान्ताऽनेकान्तयोः सूक्ष्मावच्छेदकजिज्ञासा नोपजायते तत्रैवानेकान्तप्रयोगान्तरायासोऽपि न क्रियते इत्येतावतैव तत्प्रवाहपरिश्रान्तौ नानवस्थालतोल्लास इत्याह-सावच्छिन्नानेकान्तवादेऽपीति। : अनेकान्तस्य व्यापकत्वमसहमानः: परः शङ्कते-नन्विति । षडिति-'षड् जीवाः, षड् निकायाः, जीवघाते चाधर्मः' इति खकीयसिद्धान्तेऽपि 'जीवाः षदसंख्यका एकसंख्यकाश्च, निकायाः षट्संख्यका एकसंख्यकाश्च; जीवघातेऽधर्मो
Page #387
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ।
“णियमेण सद्दहंतो, छक्काए भावओ ण सद्दहइ । हंदी अपज्जवेसु वि, सद्दहणा होइ अविभत्ता ||" [ सम्मतिकाण्ड० ३, गाथा - २८ ] नियमेन-अवधारणेन, षडेवैते जीवाः कायाश्चेत्येवं श्रद्दधानः षट्कायान्, भावतः - परमार्थतः, न श्रद्धत्ते, जीवराश्यपेक्षया तेषामेकत्वात् कायानामपि पुद्गलतयैकत्वात्, जीव- पुद्गलप्रदेशानां परस्पराऽविनिर्भागवृत्तित्वाज्जीवप्रदेशानां स्यादजीवत्वं प्रत्येकं प्राधान्यविवक्षया स्यादनिकायत्वम्, सूत्रविहितन्यायेन प्रवृत्तस्याप्रमत्तस्य न हिंसेति 'तद्
३२६
wwwww
भवति धर्मश्च भवति' इत्येवमनेकान्तः स्यादिति शङ्कार्थः । एतत्समाधानपरतया सम्मतिगाथामवतार्य दर्शयति- अत्राहुरिति । णियमेण० इति - “नियमेन श्रद्दधानः षट् कायान् भावतो न श्रद्धत्ते । हंदि अपर्यवेष्वपि श्रद्धानं भवत्यविभक्तम् ॥” इति संस्कृतम् । विवृणोति–नियमेनेति - अस्य विवरणम् -' अवधारणेन' इति । अवधारणगर्भश्रद्धानाकारमुल्लिखति षडैवैते जीवा कायति । इत्येवम् उक्ताकारप्रकारेण | 'भावतः' इत्यस्य 'परमार्थतः' इत्यर्थः । जीवानां कायानां च षट्संख्यकत्वस्य सद्भावेन तदवधारणेन श्रद्धा कुतो न परमार्थतः श्रद्धेत्यपेक्षायामाह-जीवराश्यपेक्षयेति - जीवसामान्यापेक्षयेत्यर्थः । तेषां जीवानाम् । एकत्वात् एकसंख्य कत्वात्, तथा चावधारेण षट्संख्यातिरिक्तसंख्याव्यवच्छेद एकत्वसङ्ख्यासद्भावे सति न सन्निति, एवं जीवा एव काया एवेत्यवधारणमपि न सम्भवति जीवस्याप्यजीवत्वात् कायस्याप्यकायत्वादित्याह जीव- पुद्गलप्रदेशानामिति - जीवप्रदेशानां पुद्गलप्रदेशाविनिर्भागवृत्तित्वे जीवानां पुद्गलतादात्म्याध्यासनिबन्धनाजीवत्वं प्राप्तमित्याशयः । समुदायभावे सति कायत्वं पार्थक्ये न कायत्वमित्येकदेशप्राधान्यविवक्षायां कायस्याप्यनिकायत्वमित्याह - प्रत्येकमिति 'जीवघातेऽधर्मः' इत्यत्राप्यनेकान्तः, यतः प्रमत्तस्य प्राणव्यपरोपणं हिंसा, अप्रमत्तस्य प्राणव्यपरोपणं तु न हिंसेति वस्तुस्थितौ प्रमत्तस्य सतः प्राणव्यपरोपणे सति प्राणव्यपरोपणकर्त्तुः प्रमत्तस्याधर्मो भवति, अप्रमत्तस्य प्राणव्यपरोपणे जातेऽपि प्राणव्यपरोपणकर्तुरप्रमत्तस्याधर्मो न भवतीत्याह-सूत्रविहितन्यायेनेति । तद्धातेऽपि जीवघातेऽपि ।
Page #388
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् ૨૨૭ घातेऽपि स्यादधर्मः' इति न भावसम्यग्दृष्टिरसौ, द्रव्यसम्यग्दृष्टिस्तु स्यादेवान्यदर्शनासगृहनिवृत्त्या जिनवचनरुचिस्वभावस्य संक्षेपसम्यक्त्वलक्षणत्वात् , तथा च पारमर्षम्-.
"अणभिग्गहियकुदिट्ठी, संखेवरुइ त्ति होइ णायवो। अविसारओ पवयणे, अणभिग्गहिओ य सेसेसु ॥" ।
[सम्मतिकाण्ड० २८, गाथा-२६] ततोऽपर्यायेष्वपि-न विद्यन्तेऽचिमुर्मुरादयो विवक्षितपर्याया येषु पुद्गलेषु तेष्वपि, अप्यविभक्तश्रद्धानं यत् तदपि भावत एव भवेद् 'अर्चिष्मानयं भावो भूतो भावी वा' इति, नहि भूत-भाविपर्यायोपरक्तवाक्यं द्रव्यतः सत्यं भवति, ‘सविशेषेण' इति न्यायाद् भूत
स्यादधर्म इति-अधर्मः स्यादित्येवमवगच्छन् पुरुषः भावसम्यग्दृष्टिर्न भवति, तर्हि स किं मिथ्यादृष्टिः ? नैवमपीत्याह-द्रव्यसम्यग्दृष्टिस्तु स्यादेवेति। तत्र हेतुमुपदर्शयति-अन्येति-मीमांसकादिदर्शनस्य यज्ञे हिंसातोऽधर्मो न भवत्येवंरूपोऽसद्हः कदाग्रहस्तस्य निवृत्त्याऽभावेन, जिनवचनरुचिर्यदेव जिनेनोक्तं तदेव सत्यमित्येवंरूपा या श्रद्धा तत्स्वभावस्य संक्षेपसम्यक्त्वलक्षणत्वादित्यर्थः । उक्तार्थे पारमर्षवचनसंवादमाह-तथा चेति । अणभिगाहिय० इति-"अनभिग्रहिक कुदृष्टिः संक्षेपरुचिरिति भवति ज्ञातव्यः। अविशारदः प्रवचने अनभिग्रहिकश्च शेषेषु"॥ इति संस्कृतम् । सम्मतिगाथोत्तरार्द्ध विवृणोति-तत इति । 'अपर्यायेष्वपि' इत्यस्य विवरणम्-'न विद्यते' इत्यारभ्य 'तेष्वपि' इत्यन्तम् । तदपि अविभकश्रद्धानमपि । भावत एव भवेत् भावतः श्रद्धानमेव तत् । कीदृशं तच्छ्रद्धानमित्यपेक्षायां तदाकारमुल्लिखति-'अर्चिष्मानयं भावो भूतो भावी वा' इतीति 'माऽस्त्विदानीमयं भावोऽर्चिष्मान् किन्तु अतीतकाले आसीदेवार्चिष्मान्, भविष्यत्काले वा भविष्यत्येवायमर्चिष्मान्' इति कृत्वा भावतः सत्योऽयमिति । द्रव्यश्रद्धानमिदं कस्मान्न भवतीत्यपेक्षायामाह-नहीति-अस्य ‘भवति' इत्यनेनान्वयः । हि यतः। सविशेषणेति-'सविशेषणौ विधि-निषेधौ विशेषणबाधे
Page #389
--------------------------------------------------------------------------
________________
३२८ अनेकान्तव्यवस्थाप्रकरणम् । भाविपर्यायध्वंस-प्रागभावावगाहित्वात् तत्र द्रव्यतः सत्यत्वमिति चेत् ? न-तथापि धर्मांशे द्रव्यतोऽविभक्तस्यापि धयंशे विभक्तस्य प्रत्ययस्य भावत एव सम्भवात् , तन्नात्राप्यव्यापकोऽनेकान्तवादः ।
वस्तुतो नियमेन षट् कायान् श्रद्दधद् भावतो न सम्यग्दृष्टिरित्यत्रैव हेतुरयम् , हन्दि-यतः, अपर्यायेषु-एकादिप्रकाररहितेषु षट्सु
विशेष्यमुपसङ्क्रामतः' इति सम्पूर्ण न्यायशरीरम्, प्रकृतेऽर्चिष्मत्त्वं विशेषणम् , अयमिति विशेष्य इति, तत्रापि विशेष्ये पुरोवर्तित्वादिलक्षणमिदन्त्वं विशेषणं वस्तुस्वरूपं च विशेष्यम्, तत्र, 'अर्चिष्मानित्यंशो वस्त्वंशश्च' 'भूतो भावी वा' इत्यनेनान्वेति, इदन्त्वं चोक्तलक्षणं नान्वेतीति विशेषणस्येदन्त्वतस्य बाधे सति अर्चिष्मत्तया भूतत्व-भविष्यत्त्वयोर्वस्तुरूपविशेष्येऽन्वयः, तेन भूतो योऽर्चिष्मत्प
यस्तद्धंसावगाहित्वाद् 'अर्चिष्मानयं भावो भूतः' इत्येवं श्रद्धानम् , भावी योऽर्चिष्मत्पर्यायस्तत्प्रागभावावगाहित्वाद् 'अर्चिष्मानयं भावी' इत्येवं श्रद्धानमिति, तथा चैवमुररीकारो द्रव्यनिक्षेपाद् भवतीति तत्र द्रव्यतः सत्यत्वमिति द्रव्यश्रद्धानमेव तदिति शङ्काशयः । प्रतिक्षिपति-नेति । तथापि उक्तदिशा द्रव्यतः सत्यत्वसम्भवेऽपि । द्रव्यत इति-धर्माणां स्वरूपतो भेदेऽप्येकद्रव्याभिन्नत्वात् तदपेक्षया धर्माशे प्रत्ययस्याविभक्तता बोध्या, भावस्तु पर्यायनयगोचरो भूतपर्यायवस्वरूपाद् भावाद् वर्तमान-भविष्यत्पर्यायरूपयोर्भावयोर्भेदः, वर्तमानपर्यायस्वरूपाद् भावाद् भूत-भविष्यत्पर्यायस्वरूपयोर्भावयोर्भेदः, भविष्यत्पर्यायस्वरूपाद् भावाद् भूत-वर्तमानपर्यायस्वरूपयो वयोर्भेद इति कृत्वा धयंशे भावत एव विभक्तस्य प्रत्ययस्य सम्भवात् , यथा धर्मा द्रव्यादभिन्ना इति द्रव्यस्यैकरूपत्वाद् धर्माणामप्येकरूपत्वमिति द्रव्यतो धर्माशेऽविभक्तस्य प्रत्ययस्य सम्भवः तथा द्रव्यस्वरूपो धर्म्यपि विभिन्नरूपधर्माभिन्नत्वाद् धर्माणां भिन्नत्वे तस्यापि भिन्नत्वेन धयंशे भावतो विभक्तप्रत्ययस्य सम्भव इति भावश्रद्धानमेतद् भवतीति भावः । एवं च 'षड् जीवनिकायाः, तद्धाते चाधर्मः' इत्यत्राप्येकान्तस्य सद्भावात् तस्य व्यापकत्वं न तत्रापि व्याहन्यत इत्युपसंहरति-तन्नेति । पूर्वाद्धेन यदुक्तं तत्रैव हेतूपदर्शनपरमुत्तरार्द्धमिति चयं परामृशति-वस्तुत इति। अयम् उत्तरार्द्धप्रतिपाद्योऽर्थः । 'हन्दि' इत्यस्य 'यतः' इत्यर्थः । 'अपर्यायेषु' इत्यस्य 'एकादिप्रकाररहितेषु षट्सु कायेषु'
Page #390
--------------------------------------------------------------------------
________________
तत्त्वबोधिनी विवृतिविभूषितम् ३२९ कायेषु, श्रद्धा, अविभक्ता भवति-स्याद्वादज्ञानपरिसमाप्याकाङ्क्षापरिपूाऽविश्रान्ता भवति, "एगविह-दुविह-तिविहा" इत्यादिप्ररूपणयैव तद्विश्रान्तिसम्भवादित्ययमर्थोऽनुभवसम्मुखीन इति ध्येयम् ॥ .... . नन्वनेकान्तस्य व्यापकत्वे गच्छति तिष्ठतीत्यत्राप्यनेकान्तः स्यादिति चेत् ? स्यादेवेत्याह
“गइपरिणयं गई चेव, केइ णियमेण दक्यिमिच्छंति । .. तं पि य उड्डगईअं, तहा गई अण्णहा अगई ॥". .
[सम्मतिकाण्ड० ३, गाथा-२९] . . गतिक्रियापरिणतं द्रव्यं गतिमदेवेति केचिन्मन्यन्ते, तदपि गतिक्रियापरिणतं जीवद्रव्यम् , सर्वतो गमनायोगादूर्ध्वादिप्रतिनियत दिग्गतिकं तैर्वादिभिरभ्युपगन्तव्यम् , एवं च तत् तथाप्रतिनियतदिग्गमनेन गतिमदन्यथा चाऽगतिमदेव, अन्यथापि यदि गतिमत् स्यात् तदाइति फलितार्थकथनम् । 'अविभक्ता भवति' इत्यस्य ‘स्याद्वादज्ञानपरिसमाप्याकालापरिपृत्त्योऽविश्रान्ता भवति' इत्यपि फलितार्थकथनम्, 'आकाङ्क्षाऽपरिपूत्यों इत्यकारप्रश्लेषोऽत्र ज्ञेयः। तर्हि कीदृक्प्ररूपणया श्रद्धा विश्रान्ता भवतीत्यपेक्षायामाह-एग० इति-“एकविध-द्विविध-त्रिविधा" इति संस्कृतम् । तद्विश्रान्तिसम्भवात् स्याद्वादज्ञानपरिसमाप्याकाङ्खापरिपूर्त्या श्रद्धाविश्रान्तिसम्भवात् । उक्तार्थस्यानुभवारूढत्वादक्लिष्टकल्प्यत्वेन युक्तत्वमावेदयति-इत्ययमर्थ इति । गत्यादावप्यनेकान्तस्य सद्भावप्रतिपादिकां गाथां पराशङ्काप्रतिविधानपरतयाऽवतार्य दर्शयति-नन्विति । गइपरिणयं० इति “गतिपरिणतं गतिमदेव केचिनियमेन द्रव्यमिच्छन्ति । तदपि चोर्द्धगतिक तथा गतिमदन्यथाऽगतिमत् ॥" इति संस्कृतम् । विवृणोति-गतिक्रियेति । एवं च गतिक्रियापरिणतजीवद्रव्यस्यो
र्धादिप्रतिनियतदिग्गतिकत्वे च । तत् गतिक्रियापरिणतजीवद्रव्यम् । 'तथा' इत्यस्य 'प्रतिनियतदिग्गमनेन' इति विवरणम् , तथा च प्रतिनियतदिग्गमनरूपेण गतिमत्त्वम्, अप्रतिनियतदिग्गमनरूपेणागतिमत्वमित्येवम्भूतधर्मद्वयवत्त्वादनेकान्तत्वमत्रापीत्यर्थः । अन्यथापि गतिमत्त्वं किमिति न स्यादित्यत आह-अन्यथापीति-अप्रतिनियत
Page #391
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् । ऽभिप्रेतदेशप्राप्तिवदनभिप्रेतदेशप्राप्तिरपि तस्य भवेदित्यनुपलभ्यमानयुगपद्विरुद्धोभयदेशप्राप्तिप्रसक्तिरित्यत्राप्यनेकान्तो नाव्यापकः, अभिप्रेतगतिरेव तत्रानभिप्रेता गतिरिति चेत् ? न-अनभिप्रेतगत्यभावाभावे प्रतिनियतगतिभावस्यैवाभावात् , तत्सद्भावे च तदवस्थोऽनेकान्तः । ननु 'गतिमदेव' इत्येकान्तेन गतिसामान्यवति गतिसामान्याभावो गमनेनापीत्यर्थः । अप्राप्ततत्प्रदेशप्राप्त्यर्थमेव तत्तद्देशाभिमुखगमने भवतीत्यूर्ध्वदेशप्राप्त्यर्थं यद् गमनं तद् ययूर्ध्वदेशावच्छेदेन गमनरूपमिवान्यदेशावच्छेदेन गमनरूपमपि स्यात् तदोर्ध्वदेशप्राप्तिरिवान्यदेशप्राप्तिरपि तादृशगतिमतः पुंसो भवेत् , न च युगपद्विरुद्धोभयदेशप्राप्तिरुपलभ्यत इति तथापादनं नेष्टापत्तितया परिहतु शक्यमित्याह-तदेति । तस्य गतिमतो जीवस्य । ननु यैवाभिप्रेतगतिरूर्वदिग्गमनलक्षणा सैवानभिप्रेतागतिरन्यदिग्गमनाभावरूपेत्येकधर्मसमावेश एव नानेकधर्मसमावेश इति कुतोऽनेकान्तवादावकाशोऽत्रेति शङ्कते-अभिप्रेतगतिरेवेति-प्रतिनियतदिग्गतिरेवेत्यर्थः । समाधत्ते-नेति तत्सद्भावे च अनभिप्रेतगत्यभावसद्भावे च । नन्वविरुद्धधर्मद्वयसद्भाव एकत्रैकान्तवादिभिरप्युपेयते, नैतावताऽनेकान्तवादो व्यवतिष्ठते, किन्तु-एकान्तवादे अवधारणेन विरुद्धस्यैव प्रतिक्षेपः क्रियते, अनेकान्तवादेन तु विरुद्धस्य सद्भाव उपदर्यत इत्यनयोलक्षण्यम् , प्रकृते तु एकान्तवादीष्टेन गतिमदेवेत्यवधारणेन गतिसामान्यवति गतिसामान्याभावो निषिध्यते, गतिसामान्यस्य गतिसामान्याभावेन सहैव विरोधात् न तु गतिविशेषाभावः, सामान्यवति विशेषाभावस्याभ्युपगमेन सामान्य-विशेषाभावयोरविरोधात् , अनेकान्तवादिना तु गतिसामान्यवति गतिविशेषाभाव एवोपदर्यत इत्युपदिष्टेन विशेषाभावेनावधारणलभ्यस्य सामान्याभावप्रतिक्षेपस्य नापोहनम् , नहि सामान्याभावविशेषाभावयोरैक्यं येन विशेषाभावे उपदिष्टे सामान्याभावोऽप्युपदिष्टः स्यात्, ततश्च सामान्याभावप्रतिक्षेपस्याप्यपोहो भवेदित्यनेकान्तवादप्रवेशो भवेदित्याशङ्कतेननु गतिमदेवेत्येकान्तेनेति । स च गतिसामान्याभावनिषेधश्च । कुतो गतिविशेषाभावेन गतिसामान्याभावप्रतिक्षेपो नापोद्यत इत्यपेक्षायामाह-नहीति । उक्ताशङ्का प्रतिक्षिपति-नेति । गतिविशेषाभावस्यापि कथञ्चिद्गतिसामान्याभावरूपतया गतिसामान्यवति गतिविशेषाभावो गतिसामान्याभाव इति भावाभावोभयसमावेशनिबन्धनानेकान्तसाम्राज्यमत्रापीत्याह-गतिसामान्यवत्यापीति । विशेषाभाव
Page #392
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् ३३१ निषिध्यते, स च गतिविशेषाभावेन नापोद्यते, नहि विशेषाभाव एव सामान्याभाव इति कोऽयमनेकान्त इति चेत् ? न-गतिसामान्यवत्यपि गतिविशेषाभावेन भावाभावोभयरूपतासमावेशादेवानेकान्तसाम्राज्याद् न च विशेषाभावेभ्यः सामान्याभावोऽपि सर्वथातिरिक्तः, किन्तु यावद्विशेषाभावाधिकरणावच्छेदेनातिरिक्तो यत्किञ्चिद्विशेषाभावाधिकरणावच्छेदेन चानतिरिक्त इति गतिसामान्यवति विशेषरूपेण तत्सा
सामान्याभावयोः सर्वथा भेदे नोक्तोपपत्तिरतः सामान्याभावस्य सर्वथा विशेषभाव. व्यतिरिक्तत्वं प्रतिक्षिपति-न चेति । तत् किं तयोः सर्वथाऽभेद एवान्यो वाऽत्र कश्चित् प्रकार इति पृच्छति-किन्त्विति। उत्तरयति-यावदिति-यत्राकाशादौ कोऽपि गतिविशेषो न वर्तते, स आकाशादिर्यावद्गतिविशेषाभावाधिकरणम् , तदवच्छेदेन गतिसामान्याभावो गतिविशेषाभावाद् भिन्नः गतिमत्यपि जीवे तिर्यग्गत्यादिविशेषाभावोऽस्तीति यत्किञ्चिद्गतिविशेषाभावाधिकरणं जीवस्तदवच्छेदेन गतिसामान्याभावो गतिविशेषाभावादनतिरिक्त इत्यर्थः। ननु गतिमति गतिविशेषाभावो गतिसामान्याभावस्तु न विद्यत इति कथं गतिसामान्याभावस्य गतिविशेषाभावरूपत्वमत आह-गतिसामान्यवतीति । तत्सामान्याभावोऽपीति गतिसामान्याभावोऽपि, यथा वह्निसामान्यवत्यपि पर्वते महानसीयवह्नित्वेन वह्निर्नास्तीति प्रतीतिबलाद् महानसीयवह्नित्वावच्छिन्नवह्निसामान्यनिष्ठ प्रतियोगिताकाभावोऽभ्युपेयते तथैवोर्ध्वगतिमादाय गतिसामान्यवति जीवे अधोगतित्वादिना गतिर्नास्तीति प्रतीतिबलादधोगतित्वाद्यवच्छिन्नगतिसामान्यनिष्ठप्रतियोगिताकाभावो. ऽभ्युपगन्तव्यः, तथा च गतिविशेषाभावाद् गतिसामान्याभावोऽतिरिच्यतां नाम तथापि विशेषरूपेण गतिसामान्याभावमेवोपादाय भावाभावोभयरूपसमावेशनिबन्धनानेकान्तता स्यादेवेत्याशयः । ननु गतिमदेवेत्येकान्तावधारणेन गतिमति गतित्वा. वच्छिन्नप्रतियोगिताकाभाव एव निषिध्यते, तादृशनिषेधश्च विशेषधर्मावच्छिन्नप्रतियोगिताकाभावेन नापोद्यत इति नैकान्तव्याघात इत्याशङ्कते-गतिमतीति-यथा च प्रतीतिबलात् सामान्यनिष्ठप्रतियोगिताया विशेषधर्मोऽवच्छेदकः, तथा तत एव विशेषनिष्ठप्रतियोगितायाः सामान्यधर्मोऽप्यवच्छेदक इति सामान्यधर्मावच्छिन्नविशेषनिष्ठप्रतियोगिताकाभाव उक्तनिषेधापनोदको भवतीत्येवमेकान्तव्याघातः स्यादेवेति
Page #393
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ।
मान्याभावोऽपि न दुर्लभः । गतिमति गतित्वावच्छिन्नप्रतियोगिताकाभावनिषेधान्नैकान्तव्याघात इति चेत् ? न - सामान्यरूपेण विशेषाभावमादायेत्थमपि वक्तुमशक्यत्वात्, गतित्वावच्छिन्नगतिसामान्यनिष्ठप्रतियोगिताकाभावेन सह गतिसामान्यविरोधैकान्त एवेति चेत् ? न - सामान्यावच्छिन्नप्रतियोगिताकत्वस्याधिकरणविशेषावच्छेदेनैव सम्भवात्, तत्तदधिकरणान्तर्भावेन विरोधा - विरोधयोरप्यनेकान्तस्यैव
३३२
