________________
अनेकान्तव्यवस्थाप्रकरणम् |
[ ९५
तार्थमात्रग्राहित्वेन लिङ्गजस्य चानवस्थाप्रसक्तितः सकलपदार्थाक्षेपेण प्रतिबन्धग्राहकत्वाऽयोगादनुमानप्रवृत्तेरभाव इति कुतस्तदेकप्रमाणकक्षणिकत्वादिधर्मसिद्धिः सौगतानाम्, नहि ते नैयायिकादय इव सामान्यप्रत्यासत्तिं सर्वाक्षेपेण प्रतिबन्धग्राहिकामभ्युपगच्छन्ति । यैरपि सामान्यप्रत्यासत्तिरभ्युपेया, तेषामपि ज्ञातस्य सामान्यस्य
क्षेपेण प्रतिबन्धग्राहकत्वाऽयोगादित्यन्वयः । कथं न प्रतिबन्धग्राहकत्वमक्षजस्येत्यपेक्षायामाह - सन्निहितार्थमात्रग्राहित्वेनेति । लिङ्गजस्य च प्रतिबन्धाग्राहकत्वे हेतुः -- अनवस्थाप्रसक्तित इति । अनुमानप्रवृत्तेरभावः क्षणिकत्वानुमानप्रवृत्त्यभावः । तदेकप्रमाणकेति - अनुमानमात्रप्रमाण केत्यर्थः । येन च नैयायिकादिना सामान्यलक्षणा प्रत्यासत्तिरुपेयते तन्मते सामान्यलक्षणाप्रत्यासत्तिजन्यप्रत्यक्षमेवातीताऽनागत वर्तमानस कल साध्य सकल हेतुग्राहकत्वात् सकलपदार्थाक्षेपेण प्रतिबन्धग्राहकमिति प्रत्यक्षात्मक प्रतिबन्धग्राहिज्ञानतः स्यादप्यनुमानप्रवृत्तिः, सौगतैस्तु सामान्यलक्षणा प्रत्यासत्तिरेव नोपेयत इति कुतस्तत्प्रभवं प्रत्यक्षमविनाभावग्राहकं तन्मत इत्याहनहीति - अस्य ' अभ्युपगच्छन्ति ' इत्यत्रान्वयः । ते सौगताः, 6 अभ्युपगच्छन्ति इत्यत्रान्वयः । प्रतिबन्धग्राहिकां प्रतिबन्धग्रहजनिकाम्, बौद्धा: - " नाऽऽयाति न च तत्रासीन्न चोत्पन्नं नवांशवत् । जहाति पूर्व नाऽऽधारमहो व्यसनसन्ततिः " 11 [ इत्यादिवचनावेदितसामान्यखण्डनयुक्तिजालतः सामान्यमेव प्रतिक्षिपन्ति कुतस्तेषां तस्य प्रत्यासत्तितयोररीकार यैर्नैयायिकादिभिः सामान्यलक्षणा प्रत्यासत्तिरुपेयते तन्मतेऽपि सामान्यलक्षणाप्रभवं प्रयक्षं न सर्वोपसंहारेणाऽविनाभावग्राहकमित्याह — यैरपीति । तेषामपि मत इति शेषः, ज्ञातस्य सामान्यस्य प्रत्यासत्तित्वे इत्यन्वयः, एतच्च प्राचीननैयायिक मतेन तन्मते
1
इत्याशयः ।
"
-