________________
३०२
अनेकान्तव्यवस्थाप्रकरणम् । वास्तवमेव, तदतिरिक्तपुद्गल-जीवानां तु सङ्कोच-विकासप्रयुक्तच्छेदभेदाप्रतियोगिप्रदेशत्वलक्षणं पारिभाषिकमेव तदिति नातिप्रसङ्ग इति चेत् ? तर्हि तद्ब्रहः प्रदेशार्थनयेनैव, न तु भेदकल्पननिरपेक्षेण, तथा च सोमिलप्रश्ने भगवद्वचनम्-“पएसट्ठयाए अक्खये अहं, अबए अहं” [ भगवती, श० उ० सू०] ति । कथं च 'भेदकल्पनासापेक्षेण चतुर्णामपि नानाप्रदेशस्वभावत्वम्' इति वदस्तन्निरपेक्षे#कप्रदेशस्वभावत्वमपि नाभ्युपेयाः ? देशप्रदेशकल्पनारहितमखण्डैकस्वभावत्वलक्षणमेकप्रदेशस्वभावत्वं च द्रव्यार्थिकेन वदते ते कृतान्तः कथं न कुप्येत् ?, शुद्धपर्यायार्थिकैवम्भूतनयमत एव प्रदेशदृष्टान्ते तादृशवस्तुग्रहणस्या-ऽनुयोगद्वारादिषु व्यवस्थापनात् । अखण्डवस्तुग्राहित्वे सत्येवम्भूतस्य द्रव्यार्थिकत्वं बलादापतेदिति चेत् ? तत् किं तदतिरिक्तपुद्गलेति-अणुभिन्नपुद्गलेत्यर्थः । तत् एकप्रदेशस्वभावत्वम् । समाधत्तेतहीति । तद्हनिरुक्तैकप्रदेशस्वभावत्वग्रहः प्रदेशार्थनयेनैकप्रदेशस्वभावस्याखण्डस्वरूपस्य ग्रहं भवतीत्यत्र भगवतीवचनं संवादकतयोपदर्शयति-तथा चेति। पएसट्टयाए' इति “प्रदेशार्थतयाऽक्षयोऽहमव्ययोऽहम्” इति संस्कृतम्। भेदकल्पनासापेक्षेण नयेन चतुर्णामपि धर्माऽधर्माऽऽकाश-जीवानां नानाप्रदेशस्वभावत्वमित्यभ्युपगच्छन् दिगम्बरो भेदकल्पनानिरपेक्षेणैकप्रदेशत्वं कथं नाभ्युपेयात् , तथा च तत्राखण्डत्वादेकप्रदेशस्वभावत्वाभ्युपगमनं न तु वस्तुगत्यैकप्रदेशवत्वेनेत्यभिसन्धिस्तस्य न सङ्गतः स्यादित्याह-कथं चेति-अस्य 'नाभ्युपेया' इत्यत्रान्वयः 'वदन्' इत्यन्तरं त्वम्' इति दृश्यम् , ते तुभ्यं दिगम्बरायेति यावत् । कृतान्तः सिद्धान्तः, कथं न कुप्येत्, अपि तु कुप्येदेव, यमप्रतिपादककृतान्तशब्देन सिद्धान्तस्याभिधानेन धर्मराजो यथा निषिद्धाचरणेन धर्मविलोपकाय कुप्यति, तत्कोपफलं नरकादिषु निपातनम् , यथा जिनाज्ञालक्षणसिद्धान्तविराधकत्वेन परीक्षकनिकरान्निष्कासनादिकमिति ज्ञाप्यते, सिद्धान्तविरुद्धभाषित्वेन तं प्रति सिद्धान्तस्याकोप इत्यावेदनायाह-शुद्धति । तादृशेति-देश-प्रदेशकल्पनारहिताखण्डैकखभावेत्यर्थः । एवम्भूतस्याखण्डवस्तुग्राहित्वमसहमानो दिगम्बरः शङ्कते-अखण्डेति । समाधत्ते-तकिमिति। तेन सिद्धान्त