समाधत्ते-नेति । इत्थमपि अवधारणस्य गतित्वावच्छिन्न प्रतियोगिताकाभावनिषेधपरत्वाश्रयणेनैकान्तव्याघातस्यापि । ननु गतित्वावच्छिन्नगतिसामान्यनिष्ठप्रतियोगिताकाभावो गतिसामान्यस्य विरोधीति स एव गतिमदेवेत्यवधारणेन निषिध्यते, तादृशनिषेधस्यापनोदको न भवदभिमतो गतिसामान्यवति गतित्वावच्छिन्नगतिविशेषनिष्ठप्रतियोगिताकाभाव इति नैकान्तव्याघात इत्याशङ्कते - गतित्वावच्छिन्नेति । एकस्यैवाभावस्य यदधिकरणे कोऽपि गतिविशेषो नास्ति तदधिकरणावच्छेदेन गतित्वावच्छिन्न प्रतियोगिताकत्वम्, यदधिकरणे कश्चिद् गतिविशेषो नास्ति कश्चिच्च गतिविशेषो वर्तते तदधिकरणावच्छेदेन न गतित्वावच्छिन्नप्रतियोगिताकत्वं किन्तु यस्मिन् यस्मि - न्नधिकरणे यस्य यस्य विशेषस्य न सम्भवस्तत्तदधिकरणावच्छेदेन तत्तद्विशेषासाधारणधर्मावच्छिन्नप्रतियोगिताकत्वमित्येवमुपगमेन यदधिकरणावच्छेदेन न कोऽपि गति - विशेषस्तदधिकरणावच्छेदेन निरुक्ताभावस्य गतिसामान्येन विरोधः, यदधिकरणावच्छेदेन कोऽपि गतिविशेषः समस्ति तदधिकरणावच्छेदेन निरुक्ताभावस्य न गतिसामान्येन विरोध इत्येवं विरोधाऽविरोधयोरप्यनेकान्त एवेति समाधत्ते - नेति । उक्तदिशा नैकस्मिन्नभावे सामान्यावच्छिन्न प्रतियोगिताकत्वमधिकरणविशेषावच्छेदेन, विशेषधर्मावच्छिन्नप्रतियोगिताकत्वं चाधिकरण विशेषावच्छेदेन, किन्तु यत्र विशेषधर्मावच्छिन्नप्रतियोगिताकत्वं न तत्र सामान्यधर्मावच्छिन्नप्रतियोगिताकत्वमिति स्वरूपत एव विशेषधर्मावच्छिन्नप्रतियोगिताकाभावात्, सामान्यधर्मावच्छिन्नप्रतियोगिताकाभावो - ऽतिरिक्तः, अन्यथा जगति एक एवाभावः स्यात्, तस्यैव तत्तदधिकरणविशेषावच्छेदेन तत्तद्धर्मावच्छिन्नप्रतियोगिताकत्वस्य सम्भवादिति विभाव्यते तदा प्रतीतिबलाद् यथा सामान्यावच्छिन्न प्रतियोगिताकोऽभावोऽतिरिक्तस्तथा सामान्यावच्छिन्नाधिकरणताक्रोऽप्यभावोऽतिरिक्तोऽभ्युपगन्तव्यः स्यात् न च तथाऽभ्युपगम्यते, इत्यनेकान्त
Page #394
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् ३३३ साम्राज्यात् । यदि च सामान्यावच्छिन्नप्रतियोगिताकोऽभावोऽतिरिक्त एव तदा द्रव्यविशेष रूपं न तु द्रव्यसामान्य इति प्रतीत्या सामान्यावच्छिन्नाधिकरणताकोऽप्यभावोऽतिरिक्तोऽभ्युपगन्तव्यः, तस्मादभावस्य सामान्याधिकरणकत्वस्य सामान्यप्रतियोगिकत्वस्य स्वतः सामान्यविशेषभावस्य चानेकान्तकोडीकृतत्वाद् भावा-ऽभावयोर्विरोधाऽविरोधावपि तादृशावेवेत्यभिप्रायात् । एतेन. 'भावा-ऽभावसामान्ययोरेव विरोधकल्पनाद् भेदा-ऽभेदाद्यनेकान्तसमावेशोऽप्रामाणिकः' एव तत्रापि प्रविशति, अन्यथा तथाप्रतीत्युपपादनमशक्यम् , एवमेव भावाऽभावयोविरोधा-ऽविरोधावप्यनेकान्तावेव स्वीकरणीयावित्याह-यदि चेति । उपसंहरतितस्मादिति । 'अभावस्य' इत्यस्य ‘सामान्याधिकरणकत्वस्य'इत्यादिषठ्यन्तत्रयेऽन्वयः, तस्य च 'प्रत्येकमनेकान्तकोडीकृतत्वाद्' इत्यनेनान्वयः, रूपाभावस्य द्रव्यसामान्यावच्छेदेन सामान्याधिकरणकत्वं द्रव्यविशेषावच्छेदेन सामान्याधिकरणकत्वाभाव इत्येवं सामान्याधिकरणकत्वस्यानेकान्तकोडीकृतत्वम् , तस्यैव रूपाभावस्य यावद्रूपविशेषाभावाधिकरणाकाशाद्यवच्छेदेन रूपसामान्यप्रतियोगिकत्वं यत्किञ्चिद्रूपविशेषाभावाधिकरणपृथिव्याद्यवच्छेदेन रूपसामान्यप्रतियोगिकत्वाभाव इत्येवं सामान्यप्रतियोगिकत्वस्यानेकान्तकोडीकृतत्वम् , तस्यैव रूपाभावस्य स्वतः स्वरूपतः सामान्यविशेषभावस्य स्वगतानेकविशेषानुगामित्वात् सामान्यरूपत्वमन्यतो व्यावृत्तत्वाद् विशेषस्वभावत्वम् , तथा खस्वरूपापेक्षयैव सामान्य-विशेषभावत्वं नान्यापेक्षयेत्येवं तस्यानेकान्तकोडीकृतत्वमिति बोध्यम् । तादृशावेव अनेकान्तकोडीकृतावेव, विभिन्नाधिकरणावच्छेदेन सामानाधिकरण्याभावलक्षणो विरोधः, एकाधिकरणावच्छेदेन सामानाधिकरण्यलक्षणोऽविरोधः, यदवच्छेदेन यद्रूपेण वा विरोधस्तदन्यावच्छेदेन तदन्यरूपेण वाऽविरोधः, एवं यदवच्छेदेन यद्रूपेण वाऽविरोधस्तदन्यावच्छेदेन तदन्यरूपेण वा विरोध इत्येवं विरोधा-ऽविरोधयोरप्यनेकान्तत्वमिति । 'एतेन' इत्यस्य 'अपास्तम्' इत्यनेनान्वयः । भावाभावसामान्ययोरेव विरोधकल्पनात् यः कश्चिद् भावस्तस्य सर्वस्य स्वखभावेन सह विरोधः, यः कश्चिदभावस्तस्य सर्वस्य खस्वप्रतियोगिना समं विरोध इत्येवं कल्पनात् । भेदाऽमेदादीनामपि भावा-ऽभाव सामान्यान्तर्गतत्वात् तेषामपि विरोधस्यैव सद्भावान्नैकाधिकरणस्वभावातलक्षणानेका
Page #395
--------------------------------------------------------------------------
________________
३३४
अनेकान्तव्यवस्थाप्रकरणम् । इत्यपास्तम् , विरोधस्यापि विशेषविश्रान्तत्वेन यथानुभवं गुण-गुण्यादिभेदा-ऽभेदाद्यविरोधकल्पन एव लाघवादित्यधिक मत्कृतनयरहस्ये । स्यादेतद्-'दहनाद् दहनः, पचनात् पचनः' इत्यत्राप्यनेकान्ते दहनादावदहनादिविरुद्धरूपस्य सम्भवात् स्वरूपाभावप्रसङ्गः, तत्राह. "गुणनिवत्तियसण्णा, एवं दहणादओ वि दट्ठवा । .. जंतु जहापडिसिद्धं, दत्वमदत्वं तहा होइ ॥”
[सम्मतिकाण्ड० ३, गाथा ३०] गुणेन दहनादिना निर्वर्तिता उत्पादिता संज्ञा येषां तेऽपि दहनपचनादयः, एवमेवानेकान्तात्मका द्रष्टव्याः, तथाहि-दाहपरिणामयोग्यं न्तसमावेशः प्रामाणिक इत्याह-भेदाभेदादीति-आदिपदान्नित्यानित्यादीनामुपग्रहः । 'एतेन' इत्यतिदिष्टमेवापासनहेतुमुपदर्शयति-विरोधस्यापि विशेषविश्रान्तत्वेनेति-यदि भावसामान्या-ऽभावसामान्ययोरविशेषेण विरोधस्तदा भावसामान्यान्तर्गताघटधिकरणेऽभावसामान्यान्तर्गतपटाभावादिरपि न स्यात् , एवं पटाभावाद्यधिकरणे घटादिरपि न वर्तेत, यत्त्व-तत्त्वादिकं चाननुगतमेव ततो घटाभावस्य स्वप्रतियोगिना घटेन सह विरोधः, घटस्य स्वप्रतियोगिकाभावात्मकेन घटाभावेन सह विरोध इत्येवं विरोधस्य विशेषविश्रान्तत्वेनेत्यर्थः । यथानुभवमिति-अनुभवमनतिकम्येत्यर्थः, ययोर्विरोधोऽनुभूयते तयोर्विरोधः कल्प्यते, ययोः स नानुभूयते तयोर्भावा-ऽभावयोरपि विरोधो न कल्प्यते इति यावत् , गुण-गुण्यादिभेदाभेदादेश्च विरोधो नानुभूयतेऽतो न तस्य विरोधः कल्प्यते, प्रत्युत विरोधस्यैकाधिकरणावृत्तित्वस्य गुरुभूतस्य कल्पनापेक्षयाऽविरोधस्यैकाधिकरणवृत्तित्वस्य लघुभूतस्य कल्पनमेव लाघवाद् युक्तमित्याह-गुण-गुण्यादीति । एतद्विशेषजिज्ञासुभिरस्मत्कृतनयरहस्यमवलोकनीयम् , इह ग्रन्थगौरवभयादेतावन्मात्रमत्रोपदिष्टमित्याशयेनाहअधिकं मत्कृतनयरहस्य इति । दहनपचनादावप्यनेकान्तत्वोपपादिकां गाथा परशङ्कासमाधानपरतयाऽवतार्य दर्शयति-स्यादेतदिति । दहनात् दाहजनकत्वात् । पचनात् पाकजनकत्वात् । गुण० इति-"गुणनिर्वर्तितसंज्ञा एवं दहनादयोऽपि द्रष्टव्याः। यत् तु यथा प्रतिषिद्धं द्रव्यमद्रव्यं तथा भवति ॥” इति संस्कृतम् ।
Page #396
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् तृणादिकं दहतीति दहनः, तदपरिणतिस्वभावं त्वात्मा-ऽऽकाशा-ऽप्राप्तवज्रा-ऽण्वादिकं न दहतीत्यदहनः, तेन यद् द्रव्यं यथा-दहनरूपतया प्रतिषिद्धम् , तद् द्रव्यमदहनादिकम् , तथा भजनाप्रकारेण स्याद् दहनः स्यान्नेति भवति, ततो नाव्याप्यनेकान्तः । तथाऽदहन इत्यत्राप्यनेकान्तः, तथाहि-यदुदकद्रव्यं दहनरूपेण प्रतिषिद्धं दहनो न भवतीत्यदहन इति भवति' तदपि न सर्वथाऽदहनद्रव्यं भवति, पृथिव्यादेरदहनरूपाद् व्यावृत्तत्वात् , अन्यथा दहनव्यतिरिक्तभूतैकत्वप्रसङ्ग इत्यनेकान्त एव, दहनव्यावृत्तस्य तदतद्रव्यत्वात् । नन्वेवं तदतद्रव्यत्वाज्जीवद्रव्यमजीवद्रव्यं अजीवद्रव्यं च जीव द्रव्यं स्याद् इत्याशङ्कायामाह
विवृणोति-गणेनेति । दहनादावनेकान्तात्मकत्वं भावयति-तथाहीति । तदपरिणतिस्वभावं दाहापरिणतिखभावम् । अप्राप्तेति-दहनः प्राप्तं स्वसंयुक्तमेव दाहपरिणतिस्वभावं तृणादिकं दहति, न तु दाहपरिणतिखभावमपि स्वासंयुक्तमित्यसंयुक्तेत्यर्थः । यद् द्रव्यं दहनद्रव्यम् । 'यथा' इत्यस्यार्थः-दहनरूपतया अदाह्यखभावं प्रति दहनत्वेन रूपेण । तद् द्रव्यं दहनद्रव्यम् । अदहनादिकम् अदहनादिस्वभावम् । दहनमेवापेक्षयाऽदहनादिकम् , तत् किं दहनं सर्वथाऽदहनमित्याकाङ्क्षायामाह-तथेति-अस्यार्थो भजनाप्रकारेणेति । भजनाप्रकारमेवाहस्याद् दहनः स्यान्नेतीति । दहने दहना-ऽदहनाखरूपव्यवस्थापनेनानेकान्तस्य सत्त्वमुपदादहनेऽनेकान्तमुपदर्शयति-तथेति । अदहनेऽनेकान्तं भावयति-तथा हीति। दहनरूपेण प्रतिषेधस्य स्वरूपमुल्लिखति-दहनो न भवतीत्यदहन इति भवतीति । तदपि दहनरूपेण प्रतिषिद्धमुदकद्रव्यमपि । निषेधे हेतुमाहपृथिव्यादेरिति-यददहनादेावृत्तं तददहनं न भवति यथा दहनम् , उदकमप्यदहनादिस्वरूपं यत् पृथिव्यादि ततो व्यावृत्तत्वाददहनं न भवतीति । अन्यथा उदकद्रव्यस्यादहनात् पृथिव्यादितो व्यावृत्तत्वाभावे । अनेकान्तत्वमेव स्पष्टयतिदहनव्यावृत्तस्येति-दहनभिन्नस्योदकस्येत्यर्थः । तदतद् द्रव्यत्वात् अदहनतदन्यद्रव्यत्वात्। जीवद्रव्यस्यापि जीवद्रव्यत्वमजीवद्रव्यत्वं च; अजीवद्रव्यस्याप्यजीव
Page #397
--------------------------------------------------------------------------
________________
३३६
अनेकान्तव्यवस्थाप्रकरणम् । "कुंभो ण जीवदवियं, जीवो वि ण होइ कुंभदवियं ति । . तम्हा दोवि अदवियं, अण्णोण्णविसेसिया होति ॥"
[सम्मतिकाण्ड० ३, गाथा ३१] कुम्भो जीवद्रव्यं न भवति, जीवोऽपि न भवति घटद्रव्यम् , तस्माद् द्वावप्यद्रव्यम् , अन्योन्यविशेषितौ-परस्पराभावात्मकौ, यतोऽयमभिप्रायः-जीवद्रव्यं कुम्भादेरजीवद्रव्याद् व्यावृत्तम् ? अव्यावृत्तं वा ? प्रथमपक्षे स्वरूपापेक्षया जीवो जीवद्रव्यम् , कुम्भाद्यजीवद्रव्यापेक्षया तु न जीवद्रव्यमित्युभयरूपत्वादनेकान्त एव, द्वितीयविकल्पे तु सर्वस्य सर्वात्मकत्वापत्तेः, प्रतिनियतरूपाभावतस्तयोरभावः खरविषाणवत्, ततः सर्वमनेकान्तात्मकम् , अन्यथा प्रतिनियतरूपतानुपपत्तेरिति द्रव्यत्वं जीवद्रव्यत्वं चेत्थमुपपादिकां गाथां पराशङ्कासमाधानपरतयाऽवतार्योल्लिखतिनन्वेवमिति । कुंभो० इति-"कुम्भो न जीवद्रव्यं जीवोऽपि न भवति कुम्भद्रव्यमिति । तस्माद् द्वावप्यद्रव्यमन्योन्यविशेषितौ भवतः ॥” इति संस्कृतम् । विवृणोति-कुम्भो जीवद्रव्यं न भवतीति । द्वावपि कुम्भजीवावुभावपि । अभिप्रायमाविष्करोति-यतोऽयमभिप्राय इति । प्रथमपक्षे जीवद्रव्यं कुम्भादेरजीवद्रव्याद् व्यावृत्तमिति कल्पे । स्वरूपेति-जीवस्याजीवस्य च धर्मास्तिकायादेः खरूपापेक्षया-स्वस्खासाधारणधर्मापेक्षया द्रव्यत्वमिति जीवो जीवद्रव्यं भवति, यद् द्रव्यतो व्यावृत्तं तन्न द्रव्यमिति जीवोऽपि अजीवात्मकद्रव्याद् व्यावृतोऽतो न द्रव्य मित्येवमजीवद्रव्यापेक्षया न जीव इत्युभयस्वरूपत्वादनेकान्त एवात्रापीत्यर्थः। द्वितीयविकल्पे तु जीवद्रव्यं कुम्भादेरजीवद्रव्यादव्यावृत्तमिति द्वितीयपक्षे पुनः । सर्वस्येति-यद् यतोऽव्यावृत्तं तत्तदात्मके भवति, यथा स्वस्वरूपं स्वस्मादव्यावृत्तं वात्मकम् जीवद्रव्यं चाजीवद्रव्यात् कुम्भादेरव्यावृत्तं कुम्भाद्यात्मकं स्यात् , एवं कुम्भाद्यजीवद्रव्यमपि जीवद्रव्यादव्यावृत्तं जीवद्रव्यात्मकं स्यादित्येवं सर्वस्य सर्वात्मकत्वं स्यादित्यर्थः। यदा जीवोऽजीवतामेति, अजीवश्च जीवतामेति तदा तयोः प्रतिनियतस्वरूपाभावतोऽभाव एव प्रसज्यते, यन्न प्रतिनियतवरूपं तन्न सत् , यथा खरविषाणमिति व्याप्तेरित्याहप्रतिनियतेति-तस्मात् सर्वस्य वस्तुनः प्रतिनियतरूपान्यथानुपपत्त्याऽनेकान्तात्मकत्वमास्थयमित्युपसंहरति-तत इति । अन्यथा अनेकान्तात्मकत्वाभावे । एतावता
Page #398
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृति विभूषितम्
३३७
व्यवस्थितम्– अनेकान्तव्यवस्थितिश्रद्धैव भावतः सम्यक्त्वम्, तद्विकलानामुत्कृष्टचारित्रानुष्ठानस्यापि तथाविधफलाभावात्, तदुक्तम् - वादि
गजकेसरिणा श्रीसिद्धसेनदिवाकरेण—–
"चरण करणापहाणा, ससमय-परसमय मुक्कावारा । चरण - करणस्स सारं, णिच्छयसुद्धं ण याणंति ॥ " [ चरणं श्रमणधर्म :
]
]
"वय-समणधम्म-संजम - वेयावश्चं च बंभगुत्तीओ | नाणाइतियं तव -कोहणिग्गहाई चरणमेयं ॥ " [ इति वचनात् व्रतानि हिंसाविरमणादीनि पश्र्च, श्रमणधर्मः क्षान्त्यादिर्दशधा, संयमः पञ्चाश्रवविरमणादिः सप्तदेशभेदः, वैयावृत्त्यं
www
wwww
भावतः सम्यक्त्वमनेकान्तव्यवस्थितिश्रद्धारूपमित्यपि सूपपन्नमित्याह- अनेकान्तेति । तद्विकलानां अनेकान्तव्यवस्थितिश्रद्धा रहितानाम् । तथाविधेति-अनेकान्तव्यवस्थितिश्रद्धावतश्चारित्रानुष्ठानस्य यथाविधं फलं तथाविधफलाभावादित्यर्थः। उक्तार्थे सम्मतिसंवादम।वेदयति-तदुक्तमिति । चरण० इति - " चरण -करणप्रधानाः स्वसमय पर समयमुक्तव्यापाराः । चरण- करणयोः सारं निश्चयशुद्धं न जानन्ति ॥" इति संस्कृतम् । वित्रृणोति-चरणमिति । चरणस्य श्रमणधर्मत्वे प्राचां वचनं प्रमाणयति-वय० इति- " व्रत-श्रमणधर्म संयम-वैयावृत्त्यं च ब्रह्मगुप्तयः । ज्ञानादित्रितयं तपःक्रोधनिग्रहादि चरणमेतत् ॥” इति संस्कृतम् । व्रतादीनां स्वरूप-संख्ये क्रमेण दर्शयति - व्रतानीति । 'हिंसाविरमणादीनि' इत्यादिपदादनृतविरमणस्तेयविरमणा-ऽब्रह्मविरमण-परिग्रहविरमणानामुपग्रहः, अत्र हिंसादीनां पञ्चानां " प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा” “असदभिधानमनृतम्” “अदत्तादानं स्तेयम्” “मैथुनमब्रह्म" "मूर्च्छा परिग्रहः” [ तत्त्वार्थाधिगमे, अ० ७, सू० ८, ९, १०, ११, १२] इति तत्त्वार्थसूत्रतः स्वरूपाणि विविक्तान्यवसेयानि । 'क्षान्त्यादिः इत्यादिपदात् मार्दवाssर्जव-शौच-सत्य- संयम - तपस्त्यागाऽऽकिञ्चन्य - ब्रह्मचर्याणां परिग्रहः । सप्तदशभेद इति-पृथिवीकायिकसंयमः १ अप्कायिकसंयमः २ तेजस्कायिकसंयमः ३ वायु
अ. व्य. २२
Page #399
--------------------------------------------------------------------------
________________
३३८
अनेकान्तव्यवस्थाप्रकरणम् । दशधाऽऽचार्याराधनादि, ब्रह्मगुप्तयो नव वसत्यादयः, ज्ञानादित्रितयं ज्ञान-दर्शन-चारित्राणि, तपो द्वादशधाऽनशनादि, क्रोधादिकषायषोडशकस्य निग्रहश्चेत्यष्टधा चरणम् । करणं पिण्डविशुद्ध्यादि
"पिंडविसोही समिई, भावण-पडिमा य इंदियनिरोहो ।
पडिलेहण-गुत्तीओ, अभिग्गहा चेव करणं तु ॥" इति वचनात् , तत्र पिण्डविशुद्धिस्त्रिकोटिपरिशुद्धिराहारस्य, समितिरीर्यासमित्यादिः पञ्चधा, भावना अनित्यत्वादिका द्वादश प्रतिमा मासादिका द्वादश भिक्षूणाम् , दर्शनादिका एकादशोपासकानाम् ,
कायिकसंयमः ४ वनस्पतिकायिकसंयमः ५ द्वीन्द्रियसंयमः ६ त्रीन्द्रियसंयमः ७ चतुरिन्द्रियसंयमः ८ पञ्चेन्द्रियसंयमः ९ प्रेक्ष्यसंयमः १० उपेक्ष्यसंयमः ११ अपहृत्यसंयमः १२ प्रमृज्यसंयमः १३ कायसंयमः १४ वाक्संयमः १५ मनःसंयमः १६ उपकरणसंयमः १७ इत्येवं सप्तदशभेद इत्यर्थः । 'आचार्याराधनादि' इत्यादिपदाद् । उपाध्याय-तपस्वि-शैक्षक-ग्लान-गण-कुल-सङ्घ-साधु-समनोज्ञाऽऽराघनानामुपग्रहः । वसत्यादय इति-वसतिगुप्तिर्यथा क्षणदायाः प्रथमयामेऽतिक्रान्ते गुरुमापृच्छ्य प्रमाणयुक्तायां वसतौ एकस्य साधोहस्त त्रयप्रमिते भूप्रदेशे सभाजनस्य च यत्रावस्थानं सकलावकाशपूरणं च सा प्रमाणयुक्ता” इत्यादिग्रन्थावसेया। अनशनादीतिअत्र अनशना-ऽवमौदर्य-वृत्तिपरिसङ्ख्यान-रसपरित्याग-विविक्तशय्यासन-कायक्लेशभेदेन षड्विधं बाह्यं तपः, प्रायश्चित्तविनय-वैयावृत्त्य खाध्याय-व्युत्सर्ग-ध्यानभेदेन षड्विधमाभ्यन्तरं तपः, मिलित्वा द्वादशधा तपो भवतीति । 'क्रोधादि' इत्यादिपदात् मान-माया-लोभानामुपग्रहः, क्रोधादयश्चत्वारोऽपि कषाया अनन्तानुबन्ध्यप्रत्याख्यान-प्रत्याख्यान-संज्वलनभेदा इति षोडशभेदा अवसेयाः । अष्टविधं चरणं निरूप्य करणं प्ररूपयति-करणमिति-करणस्य पिण्डविशुद्धादिरूपत्वे प्राचां वचनं प्रमाणयति-पिंडविसोही० इति “पिण्ड विशुद्धिः समितिः, भावना प्रतिमा च इन्द्रियनिरोधः । प्रतिलेखनगुप्तयोऽभिग्रहाश्चैव करणं तु ॥” इति संस्कृतम् । तत्र पिण्ड विशुद्ध्यादिषु मध्ये। ईर्यासमित्यादिः इत्यादिपदात् भावैषणा-ऽऽदाननिक्षेपोत्सर्गसमितीनां परिग्रहः । 'अनित्यत्वादिका' इत्यत्रादिपदाद् अशरणत्वसंसा
