________________
[ तत्त्वबोधिनीविवृतिविभूषितम् सामान्यज्ञानस्य वा प्रत्यासत्तित्वे वह्नित्वसामान्यप्रत्यासत्त्या कथश्चिद् यावद्वह्निभानसम्भवेऽपि वहिमत्त्वादेवह्निसंयोगादिरूपस्य सामान्यत्वाऽभावेन तत्प्रत्यासत्त्या यावद्वह्निमदादिभानाऽनुपपत्तिः।
वहिरिन्द्रियजप्रत्यक्षस्थले तदिन्द्रियसम्बद्धविशेष्यकज्ञानप्रकारीभूतसामान्यं तदिन्द्रियस्य प्रत्यासत्तिः, मानसस्थले तु स्वसंयुक्तात्मसमवेतज्ञानप्रकारीभूतसामान्य मनसः प्रत्यासत्तिः, सामान्यं येन सम्बन्धेन ज्ञायते तेन सम्बन्धेनाधिकरणानां प्रत्यासत्तिः। सामान्यज्ञानस्येति-एतच्च नव्यनैयायिकमतमवलम्ब्य, अत्र बहिरिन्द्रियजन्यप्रत्यक्षस्थले स्वसंयुक्तमनःसंयुक्तात्मसमवेतसामान्यज्ञानं बहिरिन्द्रियाणां प्रत्यासत्तिः, प्रत्यासत्तिता च तस्य स्वविषयवत्त्वसम्बन्धेन, ज्ञानलक्षणा प्रत्यासत्तिरपि ज्ञानरूपैव, परं तस्य प्रत्यासत्तितानियामको विषयतासम्बन्धः, अत एव सामान्यज्ञानं स्वविषयाश्रयस्य ज्ञानं जनयति, ज्ञानं च स्वविषयस्य ज्ञानं जनयतीति विशेषः, सामान्यज्ञानलक्षणप्रत्यासत्तिश्च बहिरिन्द्रियस्थले तदिन्द्रियजतद्धर्मप्रकारकबोधसामग्रीमपेक्षत इति, मानसस्थले तु स्वसंयुक्तात्मसमवेतसामान्यज्ञान प्रत्यासत्तिरिति बोध्यम् । सामान्यवाभावेन नित्यत्वे सति अनेकसमवेतत्वलक्षणसामान्यत्वस्याभावेन, नेयायिकादिभिश्च वह्निमत्त्वेन समानानां वह्निमतां भावो वह्निमत्त्वमपि अनित्यं सामान्य सामान्यलक्षणाप्रत्यासत्तिस्थले स्वीकृतम् , यद्यपि सर्वेषु वह्निमत्सु वह्निसंयोगादिरूपं वह्निमत्त्वं नैकमनुगतं तथापि वह्नित्वेनाऽनुगतीकृतानां वह्नीनां संयोगस्य संयोगत्वेनाऽनुगतीकृतस्य सकलवह्निमत्साधारण्यात् तत्प्रत्यासत्त्या यावद्वह्निमद्भानमुपपादितम् , परं तत्तव्यक्तित्वेन वह्नीनामननुगतत्वं वह्नित्वेनाऽनुगतत्वमितीत्थं स्वीकृतं स्यात् , तथा च सति स्माद्वादिकक्षाप्रवेशस्तेषां स्यादिति बोध्यम् । अत्र नैयायिकाशङ्का