________________
३०३
तत्त्वबोधिनीविवृतिविभूषितम् दिक्पटडिम्भ ! कृतान्तेन सह योद्भुमुद्यतोऽसि ?, न जानीषे सर्वतो बलवता तेन स्वप्रतिकूलवर्तिनः कस्य बलं न भग्नं, धर्मास्तिकायादिप्रदेशानां देश-प्रदेशादिकल्पनाराहियेनैकग्रहणगृहीतत्वमेव तन्मतेऽखण्डत्वं स्खलक्षणविलक्षणघटादिपरमाणुष्विव पुञ्जत्वमिति न पर्यायार्थिकत्वभङ्गो न वा द्रव्यर्थिकत्वापत्तिरिति निःशङ्क प्रतिपद्यस्व । एवमन्यदपि चिन्त्यमुपयुज्य चिन्तनीयम् । 'गुणविकाराः पर्यायाः ?' इत्युद्दिश्य द्रव्यपर्यायानपि तन्मध्ये विभजता देवानां प्रियेणोदेशविभाग
कृतान्तेन सिद्धान्ते एवम्भूतनये यादृशाखण्डत्वविषयकत्वे न पर्यायार्थिकत्वभङ्गो न वा द्रव्यार्थिकत्वहानिस्तादृशाखण्डत्वमुपदर्शयति-धर्मास्तिकायादिप्रदेशानामिति । एकग्रहणगृहीतत्वलक्षणाखण्डत्वाभ्युपगमे तादृशाखण्डत्वं न स्वलक्षणम् , तथा चैवम्भूतनये स्वलक्षणमात्रवस्त्वभ्युपगन्तृत्वमेवेति यत् पर्यायार्थिकत्वव्यवस्थापकं तत्प्रच्युत्या पर्यायार्थिकत्वहानिर्द्रव्यार्थिकत्वापत्तिश्च यथा न भवति तथोपपत्तये दृष्टान्तमुपदर्शयति-घटादिपरमाणुष्विव पुञ्जत्वमिति । स्वलक्षणविलक्षणघटादि परमाणुष्विव इति स्थाने 'स्वलक्षणविलक्षणं घटादिपरमाणुष्विव' इति पाठो युक्तः, 'स्वलक्षणविलक्षणम्' इति तु 'अखण्डत्वम्' ति पूर्वस्मिन् 'पुञ्जत्वम्' इत्युत्तरस्मिंश्चान्वेति घण्टालोलन्यायेन, स्वलक्षणाश्च ते विलक्षणाश्च स्वलक्षणविलक्षणाः, स्खलक्षणविलक्षणाश्च घटादिपरमाणवश्च खलक्षणविलक्षणघटादिपरमाणवः, तेषु पुजत्वमिव निरुक्तमखण्डत्वमित्यन्वयार्थस्य सम्भवेऽपि तत्कथनतः कथं पर्यायार्थिकत्वभङ्गस्य प्राप्तिस्तद्धानिनिमित्तप्रकारावगतिस्तथा द्रव्यार्थिकत्वप्रसङ्गस्य प्राप्तिस्तद्धानिनिमित्तप्रकारावगतिरत एतादृशं कथनं कथनमात्रं, स्यान्न तु किञ्चिदर्थोपोद्बलकमतस्तत्स्थाने यः पाठोऽभिहितः स एव युक्त इति बोध्यम् । चिन्त्यं चिन्ताविषयं वस्तु अन्यदपि दिगम्बरस्य प्रलपनमज्ञानविजृम्भितमित्याह-गुणविकारा इति । तन्मध्ये गुणविकारपर्यायमध्ये । विभजता विभावद्रव्यव्यञ्जनपर्याया जीवस्य नर-नारकादय इत्यादिविभागं कुर्वता। यस्यैवोद्देशस्तस्यैव विभागो युक्तः, दिगम्बरोक्तौ च गुणपर्यायस्योद्देशो विभागश्च द्रव्यपर्यायस्यापीत्येवमुद्देश-विभागविरोधः स्फुटोऽपि दिगम्बरेण न ज्ञात इति महदज्ञानविजम्भित