Page #400
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् ३३९ इन्द्रियनिरोधश्चक्षुरादिकरणपश्चकसंयमः, प्रतिलेखनं मुखवत्रिकाद्युपकरणप्रत्युपेक्षणमनेकविधम्, गुप्तिर्मनोवाक्कायसंवरणलक्षणा त्रिधा, अभिग्रहा वसतिप्रमार्जनादयोऽनेकविधाः, एतयोश्चरण-करणयोः प्रधानास्तदनुष्ठानतत्पराः, स्वसमय-परसमयमुक्तव्यापाराः-'अयं स्वसमयोsनेकान्तात्मकवस्तुस्वरूपप्ररूपणाद् , अयं च परसमयः केवलनयाभिप्रायप्रतिपादनाद् इत्यस्मिन् परिज्ञानेऽनादृताः, अनेकान्तात्मकवस्तुतत्त्वं यथावदनवबुध्यमानास्तदितरव्यवच्छेदेनेति यावत्, चरणकरणयोः सारं फलम् , निश्चयशुद्धं निश्चयश्च तच्छुद्धं च ज्ञान-दर्शनो
रत्वैकत्वा-ऽन्यत्वा-शुचित्वा-ऽऽस्रव-संवर-निर्जरा-लोक-बोधिदुर्लभ-धर्मस्वाख्यातत्वभावनानामुपग्रहः । उद्गमोत्पादनैषणादिशुद्धभिक्षाशिनी भिक्षवस्तेषां भिक्षणां प्रतिमा प्रतिज्ञा-'मासिक्याद्या आसप्तमासिक्यः सप्त, सप्त-चतुर्दशैकविंशतिरात्रिक्यस्तिस्रः, अहोरात्रिकी एकरात्रिकी च' इत्येवं द्वादशविधा भवतीत्यर्थः । उपासकानां श्राद्धानां दर्शनादिका एकादश प्रतिमा ज्ञेयाः। 'इन्द्रियनिरोधः' इत्यादिग्रन्थः सुखावबोधः । चरण-करणे निरूप्य प्रकृतमनुसरन्नाह-एतयोरिति-अनन्तरमभिहितस्वरूपयोरित्यर्थः । तदनुष्ठानतत्पराः चरण-करणामुष्ठपरायणाः । अयं स्याद्वादः। अयं च एकान्तवादश्च । परसमयः स्याद्वादिभिन्नानां राद्धान्तः । 'खसमय-परसमयमुक्तव्यापाराः' इत्यस्य पर्यवसितमर्थमुपदर्शयति-अनेकान्तेति । तदितरव्यवच्छेदेन अनेकान्तात्मकतत्त्वभिन्नैकान्ततत्त्वव्यवच्छेदेन, अन्वयश्चैकान्ततत्त्वव्यवच्छेदेनाने कान्तात्मकवस्तुतत्त्वं यथावदनवबुद्ध्यमाना इति । 'सारम्' इत्यस्य 'फलम्' इति विवरणम् । कीदृशं फलमित्यपेक्षायां-निश्चयशुद्धमिति-नात्र तत्पुरुषः, तथासति फलस्वरूपानवगमः, को निश्चयः ? किञ्च, तेन शुद्धमिति जिज्ञासानुपरमात् , किन्तु कर्मधारयः, एवं च ज्ञान-दर्शनोपयोगात्मकं निष्कलङ्क चरण-करणयोर्विध्यनुष्ठितयोः फलमित्याशयेनाह-निश्चयश्च तच्छुद्धं चेति । अन्यगतस्यापि निष्कलङ्कस्य ज्ञान-दर्शनात्मकोपयोगस्यान्येनानुमानादिना ज्ञानसम्भवात् तथाज्ञानाभावे स्वसमयपरसमयमुक्तव्यापारत्वं न प्रयोजकमतो न जानन्तीत्यस्य नानुभवन्तीत्यर्थः कृतः, खात्मनि निष्कलङ्कज्ञान-दर्शनोपयोगपरिणामप्रादुर्भावे सत्येव तत्साक्षात्कारलक्षणं
Page #401
--------------------------------------------------------------------------
________________
३४०
अनेकान्तव्यवस्थाप्रकरणम् ।
पयोगात्मकं निष्कलङ्कम् न जानन्ति - नानुभवन्ति, ज्ञान-दर्शनचारित्रात्मक कारणप्रभवत्वात् तस्य, कारणाऽभावे च कार्यस्यासम्भवात्, अन्यथा तस्य निर्हेतुकत्वापत्तेः, करण-चरणयोश्च चारित्रात्मकत्वाद्, द्रव्य-पर्यायात्मकजीवादितत्त्वावगमस्वभावरुच्यभावेऽभावात्, अथवा चरण-करणयोः सारं निश्चयेन शुद्धं सम्यग्दर्शनं ते न जानन्ति, न हि यथावस्थितवस्तुतत्त्वावबोधमन्तरेण तद्रुचिः, न च स्वसमय पर समयतात्पर्यार्थावगमे तदवबोधो वोटिकादेखि सम्भवी । अथ जीवादिद्रव्यार्थ - पर्यायार्थापरिज्ञानेऽपि यदर्हद्भिरुक्तं तदेवैकं सत्यमित्येतावतैव सम्यग्दर्शनसद्भावः — “भण्णइ तमेव सच्चं णिस्संकं जं जिणेहिं पण्णत्तं " ] इत्याद्यागमप्रामाण्यात्, न - स्वसमय पर समय परमार्थानभिज्ञैर्निरावरणज्ञानदर्शनात्मकजिनस्वरूपाज्ञानवद्भिस्तदभिहितभावानां
[
।
तदनुभवनं भवेत्, स्वसमय पर समयमुक्तव्यापाराणां च तथाविधज्ञानादिलक्षणकारणाभावान्न तत्सम्भव इत्याह-ज्ञान- दर्शनेति । तस्य निष्फलकज्ञानदर्शनोपयोगात्मकफलस्य । अन्यथा ज्ञानाद्यात्मक कारणाभावेऽपि निरुक्तफलानुभवाभ्युपगमे । तस्येति-निरुक्तफलानुभवस्येत्यर्थः । कथं न तेषु निरुक्तकारणसद्भाव इत्यपेक्षायामाह - चरणकरणयोश्चेति । स्यातां नाम चरण करणे चारित्रात्मके ते एव तेषु किं न भवत इत्यापेक्षायामाह - द्रव्य - पर्यायात्मकेति । अभावात् चारित्रात्मकचरण- करणयोरभावात्, तथाभूतचारित्रं प्रति निरुक्तरुच्यात्मकसम्यग्दर्शनस्य कारणत्वादित्यभिसन्धिः। प्रकारान्तरेणोत्तरार्द्ध विवृणोति - अथवेति । 'निश्चयशुद्धम्' इत्यत्र तृतीयातत्पुरुष एव समास इत्याह- निश्चयेन शुद्धमिति । ते स्वसमयपर समयमुक्तव्यापाराः । न जानन्ति' इत्यत्र हेतुमुपदर्शयति-नहीति - अस्य 'तद्रुचिः' इत्यत्रान्वयः, 'तदुचिः' इत्यस्य ‘यथावस्थिततत्त्वश्रद्धानम्' इत्यर्थः । तदवबोधः यथावस्थितवस्तुतत्त्वावबोधः । बोटिकादेवि दिगम्बरादेरिव । 'सम्भवि' इत्यत्र 'न च' इत्यन्वेति । शङ्कते - अथेति । भण्ण० इति “भण्यते तदेव सत्यं निश्शङ्कं यज्जिनैः प्रज्ञप्तम्” इति संस्कृतम् ।
wwwww
Page #402
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् ३४१ सामान्यरूपतयाप्यन्यव्यवच्छेदेन सत्यस्वरूपत्वेन ज्ञातुमशक्यत्वाद् , अविभक्तसर्वज्ञश्रद्धानस्य चापुनर्बन्धकादिसम्भवित्वेन सम्यग्दर्शनानियामकत्वात् , नन्वेवमागमविरोधः सामायिकमात्रपदविन्माषतुषादेयथोक्तचारित्रिणस्तस्य मुक्तिप्रतिपादनात्, सकलशास्त्रार्थज्ञताविकलस्य व्रताद्याचरणनैरर्थक्यापत्तेश्च, तत्साध्यफलानवाप्तेः, न च यथोपदर्शितचरणकरणे सम्यग्दर्शनवैकल्ये सम्भवतो ज्ञानादित्रितयस्यापि तत्र पाठादिति, मैवम् ये यथोदितचरण-करणप्ररूपणा-ऽऽसेवनद्वारेण प्रधानादाचार्यात् स्वसमय-परसमयमुक्तव्यापारा न भवन्तीति नमोऽत्र सम्बन्धात् ते चरणकरणसारं निश्चयशुद्धं जानन्त्येव, गुर्वाज्ञया प्रवृत्तेः, चरणगुणस्थितस्य साधोः सर्वनयविशुद्धतयाभ्युपगमात् , “तं सव्वणयविसुद्ध" [ ] इत्याद्यागमप्रामाण्यात् । अगीतार्थस्यापि
शङ्कार्थो व्यक्त एव, समाधत्ते-नेति । तदभिहितभावनां जिनोक्तपदार्थानाम् । उक्तदिशा स्वसमय-परसमयानभिज्ञस्य सम्यग्दर्शनानभ्युपगमे आगमविरोधमाशङ्कते-- नन्वेवमिति । तत्साध्येति-व्रताद्याचरणसाध्येत्यर्थः । 'न च' इत्यस्य 'सम्भवतः' इत्यनेनान्वयः । तत्र चरणस्वरूपप्ररूपके 'वय-समणे०' इत्यादिवचने 'नाणाइतियम्' इति पाठात् । प्रतिक्षिपति-मैवमिति । 'चरणकदणप्पहाणा' इति न प्रथमाविभक्त्यन्तं किन्तु पञ्चम्यन्तम् , तथा च चरण-करणप्रधानादिति शब्दस्वरूपमाश्रित्यार्थमाचष्टे-ये यथोदितेति-'ये' इत्यस्य 'न भवन्ति' इत्यत्रान्वयः, यथोदिते येन प्रकारेण पूर्व कथिते ये चरण-करणे, तयोः प्ररूपणं निरूपणमासेवनमाचरणं च, तदुभयद्वारेण तदुभयसम्पत्त्या, प्रधानोऽन्येभ्यो विशिष्टो य आचार्यस्तस्माचरणकरणप्रधानात् , स्वसमयपरसमयमुक्तव्यापारा न भवन्ति, अर्थात् खसमय-परसमयाभिज्ञा एव भवन्ति ये, 'न जानन्ति' इत्यग्रे स्थितस्य नमोऽत्र 'मुक्तव्यापाराः' इत्यत्र, सम्बन्धात् समभिव्याहारात्, ते स्वसमय-परसमयामुक्तव्यापाराश्चरणकरणसारं निश्चयशुद्धं जानन्त्येव, तत्र हेतुः-गुर्वाज्ञया प्रवृत्तेरिति । तत्पारतन्त्रयस्यैव
Page #403
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ।
गीतार्थनिश्रितस्य तत्पारतन्त्र्यस्यैव फलतो ज्ञान- दर्शनलक्षणत्वात्,
आह च हरिभद्राचार्य:
wwwwwwwww
३४२
" गुरुपारतंतनाणं, सद्दहणं एयसंगयं चेव ।
एत्तो उ चरित्तीणं, मासतुसाईण निहिं ॥”
[ पञ्चाशके ११, गाथा - ७.
.] त्ति,
गीतार्थाऽनिश्रिताऽगीतार्थस्य स्वतन्त्र चरण-करणप्रवृत्तस्य व्रताद्यनुष्ठानवैफल्यं त्वभ्युपगम्यत एव -
" गीयत्थो य विहारो, बीओ गीयत्थमीसि ( निस्सि ) ओ भणिओ ।
[ इत्तो तइयविहारो, नाणुन्नाओ जिणवरेहि ||" ] इत्याद्यागमप्रामाण्यात् । तदेवं व्याख्यानद्वयेनानेकान्ततत्त्वविदुषस्तदाज्ञापरस्य वा महाव्रतधारिणश्चारित्रसाफल्यम्, नान्यस्येति व्यवस्थितमिति मोक्षार्थिभिः पुरुषसिंहैरनेकान्ततत्त्वपरिज्ञानाय भूयानुद्यो विधेयः ॥ ॥ इति श्रीजैनतर्केत्यपराभिधानं श्रीअनेकान्ततत्त्वव्यवस्थाप्रकरणं सम्पूर्णम् ॥
wwwwww
गुरुपारतन्त्र्यस्यैव । उक्तार्थे हरिभद्रसूरिवचन संवादमाह आह चेति । गुरुपार० इति - "गुरुपारतन्त्र्यज्ञानं श्रद्धानमेतत्संगतमेव । एतस्मात् तु चारित्रिणां मासतुषादीनां निर्दिष्टम् ॥” इति संस्कृतम् । गीतार्थानिश्रितादेर्व्रताद्यनुष्ठानवैफल्ये आगमवचनं प्रमाणयति - गीयत्थो० इति - "गीतार्थश्च विहारो द्वितीयो गीतार्थमिश्रितो ( निश्रितो) भणितः । इतस्तृतीयविहारो नानुज्ञातो जिनवरैः” ॥ इति संस्कृतम् । उपसंहरति
wwww
1
तदेवमिति । प्रथमव्याख्यानमाश्रित्यानेकान्ततत्त्वविदुष इति, द्वितीयव्याख्यानमाश्रित्य तदाज्ञापरस्येति । नान्यस्येति - अनेकान्ततत्त्ववित्-तत्तदाज्ञापरायणभिन्नस्य न चारित्रसाफल्यमित्यर्थः । अनेकान्ततत्त्वप्ररूपकस्यास्य ग्रन्थस्य मोक्षार्थपुरुषावश्योपादेयत्वमाविष्करोति- मोक्षार्थिभिरिति ॥
Page #404
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम्
३४३ अनेकान्तवादस्य विश्वव्यापकत्वरूपमाहात्म्यप्रदर्शयित्री प्रशस्तिः।
विना यं लोकानामपि न घटते संव्यवहृतिः, __समर्था नैवार्थानधिगमयितुं शब्दरचना । वितण्डा चाण्डाली स्पृशति च विवादव्यसनिनं,
नमस्तस्मै कस्मैचिदनिशमनेकान्तमहसे ॥१॥ -- इति श्री अनेकान्तवादस्य सर्वदर्शनसूत्रणसूत्रधाराभ्युपगतानेकान्ततत्त्वप्ररूपकत्वादिमाहात्म्यावेदिकां प्रशस्ति प्रश्नाति विना यमिति-तस्मै कस्मैचिदनिशमनेकान्तमहसे नमः, यमेकान्तं विना लोकानां संव्यवहृतिरपि न घटते, यं विना शब्दरचनाऽर्थानधिगमयितुं नैव समर्था, च पुनः, यं विना वितण्डा चाण्डाली विवादव्यसनिनं स्पृशतीत्यन्वयः । तस्मै सकललोकसंव्यवहाराभावप्रयोजकाभावप्रतियोगिने शब्दरचनागतार्थाधिगमसामर्थ्याभावप्रयोजकाभावप्रतियोगिने वितण्डाचाण्डालीनिष्ठविवादव्यसनिस्पर्शकर्तृत्वप्रयोजकाभावप्रतियोगिने च, कस्मैचित् अनिर्वचनीयाय, यत एतावन्तोऽस्य गुणा इत्येवं निर्वचनं न सुरगुरुणाऽपि कर्तुं शक्यत इति । अन्यानि सूर्य-चन्द्रप्रभृतीनि महांसि कतिपयकालमभिव्याप्य प्रकाशन्ते, अनेकान्तमहस्तु सर्वकालं सर्ववस्त्वभिव्याप्य प्रकाशत इति सर्वमहसामिदमेव प्रधानमित्यनिशमनेकान्तमहसे, यतो यत् किमपि वस्तु यत्र कुत्रापि देशे यदा कदापि काले येन केनापि प्रकाशेन प्रकाशितं भवति तदनेकान्तसम्पृक्तमेव, प्रकाशकोऽपि च सर्वोऽनेकान्तस्वरूपतामापन्न एव प्रकाशस्वभावतामश्चतीति । नमः अस्त्विति क्रियापदमत्र बोध्यम् , अस्मज्ज्ञानीयमदवधिकोत्कृष्टत्वनिष्ठप्रकारतानिरूपितविशेष्यतावदनेकान्तमह इत्यर्थः, इत्थं प्रधानत्वेऽपि नमश्शब्दसमभिव्याहारात् तद्वाचकशब्दस्य चतुर्थ्यन्तत्वमिति । 'अनिशम्' इति 'नमः' इत्यत्राप्यन्वेति, तेनानेकान्तमहसे सर्वदा नमस्कारोऽस्त्वित्यप्यर्थो लभ्यते । लोके एक एव पुरुषः 'अयं पिता, अयं पुत्रः, अयं मातुलः, अयं भागिनेयः' इत्येवं यद् व्यवह्रियते तदेकस्यापेक्षाभेदेनानेकधर्मात्मकत्वं विना न सम्भवति, एक एव च घटादिः 'अयं घटः, इयं पृथिवी, इदं द्रव्यम् , अयं गुणवान् , अयं क्रियावान् , अयं जलाहरणसमर्थः' इत्येवं यद् व्यवह्रियते तत् तस्यानेकान्तत्वं विना न घटते इति युक्तमुक्तम्विना यं लोकानामपि न घटते संव्यवहृतिरिति । परस्यार्थविशेषावबोधनाय वाक्यं प्रयुज्यते, वाक्यं च सर्व तत्तत्पदसमभिव्याहृतापरपदरूपात्मकशब्दरचनात्मक मेव, पदानि च प्रतिनियतार्थविशेषे सङ्केतितान्येवार्थविशेषावबोधं जनयन्ति, सङ्केतश्च
Page #405
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् । कथायां लुप्यन्ते वियति बत तारा इव रवौ,
नयाः सर्वे दीप्ता अपि समुदिते यत्र सहसा। उदासीने त्वब्धाविव जलतरङ्गा बहुविधाः, समन्ताल्लीयन्ते श्रयत तमनेकान्तमनिशम् ॥२॥
न सामान्येनापि विशेषे किन्तु सामान्य-विशेषोभयात्मकत्वेन जात्यन्तरस्वरूपे वस्तुनेव सामान्य-विशेषोभयात्मकत्वेन जात्यन्तररूपस्य शब्दस्य भवतीति वस्तुस्थितावनेकधर्मात्मकमेकं पदम् , अनेकपदसमभिव्याहारात्मकमेकं वाक्यम् , पदान्तरासमभिव्याहारे विशिष्टार्थबोधाजनकं सत् पदान्तरसमभिव्याहारे विशिष्टार्थबोधकमित्येवं विचारे क्रियमाणेऽनेकान्तात्मकत्वं वाच्यस्य वाचकस्य पुरःस्फूर्तिकमिति शब्दरचनाऽप्यनेकान्तं विना नार्थावबोधनप्रत्यलेति सुष्ठुक्तम्-समर्था नैवार्थानधिगमयितुं शब्दरचनेति यमनेकान्तं विना, विवाद एव व्यसनं विवादव्यसनम् , विवादव्यसनमस्य समस्तीति विवादव्यसनी तं विवादव्यसनिनम् , वितण्डा परपक्षखण्डनमात्रफला कथा, सैव चाण्डाली विवादचाण्डाली, स्पृशति स्वाधीनं करोति, यः खलु वादी यं कमपि विषयं समाश्रित्य प्रवृत्तायां कथायां स्याद्वादमन्त्रं पठति तस्य स्वपक्षसिद्धिभवति, परपक्षोऽपि स्याद्वादाभिमन्त्रितः कथञ्चित्सिद्धिमासादयत्येव, तं तत्त्वनिर्णयमात्रफलककथाप्रतिष्ठाधौरेयं वादिनं सुब्राह्मणमिव वितण्डाचाण्डाली द्रष्टुमपि न क्षमा कुतः स्प्रष्टुम् , किन्तु य एव एकान्तवादकथाग्रहिलः स्वपक्षः साधयितुं न समर्थः परपक्षखण्डनमात्रपरायणो दूषणादिव्यपोहकस्याद्वादमन्त्रसमाराधनविमुखः स स्याद्वादप्रमाणराजानवलम्बितहस्तो वितण्डाचाण्डालीसमाश्रयणमन्तरेण कथायां न नाम वादिसम्मुखं स्थातुमर्हतीति तां स्पृशन्नेवावस्थातुमर्हतीति युक्तमुक्तम्-वितण्डा चाण्डाली स्पृशति च विषादव्यसनिनमिति । अथवा सूक्ष्मसूक्ष्मतरयुक्तिनिर्माणकुशलोऽपि विवादव्यसनी नैयायिको यत एव स्याद्वादं नाश्रयति तत एव वितण्डावाददुर्घटेन वेदान्तिना प्रेरितया वितण्डाचाण्डाल्या स्पृश्यत इति ॥ १॥
कथायामिति-यत्र यस्मिन्ननेकान्ते, सहसा समुदिते सति कथायां दीप्ता अपि देदीप्यमाना अपि, सर्वे नया लुप्यन्ते, वियति आकाशे, रवौ सूर्ये, सहसा समुदिते सति, तारा नक्षत्राणि यथा लुप्यन्ते तथा, बत इत्याश्चर्ये, तु पुनः, यस्मिन्ननेकान्ते' उदासीने सति सर्वेऽपि नयाः, समन्ताल्लीयन्ते अव्यक्तीभवन्ति, यथा अब्धौ समुद्रे उदासीने बहुविधा जलतरङ्गाः, समन्ताल्लीयन्ते तथेत्यर्थः' हे वादिनः ! तमनेकान्तमनिशं सर्वदा श्रयत भजत इत्यर्थः ॥२॥
Page #406
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् ३४५ अनेकान्तं वादं यदि सकलनिर्वाहकुशलं,
मतानि स्पर्धन्ते नयलवसमुत्थानि बहुधा । तदा किं नो भावी बहुलकलिकौतूहलवशाद्,
घटानां निर्मातुत्रिभुवनविधातुश्च कलहः॥३॥ मिथो द्वारा युध्यन्ते महिषसदृशा ये परनयाः,
प्रयातारः खेदं त इह बहुधा जर्जरतराः। अनेकान्तो द्रष्टा पुनरवनिपालः प्रकृतितः,
परावृत्तिं नैभ्यो व्रजति परिपूर्णाभिलषितः॥४॥ अनेकान्तमिति-यदि सकल निर्वाहकुशलं सकललोकयात्रासमर्थननिपुणम् , अनेकान्तवादम्, नयलवसमुत्थानि नयैकदेशसमाश्रयणसञ्जातानि, मतानि एकान्तवादिदर्शनानि, बहुधा स्पर्धन्ते यथा स्याद्वादस्तत्त्वावबोधनैपुण्यं बिभर्ति तथा वयमपि तत्त्वावबोधनसमर्था नास्मानतिशेते स्याद्वादः' इत्येवं बहुधा-बहुप्रकारेण, स्पर्धन्ते-स्पर्धा कुर्वन्ति, तदा तर्हि, बहुलं बहुप्रकारं यत् कलिकौतूहलं तद्वशाद् घटानां निर्मातुः कुलालस्य, त्रिभुवनविधातुः त्रिभुवननिर्माणदक्षस्य जगत्कर्तुरीश्वरस्य, एतच्च पराभ्युपगतं समाश्रित्य, कलहः 'अहं त्वत्तोऽवरोऽहं त्वत्तो वरः, इत्यादिरूपः कलिः, किं नो भावी किं न स्यात् , अपि तु स्यादेव, त्रिभुवनविधातुः कुम्भकर्तुश्च यावान् विशेषस्तावान् अनेकान्तवादैकान्तवादयोर्विशेष इति हृदयम् ॥३॥
