________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ५९ शेषात् , ज्ञानद्वयावभासिरूपस्य चोभयाऽप्रतिभासे प्रतिसाभात् , अन्यथा सकलातीतज्ञानावभासिरूपप्रतिभासप्रसक्तेः।।
किञ्च, 'यः, सः' इत्याकारयोरन्योन्यानुप्रवेशेन भाने परोक्षाऽपरोक्षरूपमेकं ज्ञानं स्यात् , अन्योन्याजनुप्रवेशेन च भाने प्रतिभासद्वयं परस्परविविक्तमायातमिति प्रतिभासस्याऽपि भेद एवं
इत्यत आह-ज्ञानद्वयावभासिरूपस्य चेति-पूर्वोत्तरशानद्वयावभासिरूपद्वयस्य पुनरित्यर्थः। उभयाऽप्रतिभासे संवाददर्शनकाले एकस्यैव ज्ञानस्य सत्त्वतः संवाददर्शने प्रतिभासः, न ज्ञानद्वयस्येति ज्ञानद्वयप्रतिभासाऽभावे, संवाददर्शने ज्ञानद्वयावभासिरूपस्य अप्रतिभासात् प्रतिभासाऽसम्भवात् । अन्यथा ज्ञानाऽप्रतिभासेऽपि ज्ञानावभासिरूपप्रतिभासाभ्युपगमे। प्रत्यभिज्ञाने 'अयम् , सः' इत्याकारद्वयस्य यदवभासनं तत् किमाकारयोरन्योऽन्यस्वरूपेऽन्योऽन्यस्यानुप्रवेशेन ? अननुप्रवेशेन वा ? आद्य-सः' इति परोक्षस्वरूपानुप्रविष्टतया अयम्' इत्यस्य भानाद् 'अयम्' इत्यंशेऽपरोक्षत्वमिव परोक्षत्वमपि प्रत्यभिज्ञानस्य स्यात् , तथा 'अयम् ' इत्यपरोक्षस्वरूपानुप्रविष्टतया 'सः' इत्यस्य भानात् 'सः' इत्यंशे परोक्षत्वमिवाऽपरोक्ष त्वमपि तस्य स्यादिति परोक्षाऽपरोक्षोभयस्वरूपसङ्कीर्णमेकं ज्ञानं प्रत्यभिज्ञानं प्रसज्येत, अन्योन्यानुप्रवेशादेवांऽशभेदेन तदुभयाऽविरोधोपपादनमपि न सम्भवति, द्वितीये-'अयम्' इति पृथगेव भाति, 'सः' इत्यपि पृथगेवावभासत इति विविक्तप्रतिभासद्वयतस्तच्छालिप्रत्यभिज्ञानमपि ज्ञानद्वयमेव भवेत, नैकं ज्ञानमिति न ततः स्थैर्यप्रसिद्धिरित्याह-किक्षेति । 'यः सः' इति स्थाने 'अयं सः' इति पाठो युक्तः। प्रतिभासद्वयम् 'अयम्' इति प्रतिभासः 'सः' इति प्रतिभास इत्येवं प्रतिभासद्वयम्। परस्परविविक्तम् अन्योऽन्यभिन्नम् । तथा च प्रत्य