________________
३०४
अनेकान्तव्यवस्थाप्रकरणम् । विरोध एव किं न ज्ञातः ? न च पर्यायाणां गुणविकारत्वं सूत्रसिद्धम् , अपि तु-"अणंतेहिं वण्णपज्जवेहिं अणंतेहिं गंध-रसफास-संठाणपज्जवेहिं अणंतेहिं गुरुअलहुअपज्जवेहिं अणंतेहिं अगुरुलहुअपज्जवेहिं" [
] इत्यादिसूत्रपाठदर्शनाद् गुणरूपत्वमेव तेषां सिद्धमिति किमुत्सूत्रविस्पन्दितेन ? । किञ्च, किं नाम गुणविकारत्वम् , किं गुणोपादेयत्वम् १, उत गुणाव्यवहितोत्तरक्षणोपजायमानत्वम् २, आहोस्विद् गुणजातीयत्वे सति कार्यत्वम् ३, किं वोत्कर्षा-ऽपकर्षशालिगुणपरिणामत्वम् ४, यद्वा द्रव्यक्षेत्रादिसन्निधानकृतवैलक्षण्यशालिगुणपरिणामत्वम् ५, नाद्यः-गुणोपादेयपर्यायाप्रसिद्धेः, गुणस्य पर्यायोपादानत्वे द्रव्योच्छेदप्रसङ्गात् , द्रव्यं गुणपर्यायोभयोपादानं गुणास्तु पर्यायाणामेवोपादानानीति न द्रव्यमुच्छेत्स्यत इति चेत् ? न-एकस्योभयोपादानत्वे विरोधाभावादतिमिति 'देवानांप्रियेण' इत्युक्त्या सूच्यते पर्यायाणां गुणविकारत्वकथनमप्युत्सूत्रमित्याह-न चेति-अस्य 'सूत्रसिद्धम्' इत्यनेनान्वयः। यदि पर्यायाणां गुणविकारत्वं न सूत्रसिद्धं तर्हि तस्य किं सूत्रसिद्धमिति पृच्छति-अपि त्विति । अणंतेहिं० इति "अनन्तैर्वर्णपर्यवैरनन्तैर्गन्ध-रस-स्पर्श-संस्थानपर्यवैरनन्तैर्गुरुकलघुकपर्यायैरनन्तैरगुरुलघुकपर्यवैः” इति संस्कृतम् । तेषां पर्यायाणाम् । किञ्च दिगम्बरो गुणविकारत्वं निर्वक्तुमपि न समर्थ इत्यावेदनायाह-किश्चेति । नाद्य इति-गुणोपादेयत्वं गुण. विकारत्वमिति प्रथमकल्पो नोपपन्न इत्यर्थः। द्रव्योच्छेदप्रसङ्गादिति-पर्यायोपादानतयैव द्रव्यमुपेयते, यदि पर्यायोपादानं गुण एव न तर्हि किञ्चिद् द्रव्यमित्येवं द्रव्योच्छेदः स्यादित्यर्थः । द्रव्योच्छेदप्रसङ्गपरिहारमाशङ्कते-द्रव्यमिति । गुणपर्यायोभयोपादानत्वं द्रव्यस्य लक्षणम् , पर्यायमात्रोपादानत्वं गुणस्य लक्षणमित्येवं लक्षणभेदान्न द्रव्यस्योच्छेदप्रसङ्ग इत्युक्तशङ्कार्थः । यदेव पर्यायोपादानं तदेव गुणपर्यायोभयोपादानमप्यस्तु, नात्र कश्चिद् विरोध इति लाघवमेतत्पक्षसाधकम् , पर्यायोपादानमन्यदन्यच्च गुण-पर्यायोभयोपादानमिति कल्पने गौरवमेव बाधकमतो न गुणोपादेयः पर्यायः किन्तु द्रव्योपादेय एवेति न गुणविकारत्वं गुणोपादानत्वरूपमित्यर्थः ।