मिथ इति-महिषसदृशाः असमीक्ष्यकारिस्वाभाव्याः परस्परं योद्धुमेव व्यवसिता यथा महिषास्तथा विवादफलमनादृत्य परस्परं वादाख्ययुद्धं कामयमाना एकान्तवादिनो ये परनया, द्राग् झटिति, मिथो युध्यन्ते ते वादिनः, इह कथायां बहुधा बहुप्रकारेण परयुक्तिसमष्टिप्रहारव्याहतस्वयुक्तिस्तोमशरीरत्वाजर्जरतराः सन्तः खेदं पराजयलक्षणदुःखं प्रयातारः, यथा महिषाः परस्परं युद्धं कुर्वाणा जर्जरशरीरतामुपगताः सन्तो दुःखमेव भजन्ते, न तु किमप्यभिलषितं फलमासादयन्ति तथा परनया अपीत्यर्थः, पुनः, इत्थं विवदमानानां परनयानां द्रष्टा उपेक्ष्यदृष्ट्या 'किमपीदमज्ञानविजृम्भितं कौतुकम्' इत्येवं प्रेक्षकोऽनेकान्तः परिपूर्णाभिलषितः सन् , एभ्यः परस्परं विवदमानेभ्यः परेभ्यः, प्रकृतितः स्वस्वभावात् , परावृत्तिम् अन्यथाभावं, न व्रजति न याति अत एव अवनिपालः अवनिपाल इव, यथा राजा परस्परं विवदमानानां महिषसदृशानां मूढानां स्वराज्यसंस्थितानां द्रष्टा न तेभ्यः प्रकृतितो राजस्वभावात् परावृत्तिं यथा तथेत्यर्थः ॥ ४ ॥
Page #407
--------------------------------------------------------------------------
________________
३४६
अनेकान्तव्यवस्थाप्रकरणम् । विरुद्धैः सत्त्वाद्यैरिह बहुगुणैर्गुम्फिततर्नु,
प्रधानं यो वाञ्छत्यखिलजगतः सर्गनिपुणम् । अनेकान्तं सांख्यः स कथमवमन्येत विलसेत्,
प्रमाणाक्षक्रीडारसिकहृदयश्चेत् परिषदि ॥५॥ अबद्धं तत्त्वेन व्यवहृतिवशाद् बद्धमुपयन् ,
परं ब्रह्म व्यष्ट्या जगदपि समष्ट्या च विविधम् । सर्वतैर्थिकानां स्याद्वादाभ्युपगन्तृत्वं समस्तीति प्रतिपादयितुं प्रथमतः साङ्ख्यस्य स्याद्वादाभ्युपगन्तृत्वं प्रतिपादयति-विरुद्धैरिति-यः साङ्ख्यः, इह वस्तुतत्त्वनिरूपणे, विरुद्धैः परस्परविरुद्धैः, “सत्त्वं लघुप्रकाशकमिष्टमुपष्टम्भकं चलं च रजः । गुरु वरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः ॥” [ ] इति वचनाल्लघुत्व-प्रकाशकत्व. धर्मयोगि सत्त्वम् , उपष्टम्भकत्व-चलत्वधर्मयोगि रजः, गुरुत्वा-ऽऽवरणकत्वधर्मयोगि तमः, इत्येवं परस्परविरुद्धताऽवसेया, सत्त्वाद्यैः सत्त्व-रजस्तमोभिः, बहु. गुणैः त्रित्वात्मकबहुत्वसंख्याविशिष्टगुणैः, गुम्फिततनुं व्याप्तशरीरं त्रिगुणमयमिति यावत् , अखिलजगतः सर्गनिपुणं निखिलजगदाविर्भावकारणम् , तन्मते उत्पत्तिलक्षणसर्गस्याविर्भावरूपत्वात् , एवम्भूतं प्रधानं प्रकृतिमभ्युपगच्छति, अत्र प्रधानमित्येकवचनान्तप्रधानपदेनैकत्वसंख्याविशिष्टप्रधानं प्रतिपाद्यमभिमतम्, तथा चैकरूपमनेकरूपं च प्रधानमेकमपि सदनेककार्यकारित्वतोऽनेकस्वभावमित्यनेकान्तात्मकमेव प्रधानं साङ्ख्याभ्युपगतं भवतीति, स इत्थमनेकान्तात्मकप्रधानाभ्युपगन्ता साङ्ख्यः कापिलदर्शनानुगामी, चेत् यदि, परिषदि सभायां प्रमाणाक्षक्रीडारसिकहृदयः प्रमाणान्येवाक्षाः, तैः क्रीडनम, प्रमाणव्यवहरणात्मकाक्षक्रीडने द्यूते रसिकमुत्सुकं तत्प्रवणमिति यावत् , हृदयमन्तःकरणं यस्य स प्रमाणाक्षक्रीडारसिकहृदयः, एवम्भूतः सन् विलसेत् तदा कथमनेकान्तमवमन्येत, येन प्रमाणेनानेकान्तं प्रधानं सिध्येत् तेन प्रमाणेन वस्तुमात्रमप्यनेकान्तं सिद्ध्येदेव, प्रधानं वा दृष्टान्तीकृत्य वस्तुत्व-प्रमेयत्वादिहेतुनाऽशेषस्यैव जगतोऽनेकान्तत्वं सिध्येत् , एवमपि यद्यनेकान्तं स नाभ्युपेयात् प्रमाणाक्षक्रीडास्पदविद्वद्गोष्ठीबहिर्भूत एव भवेदित्यभिसन्धिः ॥ ५॥
वेदान्तिनोऽप्यद्वैतवादिनोऽनेकान्तत्वाभ्युपगन्तृत्वं दर्शयति-अबद्धमिति-परं ब्रह्म शुद्धचैतन्यम् , तत्त्वेन परमार्थतः, अबद्धं मायालक्षणबन्धनरहितम् , व्यव
Page #408
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् ३४७ तपस्वी वेदान्ती वदतु वदनेनाद्वयकथा
मनेकान्तं कान्तं स्मरति हृदयेन त्वविकलम् ॥६॥ प्रमाणं नीलादौ क्षणपरिचयादौ च न तथा,
वदन्नेकं ज्ञानं सुगततनयश्चित्रमपि च । अनेकान्तं स्वान्ते स्मरति यदि नो तन्निजमतग्रहावेशक्लेशः क्षपयति तदीयं गुणगणम् ॥ ७॥
हृतिवशात् 'अयं जीवोऽयमीश्वरः' इत्यादिव्यवहारबलात्, बद्धम् अन्तःकरणावच्छिन्नं चैतन्यं जीवः, मायावच्छिन्नं चैतन्यमीश्वर इत्येवमन्तःकरण-मायादिरूपोपाधिविशिष्टम् , उपयन् अभ्युपगच्छत् , तथा जगदपि व्यष्टया घट-पटादिव्यासरूपेण, समष्ट्या ब्रह्माण्डलक्षणैकस्वरूपेण च, विविधम् एकानेकखरूपमुपयन् , तपखी युक्तिदरिद्रः प्रामाणिकानां कृपापात्रम् , वेदान्ती ब्रह्मसूत्रसूत्रणसूत्रधारव्यासानुयायी; वदनेन वदनमात्रेण न तु युक्त्या, अद्वयकथाम् अद्वैतवादं, वदतु कथयतु, तु पुनः, हृदयेन अन्तःकरणेन, अविकलं सम्पूर्णम् , कान्तं युक्तिसुन्दरम् , अनेकान्तम् अनेकान्तवादं स्मरति, तथा च ब्रह्म बद्धमबद्धं जगव्यष्टिरूपत्वादनेकं समष्टिरूपत्वादेकमित्यनेकान्तमेव वेदान्त्यभ्युपगच्छतीति निर्गलितोऽर्थः ॥ ६ ॥
बौद्धस्यापि क्षणिकैकान्तवादिनोऽनेकान्ताभ्युपगन्तृत्वं प्रकटयति-प्रमाणमितिएकं ज्ञानं नीलादौ प्रमाणम् , च पुनः क्षणपरिचयादौ क्षणिकत्वादी, आदिपदात् स्वर्गप्रापणशक्तयादेरुपग्रहः, न तथा न प्रमाणम् , एवं 'नील-पीतें' इति समूहालम्बनं ज्ञानं नीलाद्याकारमपि, चित्रमपि चित्राकारमपि, इत्थं वदन् सुगततनयो बौद्धो यदि, स्वान्ते अन्तःकरणे, अनेकान्तं नो स्मरति, तत् तदा, निजमतग्रहावेशक्लेशः निजमतस्य स्वकीयैकान्तक्षणिकत्वाभ्युपगमलक्षणस्य कदाग्रहरूपो यो ग्रहः पिशाचादिस्तस्य यः स्वान्तःकरणे, आवेशः प्रवेशस्ततो यः क्लेशः-आपाततः खमतव्यवस्थापककुयुक्तिनिकरान्वेषणायासः स, तदीयं बौद्धसम्बन्धिनं, गुणगणं सूक्ष्मबुद्धिवैभवादिरूपं, क्षपयति विनाशयति, ततः स्वकीयं गुणगणं परिपालयता बौद्धनानेकान्ताभ्युपगमोऽवश्यमेव विधेय इत्यर्थः ॥ ७ ॥
Page #409
--------------------------------------------------------------------------
________________
'wwwww
अनेकान्तव्यवस्थाप्रकरणम् । घटे चित्रं रूपं पृथगपि च नीलादिकमपि,
ब्रुवाणी हेतुं वाऽप्यजनकमपीष्टान्यविधया। अनेकान्तं छेत्तुं बत कथमुभौ योग-कणभुक्तनूजौ स्वारूढद्रुमविटपतुल्यं प्रभवतः ॥ ८॥
परोक्षं मेयांशे किमपि म(मि)ति-मात्रंशविषयेऽपरोक्षं चैकं यः प्रभणति गुरुर्मानमवशः।
परोऽपि द्वैरूप्यं जगति कलयन् जैमिनिसुतः,
कुतः स्याद्वादं यः स्पृहयति न रुच्याऽर्थविमुखः ॥९॥ नैयायिक-वैशेषिकयोरपि स्याद्वादाभ्युपगन्तृत्वं समर्थयति- घटे चित्रमितिपृथगपि शुक्ल-नीलादिरूपेभ्यो भिन्नमपि, चित्रं कर्बुरं रूपम् , च पुनः, नीलादिकं रूपं घटे एकस्मिन् ,ब्रुवाणी कथयन्तौ, वा अथवा, हेतुमपि दण्डत्वादिना घटादिकारणमपि दण्डादिकम् , कारणतावच्छेदकतयेष्टमभिमतं यद् दण्डत्वादिकं तदन्यद् यद् द्रव्यत्वादिकं तद्विधया तद्रूपेग, अजनकमपि घटाद्यकारणमपि, ‘ब्रुवाणी' इत्यस्यात्रापि सम्बन्धः, इत्थं ब्रुवाणावुभौ योगकणभुक्तनूजी नैयायिकवैशेषिकौ, 'बत' इत्याश्चर्ये, स्वारूढद्रमविटपतुल्यं स्वकर्तृकारोहणक्रियाकर्मीभूतवृक्षशाखासदृशम् , अनेकान्तम् स्याद्वादं कथं छेत्तुं प्रभवतः ? यथा स्वारूढवृक्षशाखाछेदनं स्वस्यैवाधःपतनात्मकमनिष्टं तथा स्वाभ्युपगतानेकान्तापाकरणे स्वस्यैव पराजय इत्यर्थः ॥ ८ ॥
मीमांसकस्यापि स्याद्वादाभ्युपगन्तृत्वं प्रकटयति-परोक्षमिति-गुरुः प्रभाकरनामा मीमांसकः, एकं ज्ञानं स्वरूपत एकमेव ज्ञानं किमपि अनुमित्यादिरूपम् , न तु सर्व प्रत्यक्षज्ञानस्य सर्वांश एव प्रत्यक्षरूपत्वात् , मेयांशे बाह्यग्राह्यांशे, परोक्षं परीक्षात्मकम् , मिति-मात्रंशविषये मितिर्ज्ञानं स्वस्वरूपं तन्मते सर्वस्य ज्ञानस्य प्रमारूपत्वमेव भ्रमस्याभावात् , भ्रमस्थले 'इदम्' इति ज्ञानं प्रत्यक्षं 'रजतम्' इति ज्ञानं स्मरणम् , तयोर्भदाग्रहनिबन्धनमैक्यव्यवहारः, प्रवृत्तिश्च तत्र तद्विषययोर्भेदाग्रहादेव, तथा च मित्यंशविषये ज्ञानस्वरूपांशविषये मात्रंशविषये प्रमात्रंशविषये च तदेवानुमित्यादिज्ञानम् , अपरोक्षं प्रत्यक्षात्मकमित्येवं, प्रभणति प्रकर्षेण वक्ति, यतोऽयम् अवशः अतीन्द्रियज्ञानवादिस्वगुरुकुमारिलभट्टपराधीनत्वाभावात् स्वतन्त्रः,
www
Page #410
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् ३४९ न यन्नाम ब्रूते समयविगमहीपरवशा,
हृदा तु स्नेहं न त्यजति विपुलं यद्गुणकृतम् । अनेकान्तस्याग्रे कलितविनया मौनरचनादिदानी सञ्जाता ननु नववधूर्वादिपरिषत् ॥१०॥
परोऽपि प्रभाकरभिन्नोऽपि, जैमिनीसुतः पूर्वमीमांसासूत्रप्रणयनकर्तृजैमिनिमतानुयायी कुमारिलभट्टः, जगति वस्तुमात्रे भेदाऽभेदलक्षणं द्वैरूप्यं गुण-गुण्यादीन सामान्य-तद्वतां च भेदा-ऽभेदलक्षणाविष्वग्भावसम्बन्धस्यैव तेनाभ्युपगमात् , भावा-ऽभावोभयरूपत्वलक्षणं द्वैरूप्यं वा, अभावस्याधिकरणस्वरूपतयैव तेनोररीकारात् , सर्वस्यैव भावस्य यत्किञ्चित्पदार्थाभावाधिकरणत्वेनाभावरूपत्वात् , कलयन् अभ्युपगच्छन् , कुतः कस्मात् कारणात् , स्याद्वादं न स्पृहयति नाभ्युपगच्छति, अपित्वभ्युपगच्छत्येव, यः कुमारिलभट्टो रुच्या स्वेच्छामात्रेण, अर्थविमुखः अर्थ न स्वीकरोति, किन्तु युक्त्युपेतमेवार्थमुररीकरोतीत्यर्थः ॥ ९ ॥ __ अनेकान्तस्य प्रमाणराजस्य वादिपरिषन्नववधूरिति दर्शयति-यथा नववधून स्वामिनामोच्चारणं करोति, स्वामिगुणप्रभवं स्नेहं स्वामिविषयकं हृदयेन गृह्णाति स्वामिनोऽग्रे विनीता मौनमवलम्ब्यावतिष्ठते तथैव सर्व वादिपरिषत् समाचरतीत्युपदर्शयति-न यन्नामेति-समयस्यैकान्ताभ्युपगमलक्षणस्वसिद्धान्तस्य यो विगमोऽपहतिस्तत्प्रभवा या हीर्लजा तत्परवशा तदधीना सती वादिपरिषत् , यन्नाम यस्यानेकान्तस्य नाम, न ब्रूते नोच्चारयति, अनेकान्तवादः कान्त इत्येवमुच्चारिते एकान्तवादिपरिषदः स्वराद्धान्तहानिः स्यादतस्तथा न ब्रूत इत्यर्थः, स्वीयतत्त्वनिरूपणे तत्र तत्र तत्त्वेऽनेकधर्मसमावेशमुपदर्शयतीत्यतः, यहुणकृतं यस्यानेकान्तस्य गुणप्रभवं विपुलं स्नेहमनेकान्ततत्त्वे रागं, हृदा हृदयेन न त्यजति तथाऽनेकान्तस्यानेकान्तवादस्याग्रे, कलितविनया कलितः स्वीकृतो विशिष्टो नयो नैगमादिर्यथा सा कलितविनया, कथम्मेवम्भूताऽवधार्यतेऽत आह-मौनरचनात् अनेकान्तवादिनाऽनेकान्ततत्त्वे युक्तितो व्यवस्थापिते सर्व एवैकान्तवादिनो मूका एव भवन्तीत्यर्थः, इदानीम् अस्माभिरनेकान्तव्यवस्थाप्रकरणे सम्पूर्णभावमुपनीते सति तत्कालं, सञ्जाताऽभवत् , ननु निश्चितम् , नववधूः नवपरिणीता वधूरिव ॥ १० ॥
Page #411
--------------------------------------------------------------------------
________________
३५०
अनेकान्तव्यवस्थाप्रकरणम् ।
स्मिताक्षीणां मुक्तौ सकलविदि भुक्तौ च न भजेन्मुनीन्दूनां धर्मोपकरणविधौ चापि भजनम् । विहस्तो दिग्वासा यदि मदिरयेवावृतमतिः,
प्रसिद्धैः सिद्धान्तैस्तदहह महद् वैरमुदयेत् ॥ ११ ॥ क्रियायां ज्ञाने च व्यवहृतिविधौ निश्चयपदे
Sपवादे चोत्सर्गे कलित मिलितापेक्षणसु (मु) खैः । हतैकान्तध्वान्तं मतमिदमनेकान्तमहसा,
पवित्रं जैनेन्द्रं जयति सितवस्त्रैर्यतिवृषैः ॥ १२ ॥ इदानीं दिक्पटान् शिक्षयति- स्मिता क्षीणामिति । स्मिताक्षीणां स्त्रीणां, मुक्त मोक्षे, भजनम् अनेकान्तं न भजेदिति सम्बन्धः, कासाञ्चित् स्त्रीणामुत्पन्नकेवलानां मुक्तिर्भवति, अनुत्पन्न केवलानामभव्यानां च तासां मुक्तिर्न भवत्यपीत्येवमनेकान्तं न भजेत्, किन्तु सर्वासां स्त्रीणां न भवत्येव मोक्ष इत्येवमेकान्तमेव स्वीकु - र्यात्, सकलविदीति-सकलज्ञे केवलिनि, भुक्तौ कवलाहारे, भजनं न भजेत् अनेकान्तं न भजेत्, अमुकस्मिन् देशेऽमुकस्मिन् कालेऽमुकप्रमाणं केवली कवलाहारं करोति तदन्यदेश-कालादावनीदृशं कवलाहारं नाचरतीत्येवमनेकान्तं नाङ्गीकुर्यात्, किन्तु केवली कवलाहारं न करोत्येवमित्येवमेकान्तमेवोररीकुर्वीत, मुनीन्द्राणां साधुप्रवराणां धमोपकरणविधावपि भजनम् अनेकान्तं न भजेत् नाश्रयेत्, यावतोपकरणेन साधोश्चारित्रं सुरक्षितं भवति तावद्धर्मोपकरणमवश्यमेव सङ्ग्रहीतव्यं तदधिकं तु निर्ग्रन्थस्य साधोर्न कल्पते इत्येवमनेकान्तं नाश्रयेत् किन्तु चीवरभोजनपात्रादिकं सर्वमेव परित्यक्तव्यमेव निर्ग्रन्थानां मुनीनामित्येवमेकान्तमेव स्वीकुर्वीत, एवम्भूतो मदिरयेवावृतमतिर्दिग्वासा दिगम्बरो यदि स्त्रीमुक्तत्यादिप्रतिपादकतया प्रसिद्धैः सिद्धान्तैर्जेनराद्धान्तैस्तेनापि प्रमाणतयोररीकृतैर्विहस्त आलम्बन रहितो भवेदिति शेषः, तत् तदा, अहह आश्चर्ये खेदे वा, महद् वैरं स्त्रीमुक्त्यादावागमवचनानि प्रमाणतयोपदर्शयद्भिः श्वेतवासोभिरस्माभिः सम्मतस्य महच्छत्रुभावम् उदयेत् आविर्भवेदित्यर्थः ॥ ११ ॥
www
जैनमतस्य सर्वोत्कृष्टत्वमावेदयति-क्रियायामिति - ' क्रियायाम्' इत्यादिसप्तम्यन्तषङ्कस्य 'कलितमिलितापेक्षणमुखैः' इत्यत्रान्वयः, तस्य च 'यतिवृषैः' इत्यनेनान्वयः, सितवस्त्रैः श्वेताम्बरैः, यतिवृषैः मुनिप्रकाण्डैः, अनेकान्तमहसा
Page #412
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् . ३५१ इमं ग्रन्थं कृत्वा विषयविषविक्षेपकलुष,
फलं नान्यद् याचे किमपि भवभूतिप्रभृतिकम् । इहाऽमुत्रापि स्तान्मम मतिरनेकान्तविषये,
ध्रुवेत्येतद् याचे तदिदमनुयाचध्वमपरे ॥ १३ ॥ स्याद्वादतेजसा, हतैकान्तध्वान्तं विनष्टैकान्त तमसम् , पवित्रम् अतिपूतम् , इदं युक्तिजालैर्मयोत्तम्भितम् , जैनेन्द्रं जिनेन्द्रप्ररूपितम् , मतं जयति सर्वोत्कृष्टतयाऽवभासते, यैर्यतिवृषैरनैकान्तोपोद्वलकयुक्तिजाललक्षणविशिष्टतेजस्समष्टिद्वारा जैनेन्द्र मतं हतैकान्तध्वान्तं तेषामित्थं सामर्थ्य कथमित्यपेक्षयां विशिनष्टि-क्रियायामित्यादि । क्रियायां मुक्त्यादिफलकक्रियानुष्ठाने, फलजननार्थ कलितं निर्णीतं मिलितापेक्षणं यैः, न केवलया क्रियया नापि ज्ञानमात्रेण मोक्षफलनिष्पत्तिः, किन्तु मिलिताभ्यां क्रिया-ज्ञानाभ्यां मोक्षः, एवं न व्यवहारमात्रेण नापि निश्चयमात्रेण लौकिकपरीक्षकसकललोकयात्रानिर्वहणं किन्तु मिलिताभ्यां ताभ्यां तत् , तथोत्सर्गविनिर्मुक्तोऽपवादोऽपवादविनिर्मुक्त उत्सर्गो वा न विहित-निषिद्धशास्त्रार्थनिर्णयक्षम इति मिलितौ तावपेक्षणीयौ शास्त्रार्थनिर्णये इति क्रियैकान्तवादो ज्ञानैकान्तवादो व्यवहारैकान्तो निश्चयैकान्तः केवलापवादमार्गः केवलोत्सर्गमार्गश्च नादरणीयो लोकिकपरीक्षकैरित्येवं निर्णीतं मिलितापेक्षणं यैरिति यावत् , ते कलितमिलितापेक्षणाः, तन्मुखैस्तत्प्रधानैरित्यर्थः, 'कलितमिलितापेक्षणसुखैः' इति पाठप्रामाण्ये तु कलितं निर्णीतं मिलितापेक्षणेनाक्लिष्टकल्पनात्मकानायासलक्षणं सुखं यैस्ते कलितमिलितापेक्षणसुखास्तैरित्यर्थः, क्रियैकान्तादिवादे तु बहुविधक्लिष्टकल्पनायासप्रभवं दुःखं सुप्रतीतमेवेत्याशयः ॥ १२ ॥
एतद्रन्थकरणफलं प्रार्थयति-इमं ग्रन्थमिति-इमं ग्रन्थं कृत्वा 'विषयविषविक्षेपकलुषमन्यत् किमपि भवभूतिप्रभृतिकं फलमभीष्टदेवदेवेभ्यः श्रीभगवद्भयो जिनेन्द्रेभ्यो न याचे, किन्तु इह लोके, अमुत्रापि परलोकेऽपि, अनेकान्तविषये ध्रुवा मतिर्मम स्तादित्येतत् फलं याचे, तदिदम् अनेकान्ततत्त्वविषयकमतिलक्षणफलम्, अनु मत्तः पश्चाद् अपरेऽन्येऽपि जना याचध्वमित्यन्वयः। भवभूतिप्रभृतिकं भवो मनुष्यादिगतौ जन्म, भूतिर्धनधान्यादिसमृद्धिः, तत्प्रभृतिकं तदाद्यन्यदपि, अथवा भवो महादेवस्तस्य भूतिरणिमाद्यष्टसिद्धिस्तत्प्रभृतिकं तत्फलमनिष्टत्वादनाकासितमित्यावेदयितुं विशिनष्टि-विषयेति-विषयः कलत्र-पुत्र-हिरण्य-राजादिः, दुरन्तसंसारमहागर्तपातनिबन्धनमोहजनकत्वाद् विषं तत्प्रभवो यो विक्षेपो मनसोऽनेकाग्रता तेन कलुषमित्यर्थः मोक्षलक्षणं फलं सर्वेषामेवाभीष्टम् , तच्चानेकान्ततत्त्वज्ञानादेवेत्य
