________________
३०० अनेकान्तव्यवस्थाप्रकरणम् । गच्छामः, किन्तु यथासम्भवं यथानुभवं च शुद्धान् द्रव्यार्थिकभेदान् सङ्ग्रहे, शुद्धान् पर्यायार्थिकभेदांश्चर्जुसूत्रे, अशुद्धांश्च तान् व्यवहारेऽन्तर्भावयामः, ततश्च न कमपि दोषमासादयामः । यदि चानुपचरितैकस्वभावधर्मिण्यन्वयद्रव्यार्थिकेणैवानेकस्वभावो गृह्यत इत्यभिमानः, तदाऽनुपचरितस्यैव प्राधान्यादेकस्वभाव एवायातः, तथापि आधारांशोलतासामान्यांशभेदाद् ग्राहकग्राह्यभेद इति चेत् ? तर्हि तिर्यक्सामान्यार्थिकेन ग्राहकेण ग्राह्यस्तिर्यक् सामान्यस्वभावोऽप्यधिकः
प्रसिद्धा ये नैगमादयः सप्त नयास्तेभ्यो विलक्षणमतिरिक्तं भेदं नयविशेषम् , ननु भवतामपि उक्ताशुद्धपर्यायार्थिकस्य यदि प्रसिद्धेषु सप्तसु नयेषु नान्तर्भावस्तदाऽतिरिक्तस्य तस्यापत्तितोऽनुपपत्तिः स्यादेव, यदि च तेष्वेवास्यान्तर्भावस्तदा वक्तव्योऽन्तर्भावप्रकार इति पृच्छति-किन्विति । उत्तरयति-यथासम्भवमिति-शुद्धान् द्रव्यार्थिकभेदान् सङ्ग्रहे वयमन्त वयामः, शुद्धान् पयोयार्थिकभेदानृजुसूत्रेऽन्तर्भावयामः, अशुद्धांस्तान् , द्रव्यार्थिकभेदान् पर्यायार्थिकभेदांश्च व्यवहारेऽन्तर्भावयाम इत्यन्वयः, ततश्च इत्थमन्तर्भावतश्च । एकस्मिन् धर्मिण्यनेकस्वभावत्वयोजनायां धर्मिण्येकत्वस्य पर्यायनयगृहीतस्योपचरितस्य न विषयत्वं किन्त्वनुपचरितस्यैवैकत्वस्य द्रव्यनयगोचरीकृतस्य विषयत्वं तर्हि तत्र द्रव्यनयगोचरीकृतोऽनेकस्वभाव उपचरित एव स्यात् , अनुपचरितैकत्ववत्यनुपचरितानेकत्वस्य विरोधाद् द्रव्यार्थिकेनानुपचरितानेकत्वस्यानुपगमाच्च, एवं चोपचरिता-नुपचरितयोर्मध्येऽनुपचरितस्यैव प्राधान्यमित्यनुपचरितैकत्वस्वभावत्वमेव स्यादित्याह-यदि चेति। ननु द्रव्यं यद् धर्मि तदूर्ध्वतासामान्यम्, तत्रानेकधर्मास्तिर्यक्सामान्यम् ,तथा चाधारांशरूपोर्ध्वतासामान्यांशग्राही द्रव्यार्थिकनयोऽप्यूर्ध्वतासामान्यांशरूपः, स द्रव्यैकत्वमनुपचरितं विषयीकरोति, आधेयांशरूपतिर्यक्सामान्यांशग्राही द्रव्यार्थिकनयोऽपि तिर्यक्सामान्यांशरूपः, स धर्मागतानेकत्वं विषयीकरोति, ताभ्यां च द्रव्यार्थिकाभ्यामेकस्मिन् धर्मिण्यनेकधर्मस्वभावत्वयोजना भविष्यतीत्यत आह-तथाऽपीति-ग्राहकग्राह्यभेदाभ्युपगमेऽपीत्यर्थः । अधिक इति -तिर्यक्सामान्यार्थिको नयो भवताऽधिको नोपदर्शितो नापि खभावपरिगणनमध्ये तिर्यक्सामान्यस्वभावोऽपि परिगणित इति तद्विभागस्य न्यूनता भवतः प्रसज्यत