________________
९४ ]
[तत्त्वबोधिनीविवृतिविभूषितम्
सर्वव्यवहारविलोपः । अथवा 'तदेवेदम्' इति ज्ञानस्यानिन्द्रियजस्यालिङ्गजस्यापि बाधरहितत्वेन प्रामाण्यमवश्यमभ्युपगन्तव्यम्, अन्यथैवंजातीयस्य कस्यापि प्रामाण्यानभ्युपगमेऽक्षजस्य सन्निहिविरुद्धा या दिशः पूर्वोत्तर दक्षिण-पश्चिमोपर्यधोलक्षणास्तासां षण्णां सम्बन्धात, नाकस्य विरुद्धानेकदिकसम्बन्धः सम्भवतीत्येतस्माद् विरुद्धधर्माध्यासलक्षणहेतोः यावन्तो नीले परमाणवस्तावन्तः स्थूलस्य भेदा इति कृत्वा प्रतिप्रमाणु ये भेदास्तेषां प्रसक्तः, नैतावतैव विश्रान्तिः, किन्तु परमाणुस्वरूपा ये स्थूल-नीलस्याऽवयवास्तेषामपि प्रत्येक विरुद्धदिषट्कलक्षणविरुद्धधर्माध्यासाद् भेदप्रसङ्गतोऽनवस्थाप्रसङ्गान्नीलसंवेदने न किमपि प्रतिभासत इत्यापतितमिति प्रतिभासविरतिलक्षणा शून्यता स्यात्, नेदृशापादानमिष्टापत्त्या परिहर्तुं शक्यम् , यतस्तथाभ्युपगमे ' इदं नीलमिदं पीतम्' इत्यादिसर्वव्यवहारविलोपः प्रसज्यत इत्यतो यथाप्रतिभास्येव वस्तूपेयम्, तथा च प्रत्यभिज्ञाने एकप्रतिभासाद् वस्तुन एकत्वं स्वीकरणीयमित्यर्थः। माऽस्तु वा प्रत्यभिज्ञानस्य प्रत्यक्षत्वमनुमानत्वं च तथापि प्रत्यक्षाऽनुमानव्यतिरिक्तस्यापि तस्य प्रामाण्यं स्वीकरणीयमेव, अन्यथा सौगतानां क्षणिकत्वादिधर्मप्रसिद्धिरपि दर्घटा स्यात् , यतः प्रत्यक्षं सन्निहितार्थमात्रग्राहीति सर्वोपसंहारण क्षणिकत्वादिसाध्येन सह कस्यापि हेतोरविनाभावं न गृह्णात्येव, अनुमानेन च तथाव्याप्तिग्रहाभ्युपगमे तदप्यनुमानं व्याप्तिग्रहणमन्तरेण न सम्भवतीति तथाभूतव्याप्तिग्रहणार्थमनुमानान्तरमास्थेयम्, तत्रापि व्याप्तिग्रहणमनुमानान्तरेणेत्येवमनवस्थाप्रसक्त्या व्याप्तिग्रहणाभावतोऽनुमानाप्रवृत्त्या कुतस्तत्प्रमाणकक्षणिकत्वादिसिद्धिरित्याह-अथवेति । 'अन्यथा' इत्यस्यैव विवरणरूपम्-एवंजातीयस्य कस्याऽपि प्रामाण्यानभ्युपगम इति । एवंजातीयस्य प्रत्यक्षाऽनुमानव्यतिरिक्तस्य, अक्षजस्य सकल पदार्था