________________
तत्त्वबोधिनीविवृतिविभूषितम्
३०१ कल्प्यतामिति, “परिगमणं पज्जाओ अणेगकरणं गुण त्ति तुल्लत्था" [काण्ड० ३, गाथा-१२] इत्यादिसम्मतिमहातर्कवचनानुसारेणानेकस्वभावत्वं पर्यायार्थिकेनैव ग्राह्यमिति प्रतिपत्तव्यमिति किमल्पीयसि क्षोदेन ? . 'परमभावग्राहकेण काल-पुद्गलाणूनामेकप्रदेशस्वभावत्वं भेदकल्पनानिरपेक्षेणेतरेषां च' इत्यादि यदुक्तम् , तदपि चिन्त्यम्भेदकल्पनानिरपेक्षशुद्धद्रव्यार्थिकेन नानाप्रदेशस्वभावस्याप्येकप्रदेशस्वभावव्यवस्थितौ 'धर्मादीनां षोडश स्युः' इत्यस्य व्याघातात्, कथायामत्र नयद्वयावतारेऽपि परमार्थचिन्तायां परमभावग्राहकेणैवैकप्रदेशस्वभावग्रहणे च 'जीव-पुद्गलयोरेकविंशतिः' इत्यस्य व्याघातात् , न हि जीवः कालपुद्गलाणुवत् कदाप्येकप्रदेशः सम्भवति, क्षेत्रतोऽप्यस्यासयेयप्रदेशावगाहनस्वाभाव्यात् । अणूनामेकप्रदेशस्वभावत्वं इत्यर्थः । सम्मतिवचनेनानेकखभावत्वं पर्यायानयग्राह्यमेव प्रतीयत इत्याह-परिगमणं इति-"परिगमनं पर्यायोऽनेककरणं गुण इति तुल्यार्थों" इति संस्कृतम्।अन्यदपि दिगम्बराभिहितमुपन्यस्य प्रतिक्षिपति-परमभावग्राहकेणेति । व्याघातादितिअस्तिस्वभावाद्यकविंशतिखभावेषु चेतनस्वभाव-मूर्तस्वभाव-विभावस्वभावा-ऽशुद्धस्वभावैकप्रदेशस्वभावान् मुक्त्वा षोडश स्वभावा धर्मादीनां त्रयाणां दर्शिताः, इदानीं च भेदकल्पनानिरपेक्षशुद्धद्रव्यार्थिकेनैकप्रदेशस्वभावोऽपि तेषामुपेयत इत्येवं विरोधादित्यर्थः । एवं परमभावग्राहकेणैवैकप्रदेशस्वभावग्रहणे यः स्वभावो यत्र वस्तुतो विद्यते परमभावग्राहको नयस्तत्रैव तं स्वभावं परिच्छिनत्ति, जीवस्य त्वसंख्यातप्रदेशत्वमेव नैकप्रदेशत्वं वस्तुगत्येति परमस्वभावग्राहकेण जीवस्यैकप्रदेशस्वभावो न स्यादेवेति “एकविंशतिभावाः स्युर्जीव-पुद्गलयोर्मताः” इत्यनेन विरोधः स्यादित्याहकथायामिति । अत्र स्वभावे । कथं व्याघात इत्यपेक्षायामाह-नहीति-अस्य 'सम्भवति' इत्यनेनान्वयः । 'क्षेत्रतोऽपि' इत्यपिना स्वरूपतोऽसंख्यातप्रदेशत्वादेव नैकप्रदेशत्वम् , क्षेत्रतस्तु एकप्रदेशत्वं तस्य तदा भवेद् यद्येकस्मिन्नाकाशप्रदेशेऽवगाहनमस्य स्यात् , न चैवम् , असंख्येयाकाशप्रदेशानवगाविास्यावस्थानात् , तथावस्थानं च तस्य तथा स्वाभाव्यादेव व्यवस्थितमित्यर्थः। दिगम्बरः शङ्कते-अणूनामिति