________________
तत्वबोधिनीविवृतिविभूषितम्
रिक्तोपादानकल्पने गौरवस्यैव बाधकत्वात्, अन्यथा केवल पर्यायोपादानवत् केवलगुणोपादानमपि किश्चित् कल्पनीयं स्यात् १ । न द्वितीयः - गुणस्य द्रव्यवदविचलितैकस्वभावत्वे तदव्यवहितोत्तरक्षणाप्रसिद्धेः, न च तदव्यवहितोत्तरक्षणोपजायमानत्वेन तद्विकारत्वं च वक्तुमपि शक्यम्, घटाव्यवहितोत्तरक्षणोपजायमानस्य पटादेर्घटविकारत्वव्यवहारप्रसङ्गात् २ । न च तृतीयः - शुद्धात्मद्रव्यव्यञ्जनपर्याये शुद्ध पुद्गलद्रव्यव्यञ्जनपर्याये च गुणजातीयत्वाभावात् ३ । नापि तुरीयः - अनन्तचतुष्टयादिस्वभावगुणव्यञ्जनपर्यायाणां स्वरूपेणोत्कर्षापकर्षशालित्वा
२०५
अन्यथा गुण- पर्यायोभयोपादानतः केवलपर्यायोपादानस्य भेदाभ्युपगमे । गुणाव्यवहितोत्तरक्षणोपजायमानत्वं गुणविकारत्वमिति द्वितीयपक्षोऽपि न युक्त इत्याह-न द्वितीय इति तदधिकर णक्षणध्वंसाधिकर णक्षणध्वंसांनधिकरणत्वे सति तदधिकरणक्षणध्वंसाधिकरणत्वं तसाधिकरणक्षणध्वंसानधिकरणत्वे सति तसाधिकरणत्वं वा तदव्यवहितोत्तरत्वं द्रव्यस्येव नित्यस्य गुणस्य न संभवति, सर्वस्यैव क्षणस्य गुणाधि - करणक्षणध्वंसाधिकर णत्वाद् गुणध्वंसाप्रसिद्धेश्चेति तदव्यवहितोत्तरक्षणाप्रसिद्धेरिति निषेधहेतुमुपदर्शयति-गुणस्येति । घटाव्यवहितोत्तरक्षणोपजायमानोऽपि पटादिर्न घटविकार इति व्यभिचारेण यत्र यदव्यवहितोत्तरक्षणोपजायमानत्वं तत्र तद्विकारत्वमिति नियमासम्भवेन गुणाव्यवहितोत्तरजायमानत्वेनापि न गुणविकारत्वसिद्धिरित्याह-न चेति- - अस्य 'शक्यम्' इत्यनेनान्वयः । गुणजातीयत्वे सति कार्यत्वं गुणविकारत्वमिति तृतीयपक्षोऽपि न सङ्गत इत्याह-न च तृतीय इति । शुद्धात्मद्रव्यव्यञ्जनपर्याय- शुद्धपुद्गलद्रव्यव्यञ्जनपर्यायौ पर्यायत्वेन सम्मतौ भवतोऽपि, न च तौ निरुक्तपर्यायत्वलक्षणाक्रान्तौ तयोर्गुणजातीयत्वाभावादिति निषेधहेतुमाह-शुद्धात्मेति । उत्कर्षा ऽपकर्षशालिगुणपरिणामत्वं गुणविकारत्वमिति तुरीयपक्षोऽपि न रमणीय इत्याह- नापि तुरीय इति । अत्राप्यनन्तचतुष्टयादिस्वभावगुणव्यञ्जनपर्यायेषु व्यभिचारेणोक्तनियमासम्भवादिति निषेधहेतुमुपदर्शयति - अनन्तेति । द्रव्य-क्षेत्रादिसन्निधानकृतवैलक्षण्यशालिगुणपरिणामत्वमपि पर्यायलक्षणं द्रव्यपर्यायेsव्याप्तेर्न सम्भवति, किन्तु तत्र गुणपदोपादानमकृत्वा द्रव्यक्षेत्रादिसन्निधानकृतवैलक्षण्यशालिपरिणामत्वं विकारत्वम्, तदेव पर्यायत्वमिति यदि क्रियेत तदेदमपि
अ. व्य. २०