Page #413
--------------------------------------------------------------------------
________________
३५२
mwwww
अनेकान्तव्यवस्थाप्रकरणम् । सूरिश्रीविजयादिदेवसुगुरोः पट्टाम्बराहमणौ,
सूरिश्रीविजयादिसिंहसुगुरौ शक्रासनं भेजुषि । सूरिश्रीविजयप्रभे श्रितवति प्राज्यं च राज्यं कृतो, __ ग्रन्थोऽयं वितनोतु कोविदकुले मोदं विनोदं तथा ॥१॥ वाचकपरिषत्तिलकश्रीमत्कल्याणविजयगणिशिष्याः। श्रीलाभविजयविबुधा, अभवन् विद्यावतां धुर्याः॥२॥ श्रीजीतविजयविबुधास्तेषां शिष्यास्तपागणप्रथिताः । तेषां सतीर्थमुख्याः, श्रीनयविजयाभिधा विबुधाः ॥ ३॥ तत्पादपद्ममधुपः, श्रीपद्मविजयानुजः।
सत्तर्कमकरोदेनं, यशोविजयवाचकः ॥४॥ ॥ इति जगद्गुरुबिरुदधारकभट्टारकश्रोहीरविजयसूरिपुरन्दरशिष्यमुख्यषदतर्किविशारदमहोपाध्याय - श्रीकल्याणविजयगणिशिष्यतिलकपण्डितश्रीलाभविजयगणिशिष्यकोटीरपण्डितश्रीजीतविजयगणि - सतीर्थ्यालकारपण्डितश्रीनयविजयगणिचरणकमलचञ्चरीकेण पण्डितश्रीपद्मविजयगणि-सहोदरेणोपाध्यायश्रीयशोविजयगणिना विरचितोऽनेकान्तव्यवस्थाभिधानः
__ श्रीजैनतर्कग्रन्थः सम्पूर्णः ॥ प्रत्यक्षरं निरूप्यास्य, ग्रन्थमानं विनिश्चितम्।
त्रिसहस्री त्रिशती च, सप्तपञ्चाशदुत्तरा ॥१६ तोऽनेकान्तविषया मतिर्यथा ममाभीष्टफलजनकत्वात् फलतयेष्टा तथाऽन्येषामपीत्यतोऽन्येऽप्यनेकान्तविषयां मतिमवाप्य मोक्षभागिनो भवन्त्वित्यनुकम्पया परान् प्रति 'तदिदमनुयाचध्वमपरे' इत्याशंसनं ग्रन्थकृतामिति ॥ १३ ॥
ग्रन्थस्य करणकालपरिचयं कोविदकुलानन्द-विनोदजनकत्वाशंसनं चोपदर्शतिसूरीति-श्रीविजयदेवसृरिपट्टालङ्कारे श्रीविजयसिंहसरौ स्वर्ग गतवति सति तत्पट्टमलकुर्वाणे श्रीविजयप्रभसूरौ रचितोऽयं ग्रन्थः कोविदकुले मोदं विनोदं च विस्तारयत्विति मुकुलितोऽर्थः । त्रिभिः श्लोकैन्थिकारः खपरिचयमावेदयति-वाचकेतिपद्यत्रयमिदं स्पष्टार्थमिति ॥
Page #414
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थायाः सारपद्यानि व्याख्या कापि विचारसारघटिता काचित् स्फुटार्थप्रदा, ___ काचिद् ग्रन्थविशिष्टग्रन्थिविषमस्थानैकबद्धादरा । काचिद् गूढरहस्यमात्रकलनासञ्चारिवाचःप्रथा,
तासामन्यतमा मयाऽपि रचिता व्याख्येयमस्वाहता ॥ १.॥ मूलं क्वानतिविस्तृतोक्तिकलितं बह्वर्थबोधोद्धरं. __ नीतिव्रातप्रतीततत्त्वमिकरानल्पप्नथाभासुरम् । व्याख्या क्वांत्र नयैकदेशकलिता विस्पष्टभावाञ्चिता, . ___ नैवं सत्यपि मूलतत्त्वविषयोपेक्ष्या समीक्षावताम् ॥ २॥ मूले येऽर्था निरुक्तास्त इह विवरणे स्पष्टरूपेण सम्यग्
बालानां बुद्धिमार्गानुसरणविषया दर्शिता युक्त्युपेताः । तेऽमी संक्षेपतोऽर्थाः सुमननपदवीं यान्तु नित्यं बुधाना- .
मक्लेशेनैव यस्मात् स इह लघुतमो मार्ग एष क्रमाढ्यः ॥ ३॥ . नत्वा श्रीवीतरागं श्रममिह प्रवरो वाचकानामपूर्व, __ स्याद्वादार्थव्यवस्थाफलकमचकलन्न श्रमोऽयं वृथा यत् । ज्ञातुं शक्यं न चान्यैर्जिनमतममितं नीतिलेशैकवि -
धर्मोऽनेकान्त इष्टो मितिनयप्रथितो वस्तुमात्रस्य तत्र ॥ ४ ॥ भावा-ऽभावाद्यनेकात्मकमथ च भवेदेकरूपं च तत्त्वं,
सोऽनेकान्तो बुधानां प्रमितिविषयतां याति तत्त्वानि सप्त । तत्त्वार्थ दर्शितानि प्रथम इह मतो जीवनामा पदार्थों
मान्योऽजीवो द्वितीयो भवति ननु भिदा तस्य धर्मादिकापि ॥ ५॥ कर्मादानैकहेतुर्भवति जिनमते चावाख्यस्तृतीयो
बन्धः कर्मात्मयोगः प्रकृतिप्रभृतिकः स्याच्चतुर्थः पदार्थः । रोधः स्यादास्रवस्याभिमत इह मते संवरः पञ्चमोऽर्थः, .......
षष्ठः स्यान्निजेराख्यो जिनवरगदितः सप्तमो मोक्षनामा.॥ ६॥ पुण्या-ऽपुण्ये तु बन्धे प्रविशत इति ते नाधिके चात्र चर्चा
ऽनेका प्रश्नोत्तराभ्यां बुधजनहृदयाहादिनी संप्रयुक्ता। ... क्षिप्तं वैशेषिकाणां विभजनविषये सम्मतं संनिरुच्य,
तत्त्वानां सप्तधा वा भवति च नवधा जैनमान्यो विभागः ॥ ७ ॥ अ. व्य. २३
Page #415
--------------------------------------------------------------------------
________________
३५४
अनेकान्त व्यवस्थाप्रकरणम् ।
भावाऽभावादिचित्राकृति मतिजनकत्वाश्रयद्विस्वभावतादात्म्यापन्न जात्यन्तरसमनुगतै कस्वरूपो मितो यः । सोऽनेकान्तोऽस्ति नास्ति द्विविधमतिभवो नान्यथा स्याद् यतोऽतो, भावाऽभावादिरूपा द्विविध परिणतिर्वस्तुमात्रस्य मान्या ॥ ८ ॥ चर्चा चात्राप्यनेका विमतमतिबलात् कातराणां परेषां,
छिन्ना सयुक्तिपुत्रैः प्रतिनियतमतिः स्याच्च हेतोर्विशेषात् । सामग्रीसव्यपेक्षाच्छ्रुतमपि नियतग्राहि नीति प्रभेदात्,
स्यादेवं चैकवस्तुन्यपि बहुवचनं तद्बहुत्वप्रबोधे ॥ ९ ॥ इत्थं मान्या नया ये प्रतिनियतमतौ हेतुभावं भजन्ते,
ते ज्ञेया नैगमाया जिनसमयगताः सप्त सामान्यतोऽर्थान् । गृह्णात्येवं विशेषान्निगमभवतया नैगमस्तत्र भिन्नः,
सामान्यात् स्याद् विशेषस्तदपि ननु पृथक् स्याद् विशेषान्नयेऽस्मिन् ॥१०॥ भिन्नत्वेनोभयस्य ग्रहणपटुरयं न प्रमाणं ततोऽयं,
मिथ्यादृष्टिः कणादानुमतमतमिवेत्यस्य संवादनार्थम् ।
वादीन्द्रोद्गाररूपा बुधजनमहिता सम्मतिग्रन्थगाथा,
स्वस्याभीष्टार्थसिद्ध्यै विवरणकलिता दर्शिता ग्रन्थकर्त्रा ॥ ११ ॥ द्रव्यं पर्यायमेवं यदि पृथगुभयं गाहतेऽयं तदा किं,
द्रव्यार्थस्य प्रभेदो भवति न तु तथा पर्यवार्थस्य भेदः । द्रव्यार्थ चैनमार्यः कथयति सुधियामग्रणीः सिद्धसेन -
श्वाप्तः सिद्धान्तवेत्ताऽप्यनुमनुत इमं पूज्यपादस्तथैव ॥ १२ ॥ एतच्छङ्कापनुत्यै कथयति विबुधो ग्रन्थकारोऽत्र युक्ति
स्वस्वान्यग्राह्यबाधप्रथनपरतया स्यात् तु नीतेर्व्यवस्था । द्रव्यांशं नैव चायं क्षिपति ननु ततः पर्यवग्राहिभावे,
द्रव्यार्थोऽयं निरुक्तो बहुविध उदितश्चात्र सिद्धान्तवादः ॥ १३ ॥ सामान्यग्राहकोऽयं प्रविशति नियतं सङ्ग्रहे स्याद् विशेष
ग्राही चायं तथैव व्यवहृतिनयगस्तेन ताभ्यां न भिन्नः । इत्येवं सम्मतौ नो पृथगयमुदितो यन्मतेऽयं विभिन्नो,
नानाभिप्रायभेदा अनुमतिविषयास्तन्मते चास्य मान्याः ॥ १४ ॥
Page #416
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् ३५५ केचिच्चात्मैव सर्व त्वभिदधति परे सोऽपि चैकोऽप्यनेकः,
प्राहुश्चेत्थं तथाऽन्येऽभिदधति कतिधा कर्तृतादिप्रकारः। . कस्यापीष्टं प्रधानाजगदिदमभवत् सेश्वरं तत् तथाऽन्य
दन्यैस्त्वेतन्मतं चाणुनिचयप्रभवं सेश्वरादिप्रभेदम् ॥ १५ ॥ कर्ता कर्मव्यपेक्षो भवति तु जगतश्चेश्वरो न स्वतन्त्रो,
नायं कर्मव्यपेक्षो विरचयति जगद् हीयते चेश्वरत्वम् ।। इत्थं कस्यापि चेष्टं नियतिप्रभृतयः सन्त्यनेकेऽपि वादा___ स्ते सर्वे सम्मतौ यन्ननु निगमपदार्था निरुक्ता विभाव्याः ॥ १६ ॥ जातं वैशेषिकाणां मतमिह नयतो नैगमादेव तत्र,
द्रव्याद्याः षट् पदार्था विभजनकलया दर्शिताः संविभक्ताः । नो युक्त्या युज्यते तन्मतमिति घटना खण्डनोक्त्या समिद्धा,
सङ्ख्यानामा पदार्थोऽप्यनुभवपदवीं याति यस्माद् विभिन्नः ॥ १७ ॥ शक्तिर्दाहादिकार्ये दहनप्रभृतिगा मानसिद्धाऽपि मान्या
नो तस्याः खण्डनार्था परमननघटा युक्तितत्त्वोपपन्ना। .. वैशिष्ट्याख्यः पदार्थोऽप्यपर इह भवेद् युक्तितस्तस्य सिद्धि___ों तद्बाधाप्रकारः कणभुगनुमतो युक्तिमार्ग प्रयाति ॥ १८ ॥ सादृश्यं चापि भिन्नं न च परकलितं तत्स्वरूपं तु सम्यक्,
स्यादेवं कारणत्वं न च तदपि परोक्तस्वरूपानुषक्तम् । या तत्रैवान्यथासिद्धिविभजनकथा पञ्चधा तस्य मान्या
सा तद्युक्तिप्रपञ्चैः प्रथममुपगमागारभागे प्रविष्टा ॥ १९ ॥ पश्चात् साऽपि व्युदस्ता क्रमत इह यतो नो परोक्तिप्रपञ्चो,
हेतावात्मेश्वरादौ घटत इतरथा साऽन्यथासिद्धिकन्था । तत्रोद्धारप्रकारो न च परगदितो युक्तिमार्गानुगामी,
तस्माद्धेतुत्वमन्यत् कलयतु सुकृती क्वान्यथासिद्धिवार्ता ॥ २० ॥ आधारत्वं तथाऽन्यद् भवति च प्रतियोगित्वमन्यत् तथैव,
नात्राऽप्यन्योक्तमार्गो भवति विषयता तद्वदेवातिरिक्ता । एवं चान्येऽपि धर्मा अनुभवपदवीं भेददृष्ट्या प्रयान्ति,
ते चाभेदैकदृष्ट्या मननमुपगता नैव भेदं सहन्ते ॥ २१ ॥
Page #417
--------------------------------------------------------------------------
________________
३५६
अनेकान्तव्यवस्थाप्रकरणम् ।
wwww
तस्मात् कान्तं कृतान्तं जिनवचनमितानन्तधर्मात्मवस्तूद्वारोल्लेखं प्रमाणं श्रयतु ननु बुधो हेमसूर्यात्तभासम् । इत्थं वैशेषिकाणां मतमिह दलितं तद्दिशैवाऽऽक्षपादं,
wwwwww
सर्वं दुःस्थं पदार्थाकलनमिति दिशा नैगमस्य प्रपूर्णा ॥ २२ ॥ सामान्येनाखिलस्य ग्रहणपटुरसौ सङ्ग्रहाख्यो नयोऽन्यो,
यत्राऽन्यो नो विशेषोऽभ्युपगमविषयो वस्तुमात्रं सदैव । सत्ताऽनन्यत्वभावे सति भवति घटादिर्हि भावोऽन्यथा नो,
तस्मादस्तिक्रियैवाखिलवचनगताऽश्रूयमाणाऽपि योज्या ॥ २३ ॥ एतन्नीतिप्रभावात् खलु हरिरवदत् सर्वशब्दाभिधेयं,
चास्त्यर्थं सच्चिदानन्दमयमपि परब्रह्म चाद्वैतरूपम् । वस्तु स्वीकृत्य मायामयमखिलमिदं दृश्यमानं जगचा
ऽवस्त्वेवेति ब्रुत्राणो मतमपरमतो निर्ममे ब्रह्मवादी ॥ २४ ॥ मायैवाज्ञानरूपाऽप्यघटितघटनार्था समष्ट्यादिरूपा,
wwwwmm
प्राधान्याच्छुद्धसत्त्वा कलयति ननु सा चेश्वरोपाधिभावम् । हेतुत्वात् सा समष्टिर्जगत इह मता व्यष्टिरूपा त्वनेका,
जीवोपाधिः प्रधानान्मलिनगुणमयी कोशभेदो विभक्तः ॥ २५ ॥ अस्याज्ञानस्य शक्तिद्वयमपि गदितं चावृणोत्येकया तत्,
याsन्या विक्षेपशक्तिर्ननु भवति तया सृष्टिरस्याखिलस्य । तत्सृष्टस्तु प्रकारो बहुविध उदितस्तत्प्रसङ्गाच्च लिङ्गं,
प्रोक्तं तस्यापि सप्तोत्तरदशप्रमिताश्चाङ्गभेदा निरुक्ताः ॥ २६ ॥ कोशाख्यानं तु तत्राऽन्यदपि बहुविधं तस्य मान्यं प्रसङ्गा
दुक्तं प्राणादिपञ्चीकरणगमनिका दर्शिता तस्य मान्या । अध्यारोपा - Sपवादावपि तदनुमतौ दर्शितौ शोधितौ स्त
स्ताभ्यां तत्त्वम्पदार्थौ पृथगपि गदितस्तत्त्वमोरर्थभेदः ॥ २७ ॥ तत्राखण्डार्थबोधानुगुणमभिहितं तत्त्वमस्यादिवाक्ये,
सम्बन्धानां त्रिकं चोपगमपदमिता लक्षणा भागमात्रे । वाक्योत्थाखण्डबोधात् परचिदनुगताज्ञानबाधाच्च शुद्ध
ब्रह्मावस्थानमुक्तं प्रमितिमुपगता ब्रह्मणो वृत्तिरेवम् ॥ २८ ॥
Page #418
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम्
३५७ अभ्यस्थाः षट् शमाद्याः सहकृतिविधयाऽत्रोपयुक्ता निरुक्ता,. . ___ आत्मज्ञानप्रकाराः श्रवणप्रभृतयो भावितास्तत्प्रसङ्गात् । षलिङ्गान्यद्वयात्मन्यवधृतिफलकानीष्टतात्पर्यरूपे,
वेदान्तानां समाधिर्द्विविध इह तथा तस्य चाङ्गान्यथाष्टौ ॥ २९ ॥ विघ्नाश्चैवं लयाद्याः स्फुटमिह गदिता ईदृशाद् ब्रह्मबोधाद्, ___ बाधेऽज्ञानस्य पूर्व तदनु च निखिले बाधिते कार्यवर्गे । बाधायां सञ्चितस्याप्यदृढविषयके संशयादौ व्युदस्ते,
प्रारब्धादृष्टभोक्ता व्यवहृतिनियतो वर्तते बुद्धतत्त्वः ॥ ३०॥ प्रारब्धादृष्टजन्याखिलफलभवनात् क्षीणपुण्यादिकर्मा,
ब्रह्माद्वैतस्वरूपो भवति ननु तदा केवलो मुक्त आत्मा । इत्थं वेदान्तिमान्यं श्रुतिशतप्रथितं दर्शनं सङ्ग्रहोत्थं,
युक्तिवातासहत्वादनुभवतु कृती सर्वथैवेन्द्रजालम् ॥ ३१ ॥ ब्रह्माद्वैते कथं ते नियतविषयिणी बन्ध-मोक्षव्यवस्था,
चैतन्यं बुद्धिगं ते मुखमिव मुकुरे सम्मतो जीव एषः । बन्धो बुद्धेर्विनाशो यदि तव समये मुक्तता बिम्बवादे, . ____ नो युक्कैवं व्यवस्था नहि भवति तदा मुक्तता ते कदाऽपि ॥ ३२ ॥ बुद्धिश्चैका विनष्टा भवतु ननु परा विद्यते सा तु तत्र,
चैतन्यं तत् समस्तीत्यत इह भविता शुद्धता नैकनाशे। . तद्बद्ध शतस्तद्गतविगमभवा तस्य जीवस्य मुक्तिः,
स्यादेषाऽपि व्यवस्था नहि परप्रथिता सांशता रत्तिदोषात् ॥ ३३ ॥ सैषा नाभासवादे परसमयमता नाप्यवच्छेदवादे,
युक्ता तद्दोषभावान्न च परगदिता दृष्टिसृष्टिस्तु युक्ता। ... तस्यामज्ञानमेकं तदुपहितमथ ब्रह्मजीवोऽपि चैक
स्तन्मुक्तौ सर्वमुक्तिर्व्यवहृतिविलयान्नैव मान्या बुधानाम् ॥ ३४ ॥ मुक्तत्वं ब्रह्मगं ते सहजमिति न वै वक्तुमेवं तु शक्यं,
स्याद्वादार्थप्रवेशादगतिरपरथा नो मुमुक्षुपदेशः ।। .. वैफल्यात् कल्पनातः फलमपि घटते नाप्यविद्यानिवृत्ति- '
! बोधो निर्विकल्पः खत इह पुरुषार्थत्वमेतस्य नो यत् ॥ ३५ ॥
Page #419
--------------------------------------------------------------------------
________________
३५८
अनेकान्तव्यवस्थाप्रकरणम् । नो जन्यं ब्रह्म चास्य प्रभवति विषयोऽजन्यमेतत् फलं नो,
निर्धर्मे ब्रह्मतत्त्वे भवति विषयता नैव भिन्नाप्यभिन्ना । ब्रह्माकारत्वमेवं न कथमपि भवेद् वृत्तिगं नात्र कश्चित् ,
सम्बन्धोऽज्ञानहानिप्रजननबलतो न प्रमाणं च वृत्तिः ॥ ३६ ॥ नाज्ञानध्वंसकत्वे नियमनकृदसच्छेदकः कोऽपि धर्मो,
वक्तुं शक्यस्तु वृत्तेः परमतमखिलं तत्र युक्त्या विशीर्णम् । अज्ञानध्वंसकत्वं विनिगमयति ते चेच्छुतिर्ब्रह्मबोधे
पृच्छ त्वं तर्हि तां भोः कथमिह घटनां त्वं करोषीति सम्यक् ॥ ३७ ॥ भावा-ऽभावत्वधर्मद्वयसमनुगमाच्चेदनिर्वाच्यरूपां,,
मायां ब्रूषे तदानीं कलय निकटगं त्वं त्वनेकान्तवादम् । स्याद्वादे सप्तभङ्गीवचनतनुगतः स्यादवक्तव्य एवे
त्येवं भङ्गस्तृतीयः कथयति सकलं वस्त्ववक्तव्यरूपम् ॥ ३८ ॥ मायाऽवक्तव्यता चेद् भवदभिलषिता सर्वथा तन्न युक्ता,
स्यादेवं सा खपुष्पादिकसदृशतया किं तया भाव्यमत्र । नो सत्या नाप्यसत्या गदितुमनुगुणा सा तथा हेमसृरि.. दुःस्थामेनामकार्षीन्ननु भवतु कथं तत्र सुस्थः परोऽपि ॥ ३९ ॥ ज्ञाने निर्धर्मिकत्वाद्यपि परगदितं युज्यते नैव नैवं,
नित्यत्वं सर्वथाऽस्मिन् भवति नहि तथैक्यं तु कान्तं तदिष्टम् । किञ्चैवं सत्सदित्याद्यनुगतमतितः स्यात् सदद्वैतमेव,
ज्ञानाद्वैतं तु कस्माच्छ्रुतिरिह प्रथिता सत्त्व-चित्त्वादिधर्मे ॥ ४० ॥ एक तच्चेत् सदाद्यात्मकमपि ननु तत् किं न सर्वात्मकं स्या
देकज्ञानेन सर्वावगतिरिति प्रथा द्रव्यनीत्या तु युक्ता । 'जे एगं जाणइत्तीत्यपि जिनवचनं स्यात् तदानुसृतार्थ
मित्थं तत्त्वैकदृष्ट्या कलयतु सुकृती सर्वमेकं च नाना ॥ ४१ ॥ याऽभीष्टा लक्षणा ते जहदजहती तत्त्वमस्यादिवाक्ये__ऽखण्डब्रह्मस्वरूपे उपगमपदवी प्रापिता युक्तितश्च । दृष्टान्तो दर्शितो यो न च स परमतः सोऽयमित्यादिवाक्ये,
निर्बीजा लक्षणा नोऽन्वयसमनुगमश्चार्थयोर्यत् कथञ्चित् ॥ ४२ ॥
Page #420
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् । ३५९ तत्तेदन्तावतोर्यद् भवति ननु कथञ्चित् तु तादात्म्यबन्धो,
भेदा-ऽमेदात्मकोऽसौ नहि भवति विरोधोऽपि चाध्यक्षसिद्धे। नैवं चेच्चित्ररूपाद्यवगतिविषये लक्षणा स्यात् त्वखण्डे, .. इष्टा चेद् द्रव्यदृष्ट्या तदिह भवतु पर्यायदृष्ट्या सखण्डः ॥ ४३ ॥ तत्त्वेऽखण्डार्थशब्देऽप्यनुभवतु कृती खण्डबोधार्थमेनां,
नाखण्डस्यैव बोधो भवति न तु तथा खण्डधीरत्र मानम् । खण्डाखण्डार्थबोधोद्भवबलत इदं वस्तु मान्यं कथञ्चित्,
खण्डाखण्डस्वरूपं कलय ननु जिनाज्ञां समालम्ब्य वादिन् । ॥ ४४ ॥ अर्थोऽयं सम्मतावप्यनुमतिविषमस्तेन वस्त्वेवमेव,
ब्रह्माखण्डैकरूपं श्रुतिरपि मनुते निश्चयालम्बनेन । नो शुद्धे ब्रह्मतत्त्वे कथमपि घटते लक्षणा बन्धरूपा,
तात्पर्य नाप्यखण्डेऽनधिगतिविषये ब्रह्मणि स्याच्च युक्तम् ॥ ४५ ॥ तद्वाच्यो यः परात्मा जिनपदगदितस्त्वंपदार्थोऽन्तरात्मा,
भेदा-ऽभेदात्मबन्धस्तदुभयनियतस्तत्त्वमस्यादिवाक्यात् । तात्पर्येणावधार्यों जिनसमयविदा नात्र दोषस्य लेशो,
वेदान्ताः सर्व एव स्तुतिविषयपरा नाद्वयार्था विभाव्याः ॥ ४६ ॥ वेदे विध्यर्थवादानुवचनपरता भाष्यवृत्त्यादिसिद्धा, ___ स्वार्थे मानं न वेदान्तवचनमिति मीमांसकाः सङ्गिरन्ते । विध्यङ्गत्वं तु हेतुः प्रभवति न च तत्त्वं प्रसिद्ध विधीनां, .
नाङ्ग वेदान्तवाक्यं दिगियमभिहिता सङ्ग्रहस्य प्रपूर्णा ॥ ४७ ॥ सामान्यं यो विशेषाभ्युपगमप्रवणो नाभ्युपैत्येव धर्म,
लोके सर्वा विशेषाद् व्यवहृतिरुदयं याति सामान्यतो नो। बाहुल्येनोपचारं कलयति स नयो नैगमात् सङ्ग्रहाच्च,
भिन्नो ज्ञेयो नयज्ञैर्व्यवहृतिरिति यन्नाम शास्त्रे प्रतीतम् ॥ ४८ ॥ सामान्य नो विशेषेभ्य इह परतया भासते लोकयात्रा,
सर्वा सिध्येद् विशेषाद् ग्रहणमनुगतस्यास्तु तद्भान्तमेव । द्रव्यार्थाद् दोषजन्यं नहि भवति ततो वस्तुसिद्धिर्यतो नो.
यावद्व्यक्तिभ्य एतन्नहि मतिविषयो भिन्नभावेन मातुः ॥ ४९ ॥
Page #421
--------------------------------------------------------------------------
________________
३६०
अनेकान्तव्यवस्थाप्रकरणम् ।
यावद्द्रव्योपयोगीः ननु भवति ततस्त्यज्यते यद् गृहीत्वा, तत्तत्सामान्यरूपं व्यवहृतिविषयः पर्यवग्राह्यभावात् । सत्यं सामान्यमेवं व्यवहृतिविषयस्तग्रहे त्वप्रमात्व
निर्णीतिः स्यादमुष्मान्नहि भवति वृथा तावताऽप्यस्य यत्नः ॥ ५० ॥ नन्वेवं सङ्ग्रहोऽथ• व्यवहृतिरपि च स्तः कथं नैव मिथ्या, यस्मादेकैकभागे त्ववधृतिप्रवणौ वस्तुनो द्वौ नयौ तौ । मिथ्यादृष्टी तु सत्यं मिथ इह यदि नो सव्यपेक्षौ तदानीं, सम्यग्दृष्टिर्व्यपेक्षाजनितसमुदये सम्मतावित्थमुक्तम् ॥ ५१ ॥ अन्योऽन्यं निश्रितत्वे भवति समुदये नैव मिथ्यात्वयोगः,
wwww
सम्यक्त्वं किन्तु यस्मात् समुदय इह नो ज्ञानपुञ्जस्वरूपः । अत्यक्तान्यस्वरूपाध्यवसितिरपि तु प्रोच्यते चैक एव,
तत्रैवान्योऽन्यनिश्रापदमपि घटते नान्यथा बोधकं तत् ॥ ५२ ॥ मीमांसाग्रन्थकर्त्रा त्विह तु समुदये तत्त्वगत्यै निबद्धा,
दृष्टान्तोद्भासिकाऽस्यां सुललितविषया सम्मतिग्रन्थगाथा | अन्ते स्वाभीष्टसिद्धेरनुगतिर भितोऽदर्शि चैतन्यमेक`मात्मद्रव्यानुविद्धप्रमिति - नयमयं स्यात् समूहस्वरूपम् ॥ ५३ ॥ स्वांशे सत्या नयास्ते पर विषयहतौ ते तु मिथ्यावसायाः,
सत्यास्ते वा तु मिथ्या विभजनमिति ये कुर्वते ते त्वधीराः । दृष्टा नेकान्ततत्त्वो न खलु विभजते चेत्थमत्र प्रमाणं,
सम्मत्युक्तिर्निबद्धा नय-प्रमितिचितं चैकमेवात्मरूपम् ॥ ५४ ॥ मानं नीतिः कुनीतिस्त्रिविधविभजना दर्शिता हेमसूरेः,
पद्यं संवादनार्थं गदितमिह ततो दुर्नयावस्थतायाम् । यत्नः सामान्यहत्यै व्यवहृतिनयगस्तर्कवद् वा प्रमाणे,
'स्वार्थे दार्व्याय नैवेतरविषयप्रतिक्षेपणं चात्र मुख्यम् ॥ ५५ ॥ लोके यस्मिन् यथैव व्यवहृतिभवनं तत् तथैवान्यथा नो,
स्वीकुर्वन् वस्तु वाऽयं व्यवहृतिपदतो गीयते नीतिविद्भिः । लोके यः कृष्णवर्णो भ्रमर इति मतः सोऽस्य नो पञ्चवर्णो,
निर्णीतो निश्चयेनाप्यथ गतिरुदिताऽश्वेत इत्यादिवाक्ये ॥ ५६ ॥
Page #422
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् ३६१ एतस्मात् कापिलानां मतंमिह प्रथितं वर्णिता प्रक्रियाऽस्य, . ___ मूलं चात्र प्रधानं प्रकृतिरिति मतं कार्यभेदाश्च तस्मात् । साम्यावस्था गुणानां भवति तु प्रकृतिर्बुद्धिरुत्पद्यतेऽतो- '
ऽहङ्कारः स्यात् ततः षोडशकगण इत: साख्यशास्त्रप्रसिद्धः ॥५७ ॥ तन्मात्रेभ्यस्तु पञ्चभ्य उदयति महापञ्चभूताख्यतत्त्वं,
चैतन्यात्मा तथात्मा पुरुषपदमितो नैव कर्ता स भोक्ता। तत्त्वान्येतानि चास्मिन् शरनयनमितान्याश्रमे यत्र कुत्र,
ज्ञातानि ज्ञातृजीवे तु परमपुरुषार्थाख्यमोक्षप्रदानि ॥५८॥ बुद्ध्याद्या ये प्रधानादुदयमुपगतास्ते ततो नैव भिन्ना
स्त्रैगुण्यादेः प्रधानात्मकमखिलमिदं व्यक्तमित्यादियुक्तिः । हेत्वात्मन्येव कार्य यदसदकरणादिश्च तत्रापि हेतु- भैदानां ये तु दृष्टाः परिणतिप्रमुखास्तैः प्रधानस्य सिद्धिः ॥५९ ॥ सामान्यं चात्र सत्त्वादिकमनुगतितश्चैकमुक्तं जडात्म___ द्रव्यं यच्चेतनं चाननुगतमुदितं द्रव्यमेतत् त्वशुद्धम् । तस्मादित्थं विभागाद् व्यवहृतिनयको नीतिविज्ञोक्तरूपो
ऽशुद्धद्रव्यार्थिकोऽसौ कपिलमतभवे हेतुरिष्टो बुधानाम् ॥ ६॥ सोऽयं मिथ्याविचारं नहि खलु सहते यत् प्रधानखंभावा,
नो युक्ताः कार्यभेदाः कथनमपि च ततः कार्यभावेन वृत्ताः । यद् यस्मानव भिन्न तदिह भवति नो तस्य कार्य च हेतु
भिन्नं यत् कार्य-हेत्वोः कलयति सुकृती लक्षणं सर्वथैव ॥११॥ नोऽमेदे चैव मूलप्रकृतिरपि कृतिस्त्वेवमादिर्विभागो,
युक्तः किं नान्यथाऽऽत्मा प्रकृतिविकृतिभावेन भाज्यो भवेत् ते। किं व्यक्तं हेतुमत्त्वादिकलितमथ नोऽव्यक्तमेतादृशं चे
त्युक्तिर्वै युक्तियुक्ता व्यवहृतिरखिला भेदगा खण्डिता स्यात् ॥ ६२ ॥ सत्त्वादौ चेतने वाऽभ्युपगमनमपि प्राज्ञवद् भिन्नताया
स्तत् ते व्यर्थं त्वमेदेऽपि ननु भवति यद्वैपरीत्यं पदार्थे । नो वा तेऽत्रान्वयादिः प्रकृतिविकृतिगो दृश्यते तत्प्रधाना
देर्बुद्ध्यादेस्तु सृष्टिः प्रमितिविषयता भावतो नैव युक्ता ॥ ६३ ॥
Page #423
--------------------------------------------------------------------------
________________
३६२
अनेकान्तव्यवस्थाप्रकरणम् । नित्ये नैव क्रमेणार्थकरणमपि ते योगपद्येन नो तद्, ___ नो वा युज्येत वादस्तव तु परिणतेर्यद् विकल्पैः स भिन्नः । विस्तीर्णा चात्र चर्चा परिणतिविषया तेन साङ्ख्याभ्युपेतो,
नो युक्तो हेतुवादः परिणतिबलतः किन्त्वनेकान्ततः सः ॥ ६४ ॥ किञ्चासत्कार्यवादी सदकरणमुखान् साङ्ख्यसत्कार्यहत्य,
हेतून वक्तुं समर्थों भवसि च प्रतिबन्द्या गृहीतस्तदा त्वम् । एवं ते दर्शने नो कथमपि घटते साधनस्य प्रयोगे,
साफल्यं संशयादेर्भवति विघटनं नैव नित्यस्य यस्मात् ॥ ६५॥ नाभिव्यक्तिस्तु युक्ता भवति प्रतिहता यत् प्रभूतैर्विकल्पैः,
शङ्काऽसत्कार्यहत्यै ननु पररचिता युक्तितोऽथ व्युदस्ता । एवं सत्कार्यवादे नहि भवत उभौ बन्ध-मोक्षौ प्रधाना_ स्तित्वे ये हेतवोऽत्र प्रथममभिहतास्त त्वसिध्यादियुक्ताः ॥ ६६ ॥ चर्चा चात्रापि कान्ता परमतहननेऽदर्शि शङ्कोत्तराभ्यां,
यद् यत् साङ्ख्यस्य वाच्यं तदखिलमपि संभाव्य दूरं निरस्तम् । चैतन्यं त्वात्मरूपं प्रकृति-विकृतितो भिन्नमुक्तं प्रमाणं,
चाख्यातं वेदवाक्यं पुरुष उपगतो भोक्तृरूपो न कर्ता ॥ ६ ॥ मानं चात्मप्रसिद्ध्यै गदितमिह तु सङ्घातरूपं परार्थ, ___ दृष्टं शय्या-ऽऽसना-ऽभ्यङ्गप्रभृतिसकलं चक्षुराद्यास्तथैव । आत्माऽसङ्घातरूपः पर इह हि मतो नानवस्था ततोऽत्र,
साङ्ख्यस्येत्थं तु मान्यं यदपि तदपि नो युक्तित: सिद्धिमेति ॥ ६८ ॥ चैतन्यं नित्यमेकं न समुचितमिहाध्यक्षतो भासते यद् , __रूपादिज्ञानभेदो बहुविषयकभोक्तृत्वमेकस्य न स्यात् । योगाञ्चैवं दिदृक्षादित इति कथनं नैव सम्बन्धबाधाद्, — भेदेऽभेदे तदुत्पादत इह भवनं चात्मनः स्यात् प्रसक्तम् ॥ ६९ ॥ भोक्तृत्वं कर्तृधर्मो नहि भवति तथा चेतनेऽकर्तृरूपे,
चैतन्याभावतो नो प्रकृतिरपि भवेत् कर्मकी कथञ्चित् । पङ्ग्वन्धन्यायतश्चेत् प्रकृति-पुरुषयोर्योगतः सृष्टिरिष्टा,
तां प्रत्येवं निमित्तीभवदथ पुरुषः स्याद् विकारी तदानीम् ॥ ७० ॥
Page #424
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् । ३६३ किच्चैवं ते तु कर्माकृतमपि पुरुषेऽतात्त्विकाद् योगतश्चे
दिष्टं दत्ते फल सत् प्रकृतिनियमितं तर्हि सर्वस्य पुंसः। स्वस्वाभीष्टार्थसिद्धिः किमिति नहि भवेद् धर्मधर्मः प्रकृत्या,
सम्पाद्योऽनिष्टमेवं प्रकृतिरुपनयेन्नो यतस्तत्र चेष्टम् ॥ ७१॥ किञ्चैवं ते प्रधानं छुपनयतु फलं भोक्तृता नोऽपि कार्ये,
चैतन्ये स्यात् कुतश्चिन्न भवति गगनं भोक्तृरूपं यथैव । बुद्धौ सङ्क्रान्तितोऽर्थः पुरुषमुकुरके सङ्क्रमेतेति वार्ता,
बिम्बन्यायाद् यदा ते व्यवहृतिबलतो भोक्तृता कल्पिता स्यात् ॥७२॥ कर्तृत्वं कल्पनातः किमिति न मनुषे कल्पनालाघवे यद्,
नो ते पङ्ग्वन्धदृष्टान्त इह सुदृशो वेत्ति पङ्गोर्विवक्षाम् ।। अन्यश्चेतन्यवत्त्वात् प्रकृतिरमतिका नात्मकाङ्क्षाधिगन्त्री,
तत्त्वे भोक्तृत्वमस्या ननु पुरुषकथा दुष्प्रथैवातिरिक्ता ॥ ७३ ॥ यच्चोत्पादादिमत्त्व कपिलसुतमतं बुद्ध्यचैतन्यसिद्ध्यै,
हेतुस्तत्र स्वतन्त्रो यदि परप्रथितः स्यात् तदाऽसिद्धिरस्य । बौद्धर्यादृक् स इष्टः कपिलसुतमते नैव तादृग् मतोऽसौ, __तन्मान्यो बौद्धमान्यो न भवति वचनैक्यं तु नात्रोपयुक्तम् ॥ ७४ ॥ चेद्धेतुः स प्रसङ्गानुगुण उपगतस्तयनैकान्तिकत्वं,
व्याप्तिश्चैतन्यतो नो भवनविगमिताऽभाववत्त्वस्य यस्मात् । यद्वद् वत्सस्य वृध्यै जडमपि यतते क्षीरमेवं प्रधानं, __मोक्षार्थ चात्मनस्ते यतत इति वचो युक्त्यपेतं न मान्यम् ॥ ७५ ॥ कादाचित्कात् स्वहेतोरुदयमनुभवत् क्षीरमित्थं तु वाच्यं, ___नित्यं नैवं प्रधानं सहकृतिरपि नागन्तुका नित्यवादे । तत्तत्काले तु तत्तत्पुरुषगतविमोक्षानुकूला त्वनेका,
शक्तिः स्याचेत् प्रधाने क्षणसमयगता हेतुतैवास्तु कल्प्या ॥ ७६ ॥ पारायें यच्च साध्यं पुरुषप्रमितये तद्विकल्पैरनेकै
दुष्टं नेष्टार्थगत्यै कपिलसुतमते सर्वमापातकान्तम् । इत्थं शास्त्रानुसारि व्यवहृतिमननं दर्शितं सायमान्ये, - राद्धान्तोत्पाददक्षं नयमननपरैरत्र भाव्यं सयत्नैः ॥ ७७ ॥
Page #425
--------------------------------------------------------------------------
________________
३६४
अनेकान्तव्यवस्थाप्रकरणम् । नोऽवकं सूत्रयत्यर्थमणुसमयगं ज्ञानमस्य त्ववक्रं, __ नातीतानागतार्थ मनुत इह कथा वर्तमानार्थिकैव। . स ख्यातो नीतिविद्भिः क्षणिकविषयताशालिशुद्धर्जुसूत्रो,
द्रव्यार्था मिश्रितत्वं ननु समयविदा शुद्धता चास्य गीता ॥ ७८ ॥ सामान्यं नोपयुक्तं व्यवहृतिविषये तेन नो सत्यमिष्टं,
तद्वन्नो सत्यमेष्यद् गतमपि च तथा तेन वक्रे च ते द्वे । किन्तु स्याद् वर्तमान व्यवहृतिनिपुणं सत्यमेतत् त्ववक्र,
स्वीयं ज्ञेयं तदेतत् परमथ सकलं चान्यदीयं विभाव्यम् ॥ ७९ ॥ अस्मिल्लिङ्गादिमेदाकलितमपि वचो नार्थभेदं विधत्ते, __ नानापर्यायवाच्यत्वकलितमपि चाभिन्नमेवार्थतत्त्वम् । निक्षेपैरप्यशेषैरनुसृतमथ चानन्यदेवात्र वस्तु,
नो भावैकस्वरूपं वचननय इवोपैति शुद्धर्जुसूत्रः ॥ ८ ॥ अस्मादेवोपजातं सुगतसुतमतं चैकपर्यायमात्र
ग्राहीष्टं नो पलालं दहति च दहनो दह्यते नो गिरिश्च । नैवात्रासंयतः प्रव्रजति न च तथा भव्यजीवस्य सिद्धि
सैन्यं चेत्थं न दोषो व्यवहृतिहननं तत् क्वचित् सर्वनीतौ ॥ ८१॥ सर्व बौद्धस्य मान्यं भवति समुचितं चेत् क्षणैकस्थितोऽर्थों,
नैनं मीमांसकादिः सहत उपगतानल्पकालस्थितार्थः । नाध्यक्षं तत्र मानं स्वयमपि मनुते यत् तदन्त्यक्षणस्य,
द्रष्टृणामेव तस्मात् क्षणिकमिति बलात् कल्प्यते प्राक् च दोषः ॥ ८२ ॥ न स्यात् तत्रानुमानं क्षणिकपरिचये नानुमानाङ्गपक्ष
धर्मत्वं ज्ञायते नो परित इह तथा व्याप्तिबोधाभ्युपायः । तद्राही स्याद् विकल्पो न च प्रमितिरसौ निर्विकल्पस्तु नेदृग
भूतेऽर्थे जायते नो सुगतसुतमते मानमन्यच्च ताभ्याम् ॥ ८३ ॥ प्रत्यक्ष प्रत्यभिज्ञात्मकमपि विमलं स्थैर्यसिद्धौ विदग्धं,
मानं बौद्धाभ्युपेतक्षणिकविषयकं बाधते चानुमानम् । प्रामाण्यं तस्य भट्टोऽभ्युपगमपदवीमानयद् युक्तिजालै
स्तच्च स्यान्निर्विकल्पात्मकपि च ततो बाधितं बौद्धमान्यम् ॥ ८४ ॥
Page #426
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् ३६५ नाशो भावस्य हेतुर्भवति भनु ततस्तद्विलम्बाद् विलम्ब___ स्तस्य स्यात् तेन नाशः कतिपयसमयावस्थितेरुत्तरं स्यात् । भावानां स्थैर्यमित्थं बहुसमयगतत्वेन याति प्रसिद्धिं, ..........
नाशो भाववरूपो भवति ननु ततः कार्यता तस्य युक्ता ॥ ८५ ॥ अत्राहुबौद्धमुख्याः क्षणिकमतिभवोऽध्यक्षतोऽध्यक्षधी!,
पूर्व नैवोत्तरं वा समयमनुगतं तत्र वा वेत्ति किन्तु । अद्धा यो मध्यमात्मा क्षण इति गदितस्तद्गतत्वं पदार्थे,
गृह्णातीत्थं प्रमाणं क्षणलयविषयं किं न नोऽध्यक्षमेव ॥ ८६ ॥ अध्यक्ष निर्विकल्पात्मकमिह घटते स्वानुरूपं विकल्पं,
द्वारीकृत्य प्रमाणं व्यवहृतिफलकं चानुमानं प्रमाणम् । पारम्पर्येण वस्तुप्रभवमिति विकल्पत्वभावेऽपि मानं,
सत्त्वाद्धेतोस्तु तत् स्यात् क्षणिकविषयकं नाप्रवृत्तिस्ततोऽस्य ॥ ८७॥ अत्राऽऽशङ्कोत्तराभ्यां सुहृदपदमितः साध्य हेत्वोश्च बन्ध
स्तादात्म्यात्माऽथ सत्त्वं क्षणिकनियमितं योगपद्य-क्रमाभ्याम् । ताभ्यां नित्य तु नैवाभ्युपगमपदगं कार्यकारित्वरूपं,
सत्त्वं प्रश्नोत्तराभ्यां क्षणिकमतमिदं साधितं चैव ताभ्याम् ॥ ८८ ॥ चर्चाऽनेका प्रसङ्गादिह बुधप्रथिता भाविता कार्यकाले,
हेतोः सत्वं न चावश्यकमिति भविता किं क्षणस्थो न हेतुः। सादृश्यस्यानुसाराद् व्यवहृतिबलतो हेतुभावव्यवस्था, . कुर्वद्रूपत्वतः स्यान्न च भवति ततोऽतिप्रसङ्गाऽऽदिदोषः ॥ ८९॥ उक्तं चाविद्धकर्णादिभिरपि यदपि स्थैर्यपक्षाभिमानात् ,
तत् क्षिप्तं नाशभेदप्रथननियमनात् कल्पिता-ऽकल्पिताभ्याम् । यच्चोक्तं प्रत्यभिज्ञा क्षणिकमिति भवे बाधिका तन्न युक्तं,
न प्रामाण्यं यतोऽस्याः सुदृढमतिगतं तद्विना बाधिका नो ॥९०॥ चर्चा प्रश्नोत्तराभ्यामिह तु बहुविधा. दर्शिता प्रत्यभिज्ञा, ..
दूरं क्षिप्ता तया सा न भवति प्रमिति कविज्ञानरूपा । प्रामाण्यस्याप्रसिद्धौ भवतु यदि च सा निर्विकल्पात्मिका वा,
प्रत्यक्षकवरूपा क्षणिकमिति विधौ बाधिका नाऽन्यथाऽपि ॥९१॥
Page #427
--------------------------------------------------------------------------
________________
अनेकान्तव्यवस्थाप्रकरणम् ।
नाशे हेतूद्भवत्वं यदपि च गदितं स्थैर्यसिद्ध्यै न तत् सद्, .. ___ नाशो भावाद् विभिन्नोऽननुभवविषयत्वेन नास्त्येव यस्मात् । अत्र प्राभाकराणां वचनमनुगुणं दर्शितं नाप्यभिन्न...स्तत्त्वे स्यात् तद्विनाशे पुनरपि भवनं स्याद् विनष्टस्य तर्हि ॥९२ । इत्येवं युक्तिपुलैर्विलयमुपगता नाशहेतोस्तु चर्चा,
भावानां नश्वरत्वं स्वत इह यदि चेद्धेतुवैफल्यमत्र । तेषां चानश्वरत्वं यदि तदपि तथा न स्वभावोऽन्यथा स्या
दित्याद्या युक्तयोऽपि प्रलयजनकघातिन्य एवोपदिष्टाः ॥ ९३ ॥ उत्पादेऽप्युक्तयुक्त्या ननु भवति तथा हेतुवैफल्यमित्या__ रेका युक्ता व्युदस्ता सुगतमतप्रथा चेत्थमावेदिताऽत्र । सम्मत्युक्तैश्च दोषैरपहरतितरां तन्मतं वाचकाय्यः, . प्रत्यक्षं नैव मानं क्षणलयगमकं स्थैर्यमात्रावभासात् ॥ ९४ ॥ दोषादन्यादृशाभोऽनुभवति सदृशश्चेद् विकल्पस्तदानीं,
नीलाद्यर्थेऽपि चैवं भवतु ननु तथाऽनीदृशस्तद्विकल्पः । प्रामाण्यं निश्चयस्यानुसरणबलतोऽध्यक्षगं तस्य मान्यं,
नैवं चेद् दान-हिंसाविरतिरिति ततः खर्गशक्तिश्च सिद्धयेत् ॥९५॥ तत्राध्यक्षाप्रवृत्तावनुमितिरपि नो नैव सा प्रत्यभिज्ञा__ बाधात् तत्र प्रमाणं न भवति यदि चैका प्रमाणं तदा नो। सर्वा सा प्रत्यभिज्ञाऽप्रमितिरथ तथाऽध्यक्षमप्येवमेव, । स्याद् दोषोत्थं त्वमानं भवतु तदुभयं चात्र नो नो विवादः ॥ ९६ ॥ पूर्व कालत्वमस्या भवति हि विषयो वस्तुधर्मस्तदिष्टं,
नासान्निध्यादमेयं भवति तदिह यत् सन्निधार्थस्य भाने । तत्प्रत्यासत्तिभावात् तदपि विषयतां याति प्रत्यक्षबोधे,
दृष्टा चाध्यक्षबुद्धिः शतमिति प्रमितिः सन्निधासन्निधार्था ॥ ९७ ॥ साऽर्थोत्था चेन्द्रियोत्था बहुविषयमिताऽबाधितार्था प्रमाणं,
नो सर्वे विद्यमानाः कतिपयविगमेऽपीष्यते तत्प्रतीतिः । छत्राद्याधारचैत्रावगतिरिव भवेद् भिन्नकालावरुद्धः, ____ कार्यग्राहिप्रतीतिस्तदुदयबलतो न्याय्यमेकत्वमत्र ॥९८॥
Page #428
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम्
३६७ सत्यां बुद्धौ विरोधाद् यदि भवति भिदा तर्हि नीलादिबुद्धे- '.
दिक्षड्योगाद् भिदा प्रत्यणु ननु भविता चानवस्थाप्रसक्तेः । शून्यत्वस्य प्रसक्तेर्व्यवहृतिरखिला स्याच्च लुप्ता विरोधे
ऽप्येकत्वं तत्प्रतीत्या तदिदमभिहितग्राह्ययोर्मान्यमेव ॥ ९९ ॥ नाध्यक्ष वाऽस्त्वमिज्ञा प्रमितिरथ च सा बाधराहित्ययोगा
देवं भूता प्रमात्वे नहि नियममतिः स्यान्न चाध्यक्षतः सा। लिङ्गान्नैवानवस्था भवति ननु तदा तेऽनुमानाप्रवृत्ती, , नो .सिद्धयेच्च क्षणैकस्थितिरपि नियमस्याग्रहे कुग्रहेऽस्मिन् ॥ १०॥ सामान्यासत्तितोऽथाक्षिचरणप्रथिता व्याप्तिधीरक्षजन्या,
सा क्षिप्ता तत्र युक्तिः परहंदयगतोद्धाट्य दूरं निरस्ता। तस्मान्मानं परोक्षं जिनप्रवरमतं तर्कनाम्नां प्रसिद्ध
मूहाख्यं व्याप्तिबोधस्तत इह प्रथितः प्रत्यभिज्ञाऽपि तादृक् ॥ १.१॥ नित्याद् व्यावर्तमाना क्रमत इह तथा यौगपद्याच्च सत्ता,
विश्रान्ताऽर्थे क्षणस्थे गदितमिति च यत् तन्न युक्तं परस्य । कुर्यात् कार्य क्रमेणाजननजनकते स्तः खभावौ विभिन्नौ,
ताभ्यां नो वस्तु भिन्नं भवति न च ततो नित्यताया अभावः ॥१०२॥ कल्प्याश्चेद् धर्ममेदादधिकरणभिदा कल्प्यते तर्हि तत्र, __कल्प्यादेकत्वतः स्यात् किमिति नहि मता कल्पिता नित्यताऽपि । एवं स्याद् धर्ममेदः क्षणिकगततया तेन तस्यापि भेदो,
बाध्यश्चेदेकबुद्ध्या तदपि च प्रकृते तुल्यमेवेति बोध्यम् ॥ १०३॥ किञ्चैषार्थक्रिया नो क्षणिक इह घटते त्वन्मतेऽप्युक्तयुक्त्या, . .
चर्चा चात्राप्यनल्पा सुगतमतप्रथोन्मूलिनी सन्निबद्धा। यच्चात्रार्थक्रियालक्षणमपि गदितं सत्त्वमेतच्च हेतु
स्तद्भावोऽर्थक्रियातो भवति यदि तदा प्रागसत्त्वं प्रसक्तम् ॥ १०४॥ सत्त्वादर्थक्रिया चेद् भवति ननु तथा तत्स्वरूपात्मसत्त्वं,
सत्त्वं चार्थक्रियातो नियमितमिति साऽर्थक्रियातः सति स्यात् । तत्रान्यार्थक्रिया स्यादिति समुपनता चानवस्था ततोऽपि,.
सत्त्वं.मान्यं स्वरूपं क्षणिकनियमितं तत्र ते तन्न हेतुः ॥१०५॥
Page #429
--------------------------------------------------------------------------
________________
३६८
अनेकान्तव्यवस्थाप्रकरणम् । ध्वंसो निर्हेतुकश्चेद् भवतु नहि तथाऽमीष्टसिद्धिः परस्य, ....
हेतौ व्यापारिते स्यादनुभवविषयो नान्यदा धंस एषः ।। तस्मात् तत्काल एवाभ्युमगमंविषयस्तस्य सत्त्वं स्थिरत्वं,
भावानां सिद्धमस्मादपरमपि मतं तस्य युक्त्या निरस्तम् ॥ १०६ ॥ एवं यो यो विकल्पो विगमजनकगो दर्शितो बौद्धबालै
र्भावोत्पत्तौ स सर्वो भवति ननु समः सूक्ष्मदृष्टया विभाव्यः । इत्थं वातो त्वनल्पा बुधवरहृदयानन्दिनी सन्निविष्टा,
राद्धान्तः सौगतानां प्रलयपथमितो यो बभूवर्जुसूत्रात् ॥ १०७ ॥ मूलं चात्रर्जुसूत्रो नय उपमितितः सत्तरोः पर्यवस्य,
शब्दाद्यास्तस्य शाखा इह समनुगमः सम्मतीष्टो निरुक्तः । पार्थक्येनात्र शब्दाद्युपगमविषयो दर्शितो भवितं च,
शब्दादीनां कथञ्चिजुनयविषयग्राहितातस्त्वृजुत्वम् ॥ १०८॥ वस्तुस्थित्या न तेषामृजुनयघटना स्यात् तथात्वे प्रभेदा,
नीतीनां ते भवेयुर्न नयविभजने तद्विभागो घटेत । सूत्रस्यैव विरोधो यदुत विभजना सप्तधा तत्र दृष्टा,
एतेनैव व्युदस्तं नवनयमननं दिक्पटानां व्युदस्तम् ॥ १०९ ॥ तत्र द्रव्यार्थिकाख्यो विशति ननु तथा पर्यवाख्योऽपरोऽपि,
इत्थं चैतद् विभक्तप्रविभजनघटा स्यान्न चैको विभागः । किञ्चैवं चार्पितानर्पितनयमिलनात् स्युस्त एकादशोऽपि,
तस्माद् युक्ताऽनुयोगाद्युदितविभजना सप्तधैवात्र नान्या ॥ ११०॥ ज्ञेयोऽयं चर्जुसूत्राश्रितवचनघटाविस्तरः सर्व एव, ___ सुस्पष्टानल्पबाह्याभ्युपगमनपरं चान्यथाऽप्यत्र पन्थाः । यस्मिन् सौत्रान्तिकाद्याः सुगतसुतवरा ये चतुस्सङ्ख्यकास्ते ।
विज्ञेयाश्चर्जुसूत्रादिनयवचनतोऽनुक्रमेणैव विज्ञैः ॥ १११॥ अत्राऽऽशकोत्तराभ्यां बहुविधमुदितं सम्मतेरेव वृत्तौ, ___ नव्योहाऽऽकाटिभिश्चास्मदुपहितलता सर्वथा भावनीया । इत्थं श्रीवाचकेनाप्रतिहतमतिना दर्शिता चर्जुसूत्र
नीतेर्दिक्शास्त्रदृष्टया सुगतसुतमतारम्भहेतुप्रपूर्णा ॥ ११२ ॥
Page #430
--------------------------------------------------------------------------
________________
३६९
तत्त्वबोधिनीविवृतिविभूषितम् प्राधान्यं शब्दवाच्ये कलयति नितरां तेन शब्दो नयोऽपि,
भाष्ये नियुक्तिवाक्ये स्फुटमिदमुदितं भावमात्रोपगन्ता । नामादीन् नाभ्युपतीत्यत इह प्रमिताभावमात्रे तु शक्तिः, - तस्मादत्रर्जुसूत्राकलितमुपगतं स्याद् विशेषेण युक्तम् ॥ ११३ ॥ प्रत्युत्पमोऽविशिष्टः प्रथमनयमतो यः पदार्थः स इष्टः,
सद्भावाद्यैर्विशिष्टो यदि भवति तदा सप्तभङ्गीप्रवृत्तिः । तत् कान्तं वस्तु केनाप्ययमथ मनुते भङ्गकेणानुषतं, __ पर्यायत्वाद् विशेषाकलितविषयकत्वाच्च शुद्धर्जुसूत्रात् ॥११४ ॥ सेयं किं वाऽर्थनीयाश्रयणपरिचिता शब्दनीत्याश्रिता वा,
तत्राद्ये चर्जुसूत्रात् कथमिह घटते चोक्तरीत्या विशेषः । भङ्गो नार्थाश्रितो यद् वचनविषयगो मान्यताऽत्यन्तभेदा
नीत्योरिष्ठात्र चर्चा सुविहितमनना नूतना चोपदिष्टा ॥ ११५॥ कल्पे चाथ द्वितीये ननु भवतु कथं चर्जुसूत्रार्थभिन्न___ पर्यायग्राहिशब्दे तदवधिकविशेषानुरक्तार्थकत्वम् । उक्ताशङ्काऽपनुत्यै त्वभिनवमननं ग्रन्थकारस्य सम्यक् , . . . . .
सूक्ष्मार्थोद्बोधदक्षं स्वमतिविलसितं लेशतो नापि दुष्टम् ॥११६ शब्दो लिङ्गादिभेदादभिलषितपदार्थस्य भेदं ततोऽस्य,
वैशिष्टयं चर्जुसूत्राकलितविषयतो ग्राह्यगं वेति पक्षः। शब्दो यादृक् तथार्थों भवति समभिरूढाच भेदोऽस्य यस्मा
नायं पर्यायभेदान्मनुत इह पदार्थ विभिन्नं घटाद्यम् ॥ ११७॥ व्युत्पत्तेर्यनिमित्तं भवति नियमतस्तत्प्रवृत्तौ निमित्तं, ... .. __ तस्मात् कुम्भाभिधेयाद् घट-कुट-कलशादेस्तु वाच्यं विभिन्नम् । इत्थं पर्यायभेदाद् वदति समभिरूढो नयश्वार्थभेदं,
सङ्क्रामत्येकमन्यन्न च मनन इहेत्यत्र भाष्यं प्रमाणम् ॥ १.१८ ॥ मानं चात्रानुमानं कलयति विबुधो वाचकस्यैव भेदाद् ,
वाच्यार्थस्यापि भेदो घट-पट-शकटाद्यर्थभेदो यथैव । .... पूर्वस्मादस्य भेदो वसतिप्रमृतिके खखमन्तव्यभेदात्, ___ सम्यग्युक्त्योपनीतादुपगमविषयं प्रापितो-भावितश्च ॥ ११९ ॥ अ. व्य. २४
Page #431
--------------------------------------------------------------------------
________________
Wm
३७०
अनेकान्तव्यवस्थाप्रकरणम् । एवं चान्यो विशेषोऽप्युदित इह नयाच्छन्दतो भावनीय, ___ एवम्भूतो यथैवाभिहित इह भवेच्छब्दतोऽर्थस्तथैव । योऽर्थः शब्दार्थचेष्टादिकप्रतिनियताद् भिन्नरूपः स नैव,
तच्छब्दार्थो नयेऽस्मिन्ननुमतिरुदिता भाष्य-नियुक्तिवाचाम् ॥ १२० ॥ उक्तार्थे चानुमानं गदितमनुगुणं बाधकं तद्विपक्षे,
भेदः पर्यायभेदाद् यदि च समभिरूढस्य मान्यः पदार्थे । तत् किं व्युत्पत्तिलभ्यार्थसमयविरहे तत्पदार्थाच्च भिन्नो, ___ नो मान्यो भाष्यवाणी वदति च विषयं ह्येनमर्थानुगत्या ॥ १२१॥ संसारी जीववाच्यस्तदनुमत इह प्राणसंधारणाच्च,
प्राणाः पञ्चेन्द्रियाद्या दश जिनगदिता नैव सिद्धस्तु जीवः । शब्दार्थाभाववत्त्वाद् भवति पुनरसौ किन्तु सत्त्वादिवाच्यो,
जीवः सिद्धोऽपि तत्रेति विवसनमतं खण्डितं विस्तरेण ॥ १२२ ॥ देशादेः कल्पना नो क्रमत इह तथा वस्त्वखंडं मतं य.. नो साङ्कर्यादिदोषोऽप्यभिभवतु तथा वस्त्वखण्डं नयेऽस्मिन् । नैकस्यान्येन बन्धोऽभिमत इह यतो नो समासश्च कोऽपि, ___ वैशिष्टयग्राहिबोधो भ्रम इह सकलो यद्विशिष्टं न चास्ति ॥ १२३ ॥ उत्प्रेक्षामात्रतोऽथ व्यवहृतिरखिला मानसादेव शाब्दो, ___ वाक्याखण्डार्थबोधोऽप्यनुभवविषयश्चेत् तदा लक्षणाऽत्र । वाक्ये वेदान्तिकानामिव न भवति सा शक्यसम्बन्धरूपा,
वाक्ये शक्तेरभावात् प्रकृतमितिफला किन्तु शक्तिर्विशिष्टा ॥ १२४ ॥ वाक्यस्फोटे त्वखण्डेऽभ्युपगमविषये चेत् तदाऽखण्डतोऽस्माद् , ___ व्यक्तात् स्यादुक्तबोधो भवति स तु तदा युक्तिमार्गोपपन्नः । इत्थं श्रीवाचकाग्रैरनुजिनसमयं स्थापिताः सिद्धिपृष्ठे,
उक्ताः शब्दादिकास्ते त्रय उदितगुणाः स्युर्नया मेयभूत्यै ॥ १२५ ॥ प्रत्यक्षादिस्थले तेऽजहदनुगतिकैकोपयोगस्वरूपा,
सापेक्षा मानरूपा वचनपथि नयाः सप्तभङ्गीस्वरूपाः । मानं नो तेऽनपेक्षा इति नियमप्रथा सम्मतौ स्पष्टरूपा,
तस्मादेका नयोक्तिस्त्वपि भवति तथाभावतो जैनमान्या ॥ १२६ ॥
Page #432
--------------------------------------------------------------------------
________________
तत्त्वबोधिनी विवृतिविभूषितम्
इष्टा सा सप्तभङ्गी प्रथम इह मतः स्याद् घटोऽस्तीति भङ्गः, स्यान्नास्तीति द्वितीयस्तदुभययुगपद्भावतः स्यात् तृतीयः । सोऽवक्तव्यः कथञ्चित् क्रमिकतदुभयस्मात् तुरीयोऽस्ति नास्ति, स्याद् युक्तः पञ्चमः स्यात् प्रथमघटनया भङ्गकेऽथो तृतीये ॥ १२७॥ षष्ठस्तत्र द्वितीयानुगमनजनितः सप्तमः स्यात् तुरीया
क्रान्त्या तत्रैव चेत्थं सुघटितरचना सप्तभङ्गी प्रतीता । प्राधान्यं चास्तितायाः प्रथम इह मता नास्तिताया द्वितीये,
प्राधान्यं चोभयोश्चेद् वचनविगमतः स्यात् तृतीयस्तु भङ्गः ॥ १२८ ॥ नोक्तार्थं षट् समासा अभिदधति तथा वाक्यमात्रं न वक्ति, नैव ब्रूते पदं चाभिलषितमुभयं नैव सङ्केतिकं तत् । अत्रावक्तव्यरूपं प्रकृतमभिहितं यादृशं तत् प्रवक्तुं,
नालं स्यादेकसामासिकमपि च पदं स्यादवक्तव्य इत्थम् ॥ १२९॥ सार्थक्यं चोपपत्त्या कलितमतितरां स्थापितं च द्वितीये,
भङ्गो यद्वा तृतीयः सुमननपदवीं ग्राहितो युक्तिजालैः । योग्यास्तत्र प्रकारा नियमितविषयाः षोडशाऽभीष्टसिद्ध्यै, संक्षेपेणोपदिष्टाः सुविहितमनना मोददा नीतिनद्धाः ॥ १३० ॥ भङ्गोऽयं सम्मतावप्यभिहितविषयोऽभीष्ट उक्तोपपत्त्या,
अज्ञात्वा हार्दमुक्तं यदपि च पशुपालेन तत् खण्डितं च ।
mmmm
चर्चाऽवच्छेदके संकुचन विकसने चोपजीव्योपबद्धा, :: विस्ताराकाङ्क्षिभिः सम्यगिह नयरहस्यादितो ज्ञेयमेतत् ॥ १३१॥ एते भङ्गास्त्रयोऽथाऽभिदधति ननु यत् सर्वधर्मात्मकैक
वस्तु स्यात्कारयुक्तास्तत इह सकलादेशता सुप्रतीता । मुख्यं सत्त्वाद्यमुख्यं सकलमथ परं भासते मुख्य-गौण
भावादत्र व्यवस्थोपगमपदमिता नीतिविद्भिर्विभाव्या ॥ १३२॥ एतत् सर्वं विवक्षाकृतमनुमतिगं गौण - मुख्यव्यवस्था,
भङ्गे सर्वत्र मान्या परमित उदिता ये चतुर्थादिभङ्गाः ।
तं मान्या द्वित्रिधर्मानुगतसकलधर्मात्मधर्मिस्वरूप
वाक्यार्थोद्बोधदक्षा अनुमतविकलादेशभावास्तु कैश्चित् ॥ १३३ ॥
३७१
Page #433
--------------------------------------------------------------------------
________________
३७२
अनेकान्तव्यवस्थाप्रकरणम् ।
प्रत्येकं चैव तेषां भवनमभिहितं यद् यथा यत् स्वरूपं,
सम्मत्युक्त्या समग्रं परिचयपदवी प्रापितं सर्वथैव । तत्तद्भङ्गार्थबोधोऽप्यनुभव विषये स्थापितो भङ्गभेद
स्वीकारावश्यकत्वं विषयभजनया दर्शितं युक्तितश्च ॥ १३४ ॥ सप्ताप्यते तु भङ्गा मिथ इह कलितापेक्षया सप्तभङ्गी
रूपाः प्रत्येकमर्थं निजमभिदधति प्रस्फुटं नान्यथा यत् । प्रत्येकं वा समूहस्तत उदितगुणः सप्तभङ्गात्मकः सन् ,
वस्तु खस्याभिधेयं प्रकटयति तथाभूतमेवेति प्राञ्चः ॥ १३५॥ निर्दिष्टं सप्तभङ्गीत्वमनुगतमिहैकं समूहे द्वितीयं,
प्रत्येकं स्यात्पदाङ्काभिलषितसदसत्त्वादिनिर्धारकत्वात् ।। खार्थेकज्ञापकत्वाद् भवति च सुनयत्वं द्विधा तत्र चाद्यं, ___ वाक्यं स्यात् सप्तभङ्गीघटक इह भवेदन्त्यमौदास्ययुक्ते ॥ १३६ ॥ स्यादस्तीत्यादि मानं त्ववधृतिकलितं दुर्नयः स्यादमिश्र, ___ चास्तीत्यायेव मान्यं सुनय इति भवेद् वाक्यमेवं विधैव । हेतुत्वं तस्य नेष्टं व्यवहृतिजनने किन्तु तत्रोपयोगि,
स्यादस्त्येवेति वाक्यं सुनय इह ततो यत्प्रवृत्त्यादिभावः ॥ १३७॥ आद्यो भङ्गस्त्रिधाऽत्र प्रभवति च तथैव द्वितीयस्तृतीय
स्तुर्यश्चापीह मान्यो दशविध इतरे पञ्च-षट्-सप्तमास्तु । ज्ञेयास्त्रिंशत्सुसंख्याधिकशतप्रमिता दर्शिता मल्लवादि
मुख्यैराचार्यवर्यैः परिगणनभिदाऽप्येतदुक्ता विभाव्या ॥ १३८ ॥ अत्राशङ्कोत्तराभ्यां सुविहितमनना सप्तभङ्गव्यवस्था,
नैव न्यूनाधिकत्वे तत इह भवतो नाष्टमाद्याश्च भङ्गाः । भङ्गेष्वेतेषु सम्मत्युदितनयविभागप्रकारप्रपञ्चा
स्तत्रावक्तव्यभङ्गे नयघटनविधौ खाशयोद्घाटनं च ॥ १३९ ॥ सप्तानां शब्दनीतावपि घटमुदितं चैकया वाख्यया तु,
भगावाद्य-द्वितीयौ नय इह घटतो नो तृतीयोऽपि भङ्गः । व्याख्या चैवं द्वितीयाऽत्र विवरणकृतस्तत्र चोत्प्रेक्षितस्तु,
दोषो दूर निरस्तो निजमतिकलिताचार्यहार्दोपदेशात् ॥ १४० ॥
Page #434
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् तुर्याद्या देशतो ये न च त इह नये देशि-देशाद्यभावा
दित्थं सप्तापि भङ्गा जिनवचनसमुद्रातिचञ्चत्तरङ्गाः । श्रीमद्भिर्वाचकाग्र्यैर्बुधहितगतये दर्शिताः श्रीगुरूणां, ___ पूर्ण प्राप्य प्रसादं कुनयमतमलं निर्विशेषं च भङ्कत्वा ॥ १४१॥ वस्त्वित्थं सप्तभङ्गीवचनगतमनेकान्तरूपं प्रमाण
नीतिस्यूतात्मचैतन्यविषय इह जात्यन्तरात्मानुभूतेः। पर्याया व्यञ्जनाख्याः सदृशमिति मता नार्थपर्यायरूपा
स्तद्रूपेणात्र सत्त्वं भवति प्रमितिगं खण्डिता चात्र शङ्का ॥ १४२ ॥ वस्त्वस्ति व्यञ्जनेनाखिलमपि न भवेदर्थपर्यायतः सन् , .
नैकान्तोऽयं व्यवस्थां श्रयति ननु ततः सम्मतिश्चात्र प्राचाम् । प्रत्युत्पन्नेऽप्यनेकान्तमननमुदितं पुद्गलस्येव चात्म__ द्रव्यस्याभीष्टमेतत् प्रशमरतिवचोमिश्च संवाद उक्ते ॥ १४३ ॥ किञ्चानेकान्तरूपत्वमिह पुरुषगं स्यात् प्रकारान्तरेण, ___ यः कोपोत्पादकात्मा भवति पुनरसावन्यरूपः पुराऽभूत् । इत्थं भेदोऽप्यभिन्ने भवति च पुरुषे सम्मतावुक्तमेतद्,
युक्तिश्चात्रोपदिष्टा यदुपगममिता भिन्नाऽभिन्नजीवे ॥ १४४ ॥ द्रव्यादेकान्तभिन्नं गुणमभिलषता गौतमीयादिकानां,
राद्धान्तो युक्तिजालैरपहतिपदवीं सम्मतावेव नीतः। पर्यायाद् भिन्नरूपो भवति यदि गुणस्तर्हि तद्राहकोऽपि, - स्यात् पर्यायार्थिकाख्यो नय इव च गुणार्थाभिधानो नयोऽन्यः ॥१४५॥ सूत्रे पर्यायसंज्ञाऽपि जिननियमिता वर्ण-गन्धादिके या, .... ___सा पर्यायवरूपान् कथयति च गुणाँस्तौ च तुल्यार्थशब्दौ । एवं वस्तुस्थितौ तु क्रमभवनमिते पर्यवे पर्यवाख्या, ___ तस्मिन्निष्टा गुणाख्या सहभवनमिते लोकयात्राप्रसिदै ॥ १४६॥ सिद्धान्ते याऽपि चैक-द्विगुणप्रभृतिका कृष्ण-रक्तादिवाणी, ...... ___सा वै सङ्ख्यानशास्त्राकलितगणनगा नो गुणार्थाऽवधेया । तस्वार्थे वाचकोक्तं यदपि च गुण-पर्यायवद् व्यमित्या- .
कार सूत्रं प्रमाणं तदपि ननु भवेदुक्तरीत्याऽविरुद्धम् ॥ १४७॥
mmmmmmmmmmm
Page #435
--------------------------------------------------------------------------
________________
३७४
अनेकान्तव्यवस्थाप्रकरणम् ।
वस्तुस्थित्या त्वभेदे प्रमितिमुपगते कल्पनातस्तयोस्तु, भेदं चादाय शास्त्रे तदुभयवचनं शिष्यविस्फोरणाय । इत्थं चाऽऽशाम्बराणां गुणविभजनदिग् द्रव्यनिष्ठाः स्वभावाः, नीतेश्चाथोपनीतेर्विभजनकथनं योजना च स्वभावे ॥ १४८ ॥ पर्यायाणां निरुक्तिर्विभजनकलना सर्व एते यथावद्,
भेदैकान्तैकदृष्ट्या प्रथममभिहिता ये यथा कल्पितास्तैः । तेषां प्रत्येकशोऽनुप्रदंलनमभितोऽकारि सद्युक्तिजालै
चर्या चात्राऽप्यनल्पा बुधमतिलतिकोल्लासनायैव नद्धा ॥ १४९ ॥ पर्याये द्रव्यभेदानुपगमनमते नित्ययोगे मतुप् स्यान्निर्दुष्टं तेन सूत्रं भवति च गुण-पर्यायवद् द्रव्यमित्थम् । द्रव्यस्यैकस्य चक्षू-रसनप्रभृतिकैरिन्द्रियैर्ग्राह्यभावाद्,
युक्त्योपेतस्तथा रूप-रसप्रभृतिकः स्याद् गुणोऽनेकरूपः ॥ १५० ॥ आत्मा दृष्टान्त एकः पुरुषपदमितः पुत्र- मित्रादिनानारूपः पित्रादिबन्धाद् भवति ननु तथा द्रव्यमेकं च नाना । उक्तार्थः सम्मतीष्टो बहुविधमननोद्गारतो भावितोऽयं,
श्रीमद्भिर्वाचकाग्र्यैर्व्यवहृतिमननं सावधित्वेन गीतम् ॥ १५१ ॥ द्रव्याद्वैते गुणानां जिनसमयमतः स्यात् कथं भेदयुक्तो
Sभेदो द्रव्येण तेषामिति परकलिते प्रश्न एवं तु वाच्यम् । कृष्णादीनां यतोऽयं द्विगुणप्रभृतिको भेद आबालसिद्धो,
नैवं द्रव्येऽस्ति भेदो भवति ननु तयोर्भिन्नताऽपीत्यमत्र ॥ १५२ ॥ उक्तार्थः सम्मतीष्टो न भवति पुरुषः किन्तु सम्बन्धभेदात्,
www
पित्राद्यात्मा महत्त्वादिकसमनुगतो वक्ति चाद्वैतवादी । सामान्याद् बन्धतस्तेऽप्यनुमतिविषयो बन्धिता यद्वदेव,
तद्वत् स्यात् तद्विशेषादनुमत इह किं तद्विशेषो न चेत्थम् ॥ १५३ ॥ सिद्धान्ती प्राह नैवं गदितुमनुगुणं नैव सम्बन्धभेदो,
नो वा सम्बन्धिभेदः सकलमिह यतो द्रव्यमेवैकमत्र । स्याद्वादे स्याद् गुणानां विषमपरिणतिर्याऽन्यहेतुद्भवा सा,
तत्राऽप्येकान्तवार्ता न च निजजनिताऽपीष्यते सा कृतीन्द्रैः ॥ १५४ ॥
Page #436
--------------------------------------------------------------------------
________________
तत्त्वबोधिनीविवृतिविभूषितम् अद्वैते लक्ष्ममेदो नहि भवति तयोस्तेन भिन्नो गुणोऽत्र, ___ द्रव्यादित्याह कश्चित् तदनुमतिघटैकान्ततो नैव युक्ता। द्रव्यादर्थान्तरत्वं कथमपि घटते नैव यस्माद् गुणानां, ___ मूर्तामूर्तद्विकल्पाक्रमणपरिलसद्दोषदुःस्थत्वमत्र ॥ १५५॥ भेदा-ऽभेदौ कथचिन्ननु मतिविषयौ स्तस्तयोरित्थमुक्ति___ा सा वक्तुर्विवक्षकजनकभवना नान्यथाऽस्याः प्रवृत्तिः । अर्थ जात्यन्तरेऽस्मिन् नहि भवति कथा चैकधर्माश्रिता नो,
चित्रं नीलादिरूपावगमकवचनैः कथ्यते चर्च्यते वा ॥ १५६ ॥ भेदा-ऽमेदादिप्रत्येकमननविषया या कृता त्वत्र चर्चा,
सा शिष्याणां धियोऽतिप्रविकसनफला नान्यथैषा श्रुतेऽस्ति । । मिथ्यावादित्वमेषां य इह निगमयन्त्यन्यथा तत्त्वमेवं, __ सुस्पष्टं सम्मतौ तु प्रमिति-नयमतोऽभूदनेकान्तवादः ॥ १५७ ॥ सोऽनेकान्तेऽप्यभीष्टो भवति ननु ततो व्यापकत्वं च तस्यै__ कान्तोऽनेकान्त इत्थं प्रभवति भजना सम्मतौ दर्शिता च । दोषो नात्रानवस्था तदुपगमविधौ नानवस्थाऽथवाऽत्र, ___ व्युच्छिन्ना चानवस्था कुमतिविलसिता युक्तिभिर्वाचकाय्यैः ॥ १५८॥ जीवाः कायाः षडेवं भवति च हननेऽधर्म एषामितीष्टे,
जैनानामप्यनेकान्तसुघटनविधिदर्शितो युक्त्युपेतः । व्युच्छिन्ना तेन तत्रापरमतिकलिताऽव्यापकत्वस्य शङ्का, ___ चोक्तार्थोद्गारदक्षा स्फुटमिह पठिता सम्मतिग्रन्थगाथा ॥ १५९ ॥ गच्छत्यादावपीष्टा जिनसमयमता व्यापिता तत्त्वमात्रा
नैकान्तत्वप्रथाया अनुगमनगतिः सम्मतो दर्शितैव । अत्रैकान्तावलम्बात् परमतमननं खण्डितं युक्तिजालैः,
सर्वत्रैवाविरोधोपगमनफलकं कल्पनालाघवं च ॥ १६० ॥. या या संज्ञा गुणोत्था दहनप्रभृतिका तत्र सर्वत्र तत्त
त्संज्ञाहेत्वर्थभावे भवति च दहनाद्यन्यदानैव तच्च । नानेकान्ता प्रवृत्तिस्तत इह भविता द्रव्यमद्रव्यमेवं,
जीवद्रव्यं तथैवानुमतमिह गतिः सम्मतौ भावितैव ॥ १६१॥
Page #437
--------------------------------------------------------------------------
________________
३७६
अनेकान्तव्यवस्थाप्रकरणम् ।
अन्योऽन्यापेक्षितातो भवति ननु तथा नान्यथा तेन तत्रानेकान्तो भावनीयः प्रतिनियतभिदा तावतैवोपपन्ना । भावात् सम्यक्त्वमेतन्ननु जिनसमये या त्वनेकान्ततत्त्वे,
श्रद्धा सम्मत्यभीष्टा चरण - करणयोरत्र सम्यग्विचारः ॥ १६२॥
wwwww
ये नो जानन्ति सम्यग् निज-परसमयाँस्त जिनात्मानभिज्ञा,
नो सत्यत्वेन बोद्धुं तदभिहितपदार्थान् समर्था विविक्तान् । श्रद्धानं नैव तेषां न चरण करणासेवनं तत्त्वदृष्ट्या,
गुर्वाज्ञासेवनान्माषतुषप्रभृति के चापि सम्यक्त्वमिष्टम् ॥ १६३ ॥
wwwww
गीतार्थाचार्य सेवानिरतमुनिवरे स्यादगीतार्थकेऽपि,
wwwww
श्रद्धानं भावतो यत् कथयति हरिभद्रार्यवर्यो बुधेन्द्रः । तस्मात् स्याद्वादतत्त्वाऽवधृतिपरबुधे स्यात् तदाज्ञापरे वा, साफल्यं च व्रतादेरिति विबुधवरैरत्र यत्नो विधेयः ॥ १६४ ॥ ग्रन्थान्ते मङ्गलं च प्रणतिरतमसे सर्वतेजोवराया
नेकान्तायास्य नित्यं श्रयणमनुमतं स्पर्द्धता नास्य चान्यैः I युद्धं दृष्ट्वा नयानां न भवति विकृतो भूय एवायमेषां, सबैरिटैः प्रपूर्णो मतमिह सकलं चैतदीयार्थनिष्ठम् ॥ १६५ ॥
साङ्ख्यश्चैकं प्रधानं श्रयति बहुगुणं ब्रह्मबद्धं त्वबद्धं,
wwwwwwm
व्यष्ट्याऽनेकं समष्ट्या जगदपि मनुते चैकमद्वैतवादी ।
नीलादौ मानमेवं क्षणिक परिचयादौ न मानं तथैकं,
चित्रं ज्ञानं च ताथागत इह मनुतेऽपेक्षया चाविरुद्धम् ॥ १६६ ॥
कुम्भे चित्रं च रूपं पृथगपि वदतो नील - पीतादिरूपं, योगो वैशेषिकश्चाथ च गुरुप्रथिता धीः परोक्षापरोक्षा । अन्ये मीमांसकाश्चाभिदधति जगतो द्विस्वभावं च तस्मात्,
ww
सर्वेऽनेकान्तवादं क्वचिदपि विषये वादिनः संश्रयन्ति ॥ १६७ ॥
सौसादृश्यानुषङ्गात् परमतपरिषद्धी मुखे धर्मवगैः,
स्याद्वादाग्रेऽनुरूपा भवति नववधूः स्त्रीविमुक्तत्याद्यनिच्छुः ।
Page #438
--------------------------------------------------------------------------
________________
३७७
तत्त्वबोधिनीविवृतिविभूषितम् सिद्धान्तैर्बोधनीयो विवसनबटुको बाधनीयोऽथ वा तैः,
स्त्रीमुक्त्यादिप्रसिद्धिर्जिनसमयगता युक्तिमार्गोपपन्ना ॥ १६८ ॥ अन्योन्यापेक्ष्यभावादनुभवपदवीं चानयन्तः क्रियादीन् ,
वादान् श्वेताम्बरा ये जिनवचनरतास्तैरनेकान्तदीप्या। एकान्तध्वान्तमुक्तं मतमिदमनघं श्रीजिनेन्द्रोपदिष्टं,
युक्तिवातोपपन्नं जयति भुवि सदा भीति-नीतिप्रचारम् ॥ १६९ ॥ स्याद्वादेकान्तनिष्ठो विषयविषसमुद्भूतभूत्यादिकासा
लेशेनापि प्रमुक्तो जिनमतविषयां बुद्धिमेवाभिकासन् । . . खस्यान्यस्याप्यमुष्मान् निजकृतिविषयाद् ग्रन्थतो ग्रन्थकर्ता, ___ निर्विण्णो जन्ममात्रे फलममलमतिर्मन्यते खं कृतार्थम् ॥ १७ ॥ खप्रादुर्भावकालाकलितपरिचयस्यास्य विद्वत्समूहे,
कार्य मोदं विनोदं त्वभिलषति कृती वाचकाग्र्यो यशःश्रीः । खस्यान्यस्माद् विशेषाश्रितपरगुरुताधीनवैशिष्टयमस्मिन्नथोदावेदयन् स्वस्वगुरुप्रभृतिकं ख्यापयत्यार्यवयः ॥ १७१॥ इति श्रीतपोगच्छाधिपति-शासनसम्राट्-सर्वतत्रखतन्त्र-जगद्गुरुश्रीमद्विजयनेमिसूरीश्वरपट्टालङ्कारेण व्याकरणवाचस्पतिशास्त्रविशारद-कविरलेन श्रीविजयलावण्यसूरिणा विरचिता श्रीअनेकान्तव्यवस्थाप्रकरणटीका सम्पूर्णा ॥
W
~
अथ टीकाकारप्रशस्ति:धीमन्तः सूरिचक्रार्चितपदकमलास्तीर्थसेवाविदग्धाः,
सम्मत्यादेरमीष्टार्थविवृतिकुशलाः सर्वतन्त्रवतत्राः । श्रीमन्तो नेमिसूरीश्वर गुरुप्रवराः सेविताः शिष्यवर्गः, पौत्रीमेनां नवीनां निजनयनपुरस्सङ्गतां लालयन्तु ॥१॥
Page #439
--------------------------------------------------------------------------
________________
३७८
अनेकान्तव्यवस्थाप्रकरणम् । मूलाभिप्रायकान्ता नवनवमननाकान्तदेहा नवीना,
नीतिवातानुगार्था कृतिरियमुदिता श्रीललावण्यसूरेः । । आनन्दं धारयन्ती बुधवरनिकरे स्वार्थदृष्टिप्रवीणे,
भूयादापुष्पदन्तोदयमनुगमना मूलकीर्तिप्रवृत्तेः ॥२॥ मूलार्थाज्ञानजन्या विवृतिमुपगताऽथाश्रिताऽशुद्धिरन्या,
सम्बन्धाभावजन्या प्रकरणनियताऽसङ्गतार्थस्वभावा । नैराकाङ्क्षयादिरूपा पदप्रभृतिगताऽबोधकत्वस्वभावा,
ताः सर्वाः सूक्ष्मदृष्टया परकृतिरसिकैः शुद्धतां प्रापणीयाः ॥३॥ मूलं क्वार्थानुगत्याऽखिलमतविषयोद्बोधनैकान्तदक्षं,
व्याख्या वैषा मितार्था नियमितपदगा मूलदेशानुविद्धा। एवं सत्यप्यभीष्टार्थमननप्रभवा वादिनां तत्त्वदृष्टया, श्रद्धाऽनेकान्ततत्त्वे ननु समुपनता कालतो मुक्तयेऽस्तु ॥ ४ ॥
क्रोडीकृतैकान्तमिताभिकान्ता___ऽनेकान्तकान्तेक्षणजातमोदाः । . जैनागमज्ञानमितार्थतत्त्वा,
जयन्तु वादे कृतिनो नितान्तम् ॥५॥ अग्न्याकीशर्खनेत्रसम्मितसमे श्रीविक्रमादित्यगे
चैत्रश्वेतत्रयोदशीशुभदिने श्रीवीरजन्माञ्चिते । यात्रायै समुपेयुषा हि विदुषा श्रीमत्कदम्बाचले,
लावण्याभिधसूरिणा विरचिता-ऽनेकान्तवृत्तिर्मुदा ॥६॥ सा वृद्धिवाटिका जीयात् कदम्बावनिभूषणम् । यत्रेयं रचनाऽवाप पूर्णभावं समङ्गलम् ॥ ७ ॥
Page #440
--------------------------------------------------------------------------
________________
अङ्कः
१
२
१०
99
१२
१३
१४
१५
१६
१७
१८
१९
२०
२१
२२
२३
२४
२५
२६
२७
★ श्रीविजयनेमिसूरीश्वरग्रन्थमाला - रत्नानि
ग्रन्थनाम
धातुरलाकर प्रथमविभाग प्रथमावृत्ति द्वितीयावृत्ति
""
19
धातुरत्नाकर द्वितीयविभाग धातुरत्नाकर तृतीयविभाग धातुरत्नाकर चतुर्थविभाग देवगुर्वष्टक स्वोपज्ञवृत्तिसहित देवगुर्वष्टक तथा कदम्बाष्टक धातुरत्नाकर पञ्चम विभाग धातुरलाकर षष्ठ विभाग
मूतनजिनस्तवन मालादिसंग्रह आवृत्ति ८ महावीरस्तवनमाला महावीरछत्रीशी
परायण तथा कण्ड्डादिप्रकाश नूतनतीर्थस्तवनमाला कण्वादिप्रकाश सविधिपञ्चप्रतिक्रमणादिसंग्रह धातुरत्नाकर सप्तम विभाग स्तुतिचोवीसी
विधियुक्त पञ्चप्रतिक्रमणादि भाग १ थी [ आवृत्ति - १-२-३] जीवविचार पद्यानुवाद तथा टिप्पण सिद्धमदीपिका अष्टाध्यायीयुक्ता तत्त्वार्थत्रिसूत्री प्रकाशिकासहित प्रथम कर्थग्रंथ पद्यानुवादादिसहित जिनसंगीत सरिता प्रथमावृत्ति, द्वितीयावृत्ति सिद्धमदीपिकाप्रकाश प्रथम विभाग चैत्यवन्दनभाष्य पद्यानुवादादिसहित स्वाद्यन्तरत्नाकर प्रथम विभाग तिलकमञ्जरीमहाकाव्य टीकात्रयोपेत
मूल्यम् रु. आ. पै.
५-०
१२-०
. ४
O
४-०
२
-O
•
२
४-८
01810
०-१२०
०-१४-० 61110
0-8-6
०-१२-०
Page #441
--------------------------------------------------------------------------
________________
मूल्यम्
ന
ന
ന
س س س هم
०
ന
०
०
०
०
१-०-.
अङ्कः ग्रन्थनाम
रु. आ. पै. २८ नयरहस्यप्रकरण सटीक २९ सप्तभङ्गीनयप्रदीपप्रकरण सटीक
२-०-० सिद्धहेमदीपिकाप्रकाश द्वितीयविभाग
१-१२-० शासनसम्राट जीवनसौरभ
सिद्धहेमलघुवृत्ति पूर्वार्ध ३३-१ सिद्धहेमलघुवृत्ति उत्तरार्ध ३३-२ सिद्धहेमशब्दानुशासनबृहद्वृत्ति बृहळ्यासादिसहित भा-१
अनेकान्तव्यवस्था सटीक पूर्वाध सिद्धहेमशब्दानुशासन लघुवृत्ति सम्पूर्ण नयोपदेश टीकाद्वयसहित प्रथमभाग - तिलकमञ्जरीमहाकाव्य टीकाटिप्पणसहित प्रथम भाग द्वात्रिंशिका प्रथमा सटीक द्वात्रिंशिका द्वितीया सटीक शास्त्रवार्तासमुच्चय प्रथम विभाग सटीक तिलकमञ्जरीमहाकाव्य टीकाटिप्पणसहित द्वितीयविभाग ६-.-. द्वात्रिंशिका तृतीया सटीक धातुरत्नाकर अष्टम भाग
१-०-० नयोपदेश टीकाद्वयसहित द्वितीय विभाग शास्त्रवार्तासमुच्चय द्वितीय विभाग सटीक . काव्यानुशासन प्रथमाध्याय नव्यटीकासहित द्वात्रिंशिका चतुर्थी सटीक नवतत्त्वप्रकरण [पद्यानुवाद-विवेचनादिसहित ]
मुयमाणग्रन्थाः(१) शास्त्रवातासमुच्चय सटीक तृतीयविभाग (२) तिलकमञ्जरीमहाकाव्य टीकाटिप्पणीसहित तृतीयभाग (३) सिद्धहेमशब्दानुशासन बृहदृत्तिबृहल्यापादिसहित द्वितीयभाग .
(४) न्यायसमुच्चय. ... (५) अनेकान्तव्यवस्था सटीक उत्तरार्ध
(६) स्याद्यन्तपयस्विनी [लघुसंस्कृतशब्दरूपावलि ]
४२
6. ००
४४
४६
४७
Page #442
--------------------------------------------------------------------------
_